संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ९ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्यी पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९ Translation - भाषांतर भीष्म उवाचभगवन्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम्रवेश्च श्राद्धदेवस्य सोमस्य च विशेषतः ॥१॥पुलस्त्य उवाचहंत ते कथयिष्यामि पितॄणां वंशमुत्तमम्स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः ॥२॥मूर्तिमंतोथ चत्वारः सर्वेषाममितौजसांअमूर्त्तयः पितृगणा वैराजस्य प्रजापतेः ॥३॥यजन्ति यान्देवगणा वैराजा इति विश्रुताःये वै ते योगविभ्रष्टाः प्रापुर्लोकान्सनातनान् ॥४॥पुनर्ब्रह्मदिनांते तु जायंते ब्रह्मवादिनःसंप्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम् ॥५॥सिद्धिं प्रयांति योगेन पुनरावृत्तिदुर्ल्लभाम्योगिनामेव देयानि तस्माच्छाद्धानि दातृभिः ॥६॥एतेषां मानसी कन्या पत्नी हिमवतो मतामैनाकस्तस्य दायादः क्रौचस्तस्य सुतोभवत् ॥७॥क्रौंचद्वीपः स्मृतो येन चतुर्थो धृतसंयुतःमेना तु सुषवे तिस्रः कन्या योगवतीस्ततः ॥८॥उमैकपर्णा पर्णा च तीव्रव्रतपरायणाःरुद्रस्यैका भृगोश्चैका जैगीषव्यस्य चापरा ॥९॥दत्ता हिमवता बालाः सर्वलोकतपोधिकाःपितॄणां लोकसंगीतं कथयामि शृणुष्व तत् ॥१०॥लोकाः सोमपथा नाम यत्र मारीचनंदनाःवर्त्तंते येन पितरो यान्देवा भावयन्त्यलम् ॥११॥अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताःअच्छोदा नाम तेषां तु कन्याभूद्वरवर्णिनी ॥१२॥अच्छोदं च सरस्तत्र पितृभिर्निर्मितं पुराअच्छोदाथ तपश्चक्रे दिव्यं वर्षसहस्रकम् ॥१३॥आजग्मुः पितरस्तुष्टा दास्यन्तः किल ते वरम्दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः ॥१४॥सर्वे प्रधाना बलिनः कुसुमायुधसन्निभाःतन्मध्येमावसुं नाम पितरं वीक्ष्य सांगना ॥१५॥वव्रे वरार्थिनी संगं कुसुमायुधपीडितायोगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी ॥१६॥धरान्न स्पृशते पूर्वं प्रयाताथ भुवस्तलेतथैवामावसुर्योयमिच्छां चक्रे न तां प्रति ॥१७॥धैर्येण तस्य सा लोके अमावास्येति विश्रुतापितॄणां वल्लभा यस्माद्दत्तस्याक्षयकारिका ॥१८॥अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात्सा पितॄन्प्रार्थयामास पुनरात्मसमृद्धये ॥१९॥विलज्जमाना पितृभिरिदमुक्ता तपस्विनीभविष्यमथ चालोक्य देवकार्यं च ते तदा ॥२०॥इदमूचुर्महाभागाः प्रसाद शुभयागिरादिवि दिव्यशरीरेण यत्किंचित्क्रियते बुधैः ॥२१॥तेनैव तत्कर्मफलं भुज्यते वरवर्णिनीसद्यः फलंति कर्माणि देवत्वे प्रेत्यमानुषे ॥२२॥तस्मात्त्वं सुकृतं कृत्वा प्राप्स्यसे प्रेत्य यत्फलम्अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥२३॥व्यतिक्रमात्पितॄणां तु कष्टं कुलमवाप्स्यसितस्माद्राज्ञो वसोः कन्या त्वमवश्यं भविष्यसि ॥२४॥कन्यात्वे देवलोकांस्तान्पुनः प्राप्स्यसि दुर्ल्लभान्पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि ॥२५॥द्वीपे तु बदरीप्राये बादरायणमप्युतस वेदमेकं बहुधा विभजिष्यति ते सुतः ॥२६॥पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोःविचित्रवीर्यस्तनयस्तथा चित्रांगदो नृपः ॥२७॥इमावुत्पाद्य तनयौ क्षेत्रजौ तस्य धीमतःप्रौष्ठपद्यष्टकाभूयः पितृलोके भविष्यसि ॥२८॥नाम्ना सत्यवती लोके पितृलोके तथाष्टकाआयुरारोग्यदा नित्यं सर्वकामफलप्रदा ॥२९॥भविष्यसि परे लोके नदी त्वं च गमिष्यसिपुण्यतोया सरिच्छ्रेष्ठा लोकेष्वच्छोदनामिका ॥३०॥इत्युक्ता सा गणैस्तैस्तु तत्रैवांतरधीयतसाप्यापचारित्रफलं मया यदुदितं पुरा ॥३१॥विभ्राजो नाम ये चान्ये दिवि संति सुवर्चसःलोका बर्हिषदो यत्र पितरः संति सुव्रताः ॥३२॥यत्र बर्हिषि युक्तानि विमानानि सहस्रशःसंकल्पपादपा यत्र तिष्ठंति फलदायिनः ॥३३॥यदभ्युदयशालासु मोदंते श्राद्धदायिनःये दानवासुरगणा गंधर्वाप्सरसां गणाः ॥३४॥यक्षरक्षोगणास्ते च यजंति दिवि देवताःपुलस्त्यपुत्राः शतशस्तपोयोगबलान्विताः ॥३५॥महात्मानो महाभागा भक्तानामभयंकराःएतेषां पीवरी कन्या मानसी दिवि विश्रुता ॥३६॥योगिनी योगमाता च तपश्चक्रे सुदारुणंप्रसन्नो भगवांस्तस्या वरं वव्रे तु सा ततः ॥३७॥योगवंतं सुरूपं च भर्तारं विजितेंद्रियम्देहि देव प्रसन्नस्त्वं यदि ते वदतां वर ॥३८॥उवाच देवो भविता व्यासपुत्रो यदा शुकःभवित्री तस्य भार्या त्वं योगाचार्यस्य सुव्रता ॥३९॥भविष्यति च ते कन्या कृत्तीनामाथ योगिनीपांचालपतये देया सात्वताय तु सा तदा ॥४०॥जननी ब्रह्मदत्तस्य योगसिद्धांतगा स्मृताकृष्ण गौरश्च शंभुश्च भविष्यंति च ते सुताः ॥४१॥सर्वकामसमृद्धेषु विमानेष्वपि पावनाःकिं पुनः श्राद्धदा विप्रा भक्तिमंतः क्रियान्विताः ॥४२॥गौर्नाम कन्या येषां तु मानसी दिवि राजतेसुकन्या दयिता पत्नी साध्यानां कीर्तिवर्द्धिनी ॥४३॥मरीचिगर्भनामानो लोके मार्तंडमंडलेपितरो यत्र तिष्ठंति हविष्मंतोंगिरः सुताः ॥४४॥तीर्थश्राद्धप्रदा यांति यत्र क्षत्रियसत्तमाःराज्ञां तु पितरस्ते वै स्वर्गभोगफलप्रदाः ॥४५॥एतेषां मानसी कन्या यशोदा नाम विश्रुतापत्नी यांशुमतः श्रेष्ठा स्नुषा पंचजनस्य च ॥४६॥जनन्यथ दिलीपस्य भगीरथपितामहीलोकाः कामदुघा नाम कामभोगफलप्रदाः ॥४७॥सुस्वधा नाम पितरो यत्र तिष्ठन्ति ते सुताःआज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः ॥४८॥पुलहाग्रजदायादा वैश्यास्तान्भावयंति हयत्र श्राद्धकृतः सर्वे पश्यंति युगपद्गताः ॥४९॥मातृभ्रातृपितृस्वसॄः सखिसंबंधिबांधवान्अपिजन्मायुतैर्दृष्टाननुभूतान्सहस्रशः ॥५०॥एतेषां मानसी कन्या विरजा नाम विश्रुतासा पत्नी नहुषस्यासीद्ययातेर्जननी तथा ॥५१॥एषाष्टकाभवत्पश्चाद्ब्रह्मलोकगता सतीत्रय एते गणाः प्रोक्ताश्चतुर्थं तु वदाम्यहम् ॥५२॥लोकाः सुमनसो नाम ब्रह्मलोकोपरिस्थिताःसोमपा नाम पितरो यत्र तिष्ठंति शाश्वतं ॥५३॥धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताःउत्पन्नाः प्रलयांते तु ब्रह्मत्वं प्राप्य योगिनः ॥५४॥कृत्वा सृष्ट्यादिकं सर्वे मानसे सांप्रतं स्थिताःनर्मदा नाम तेषां तु कन्या तोयवहा सरित् ॥५५॥भूतानि पुनती या तु पश्चिमोदधिगामिनीतेभ्यः सर्वत्र मनुजाः प्रजासर्गे च निर्मितम् ॥५६॥ज्ञात्वा श्राद्धानि कुर्वंति धर्मभावेन सर्वदासर्वदा तेभ्य एवास्य प्रसादाद्योगसंततिः ॥५७॥पितॄणामादिसर्गे तु श्राद्धमेवं विनिर्मितम्सर्वेषां राजतं पात्रमथवा राजतान्वितम् ॥५८॥दत्तं स्वधां पुरोधाय पितॄन्प्रीणाति सर्वदाआग्नीध्रसोमपाभ्यां तु कार्यमाप्यायनं बुधैः ॥५९॥अग्न्यभावे तु विप्रस्य पाणौ वाथ जलेपि वाअजाकर्णेश्वकर्णे वा गोष्ठे वाथ शिवांतिके ॥६०॥पितॄणाममलं स्थानं दक्षिणादिक्प्रशस्यतेप्राचीनावीतमुदकं तिलसंत्यागमेव च ॥६१॥खड्गिगनामामिषं चैवमन्नं श्यामाकशालयःयवनीवारमुद्गेक्षु शुक्लपुष्प फलानि च ॥६२॥वल्लभानि प्रशस्तानि पितॄणामिह सर्वदादर्भा माषष्षष्टिकान्नं गोक्षीरं मधुसर्पिषी ॥६३॥शस्त्राणि च प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि चमसूर शण निष्पावा राजमाषाः कुलुत्थकाः ॥६४॥पद्म बिल्वार्कादुत्तूर पारिभद्राटरूषकाःन देयाः पितृकार्येषु पयश्चाजाविकं तथा ॥६५॥कोद्रवोदारवरटकपित्थं मधुकातसीएतान्यपि न देयानि पितॄभ्यः श्रियमिच्छता ॥६६॥पितृन्प्रीणाति यो भक्त्या ते पुनः प्रीणयंति तंयच्छंति पितरः पुष्टिं स्वांगारोग्यं प्रजाफलम् ॥६७॥देवकार्यादपि पुनः पितृकार्यं विशिष्यतेदेवताभ्यः पितॄणां तु पूर्वमाप्यायनं स्मृतम् ॥६८॥शीघ्रप्रसादास्त्वक्रोधा निस्संगाः स्थिर सौहृदाःशांतात्मानः शौचपराः सततं प्रियवादिनः ॥६९॥भक्तानुरक्ताः सुखदाः पितरः पर्वदेवताःहविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः ॥७०॥एतद्धि सर्वमाख्यातं पितृवंशानुकीर्त्तनम्पुण्यं पवित्रमारोग्यं कीर्त्तनीयं नृभिः सदा ॥७१॥भीष्म उवाचश्रुत्वैतदखिलं भूयः पराभक्तिरुपस्थिताश्राद्धकालं विधिं चैव श्राद्धमेव तथैव च ॥७२॥श्राद्धेषु भोजनीया ये श्राद्धवर्ज्या द्विजातयःकस्मिन्वासरभागे तु पितृभ्यः श्राद्धमारभेत् ॥७३॥अन्नं दत्तं कथं याति श्राद्धे वै ब्रह्मवित्तमविधिना केन कर्त्तव्यं कथं प्रीणाति तान्पितॄन् ॥७४॥पुलस्त्य उवाचकुर्यादहरहः श्राद्धमन्नाद्येनोदकेन चपयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥७५॥नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यतेनित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ॥७६॥अदैवतं विजानीयात्पार्वणं पर्व सुस्मृतम्पार्वणं त्रिविधं प्रोक्तं शृणु यत्नान्महीपते ॥७७॥पार्वणेय नियोज्यास्तु तान्शृणुष्व नराधिपपंचाग्निः स्नातकश्चैव त्रिसौपर्णः षडंगवित् ॥७८॥श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदःसर्वज्ञो वेदवान्मंत्री ज्ञानवंशकुलान्वितः ॥७९॥त्रिणाचिकेतस्त्रिमधुः श्रुतेष्वन्येषु संस्थितःपुराणवेत्ता ब्रह्मज्ञः स्वाध्यायी जपतत्परः ॥८०॥ब्रह्मभक्तः पितृपरः सूर्यभक्तोथ वैष्णवःब्राह्मणो योगनिष्ठात्मा विजितात्मा सुशीलवान् ॥८१॥एते तोष्याः प्रयत्नेन वर्जनीयानिमान्शृणुपतितस्तत्सुतः क्लीबः पिशुनो व्यंगरोगितः ॥८२॥सर्वे ते श्राद्धकाले तु त्याज्या वै धर्मदर्शिभिःपूर्वेद्युरपरेद्युर्वा विनीतांश्च निमंत्रयेत् ॥८३॥निमंत्रितांश्च पितर उपतिष्ठंति तान्द्विजान्वायुभूतानि गच्छंति तथासीनानुपासते ॥८४॥दक्षिणं जानुचालभ्य वामं पात्यनिमंत्रयेत्अक्रोधनैः शौचपरैः सुस्नातैर्ब्रह्मवादिभिः ॥८५॥भवितव्यं भवद्भिस्तु मया च श्राद्धकर्मणिपितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योग्निमान् ॥८६॥पिंडान्वाहार्यकं कुर्याच्छ्राद्धमिंदुक्षये तथागोमयेनानुलिप्ते तु दक्षिणाप्लवनस्थले ॥८७॥श्राद्धं समारभेद्भक्त्या गोष्ठे वा जलसन्निधौअग्निमान्निर्वपेत्पित्र्यं चरुं वा सक्तुमुष्टिभिः ॥८८॥पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत्अभिघार्य ततः कुर्यान्निर्वापत्रयमग्रतः ॥८९॥ते वितस्त्यायताः कार्याश्चतुरङ्गुलविस्तृताःदर्वीत्रयं च कुर्वीत खादिरं रजतान्वितम् ॥९०॥रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम्उदपात्राणि कांस्यस्य मेक्षणं च समित्कुशम् ॥९१॥तिलपात्राणि सद्वासो गंधधूपानुलेपनम्आहरेदपसव्यं च सर्वं दक्षिणतः शनैः ॥९२॥एवमासाद्य तत्सर्वं भवनस्योत्तरेंतरेगोमयेनानुलिप्तायां गोमूत्रेण च मंडलम् ॥९३॥साक्षताभिः सपुष्पाभिरद्भिः सव्यापसव्यवत्विप्राणां क्षालयेत्पादावभिवंद्य पुनःपुनः ॥९४॥आसनेषूपविष्टेषु दर्भवत्सु विधानतःउपस्पृष्टोदकान्विप्रानुपवेश्यानुमंत्रयेत् ॥९५॥द्वौ दैवे पितृकृत्ये त्रीनेकैकं चोभयत्र वाभोजयेदीश्वरोपीह न कुर्याद्विस्तरं बुधः ॥९६॥दैवपूर्वं निवेद्याथ विप्रानर्घादिना बुधैःअग्नौ कुर्यादनुज्ञातो विप्रैर्विप्रो यथाविधि ॥९७॥स्वगृह्योक्तेन विधिना काले कृत्वा समंततःअग्नीषोममयाभ्यां तु कुर्यादाप्यायनं बुधः ॥९८॥दक्षिणाग्नौ प्रणीतेन स एवाग्निर्द्विजोत्तमःयज्ञोपवीतान्निर्वर्त्य ततः पर्युक्षणादिकम् ॥९९॥प्राचीनावीतिना कार्यमेतत्सर्वं विजानतालब्ध्वा तस्माद्विशेषेण पिंडान्कुर्वीत चोदकं ॥१००॥दद्यादुदकपात्रैस्तु सलिलं सव्यपाणिनादद्यात्सर्वं प्रयत्नेन दमयुक्तो विमत्सरः ॥१०१॥विधाय रेखां यत्नेन निर्वपेदवनेजनंदक्षिणाभिमुखः कुर्यात्ततो दर्भान्निधाय वै ॥१०२॥निधाय पिंडमेकैकं सर्वं दर्भोपरिक्रमात्निर्वपेदथ दर्भेषु नामगोत्रानुकीर्तनैः ॥१०३॥तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनांतथैव च जपं कुर्यात्पुनः प्रत्यवनेजनम् ॥१०४॥जलयुक्तं नमस्कृत्य गंधधूपार्चनादिभिःएवमावाह्य तत्सर्वं वेदमंत्रैर्यथोदितैः ॥१०५॥एकाग्नरेकएवाद्भिर्निर्वपेद्दर्विकां तथाततः कृत्वा नरो दद्यात्पितृभ्यस्तु कुशान्बुधः ॥१०६॥ततः पिंडादिकं कुर्यादावाहनविसर्जनम्ततो गृहीत्वा पिंडेभ्यो मात्राः सर्वाः क्रमेण तु ॥१०७॥तानेव विप्रान्प्रथममाशयित्वा च मानवःवर्णयन्भोजयेदन्नमिष्टं पूर्तं च सर्वदा ॥१०८॥वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम्तृप्तान्ज्ञात्वा पुनः कुर्याद्विकिरं सार्ववर्णिकं ॥१०९॥विधृत्य सोदकं त्वन्नं सतिलं प्रक्षिपेद्भुविआचांतेषु पुनर्दद्याज्जलं पुष्पाक्षतोदकम् ॥११०॥स्वधावाचनकं सर्वं पिंडोपरि समाचरेत्देवाद्यंतं प्रकुर्वीत श्राद्धनाशोन्यथा भवेत् ॥१११॥विसृज्य विप्रान्प्रणतस्तेषां कृत्वा प्रदक्षिणम्दक्षिणांदिशमाकांक्षन्पितॄनुद्दिश्य मानवः ॥११२॥दातारो नोभिवर्द्धंतां वेदाः सन्ततिरेव चश्रद्धा च नो मा व्यगमद्बहुदेयं च नोस्त्विति ॥११३॥अन्नं च नो बहुभवेदतिथींश्च लभेमहियाचितारश्च नः संतु मा च याचिष्म कंचन ॥११४॥एतदग्निमतः प्रोक्तमन्वाहार्यं तु पार्वणंयथेंदुसंक्षये तद्वदन्यत्रापि निगद्यते ॥११५॥पिंडांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेपि वावप्रांते वाथ विकिरेदापोभिरथ वापयेत् ॥११६॥पत्नीं तु मध्यमं पिंडं प्राशयेद्विनयान्विताम्आधत्त पितरो गर्भं पुत्रसंतानवर्द्धनं ॥११७॥तावन्निर्वापणं तिष्ठेद्यावद्विप्रा विसर्जिताःवैश्वदेवं ततः कुर्यान्निवृत्तः पितृकर्मणः ॥११८॥इष्टैः सह ततः शांतो भुंजीत पितृसेवितम्पुनर्भोजनमध्वानं यानमायासमैथुनम् ॥११९॥श्राद्धकृच्छ्राद्धभुग्यो वा सर्वमेतद्विवर्जयेत्स्वाध्यायं कलहं चैव दिवास्वप्नं च सर्वदा ॥१२०॥अनेन विधिना श्राद्धं त्रिवर्गस्येह निर्वपेत्कन्या कुंभ वृषस्थेर्के कृष्णपक्षेषु सर्वदा ॥१२१॥यत्रयत्र प्रदातव्यं सपिंडीकरणात्मकम्तत्रानेन विधानेन देयमग्निमता सदा ॥१२२॥अतः परं प्रवक्ष्यामि ब्रह्मणा यदुदीरितम्श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम् ॥१२३॥अयने विषुवे चैव अमावस्यार्कसंक्रमेअमावस्याष्टका कृष्णपक्ष पंचदशीषु च ॥१२४॥आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मणसंगमेगजच्छायाव्यतीपाते विष्टिवैधृतिवासरे ॥१२५॥वैशाखस्य तृतीयायां नवमीकार्तिकस्य चपंचदशी तु माघस्य नभस्ये च त्रयोदशी ॥१२६॥युगादयः स्मृता ह्येताः पितॄपक्षोपकारिकाःतथा मन्वंतरादौ च देयं श्राद्धं विजानता ॥१२७॥अश्वयुङ्नवमी चैव द्वादशी कार्तिके तथातृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥१२८॥फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथाआषाढस्यापि दशमी माघमासस्य सप्तमी ॥१२९॥श्रावणे चाष्टमी कृष्णा तथाषाढी च पूर्णिमाकार्तिकी फाल्गुनी चैवा ज्येष्ठे पंचदशी सिता ॥१३०॥मन्वंतरादयस्त्वेता दत्तस्याक्षयकारिकाःपानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥१३१॥श्राद्धं कृतं तेन समास्सहस्रं रहस्यमेतत्पितरो वदंतिवैशाख्यामुपवासेषु तथोत्सवमहालये ॥१३२॥तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु चविविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता ॥१३३॥विप्रान्पूर्वेपरेचाह्नि विनीतात्मानि मंत्रयेत्शीलवृत्तगुणोपेतान्वयोरूपसमन्वितान् ॥१३४॥द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वाभोजयेत्सुसमृद्धोपि न प्रकुर्वीत विस्तरम् ॥१३५॥विश्वेदेवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकंपूरयेत्पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके ॥१३६॥शन्नोदेवीत्यपः कुर्याद्यवोसीति यवानपिगंधपुष्पैस्तु संपूज्य विश्वान्देवान्प्रतिन्यसेत् ॥१३७॥विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान्यवोसि धान्यराजस्त्वं वारुणो मधुमिश्रितः ॥१३८॥निर्णुदः सर्वपापानां पवित्र ऋषिसंस्तुतःगंधपुष्पैरलंकृत्य या दिव्येत्यर्घमुत्सृजेत् ॥१३९॥अभ्यर्च्य गंधाद्युत्सृज्य पितृयज्ञं समारभेत्दर्भासनादि कृत्वादौ त्रीणि पात्राणि चार्चयेत् ॥१४०॥सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत्तिलोसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः ॥१४१॥पात्रं वनस्पतिमयं तथा पर्णमयं पुनःराजतं वा प्रकुर्वीत तथा सागरसंभवम् ॥१४२॥सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यतेरजतस्य कथा वापि दर्शनं दानमेव च ॥१४३॥राजतैर्भाजनैरेषां पितॄणां रजतान्वितैःवार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥१४४॥अद्यापि पितृपात्रेषु पितॄणां राजतान्वितम्शिवनेत्रोद्भवं यस्मादुत्तमं पितृवल्लभम् ॥१४५॥एवं पात्राणि संकल्प्य यथालाभं विमत्सरःया दिव्येति पितुर्नाम गोत्रे दर्भान्करे न्यसेत् ॥१४६॥पितॄनावाहयिष्यामि तथेत्युक्तः स तैः पुनःउशंतस्त्वा तथायन्तु ऋग्म्यामावाहयेत्पितॄन् ॥१४७॥या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गंधादिकं ततःवस्त्रोत्तरं दर्भपूर्वं दत्वा संश्रयमादितः ॥१४८॥पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत्पितृभ्यः स्थानमसीति निधाय परिवेषयेत् ॥१४९॥तत्रापि पूर्वतः कुर्यादग्निकार्यं विमत्सरःउभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ॥१५०॥उशन्तस्त्वेति तं दर्भं पाणिभक्तं विशेषतःगुणान्वितैश्च शाकाद्यैर्नानाभक्ष्यैस्तथैव च ॥१५१॥अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितंमासं प्रीणाति वै सर्वान्पितॄनित्याह पद्मजः ॥१५२॥द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तुऔरभ्रेणाथ चतुरः शाकुनेनाथ पंच वै ॥१५३॥वाराहस्य तु मांसेन षण्मासं तृप्तिरुत्तमासप्तलोहस्य मांसेन तथाष्टावाजकेन तु ॥१५४॥पृषतस्य तु मांसेन तृप्तिर्मासान्नवैव तुदशमासांश्च तृप्यंते वराहमहिषामिषैः ॥१५५॥शशकूर्मयोस्तु मांसेन मासानेकादशैव तुसंवत्सरं तु गव्येन पयसा पायसेन वा ॥१५६॥सौकरेण तु तृप्यंते मासान्पंचदशैव तुवार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥१५७॥कालशाकेन चानंत्यं खड्गमांसेन चैव हियत्किंचिन्मधुना मिश्रं गोक्षीरं दधिपायसम् ॥१५८॥दत्तमक्षयमित्याहुः पितरः पूर्वदेवताःस्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च ॥१५९॥ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि चइंद्रेशसोमसूक्तानि पावमानीश्च शक्तितः ॥१६०॥बृहद्रथंतरं तत्र ज्येष्ठसामाथ रौरवंतथैव शांतिकाध्यायं मधुब्राह्मणमेव च ॥१६१॥मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनःविप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत् ॥१६२॥भारताध्ययनं कार्यं पितॄणां परमप्रियंभुक्तवत्सु च विप्रेषु भोज्यतोयादिकं नृप ॥१६३॥सार्ववर्णिकमन्नाद्यमानयेत्सावधारणंसमुत्सृजेद्भुक्तवतामग्रतो विकिरान्भुवि ॥१६४॥अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले ममभूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिं ॥१६५॥येषां न माता न पिता न बंधुर्न चापि मित्रं न तथान्नमस्तितत्तॄप्तयेन्नं भुवि दत्तमेतत्पयातु योगाय यतो यतस्ते ॥१६६॥असंस्कृतप्रमीतानां त्यागिनां कुलभागिनांउछिष्टभागधेयानां दर्भेषु विकिरासनं ॥१६७॥तृप्तान्ज्ञात्वोदकं दद्यात्सकृद्विकिरणे तथाविप्रलिप्तमहीपृष्टे गोशकृन्मूत्रवारिणा ॥१६८॥निधाय दर्भान्विधिवद्दक्षिणाग्रान्प्रयत्नतःसर्ववर्णविधानेन पिंडांश्च पितृयज्ञवत् ॥१६९॥अवनेजनपूर्वं तु नामगोत्रं तु मानवःउक्त्वा पुष्पादिकं दत्वा कृत्वा प्रत्यवनेजनं ॥१७०॥ज्ञात्वापसव्यं सव्येन पाणिना त्रिः प्रदक्षिणंपितृवन्मातृकं कार्यं विधिवद्दर्भपाणिना ॥१७१॥दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधःतथा चांतेषु चाचम्य दद्याच्चापः सकृत्सकृत् ॥१७२॥तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव चसतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥१७३॥गोभूहिरण्यवासांसि भव्यानि शयनानि चदद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च ॥१७४॥वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहेत्ततः स्वधावाचनकं विश्वेदेवेषु चोदकं ॥१७५॥दत्वाशीः प्रतिगृह्णीयाद्द्विजेभ्योपि यथा बुधःअघोराः पितरः संतु संत्वित्युक्तः पुनर्द्विजैः ॥१७६॥गोत्रं तथा वर्द्धतां तु तथेत्युक्तश्च तैः पुनःस्वस्तिवाचनकं कुर्यात्पिंडानुद्धृत्य भक्तितः ॥१७७॥उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रविसर्जनम्ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥१७८॥उच्छेषणं भूमिगतमजिह्मस्याशठस्य चदासवर्गस्य तत्पिंडं भागधेयं प्रचक्षते ॥१७९॥पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदाअव्रतानामपुत्राणां स्त्रीणामपि नराधिप ॥१८०॥ततः स्थानाग्रतः स्थित्वा प्रतिगृह्यांबुपात्रिकांवाजेवाजेति च जपन्कुशाग्रेण विसर्जयेत् ॥१८१॥बहिः प्रदक्षिणं कुर्यात्पदान्यष्टावनुव्रजेत्बंधुवर्गेण सहितः पुत्रभार्यासमन्वितः ॥१८२॥निवृत्य प्रणिपत्याथ प्रयुज्याग्निं स मंत्रवित्वैश्वदेवं प्रकुर्वीत नैत्यिकं बलिमेव च ॥१८३॥ततस्तु वैश्वदेवांते सभृत्यसुतबांधवःभुंजीतातिथिसंयुक्तः सर्वं पितृनिषेवितं ॥१८४॥एतच्चानुपनीतोपि कुर्यात्सर्वेषु पर्वसुश्राद्धं साधारणं नाम सर्वकामफलप्रदम्भार्याविरहितोप्येतत्प्रवासस्थोपि भक्तिमान् ॥१८५॥शूद्रोप्यमंत्रकं कुर्यादनेन विधिना नृपतृतीयमाभ्युदयिकं वृद्धिश्राद्धं विधीयते ॥१८६॥उत्सवानंदसंस्कारे यज्ञोद्वाहादिमंगलेमातरः प्रथमं पूज्याः पितरस्तदनंतरं ॥१८७॥ततो मातामहा राजन्विश्वेदवास्तथैव चप्रदक्षिणोपचारेण दध्यक्षतफलोदकैः ॥१८८॥प्राङ्मुखो निर्वपेत्पिंण्डान्पूर्वांश्चैव पुरातनान्संपन्नमित्यभ्युदये दद्यादर्घं द्वयोर्द्वयोः ॥१८९॥युग्मा द्विजातयः पूज्या वस्त्राकल्पांबरादिभिःतिलकार्यं यवैः कार्यं तच्च सर्वानुपूर्वकं ॥१९०॥मंगल्यानि च सर्वाणि वाचयेद्द्विजपुंगवान्एवं शूद्रोपि सामान्यं वृद्धिश्राद्धं च सर्वदा ॥१९१॥नमस्कारेण मंत्रेण कुर्याद्दानानि वै बुधःदानं प्रधानं शूद्रस्य इत्याह भगवान्प्रभुःदानेन सर्वकामाप्तिस्तस्य संजायते यतः ॥१९२॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे साधारणाभ्युदयकीर्तनं नाम नवमोध्यायः ॥९॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP