संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ३७ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ३७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३७ Translation - भाषांतर पुलस्त्य उवाचतदद्भुततमं वाक्यं श्रुत्वा च रघुनंदनःगौरवाद्विस्मयाच्चापि भूयः प्रष्टुं प्रचक्रमे ॥१॥राम उवाचभगवंस्तद्वनं घोरं यत्रासौ तप्तवांस्तपःश्वेतो वैदर्भको राजा तदद्भुतमभूत्कथं ॥२॥विषमं तद्वनं राजा शून्यं मृगविवर्जितंप्रविष्टस्तप आस्थातुं कथं वद महामुने ॥३॥समंताद्योजनशतं निर्मनुष्यमभूत्कथंभवान्कथं प्रविष्टस्तद्येन कार्येण तद्वद ॥४॥अगस्त्य उवाचपुरा कृतयुगे राजा मनुर्दंडधरः प्रभुःतस्य पुत्रोथ नाम्नासीदिक्ष्वाकुरमितद्युतिः ॥५॥तं पुत्रं पूर्वजं राज्ये निक्षिप्य भुविसंमतम्पृथिव्यां राजवंशानां भव राजेत्युवाच ह ॥६॥तथेति च प्रतिज्ञातं पितुः पुत्रेण राघवततःपरमसंहृष्टः पुनस्तं प्रत्यभाषत ॥७॥प्रीतोस्मि परमोदार कर्मणा ते न संशयःदंडेन च प्रजा रक्ष न च दंडमकारणम् ॥८॥अपराधिषु यो दंडः पात्यते मानवैरिहस दंडो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥९॥तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रकधर्मस्ते परमो लोके कृत एवं भविष्यति ॥१०॥इति तं बहुसंदिश्य मनुः पुत्रं समाधिनाजगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम् ॥११॥जनयिष्ये कथं पुत्रानिति चिंतापरोऽभवत्कर्मभिर्बहुभिस्तैस्तैस्ससुतैस्संयुतोऽभवत् ॥१२॥तोषयामास पुत्रैस्स पितॄन्देवसुतोपमैःसर्वेषामुत्तमस्तेषां कनीयान्रघुनंदन ॥१३॥शूरश्च कृतविद्यश्च गुरुश्च जनपूजयानाम तस्याथ दंडेति पिता चक्रे स बुद्धिमान् ॥१४॥भविष्यद्दण्डपतनं शरीरे तस्य वीक्ष्य चसंपश्यमानस्तं दोषं घोरं पुत्रस्य राघव ॥१५॥स विंध्यनीलयोर्मध्ये राज्यमस्य ददौ प्रभुःस दंडस्तत्र राजाभूद्रम्ये पर्वतमूर्द्धनि ॥१६॥पुरं चाप्रतिमं तेन निवेशाय तथा कृतम्नाम तस्य पुरस्याथ मधुमत्तमिति स्वयम् ॥१७॥तथादेशेन संपन्नः शूरो वासमथाकरोत्एवं राजा स तद्राज्यं चकार सपुरोहितः ॥१८॥प्रहृष्ट सुप्रजाकीर्णं देवराजो यथा दिविततः स दंडः काकुत्स्थ बहुवर्षगणायुतम् ॥१९॥अकारयत्तु धर्मात्मा राज्यं निहतकंटकंअथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ॥२०॥रमणीयमुपाक्रामच्चैत्रमासे मनोरमेतत्र भार्गवकन्यां तु रूपेणाप्रतिमां भुवि ॥२१॥विचरंतीं वनोद्देशे दंडोऽपश्यदनुत्तमाम्उत्तुंगपीवरीं श्यामां चंद्राभवदनां शुभाम् ॥२२॥सुनासां चारुसर्वांगीं पीनोन्नतपयोधराम्मध्ये क्षामां च विस्तीर्णां दृष्ट्वा तां कुरुते मुदम् ॥२३॥एकवस्त्रां वने चैकां प्रथमे यौवने स्थिताम्स तां दृष्ट्वात्वधर्मेण अनंगशरपीडितः ॥२४॥अभिगम्य सुविश्रांतां कन्यां वचनमब्रवीत्कुतस्त्वमसि सुश्रोणि कस्य चासि सुशोभने ॥२५॥पीडतोहमनंगेन पृच्छामि त्वां सुशोभनेत्वया मेऽपहृतं चित्तं दर्शनादेव सुंदरि ॥२६॥इदं ते वदनं रम्यं मुनीनां चित्तहारकम्यद्यहं न लभे भोक्तुं मृतं मामवधारय ॥२७॥त्वया हृता मम प्राणा मां जीवय सुलोचनेदासोस्मि ते वरारोहे भक्तं मां भज शोभने ॥२८॥तस्यैवं तु ब्रुवाणस्य मदोन्मत्तस्य कामिनःभार्गवी प्रत्युवाचेदं वचः सविनयं नृपम् ॥२९॥भार्गवस्य सुतां विद्धि शुक्रस्याक्लिष्टकर्मणःअरजां नाम राजेंद्र ज्येष्ठामाश्रमवासिनः ॥३०॥शुक्रः पिता मे राजेंद्र त्वं च शिष्यो महात्मनःधर्मतो भगिनी चाहं भवामि नृपनंदन ॥३१॥एवंविधं वचो वक्तुं न त्वमर्हसि पार्थिवअन्येभ्योपि सुदुष्टेभ्यो रक्ष्या चाहं सदा त्वया ॥३२॥क्रोधनो मे पिता रौद्रो भस्मत्वं त्वां समानयेत्अथवा राजधर्मेणासंबंधं कुरुषे बलात् ॥३३॥पितरं याचयस्व त्वं धर्मदृष्टेन कर्मणावरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम् ॥३४॥अन्यथा विपुलं दुःखं तव घोरं भवेद्ध्रुवम्क्रुद्धो हि मे पिता सर्वं त्रैलोक्यमभिनिर्दहेत् ॥३५॥ततोऽशुभं महाघोरं श्रुत्वा दंडः सुदारुणम्प्रत्युवाच मदोन्मत्तः शिरसाभिनतः पुनः ॥३६॥प्रसादं कुरु सुश्रोणि कामोन्मत्तस्य कामिनित्वया रुद्धा मम प्राणा विशीर्यंति शुभानने ॥३७॥त्वां प्राप्य वैरं मेऽत्रास्तु वधो वापि महत्तरःभक्तं भजस्व मां भीरु त्वयि भक्तिर्हि मे परा ॥३८॥एवमुक्त्वा तु तां कन्यां बलात्संगृह्य बाहुनाअन्येन राज्ञा हस्तेन विवस्त्रा सा तथा कृता ॥३९॥अंगमंगे समाश्लेष्य मुखे चैव मुखं कृतम्विस्फुरंतीं यथाकामं मैथुनायोपचक्रमे ॥४०॥तमनर्थं महाघोरं दंडः कृत्वा सुदारुणम्नगरं स्वं जगामाशु मदोन्मत्त इव द्विपः ॥४१॥भार्गवी रुदती दीना आश्रमस्याविदूरतःप्रत्यपालयदुद्विग्ना पितरं देवसम्मितम् ॥४२॥स मुहूर्तादुपस्पृश्य देवर्षिरमितद्युतिःस्वमाश्रमं शिष्यवृतं क्षुधार्तः सन्यवर्तत ॥४३॥सोपश्यदरजां दीनां रजसा समभिप्लुताम्चंद्रस्य घनसंयुक्तां ज्योत्स्नामिव पराजिताम् ॥४४॥तस्य रोषः समभवत्क्षुधार्तस्य महात्मनःनिर्दहन्निव लोकांस्त्रींस्तान्शिष्यान्समुवाच ह ॥४५॥पश्यध्वं विपरीतस्य दंडस्यादीर्घदर्शिनःविपत्तिं घोरसंकाशां दीप्तामग्निशिखामिव ॥४६॥यन्नाशं दुर्गतिं प्राप्तस्सानुगश्च न संशयःयस्तु दीप्तहुताशस्य अर्चिः संस्पृष्टवानिह ॥४७॥यस्मात्स कृतवान्पापमीदृशं घोरसंमितम्तस्मात्प्राप्स्यति दुर्मेधाः पांसुवर्षमनुत्तमम् ॥४८॥कुराजा देशसंयुक्तः सभृत्यबलवाहनःपापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥४९॥समंताद्योजनशतं विषयं चास्य दुर्मतेःधुनोतु पांसुवर्षेण महता पाकशासनः1.37. ॥५०॥सर्वसत्वानि यानीह जंगमस्थावराणि वैसर्वेषां पांसुवर्षेण क्षयः क्षिप्रं भविष्यति ॥५१॥दंडस्य विषयो यावत्तावत्सवनमाश्रमम्पांसुवर्षमिवाकस्मात्सप्तरात्रं भविष्यति ॥५२॥इत्युक्त्वा क्रोधसंतप्तस्तमाश्रमनिवासिनम्जनं जनपदस्यांते स्थीयतामित्युवाच ह ॥५३॥उक्तमात्रे उशनसा आश्रमावसथो जनःक्षिप्रं तु विषयात्तस्मात्स्थानं चक्रे च बाह्यतः ॥५४॥तं तथोक्त्वा मुनिजनमरजामिदमब्रवीत्आश्रमे त्वं सुदुर्मेधे वस चेह समाहिता ॥५५॥इदं योजनपर्यंतमाश्रमं रुचिरप्रभम्अरजे विरजास्तिष्ठ कालमत्र समाश्शतम् ॥५६॥श्रुत्वा नियोगं विप्रर्षेररजा भार्गवी तदातथेति पितरं प्राह भार्गवं भृशदुःखिता ॥५७॥इत्युक्त्वा भार्गवो वासं तस्मादन्यमुपाक्रमत्सप्ताहे भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥५८॥तस्माद्दंडस्य विषयो विंध्यशैलस्य मानुषशप्तो ह्युशनसा राम तदाभूद्धर्षणे कृते ॥५९॥ततःप्रभृति काकुत्स्थ दंडकारण्यमुच्यतेएतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ॥६०॥संध्यामुपासितुं वीर समयो ह्यतिवर्ततेएते महर्षयो राम पूर्णकुंभाः समंततः ॥६१॥कृतोदका नरव्याघ्र पूजयंति दिवाकरम्सर्वैरॄषिभिरभ्यस्तैः स्तोत्रैर्ब्रह्मादिभिः कृतैः ॥६२॥रविरस्तंगतो राम गत्वोदकमुपस्पृशॠषेर्वचनमादाय रामः संध्यामुपासितुम् ॥६३॥उपचक्राम तत्पुण्यं ससरोरघुनंदनःअथ तस्मिन्वनोद्देशे रम्ये पादपशोभिते ॥६४॥नदपुण्ये गिरिवरे कोकिलाशतमंडितेनानापक्षिरवोद्याने नानामृगसमाकुले ॥६५॥सिंहव्याघ्रसमाकीर्णे नानाद्विजसमावृतेगृध्रोलूकौ प्रवसितौ बहून्वर्षगणानपि ॥६६॥अथोलूकस्य भवनं गृध्रः पापविनिश्चयःममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत् ॥६७॥राजा सर्वस्य लोकस्य रामो राजीवलोचनःतं प्रपद्यावहै शीघ्रं कस्यैतद्भवनं भवेत् ॥६८॥गृध्रोलूकौ प्रपद्येतां जातकोपावमर्षिणौरामं प्रपद्यतौ शीघ्रं कलिव्याकुलचेतसौ ॥६९॥तौ परस्परविद्वेषौ स्पृशतश्चरणौ तथाअथ दृष्ट्वा राघवेंद्रं गृध्रो वचनमब्रवीत् ॥७०॥सुराणामसुराणां च त्वं प्रधानो मतो ममबृहस्पतेश्च शुक्राच्च त्वं विशिष्टो महामतिः ॥७१॥परावरज्ञो भूतानां मर्त्ये शक्र इवापरःदुर्निरीक्षो यथा सूर्यो हिमवानिव गौरवे ॥७२॥सागरश्चासि गांभीर्ये लोकपालो यमो ह्यसिक्षांत्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः ॥७३॥गुरुस्त्वं सर्वसंपन्नो विष्णुरूपोसि राघवअमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः ॥७४॥शृणु त्वं मम देवेश विज्ञाप्यं नरपुंगवममालयं पूर्वकृतं बाहुवीर्येण वै प्रभो ॥७५॥उलूको हरते राजंस्त्वत्समीपे विशेषतःईदृशोयं दुराचारस्त्वदाज्ञा लंघको नृप ॥७६॥प्राणांतिकेन दंडेन राम शासितुमर्हसिएवमुक्ते तु गृध्रेण उलूको वाक्यमब्रवीत् ॥७७॥शृणु देव मम ज्ञाप्यमेकचित्तो नराधिपसोमाच्छक्राच्च सूर्याच्च धनदाच्च यमात्तथा ॥७८॥जायते वै नृपो राम किंचिद्भवति मानुषःत्वं तु सर्वमयो देवो नारायणपरायणः ॥७९॥प्रोच्यते सोमता राजन्सम्यक्कार्ये विचारितेसम्यग्रक्षसि तापेभ्यस्तमोघ्नो हि यतो भवान् ॥८०॥दोषे दंडात्प्रजानां त्वं यतः पापभयापहःदाता प्रहर्ता गोप्ता च तेनेंद्र इव नो भवान् ॥८१॥अधृष्यः सर्वभूतेषु तेजसा चानलो मतःअभीक्ष्णं तपसे पापांस्तेन त्वं राम भास्करः ॥८२॥साक्षाद्वित्तेशतुल्यस्त्वमथवा धनदाधिकःचित्तायत्ता तु पत्नीश्रीर्नित्यं ते राजसत्तम ॥८३॥धनदस्य तु कोशेन धनदस्तेन वैभवान्समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥८४॥शत्रौ मित्रे च ते दृष्टिः समंताद्याति राघवधर्मेण शासनं नित्यं व्यवहारविधिक्रमैः ॥८५॥यस्य रुष्यसि वै राम मृत्युस्तस्याभिधीयतेगीयसे तेन वै राजन्यम इत्यभिविश्रुतः ॥८६॥यश्चासौ मानुषो भावो भवतो नृपसत्तमआनृशंस्यपरो राजा सर्वेषु कृपयान्वितः ॥८७॥दुर्बलस्य त्वनाथस्य राजा भवति वै बलम्अचक्षुषो भवेच्चक्षुरमतेषु मतिर्भवेत् ॥८८॥अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिकभवता तत्र मंतव्यं यथैते किल पक्षिणः ॥८९॥योस्मन्नाथः स पक्षींद्रो भवतो विनियोज्यकःअस्वाम्यं देव नास्माकं सन्निधौ भवतः प्रभो ॥९०॥भवतैव कृतं पूर्वं भूतग्रामं चतुर्विधम्ममालयप्रविष्टस्तु गृध्रो मां बाधते नृप ॥९१॥भवान्देवमनुष्येषु शास्ता वै नरपुंगवएतच्छ्रुत्वा तु वै रामः सचिवानाह्वयत्स्वयम् ॥९२॥विष्टिर्जयंतो विजयः सिद्धार्थो राष्ट्रवर्धनःअशोको धर्मपालश्च सुमंत्रश्च महाबलः ॥९३॥एते रामस्य सचिवा राज्ञो दशरथस्य चनीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः ॥९४॥सुशांताश्च कुलीनाश्च नये मंत्रे च कोविदाःतानाहूय स धर्मात्मा पुष्पकादवरुह्य च ॥९५॥गृध्रोलूकौ विवदंतौ पृच्छति स्म रघूत्तमःकति वर्षाणि भो गृध्र तवेदं निलयं कृतं ॥९६॥एतन्मे कौतुकं ब्रूहि यदि जानासि तत्त्वतःएतच्छ्रुत्वा वचो गृध्रो बभाषे राघवं स्थितं ॥९७॥इयं वसुमती राम मानुषैर्बहुबाहुभिःउच्छ्रितैराचिता सर्वा तदाप्रभृति मद्गृहं ॥९८॥उलूकस्त्वब्रवीद्रामं पादपैरुपशोभितायदैव पृथिवी राजंस्तदाप्रभृति मे गृहं ॥९९॥एतच्छ्रुत्वा तु रामो वै सभासद उवाचहन सा सभा यत्र न संति वृद्धा वृद्धा न ते ये न वदंति धर्मं1.37. ॥१००॥नासौ धर्मो यत्र न चास्ति सत्यं न तत्सत्यं यच्छलमभ्युपैतिये तु सभ्याः सभां गत्वा तूष्णीं ध्यायंत आसते ॥१०१॥यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनःन वक्ति च श्रुतं यश्च कामात्क्रोधात्तथा भयात् ॥१०२॥सहस्रं वारुणाः पाशाः प्रतिमुंचंति तं नरंतेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते ॥१०३॥तस्मात्सत्यं तु वक्तव्यं जानता सत्यमंजसाएतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा ॥१०४॥उलूकः शोभते राजन्न तु गृध्रो महामतेत्वं प्रमाणं महाराज राजा हि परमा गतिः ॥१०५॥राजमूलाः प्रजाः सर्वा राजा धर्मः सनातनःशास्ता राजा नृणां येषां न ते गच्छंति दुर्गतिम् ॥१०६॥वैवस्वतेन मुक्ताश्च भवंति पुरुषोत्तमाःसचिवानां वचः श्रुत्वा रामो वचनमब्रवीत् ॥१०७॥श्रूयतामभिधास्यामि पुराणं यदुदाहृतंद्यौः सचंद्रार्कनक्षत्रा सपर्वतमहीद्रुमम् ॥१०८॥सलिलार्णवसंमग्नं त्रैलोक्यं सचराचरंएकमेव तदा ह्यासीत्सर्वमेकमिवांबरं ॥१०९॥पुनर्भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत्तां निगृह्य महातेजाः प्रविश्य सलिलार्णवं ॥११०॥सुष्वाप हि कृतात्मा स बहुवर्षशतान्यपिविष्णौ सुप्ते ततो ब्रह्मा विवेश जठरं ततः ॥१११॥बहुस्रोतं च तं ज्ञात्वा महायोगी समाविशत्नाभ्यां विष्णोः समुद्भूतं पद्मं हेमविभूषितं ॥११२॥स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुःसिसृक्षुः पृथिवीं वायुं पर्वतांश्च महीरुहान् ॥११३॥तदंतराः प्रजाः सर्वा मानुषांश्च सरीसृपान्जरायुजाण्डजान्सर्वान्ससर्ज स महातपाः ॥११४॥तस्य गात्रसमुत्पन्नः कैटभो मधुना सहदानवौ तौ महावीर्यौ घोरौ लब्धवरौ तदा ॥११५॥दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टावुभौ नृपवेगेन महता भोक्तुं स्वयंभुवमधावतां ॥११६॥दृष्ट्वा सत्वानि सर्वाणि निस्सरन्ति पृथक्पृथक्ब्रह्मणा संस्तुतो विष्णुर्हत्वा तौ मधुकैटभौ ॥११७॥पृथिवीं वर्धयामास स्थित्यर्थं मेदसा तयोःमेदोगंधा तु धरणी मेदिनीत्यभिधां गता ॥११८॥तस्माद्गृध्रस्त्वसत्यो वै पापकर्मापरालयम्स्वीयं करोति पापात्मा दण्डनीयो न संशयः ॥११९॥ततोऽशरीरिणीवाणी अंतरिक्षात्प्रभाषतेमा वधी राम गृध्रं त्वं पूर्वंदग्धं तपोबलात् ॥१२०॥पुरा गौतम दग्धोऽयं प्रजानाथो जनेश्वरब्रह्मदत्तस्तु नामैष शूरः सत्यव्रतः शुचिः ॥१२१॥गृहमागत्य विप्रर्षेर्भोजनं प्रत्ययाचतसाग्रं वर्षशतं चैव भुक्तवान्नृपसत्तम ॥१२२॥ब्रह्मदत्तस्य वै तस्य पाद्यमर्घ्यं स्वयं ततःआत्मनैवाकरोत्सम्यग्भोजनार्थं महाद्युते ॥१२३॥समाविश्य गृहं तस्य आहारे तु महात्मनःनारीं पूर्णस्तनीं दृष्ट्वा हस्तेनाथ परामृशत् ॥१२४॥अथ क्रुद्धेन मुनिना शापो दत्तः सुदारुणःगृध्रत्वं गच्छ वै मूढ राजा मुनिमथाब्रवीत् ॥१२५॥कृपां कुरु महाभाग शापोद्धारो भविष्यतिदयालुस्तद्वचः श्रुत्वा पुनराह नराधिप ॥१२६॥उत्पत्स्यते रघुकुले रामो नाम महायशाःइक्ष्वाकूणां महाभागो राजा राजीवलोचनः ॥१२७॥तेन दृष्टो विपापस्त्वं भविता नरपुंगवदृष्टो रामेण तच्छ्रुत्वा बभूव पृथिवीपतिः ॥१२८॥गृध्रत्वं त्यज्य वै शीघ्रं दिव्यगंधानुलेपनःपुरुषो दिव्यरूपोऽसौ बभाषे तं नराधिपं ॥१२९॥साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभोविमुक्तो नरकाद्घोरादपापस्तु त्वया कृतः ॥१३०॥विसर्जितं मया गार्ध्यं नररूपी महीपतिःउलूकं प्राह धर्मज्ञ स्वगृहं विश कौशिक ॥१३१॥अहं संध्यामुपासित्वा गमिष्ये यत्र वै मुनिःअथोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमां ॥१३२॥आश्रमं प्राविशद्रामः कुंभयोनेर्महात्मनःतस्यागस्त्यो बहुगुणं फलमूलं च सादरं ॥१३३॥रसवंति च शाकानि भोजनार्थमुपाहरत्सभुक्तवान्नरव्याघ्रस्तदन्नममृतोपमम् ॥१३४॥प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदम ॥१३५॥ॠषिं समभिचक्राम गमनाय रघूत्तमःअभिवाद्याब्रवीद्रामो महर्षिं कुंभसंभवम् ॥१३६॥आपृच्छे साधये ब्रह्मन्ननुज्ञातुं त्वमर्हसिधन्योस्म्यनुगृहीतोस्मि दर्शनेन महामुने ॥१३७॥दिष्ट्या चाहं भविष्यामि पावनात्मा महात्मनःएवं ब्रुवति काकुत्स्थे वाक्यमद्भुतदर्शनं ॥१३८॥उवाच परमप्रीतो बाष्पनेत्रस्तपोधनःअत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरं ॥१३९॥पावनं सर्वभूतानां त्वयोक्तं रघुनंदनमुहूर्तमपि राम त्वां मैत्रेणेक्षंति ये नराः ॥१४०॥पावितास्सर्वसूक्तैस्ते कथ्यंते त्रिदिवौकसःये च त्वां घोरचक्षुर्भिरीक्षंते प्राणिनो भुवि ॥१४१॥ते हता ब्रह्मदंडेन सद्यो नरकगामिनःईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनां ॥१४२॥कथयंतश्च लोकास्त्वां सिद्धिमेष्यंति राघवगच्छस्वानातुरोऽविघ्नं पंथानमकुतोभयः ॥१४३॥प्रशाधि राज्यं धर्मेण गतिस्तु जगतां भवान्एवमुक्तस्तु मुनिना प्राञ्जलि प्रग्रहो नृपः ॥१४४॥अभिवादयितुं चक्रे सोऽगस्त्यमृषिसत्तमम्अभिवाद्य मुनिश्रेष्ठंस्तांश्च सर्वांस्तपोधिकान् ॥१४५॥अथारोहत्तदाव्यग्रः पुष्पकं हेमभूषितम्तं प्रयांतं मुनिगणा आशीर्वादैस्समंततः ॥१४६॥अपूपुजन्नरेंद्रं तं सहस्राक्षमिवामराःततोऽर्धदिवसे प्राप्ते रामः सर्वार्थकोविदः ॥१४७॥अयोध्यां प्राप्य काकुत्स्थः पद्भ्यां कक्षामवातरत्ततो विसृज्य रुचिरं पुष्पकं कामवाहितं ॥१४८॥कक्षांतराद्विनिष्क्रम्य द्वास्थान्राजाऽब्रवीदिदंलक्ष्मणं भरतं चैव गच्छध्वं लघुविक्रमाः ॥१४९॥ममागमनमाख्याय समानयत मा चिरम्श्रुत्वाथ भाषितं द्वास्था रामस्याक्लिष्टकर्मणः1.37. ॥१५०॥गत्वा कुमारावाहूय राघवाय न्यवदेयन्द्वास्थैः कुमारावानीतौ राघवस्य निदेशतः ॥१५१॥दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौसमालिंग्य तु रामस्तौ वाक्यं चेदमुवाच ह ॥१५२॥कृतं मया यथातथ्यं द्विजकार्यमनुत्तमंधर्महेतुमतो भूयः कर्तुमिच्छामि राघवौ ॥१५३॥भवद्भ्यामात्मभूताभ्यां राजसूयं क्रतूत्तमंसहितो यष्टुमिच्छामि यत्र धर्मश्च शाश्वतः ॥१५४॥पुष्करस्थेन वै पूर्वं ब्रह्मणा लोककारिणाशतत्रयेण यज्ञानामिष्टं षष्ट्याधिकेन च ॥१५५॥इष्ट्वा हि राजसूयेन सोमो धर्मेण धर्मवित्प्राप्तः सर्वेषु लोकेषु कीर्तिस्थानमनुत्तमम् ॥१५६॥इष्ट्वा हि राजसूयेन मित्रः शत्रुनिबर्हणःमुहूर्तेन सुशुद्धेन वरुणत्वमुपागतः ॥१५७॥तस्माद्भवंतौ संचिंत्य कार्येस्मिन्वदतं हि तत्भरत उवाचत्वं धर्मः परमः साधो त्वयि सर्वा वसुंधरा ॥१५८॥प्रतिष्ठिता महाबाहो यशश्चामितविक्रममहीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ॥१५९॥निरीक्षंते महात्मानो लोकनाथ तथा वयंप्रजाश्च पितृवद्राजन्पश्यंति त्वां महामते ॥१६०॥पृथिव्यां गतिभूतोसि प्राणिनामिह राघवसत्वमेवंविधं यज्ञं नाहर्त्तासि परंतप ॥१६१॥पृथिव्यां सर्वभूतानां विनाशो दृश्यते यतःश्रूयते राजशार्दूल सोमस्य मनुजेश्वर ॥१६२॥ज्योतिषां सुमहद्युद्धं संग्रामे तारकामयेतारा बृहस्पतेर्भार्या हृता सोमेनकामतः ॥१६३॥तत्र युद्धं महद्वृत्तं देवदानवनाशनम्वरुणस्य क्रतौ घोरे संग्रामे मत्स्यकच्छपाः ॥१६४॥निवृत्ते राजशार्दूल सर्वे नष्टा जलेचराःहरिश्चंद्रस्य यज्ञांते राजसूयस्य राघव ॥१६५॥आडीबकंमहद्युद्धं सर्वलोकविनाशनम्पृथिव्यां यानि सत्वानि तिर्यग्योनिगतानि वै ॥१६६॥दिव्यानां पार्थिवानां च राजसूये क्षयः श्रुतःस त्वं पुरुषशार्दूल बुद्ध्या संचिंत्य पार्थिव ॥१६७॥प्राणिनां च हितं सौम्यं पूर्णधर्मं समाचरभरतस्य वचः श्रुत्वा राघवः प्राह सादरम् ॥१६८॥प्रीतोस्मि तव धर्मज्ञ वाक्येनानेन शत्रुहन्निवर्तिता राजसूयान्मतिर्मे धर्मवत्सल ॥१६९॥पूर्णं धर्मं करिष्यामि कान्यकुब्जे च वामनम्स्थापयिष्याम्यहं वीर सा मे ख्यातिर्दिवं गता ॥१७०॥भविष्यति न संदेहो यथा गंगा भगीरथात् ॥१७१॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे यज्ञनिवारणंनाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP