संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ४ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४ Translation - भाषांतर भीष्म उवाचक्षीराब्धौ तु तथा लक्ष्मीः किलोत्पन्ना मया श्रुताख्यात्यां भृगोः समुत्पन्ना एतदाह कथं भवान् ॥१॥कथं च दक्षदुहिता देहं त्यक्तवती शुभामेनायां गर्भसंभूतिमुमाया जन्म एव च ॥२॥किमर्थं देवदेवेन पत्नी हैमवती कृताविरोधं चाथ दक्षेण भगवांस्तु ब्रवीतु मे ॥३॥पुलस्त्य उवाचइदं च शृणु भूपाल यत्पृष्टोहमिह त्वयाश्रीसंबंधो मयाप्येष श्रुत आसीत्पितामहात् ॥४॥अत्रिपुत्रस्तु दुर्वासाः परिभ्राम्यन्महीमिमाम्विद्याधरीकरेमालां दृष्ट्वा सौगन्धिकीं शुभाम् ॥५॥याचयामास मे देहि जटाजूटे करोम्यहम्इति विद्याधरी तेन पृष्टा सा ऋषिणा तथा ॥६॥ददौ तस्मै मुदायुक्ता तां मालां स तदा नृपगृहीत्वा सुचिरं कालं शिरोमालां बबंध ह ॥७॥उन्मत्त प्रेतवद्विप्रः शोभमानोब्रवीदिदम्इयं विद्याधरी कन्या पीनोन्नत पयोधरा ॥८॥शोभालंकारसौभाग्यैर्युक्ता दृष्टा ततो मनःक्षोभमायाति मे चाद्य नाहं कामे विचक्षणः ॥९॥व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन्एवमुक्त्वा स राजेंद्र परिबभ्राम मेदिनीम् ॥१०॥ऐरावतं समारूढं राजानं त्रिदिवौकसाम्त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम् ॥११॥तामात्मशिरसो मालां भ्रमदुन्मत्तषट्पदाम्आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥१२॥गृहीत्वा देवराजेन माला सा गजमूर्द्धनिमुक्ता रराज सा माला कैलासे जाह्नवी यथा ॥१३॥मदांधकारिताक्षोसौ गंधाघ्राणेन वारणःकरेणादाय चिक्षेप तां मालां पृथिवीतले ॥१४॥ततश्चुक्रोध भगवान्दुर्वासा मुनिपुंगवःराजेंद्रदेवराजानं क्रुद्धश्चेदमुवाच ह ॥१५॥ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासवश्रियोधामस्रजं यस्मान्मद्दत्तान्नाभिनंदसि ॥१६॥त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यतिमद्दत्ता भवता माला क्षिप्ता यस्मान्महीतले ॥१७॥तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यतियस्य संजातकोपस्य भयमेति चराचरम् ॥१८॥तं मां त्वमतिगर्वेण देवराजावमन्यसेमहेंद्रो वारणस्कंधादवतीर्य त्वरान्वितः ॥१९॥प्रसादयामास मुनिं दुर्वाससमकल्मषम्प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् ॥२०॥नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतोइत्युक्त्वा प्रययौ विप्रो देवराजोपि तं पुनः ॥२१॥आरुह्यैरावतं नागं प्रययावमरावतीम्ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् ॥२२॥न यज्ञाः संप्रवर्तंते न तपस्यंति तापसाःन च दानानि दीयंते नष्टप्रायमभूज्जगत् ॥२३॥एवमत्यंतनिःश्रीके त्रैलोक्ये सत्त्ववर्जितेदेवान्प्रतिबलोद्योगं चक्रुर्दैतेयदानवाः ॥२४॥विजितास्त्रिदशा दैत्यैरिंद्राद्याः शरणं ययुःपितामहं महाभागं हुताशनपुरोगमाः ॥२५॥यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान्क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः ॥२६॥गत्वा जगाद भगवान्वासुदेवं पितामहःउत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु ॥२७॥त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनःइत्युक्तः पुंडरीकाक्षः पुरुषः पुरुषोत्तमः ॥२८॥अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच हतेजसो भवतां देवाः करिष्याम्युपबृंहणम् ॥२९॥वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराःआनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः ॥३०॥मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्मथ्यताममृतं देवाः सहाये मय्यवस्थिते ॥३१॥सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणिसमानफलभोक्तारो यूंय चात्र भविष्यथ ॥३२॥मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्तत्पानाद्बलिनो यूयममराः संभविष्यथ ॥३३॥तथैवाहं करिष्यामि यथा त्रिदशविद्विषःन प्राप्स्यंत्यमृतं देवाः केवलं क्लेशभागिनः ॥३४॥इत्युक्ता देवदेवेन सर्व एव ततः सुराःसंधानमसुरैः कृत्वा यत्नवंतोऽमृतेभवन् ॥३५॥सर्वौषधीः समानीय देवदैतेयदानवाःक्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥३६॥मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्ततो मथितुमारब्धा राजेंद्र तरसामृतम् ॥३७॥विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताःविष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः ॥३८॥ते तस्य प्राणवातेन वह्निना च हतत्त्विषःनिस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते ॥३९॥तेनैव मुखनिःश्वासवायुनाथ बलाहकैःपुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः ॥४०॥क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरःमहादेवो महातेजा विष्णुपृष्ठनिवासिनौ ॥४१॥बाहुभ्यां मंदरं गृह्य पद्मवत्स परंतपःशृंखले च तदा कृत्वा गृहीत्वा मंदराचलम् ॥४२॥देवानां दानवानां च बलमध्ये व्यवस्थितःक्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः ॥४३॥अन्येन तेजसा देवानुपबृंहितवान्हरिःमथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः ॥४४॥हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिताजग्मुर्मुदं तदा देवा दानवाश्च महामते ॥४५॥व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाःकिमेतदिति सिद्धानां दिवि चिंतयतां तदा ॥४६॥बभूव वारुणी देवी मदाघूर्णितलोचनाकृतावर्त्ता ततस्तस्मात्प्रस्खलंती पदे पदे ॥४७॥एकवस्त्रा मुक्तकेशी रक्तांतस्तब्धलोचनाअहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः ॥४८॥अशुचिं वारुणीं मत्वा त्यक्तवंतस्तदा सुराःजगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत् ॥४९॥मंथने पारिजातोभूद्देव श्रीनंदनो द्रुमःरूपौदार्य्यगुणोपेतास्ततश्चाप्सरसां गणाः ॥५०॥षष्टिकोट्यस्तदा जातास्सामान्या देव दानवैःसर्वास्ताः कृतपूर्वास्तु सामान्याः पुण्यकर्मणा ॥५१॥ततः शीतांशुरभवद्देवानां प्रीतिदायकःययाचे शंकरो देवो जटाभूषणकृन्मम ॥५२॥भविष्यति न संदेहो गृहीतोयं मया शशीअनुमेने च तं ब्रह्मा भूषणाय हरस्य तु ॥५३॥ततो विषं समुत्पन्नं कालकूटं भयावहंतेन चैवार्दितास्सर्वे दानवाः सह दैवतैः ॥५४॥महादेवेन तत्पीतं विषं गृह्य यदृच्छयातस्य पानान्नीलकंठस्तदा जातो महेश्वरः ॥५५॥पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्ततो धन्वंतरिर्जातः श्वेतांबरधरः स्वयम् ॥५६॥बिभ्रत्कमंडलुं पूर्णममृतस्य समुत्थितःततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात् ॥५७॥ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथातत स्फुरत्कांतीमतिविकासि कमलेस्थिता ॥५८॥श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपंकजातां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः ॥५९॥विश्वावसुमुखास्तस्या गंधर्वाः पुरतो जगुःघृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥६०॥गंगाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरेदिग्गजा हेमपात्रस्थमादाय विमलं जलम् ॥६१॥स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम्क्षीरोदस्तु स्वयं तस्यै मालामम्लानपंकजाम् ॥६२॥ददौ विभूषणान्यंगे विश्वकर्मा चकार हदिव्यमाल्यांबरधरां स्नातां भूषणभूषिताम् ॥६३॥इंद्राद्याश्चामरगणा विद्याधरमहोरगाःदानवाश्च महादैत्या राक्षसाः सह गुह्यकैः ॥६४॥कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच हवासुदेव त्वमेवैनां मया दत्तां गृहाण वै ॥६५॥देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विहतुष्टोहं भवतस्तावदलौल्येनेह कर्मणा ॥६६॥सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवंमया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः ॥६७॥पश्यतां सर्वदेवानां गता वक्षस्थलं हरेःततो वक्षस्थलं प्राप्य देवं वचनमब्रवीत् ॥६८॥नाहं त्याज्या सदा देव सदैवादेशकारिणीवक्षस्थले निवत्स्यामि सर्वस्य जगतः प्रिय ॥६९॥ततोवलोकिता देवा विष्णुवक्षस्थलस्थयालक्ष्म्या राजेंद्र सहसा परां निर्वृतिमागताः ॥७०॥उद्वेगं च परं जग्मुर्द्दैत्या विष्णुपराङ्मुखाःत्यक्तास्तु दानवा लक्ष्म्या विप्रचित्तिपुरोगमाः ॥७१॥ततस्ते जगृहुर्दैत्या धन्वंतरिकरस्थितम्अमृतं तन्महावीर्य्या दैत्याः पापसमन्विताः ॥७२॥मायया लोभयित्वा तु विष्णुः स्त्रीरूपसंश्रयःआगत्य दानवान्प्राह दीयतां मे कमंडलुः ॥७३॥युष्माकं वशगा भूत्वा स्थास्यामि भवतां गृहेतां दृष्ट्वा रूपसंपन्नां नारीं त्रैलोक्यसुंदरीम् ॥७४॥प्रार्थयानास्सुवपुषं लोभोपहतचेतसःदत्त्वामृतं तदा तस्यै ततोपश्यन्त तेग्रतः ॥७५॥दानवेभ्यस्तदादाय देवेभ्यः प्रददेमृतंततः पपुः सुरगणाः शक्राद्यास्तत्तदामृतम् ॥७६॥उद्यतायुधनिस्त्रिंशा दैत्यास्तांस्ते समभ्ययुःपीतेमृते च बलिभिर्जिता दैत्यचमूस्ततः ॥७७॥वध्यमाना दिशो भेजुः पातालं विविशुश्च तेततो देवा मुदायुक्ताः शंखचक्रगदाधरम् ॥७८॥प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन् ॥७९॥अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना ॥८०॥जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनःधर्मे च सर्वभूतानां तदा मतिरजायत ॥८१॥श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितंदेवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा ॥८२॥भवतां रक्षणार्थाय मया विष्णुर्नियोजितःउमापतिश्च देवेशो योगक्षेमं करिष्यतः ॥८३॥उपास्यमानौ सततं युष्मत्क्षेमकरौ यतःततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ ॥८४॥एवमुक्त्वा तु भगवान्जगाम गतिमात्मनःअदर्शनं गते देवे सर्वलोकपितामहे ॥८५॥देवलोकं गते शक्रे स्वं लोकं हरिशंकरौप्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च ॥८६॥ततस्तु देवराजेन पालितं भुवनत्रयम्एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात् ॥८७॥पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनीश्रिया सह समुत्पन्ना भृगुणा च महर्षिणा ॥८८॥स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटेनर्मदायां महाराज ब्रह्मणा चानुमोदिता ॥८९॥लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य चआगता देवलोकं साऽयाचतागत्य वै पुनः ॥९०॥लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनःभृगोः सकाशान्नावाप तदा चैवाह केशवम् ॥९१॥परिभूता तु पित्राहं गृहीतं नगरं ममतस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम् ॥९२॥तं गत्वा पुंडरीकाक्षो देवश्चक्रगदाधरःभृगुं सानुनयं प्राह कन्यायै पुरमर्पय ॥९३॥कुञ्चिकातालिके चोभे दीयेतां च प्रसादतःभृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम् ॥९४॥न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव ॥९५॥तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पयसर्वथा तु त्वया त्याज्यं वचनान्मे महामुने ॥९६॥ततः कोपसमाविष्टो भृगुरप्याह केशवम्पक्षपातेन मां साधो भार्याया बाधसेधुना ॥९७॥नृलोके दशजन्मानि लप्स्यसे मधुसूदनभार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि ॥९८॥एवं शापं ददौ तस्मै भृगुः परमकोपनःविष्णुना च पुनस्तस्य दत्तः शापो महात्मना ॥९९॥न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुंगवशापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगाम ह ॥१००॥पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवःभगवंस्तव पुत्रोसौ भृगुः परमकोपनः ॥१०१॥निष्कारणं च तेनाहं शप्तो जन्मानि मानुषेलप्स्यसे दशधा त्वं हि ततो दुःखान्यनेकशः ॥१०२॥भार्यावियोगजा पीडा बलपौरुषनाशिनीत्यत्क्वा चाहमिमं लोकं शयिष्ये च महोदधौ ॥१०३देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाःतथा ब्रुवंतं तं देवं ब्रह्मा लोकगुरुस्तदा ॥१०४॥प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार हत्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम्तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव ॥१०५॥त्वं त्राता सर्वलोकानां स्रष्टा त्वं जगतः प्रभोत्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम ॥१०६॥दशजन्ममनुष्येषु लोकानां हितकाम्ययास्वयं कर्त्ता न ते शक्तः शापदानाय कोपि वा ॥१०७॥कोयं भृगुः कथं तेन शक्यं शप्तुं जनार्दनमानयस्व सदा विप्रान्ब्राह्मणास्ते तनुस्स्वयम् ॥१०८॥योगनिद्रामुपास्व त्वं क्षीराब्धौ स्वपि हीश्वरकार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव ॥१०९॥भगवन्नेष तावत्तु त्वच्छक्त्या चोपबृंहितःसर्वकार्यकरः शक्रस्तवैवांशेन शत्रुहा ॥११०॥त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यतिएवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान् ॥१११॥सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभोअदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान् ॥११२॥गते देवे तदा विष्णौ ब्रह्मा लोकपितामहःभूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः ॥११३॥तं दृष्ट्वा नारदः प्राह वाक्यं वाक्यविदां वरःसहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्सर्वव्यापी भुवः स्पर्शादध्यतिष्ठद्दशांगुलम् ॥११४॥यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यतःततो विश्वमिदं तात त्वत्तो भूतं भविष्यति ॥११५॥त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधाऋचस्त्वत्तोथ सामानि त्वत्त एवाभिजज्ञिरे ॥११६॥त्वत्तो यज्ञास्त्वजायंत त्वत्तो श्वाश्चैव दंतिनःगावस्त्वत्तः समुद्भूताः त्वत्तो जातावयोमृगाः ॥११७॥त्वन्मुखाद्ब्राह्मणा जातास्त्वत्तः क्षत्रमजायतवैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः ॥११८॥अक्ष्णोः सूर्योनिलः श्रोत्राच्चंद्रमा मनसस्तवप्राणोंतः सुषिराज्जातो मुखादग्निरजायत ॥११९॥नाभितो गगनं द्यौश्च शिरसः समवर्त्ततदिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम् ॥१२०॥न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितःससर्ज्ज विश्वमखिलं बीजभूते तथा त्वयि ॥१२१॥बीजांकुरसमुद्भूतो न्यग्रोधः समुपस्थितःविस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥१२२॥यथा हि कदली नान्या त्वक्पत्रेभ्योऽभिदृश्यतेएवं विश्वमिदं नान्यत्त्वत्स्थमीश्वर दृश्यते ॥१२३॥ह्लादिनी त्वयि शक्तिस्सा त्वय्येका सहभाविनीह्लादतापकरीमिश्रा त्वयि नो गुणवर्जिते ॥१२४॥पृथग्भूतैकभूताय सर्वभूताय ते नमःव्यक्तं प्रधानं पुरुषो विराट्सम्राट्तथा भवान् ॥१२५॥सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक्सर्वं त्वत्तः समुद्भूतं नमः सर्वात्मने ततः ॥१२६॥सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतःकथयामि ततः किं ते सर्वं वेत्सि हृदिस्थितं ॥१२७॥यो मे मनोरथो देव सफलः स त्वया कृतःतप्तं सुतप्तं सफलं यद्दृष्टोसि जगत्पते ॥१२८॥ब्रह्मोवाचतपसस्तत्फलं पुत्र यद्दृष्टोहं त्वयाधुनामद्दर्शनं हि विफलं नारदेह न जायते ॥१२९॥वरं वरय तस्मात्त्वं यथाभिमतमात्मनःसर्वं संपद्यते तात मयि दृष्टिपथं गते ॥१३०॥नारद उवाचभगवन्सर्वभूतेश सर्वस्यास्ते भवान्हृदिकिमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम् ॥१३१॥कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभोतेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान् ॥१३२॥पुलस्त्य उवाचनारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिःनारदाय वरं प्रादादृषीणामुत्तमो भवान् ॥१३३॥भविता मत्प्रसादेन कलिकेलिकथाप्रियःगतिश्च तेऽप्रतिहता दिवि भूमौ रसातले ॥१३४॥यज्ञोपवीतसूत्रेण योगपट्टावलंबिकाछत्रिका च तथा वीणा अलंकाराय तेनघ ॥१३५॥विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारदद्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे ॥१३६॥वर्णानां तु भवान्शास्तावरोदत्तोमयातवतिष्ठ पुत्र यथाकामं सेव्यमानः सुरैर्द्दिवि ॥१३७॥इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे लक्ष्म्युत्पत्तिर्नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : October 24, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP