संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ७ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्यी पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७ Translation - भाषांतर भीष्म उवाचदितेः पुत्राः कथं जाता मरुतो देववल्लभाःदेवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम् ॥१॥पुलस्त्य उवाचपुरा दैवासुरे युद्धे हतेषु हरिणा सुरैःपुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम् ॥२॥पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभेभर्त्तुराराधनपरा तप उग्रं चचार ह ॥३॥दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रताफलाहारा तपस्तेपे कृच्छ्रचांद्रायणादिभिः ॥४॥यावद्वर्षशतं साग्रं जराशोकसमाकुलाततः सा तपसा तप्ता वसिष्ठादीनपृच्छत ॥५॥कथयंतु भवंतो मे पुत्रशोकविनाशनम्व्रतं सौभाग्यफलदमिहलोके परत्र च ॥६॥ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम्यस्य प्रसादादभवत्सुतशोकविवर्जिता ॥७॥भीष्म उवाचश्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम्सुतानेकोनपंचाशद्येन लेभे पुनर्दितिः ॥८॥पुलस्त्य उवाचयद्वसिष्ठादिभिः पूर्वं दित्यै संकथितं व्रतम्विस्तरेण तदेवेदं मत्सकाशान्निशामय ॥९॥ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रतास्थापयेदव्रणं कुंभं सिततण्डुलपूरितम् ॥१०॥नानाफलयुतं तद्वदिक्षुदंडसमन्वितम्सितवस्त्रयुगच्छन्नंसितचंदनचर्चितम् ॥११॥नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितःताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥१२॥तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरेकुर्यात्शर्करयोपेतां सावित्रीं तस्य वामतः ॥१३॥गंधंधूपं तयोर्दद्याद्गीतं वाद्यं च कारयेत्तदभावे कथं कुर्याद्यथा पद्मे पितामहः ॥१४॥ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभाम्शुक्लपुष्पाक्षततिलैरर्चयेत्पद्मसंभवम् ॥१५॥ब्राह्माय पादौ संपूज्य जंघे सौभाग्यदाय चविरिंचायोरुयुग्मं च मन्मथायेति वै कटिम् ॥१६॥स्वच्छोदरायेत्युदरमतंद्रायेत्युरो विधेःमुखं पद्ममुखायेति बाहू वै वेदपाणये ॥१७॥नमः सर्वात्मने मौलिमर्च्चयेच्चापि पंकजम्ततः प्रभाते तत्कुंभं ब्राह्मणाय निवेदयेत् ॥१८॥ब्राह्मणं भोजयेद्भक्त्या स्वयं तु लवणं विनाभक्त्या प्रदक्षिणं दद्यादिमं मंत्रमुदीरयेत् ॥१९॥प्रीयतामत्र भगवान्सर्वलोकपितामहःहृदये सर्वलोकानां यस्त्वानंदोभिधीयते ॥२०॥अनेन विधिना सर्वं मासिमासि समाचरेत्उपवासी पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम् ॥२१॥फलमेकं च संप्राश्य शर्वर्यां भूतले स्वपेत्ततस्त्रयोदशे मासि घृतधेनुसमन्विताम् ॥२२॥शय्यां दद्याद्विरिंचाय सर्वोपस्करसंयुताम्ब्रह्माणं कांचनं कृत्वा सावित्रीं रजतैस्तथा ॥२३॥पद्मात्मकः सृष्टिकर्त्ता सावित्रीमुपलभ्यतुवस्त्रैर्द्विजं सपत्नीकं पूज्य भक्त्या विभूषणैः ॥२४॥शक्त्या गवादिकं दद्यात्प्रीयतामित्युदीरयेत्होमं शुक्लैस्तिलैः कुर्याद्ब्रह्मनामानि कीर्तयेत् ॥२५॥गव्येन सर्पिषा तद्वत्पायसेन च धर्मवित्विप्रेभ्योथ धनं दद्यात्पुष्पमालां च शक्तितः ॥२६॥यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोपि वासर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्मसात्म्यताम् ॥२७॥इहलोके वरान्पुत्रान्सौभाग्यं ध्रुवमश्नुतेयो ब्रह्मा स स्मृतो विष्णुरानंदात्मा महेश्वरः ॥२८॥सुखार्थी कामरूपेण स्मरेद्देवं पितामहम्एवं श्रुत्वा चकारासौ दितिः सर्वमशेषतः ॥२९॥कश्यपो व्रतमाहात्म्यादागत्य परया मुदाचकार कर्कशां भूयो रूपलावण्यसंयुताम् ॥३०॥वरैराछंदयामास सा तु वव्रे वरंवरम्पुत्रं शक्रवधार्थाय समर्थं च महौजसम् ॥३१॥वरयामि महात्मानं सर्वामरनिषूदनम्उवाच कश्यपो वाक्यमिंद्रहंतारमूर्जितम् ॥३२॥प्रदास्याम्यहमेतेन किन्त्वेतत्क्रियतां शुभेआपस्तंबीं तु कृत्वेष्टिं पुत्रीयामद्य सुस्तनि ॥३३॥विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभेभविष्यति शुभो गर्भो देवि शक्रनिषूदनः ॥३४॥आपस्तंबीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम्इंद्रशत्रोभवस्वेति जुहाव च हविस्त्वरन् ॥३५॥देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाःदित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः ॥३६॥मुखं ते चंद्रप्रतिमं स्तनौ बिल्वफलोपमौअधरौ विद्रुमाकारौ वर्णश्चातीव शोभनः ॥३७॥त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि स्विकां तनुम्तदेवं गर्भः सुश्रोणि हस्तेनोप्तस्तनौ तव ॥३८॥त्वया यत्ने विधातव्यो ह्यस्मिन्गर्भे वराननेसंवत्सरशतं त्वेकमस्मिन्नेव तपोवने ॥३९॥संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनिन स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा ॥४०॥नोपस्करेषु निविशेन्मुसलोलूखलादिषुजलं च नावगाहेत शून्यागारं च वर्जयेत् ॥४१॥वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत्न नखेन लिखेद्भूमौ नांगारे न च भस्मनि ॥४२॥न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत्न तुषांगारभस्मास्थि कपालेषु समाविशेत् ॥४३॥वर्जयेत्कलहं लोके गात्राभ्यंगं तथैव चन मुक्तकेशी तिष्ठेत नाशुचिः स्यात्कथंचन ॥४४॥न शयीतोत्तरशिराः न चैवाधः शिराः क्वचित्न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती ॥४५॥नामंगल्यां वदेद्वाचं न च हास्याधिकाभवेत्कुर्याच्च गुरुभिर्नित्यं पूजां मांगल्यतत्परा ॥४६॥सर्वौषधीभिः सृष्टेन वारिणा स्नानमाचरेत्तिष्ठेत्प्रसन्नवदना भर्तृप्रियहिते रता ॥४७॥न गर्हयेच्च भर्ता रंसर्वावस्थमपि क्वचित् ॥४८॥कृशाहं दुर्बला चैव वार्द्धक्यं मम चागतम्स्तनौ मे चलितौ स्थानान्मुखं च वलिभंगुरम् ॥४९॥एवंविधा त्वया चाहं कृतेति न वदेत्क्वचित्स्वस्त्यस्तुते गमिष्यामि तथेत्युक्तस्तया पुनः ॥५०॥पश्यतां सर्वभूतानां तत्रैवांतरधीयतततः सा भर्तृवाचोक्तविधिना समतिष्ठत ॥५१॥अथ ज्ञात्वा तथेंद्रोपि दितेः पार्श्वमुपागतःविहाय देवसदनं तां शुश्रूषुरवस्थितः ॥५२॥दितेश्छिद्रांतरप्रेप्सुरभवत्पाकशासनःविपरीतोंतरव्यग्रः प्रसन्नवदतो बहिः ॥५३॥अजानन्निव तत्त्कार्यमात्मनश्शुभमाचरन्ततो वर्षशतांते सा न्यूने तु दिवसैस्त्रिभिः ॥५४॥मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसाअकृत्वा पादयोः शौचं शयाना मुक्तमूर्धजा ॥५५॥निद्राभरसमाक्रांता दिवा परशिराः क्वचित्ततस्तदंतरं लब्ध्वा प्रविश्यांतः शचीपतिः ॥५६॥वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपःततः सप्त च ते जाताः कुमाराः सूर्यवर्चसः ॥५७॥रुदंतः सप्त ते बाला निषिद्धा दानवारिणाभूयोपि रुदमानांस्तानेकैकान्सप्तधा हरिः ॥५८॥चिच्छेद वज्रहस्तो वै पुनः स्तूदरसंस्थितान्एवमेकोनपंचाशद्भूत्वा तेरुरुदुर्भृशम् ॥५९॥इंद्रो निवारयामास मा रुदध्वं पुनःपुनःततः स चिंतयामास वितर्कमिति वृत्रहा ॥६०॥कर्मणः कस्य माहात्म्यात्पुनः संजीवितास्त्वमीविदित्वा पुण्ययोगेन पौर्णमासीफलं त्विदम् ॥६१॥नूनमेतत्परिणतमथवा ब्रह्मपूजनात्वज्रेणाभिहताः संतो न विनाशमुपाययुः ॥६२॥एकोप्यनेकतामाप यस्मादुदरगोपनम्अवध्या नूनमेते वै तस्माद्देवा भवंत्विति ॥६३॥यस्मान्मा रुद इत्युक्ता रुदंतो गर्भसंभवाःमरुतो नाम ते नाम्ना भवंतु सुखभागिनः ॥६४॥ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनःअर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम् ॥६५॥कृत्वा मरुद्गणं देवैः समानममराधिपःदितिं विमानमारोप्य ससुतामगमद्दिवम् ॥६६॥यज्ञभागभुजः सर्वे मरुतस्ते ततोभवन्न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः ॥६७॥भीष्म उवाचआदिसर्गस्त्वया ब्रह्मन्कथितो विस्तरेण मेप्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे ॥६८॥पुलस्त्य उवाचयदाभिषिक्तः सकलेपि राज्ये पृथुर्द्धरित्र्यामधिपो बभूवतथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम् ॥६९॥नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम्अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत् ॥७०॥विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकारप्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम् ॥७१॥दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्पिशाचरक्षःपशुभूतयक्षवेतालराजं ह्यथ शूलपाणिम् ॥७२॥प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं सरितामधीशम्गंधर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार ॥७३॥नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेशदिग्वारणानामधिपं चकार गजेंद्रमैरावणनामधेयम् ॥७४॥सुपर्णमीशं पततामथार्वतां राजानमुच्चैःश्रवसं चकारसिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम् ॥७५॥पितामहः पूर्वमथाभ्यषिंचदेतान्पुनः सर्वदिशाधिनाथान्पूर्वेश दिक्पालमथाभ्यषिंचन्नाम्ना सुवर्माणमरातिकेतुं ॥७६॥ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शंखपदाभिधानम्सकेतुमंतं दिगधीशमीशं चकार पश्चाद्भुवनांडगर्भः ॥७७॥हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकारअद्यापि कुर्वंति दिशामधीशाः सदा वहंतस्तु भुवोभिरक्षाम् ॥७८॥चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम्गतेंतरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां ॥७९॥गतेंतरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्तेप्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः ॥८०॥पुलस्त्य उवाचमन्वंतराणि सर्वाणि मनूनां चरितानि यत्प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः ॥८१॥एकचित्तः प्रसन्नात्मा शृणु कौरवनंदनयामा नाम पुरा देवा आसन्स्वायंभुवांतरे ॥८२॥सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताःआग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च ॥८३॥ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुःस्वायंभुवस्यास्य मनोर्दशैते वंशवर्द्धनाः ॥८४॥प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम्एवं स्वायंभुवं प्रोक्तं स्वारोचिषमतः परम् ॥८५॥स्वारोचिषस्य तनयाश्चत्वारो देववर्चसःनभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः ॥८६॥दत्तोग्निश्च्यवनस्तंभः प्राणः कश्यप एव चअर्वा बृहस्पतिश्चैव सप्त सप्तर्षयोभवन् ॥८७॥तदा देवाश्च तुषिताः स्मृता स्वारोचिषेंतरेहवींद्रसुःकृतो मूर्तिरापो ज्योतिरथः स्मृतः ॥८८॥वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदाद्वितीयमेतत्कथितं मन्वंतरमतः परं ॥८९॥अन्यच्चैव प्रवक्ष्यामि तथा मन्वंतरं शुभंमनुर्नामौत्तमिस्तत्र दश पुत्रानजीजनत् ॥९०॥इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव चमधुश्च माधवश्चैव नभस्योथ नभस्तथा ॥९१॥सहः सहस्य एतेषामुत्तमः कीर्तिवर्द्धनःभानवस्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः ॥९२॥कौकभिण्डिः कुतुण्डश्च दाल्भ्यः शंखः प्रवाहितःमितिश्च संमितिश्चैव सप्तैते योगवर्द्धनाः ॥९३॥मन्वंतरं चतुर्थं तु तामसं नाम विश्रुतंकपिः पृथुस्तथैवाग्निरकपिः कविरेव च ॥९४॥तथैव जन्यधामानौ मुनयः सप्त नामतःसाध्या देवगणा ये च कथितास्तामसेंतरे ॥९५॥अकल्मषस्तपोधन्वी तपोमूलस्तपोधनःतपोराशिस्तपस्यश्च सुतपस्यः परंतपः ॥९६॥तामसस्य सुताः सर्वे दशवंशविवर्द्धनाःपंचमस्य मनोस्तद्वद्रैवतस्यांतरं शृणु ॥९७॥देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिःहिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः ॥९८॥देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताःअवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः ॥९९॥मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकःधर्मवीर्यबलोपेता दशैते रेवतात्मजाः ॥१००॥भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथाविवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे ॥१०१॥चाक्षुषस्यांतरे देवा लेखानामपरिश्रुताःविभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः ॥१०२॥चाक्षुषस्यांतरे प्राप्ते देवानां पंचमो जनःरुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश ॥१०३॥प्रोक्ताः स्वायंभुवे वंशे ये मया पूर्वमेव तेअन्तरं चाक्षुषं चैव मया ते परिकीर्तितं ॥१०४॥सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यतेअत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा ॥१०५॥भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्जमदग्निश्च सप्तैते सांप्रतं ते महर्षयः ॥१०६॥कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदंसावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथांतरं ॥१०७॥अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथाशतानंदः काश्यपश्च रामश्च ऋषय स्मृताः ॥१०८॥धृतिर्वरीयान्यवसुः सुवर्णो धृतिरेव चवरिष्णुवीर्यः सुमतिर्वसुश्शुक्रश्च वीर्यवान् ॥१०९॥भविष्यस्यार्कसावर्णेर्मनोः पुत्राः प्रकीर्तिताःरौच्यादयस्तथान्येपि मनवः संप्रकीर्तिताः ॥११०॥रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यतिमनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति ॥१११॥ततस्तु मेरुसावर्णिर्ब्रह्मसुनुर्मनुः स्मृतःऋभुश्च ॠतुधामा च विष्वक्सेनो मनुस्तथा ॥११२॥अतीतानागताश्चैव मनवः परिकीर्तिताःवर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप ॥११३॥स्वेस्वेन्तरे सर्वमिदं समुत्पाद्य चराचरंकल्पक्षये निवृत्ते तु मुच्यंते ब्रह्मणा सह ॥११४॥अमीयुगसहस्रान्ते विनश्यन्ति पुनःपुनःब्रह्माद्या विष्णुसायुज्यं ततो यास्यंति वै नृप ॥११५॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे मन्वंतरवर्णनंनाम सप्तमोध्यायः ॥७॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP