संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः १४ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः १४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १४ Translation - भाषांतर भीष्म उवाचकथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहाकथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते ॥१॥वरं तयोः कथं भूतं निसर्गादेव तद्वदबृहत्कौतूहलं मह्यं तद्भवान्वक्तुमर्हति ॥२॥पुलस्त्य उवाचछिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महता वृतःललाटे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि ॥३॥स्वेदतः कुंडली जज्ञे सधनुष्को महेषुधिःसहस्रकवची वीरः किंकरोमीत्युवाच ह ॥४तमुवाच विरिंचस्तु दर्शयन्रुद्रमोजसाहन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः ॥५॥ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतःसंप्रतस्थे महेशस्य बाणहस्तोतिरौद्रदृक् ॥६॥दृष्ट्वा पुरुषमत्युग्रं भीतस्तस्य त्रिलोचनःअपक्रांतस्ततो वेगाद्विष्णोराश्रममभ्यगात् ॥७॥त्राहित्राहीति मां विष्णो नरादस्माच्च शत्रुहन्ब्रह्मणा निर्मितः पापो म्लेच्छरूपो भयंकरः ॥८॥यथा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पतेहुंकारध्वनिना विष्णुर्मोहयित्वा तु तं नरम् ॥९॥अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुःतत्र प्राप्तं विरूपाक्षं सांत्वयामास केशवः ॥१०॥ततस्स प्रणतो भूमौ दृष्टो देवेन विष्णुनाविष्णुरुवाचपौत्रो हि मे भवान्रुद्र कं ते कामं करोम्यहम् ॥११॥दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच हकपालं दर्शयित्वाग्रे प्रज्वलंस्तेजसोत्कटम् ॥१२॥कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिन्तयत्कोन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम् ॥१३॥योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत्तद्बिभेदातितीक्ष्णेन शूलेन शशिशेखरः ॥१४॥प्रावर्तत ततो धारा शोणितस्य विभोर्भुजात्जांबूनदरसाकारा वह्निज्वालेव निर्मिता ॥१५॥निपपात कपालांतश्शम्भुना सा प्रभिक्षिताऋज्वी वेगवती तीव्रा स्पृशंती त्वांबरं जवात् ॥१६॥पंचाशद्योजना दैर्घ्याद्विस्ताराद्दशयोजनादिव्यवर्षसहस्रं सा समुवाह हरेर्भुजात् ॥१७॥इयंतं कालमीशोसौ भिक्षां जग्राह भिक्षुकःदत्ता नारायणेनाथ कापाले पात्र उत्तमे ॥१८॥ततो नारायणः प्राह शंभुं परमिदं वचःसंपूर्णं वा न वा पात्रं ततो वै परमीश्वरः ॥१९॥सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरःशशिसूर्याग्निनयनः शशिशेखरशोभितः ॥२०॥कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम्अंगुल्या घटयन्प्राह कपालं परिपूरितम् ॥२१॥श्रुत्वा शिवस्य तां वाणीं विष्णुर्धारां समाहरत्पश्तोऽथ हरेरीशः स्वांगुल्या रुधिरं तदा ॥२२॥दिव्यवर्षसहस्रं च दृष्टिपातैर्ममंथ सःमथ्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमात् ॥२३॥बभूव च ततः पश्चात्किरीटी सशरासनःबद्धतूणीरयुगलो वृषस्कंधोङ्गुलित्रवान् ॥२४॥पुरुषो वह्निसंकाशः कपाले संप्रदृश्यतेतं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः ॥२५॥कपाले भव को वाऽयं प्रादुर्भूतोऽभवन्नरःवचः श्रुत्वा हरेरीशस्तमुवाच विभो शृणु ॥२६॥नरो नामैष पुरुषः परमास्त्रविदां वरःभवतोक्तो नर इति नरस्तस्माद्भविष्यति ॥२७॥नरनारायणौ चोभौ युगे ख्यातौ भविष्यतःसंग्रामे देवकार्येषु लोकानां परिपालने ॥२८॥एष नारायणसखो नरस्तस्माद्भविष्यतिअथासुरवधे साह्यं तव कर्ता महाद्युतिः ॥२९॥मुनिर्ज्ञानपरीक्षायां जेता लोके भविष्यतितेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः ॥३०॥तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात्मम दृष्टि निपाताच्च त्रीणि तेजांसि यानि तु ॥३१॥तत्संयोगसमुत्पन्नः शत्रुं युद्धे विजेष्यतिअवध्या ये भविष्यंति दुर्जया अपि चापरे ॥३२॥शक्रस्य चामराणां च तेषामेष भयंकरःएवमुक्त्वा स्थितः शंभुर्विस्मितश्च हरिस्तदा ॥३३॥कपालस्थः स तत्रैव तुष्टाव हरकेशवौशिरस्यंजलिमाधाय तदा वीर उदारधीः ॥३४॥किंकरोमीति तौ प्राह इत्युक्त्वा प्रणतः स्थितःतमुवाच हरः श्रीमान्ब्रह्मणा स्वेन तेजसा ॥३५॥सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदयइत्थमुक्त्वांजलिधरं स्तुवंतं शंकरो नरम् ॥३६॥तथैवांजलिसंबद्धं गृहीत्वा च करद्वयम्उद्धृत्याथ कपालात्तं पुनर्वचनमब्रवीत् ॥३७॥स एष पुरुषो रौद्रो यो मया वेदितस्तवविष्णुहुंकाररचितमोहनिद्रां प्रवेशितः ॥३८॥विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरःनारायणस्य प्रत्यक्षं नरेणानेन वै तदा ॥३९॥वामपादहतः सोपि समुत्तस्थौ महाबलःततो युद्धं समभवत्स्वेदरक्तजयोर्महत् ॥४०॥विस्फारितधनुः शब्दं नादिताशेषभूतलम्कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम् ॥४१॥एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोःयुध्यतोः समतीतं च स्वेदरक्तजयोर्नृप ॥४२॥रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव संगतौविचिन्त्य वासुदेवोगाद्ब्रह्मणः सदनं परम् ॥४३॥ससंभ्रममुवाचेदं ब्रह्माणं मधुसूदनःरक्तजेनाद्य भो ब्रह्मन्स्वेदजोयं निपातितः ॥४४॥श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनम्हरे द्यजन्मनि नरो मदीयो जीवतादयम् ॥४५॥तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यतिगत्वा तयो रणमपि निवार्याऽऽह च तावुभौ ॥४६॥अन्यजन्मनि भविता कलिद्वापरयोर्मिथःसंधौ महारणे जाते तत्राहं योजयामि वां ॥४७॥विष्णुना तु समाहूय ग्रहेश्वरसुरेश्वरौउक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया ॥४८॥सहस्रांशो स्वेदजोयं स्वकीयोंऽशो धरातलेद्वापरांतेवतार्योयं देवानां कार्यसिद्धये ॥४९॥यदूनां तु कुले भावी शूरोनाम महाबलःतस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि ॥५०॥उत्पत्स्यति महाभागा देवानां कार्यसिद्धयेदुर्वासास्तु वरं तस्यै मंत्रग्रामं प्रदास्यति ॥५१॥मंत्रेणानेन यं देवं भक्त्या आवाहयिष्यतिदेवि तस्य प्रसादात्तु तव पुत्रो भविष्यति ॥५२॥सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वलाचिंताभिपन्ना तिष्ठंती भजितव्या विभावसो ॥५३तस्या गर्भे त्वयं भावी कानीनः कुंतिनंदनःभविष्यति सुतो देवदेवकार्यार्थसिद्धये ॥५४॥तथेति चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरःपुत्रमुत्पादयिष्यामि कानीनं बलगर्वितम् ॥५५॥यस्य कर्णेति वै नाम लोकः सर्वो वदिष्यतिमत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः ॥५६॥अदेयं नास्ति वै लोके वस्तु किंचिच्च केशवएवं प्रभावं चैवैनं जनये वचनात्तव ॥५७॥एवमुक्त्वा सहस्रांशुर्देवं दानवघातिनम्नारायणं महात्मानं तत्रैवांतर्दधे रविः ॥५८॥अदर्शनं गते देवे भास्करे वारितस्करेवृद्धश्रवसमप्येवमुवाच प्रीतमानसः ॥५९॥सहस्रनेत्ररक्तोत्थो नरोऽयं मदनुग्रहात्स्वांशभूतो द्वापरांते योक्तव्यो भूतले त्वया ॥६०॥यदा पांडुर्महाभागः पृथां भार्यामवाप्स्यतिमाद्रीं चापि महाभाग तदारण्यं गमिष्यति ॥६१तस्याप्यरण्यसंस्थस्य मृगः शापं प्रदास्यतितेन चोत्पन्नवैराग्यः शतशृगं गमिष्यति ॥६२॥पुत्रानभीप्सन्क्षेत्रोत्थान्भार्यां स प्रवदिष्यतिअनीप्संती तदा कुंती भर्त्तारं सा वदिष्यति ॥६३॥नाहं मर्त्यस्य वै राजन्पुत्रानिच्छे कथंचनदैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप ॥६४॥प्रार्थयंत्यै त्वया शक्र कुंत्यै देयो नरस्ततःवचसा च मदीयेन एवं कुरु शचीपते ॥६५॥अथाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचःअस्मिन्मन्वंतरेऽतीते चतुर्विंशतिके युगे ॥६६॥अवतीर्य रघुकुले गृहे दशरथस्य चरावणस्य वधार्थाय शांत्यर्थं च दिवौकसाम् ॥६७॥रामरूपेण भवता सीतार्थमटता वनेमत्पुत्रो हिंसितो देव सूर्यपुत्रहितार्थिना ॥६८॥वालिनाम प्लवंगेंद्रः सुग्रीवार्थे त्वया यतःदुःखेनानेन तप्तोहं गृह्णामि न सुतं नरम् ॥६९॥अगृह्णमानं देवेंद्रं कारणांतरवादिनम्हरिः प्रोचे शुनासीरं भुवो भारावतारणे ॥७०॥अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभोसूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते ॥७१॥सारथ्यं च करिष्यामि नाशं कुरुकुलस्य चततो हृष्टोभवच्छक्रो विष्णुवाक्येन तेन ह ॥७२॥प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तवएवमुक्त्वा वरं देवः प्रेषयित्वाऽच्युतः स्वयम् ॥७३॥गत्वा तु पुंडरीकाक्षो ब्रह्माणं प्राह वै पुनःत्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ॥७४॥आवां कार्यस्य करणे सहायौ च तव प्रभोस्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे ॥७५॥कृतं जुगुप्सितं कर्म शंभुमेतं जिघांसतात्वया च देवदेवस्य सृष्टः कोपेन वै पुमान् ॥७६॥शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरुगृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर ॥७७॥पुण्यतीर्थे तथा देशे वने वापि पितामहस्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात् ॥७८॥सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पतेआदेशं ते करिष्यंति यतोस्माकं भवान्प्रभुः ॥७९॥एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकःआहवनीयस्तृतीयस्तु त्रिकुंडेषु प्रकल्पय ॥८०॥वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौचतुःकोणे हरं देवं ऋग्यजुःसामनामभिः ॥८१॥अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य चदिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि ॥८२॥अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यतेसुकृतेनाग्निहोत्रेण प्रशुद्ध्यंति भुवि द्विजाः ॥८३॥पंथानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमीएकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना ॥८४॥विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यतेभीष्म उवाचयोऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः ॥८५॥किमेष माधवाज्जात उताहो स्वेन कर्मणाउत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम् ॥८६॥ब्रह्मन्हिरण्यगर्भोऽयमंडजातश्चतुर्मुखःअद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम् ॥८७॥सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित्सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात् ॥८८॥मूढात्मना नरो येन हंतुं हि प्रहितो हरंपुलस्त्य उवाचमहेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ ॥८९॥तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोःब्रह्मणः पंचमं वक्त्रमूर्द्ध्वमासीन्महात्मनः ॥९०॥ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितःततोऽयं तेजसा सृष्टिममन्यत मया कृता ॥९१॥मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तितासह देवाः सगंधर्वाः पशुपक्षिमृगाकुलाः ॥९२॥एवं मूढः स पंचास्यो विरिंचिरभवत्पुनःप्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम् ॥९३॥द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकम्तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकम् ॥९४॥सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान्वेदानधीते वक्त्रेण पंचमेनोर्द्ध्वचक्षुषा ॥९५॥तस्याऽसुरसुराः सर्वे वक्त्रस्याद्भुतवर्चसःतेजसा न प्रकाशंते दीपाः सूर्योदये यथा ॥९६॥स्वपुरेष्वपि सोद्वेगा ह्यवर्तंत विचेतसःन कंचिद्गणयेच्चान्यं तेजसा क्षिपते परान् ॥९७॥नाभिगंतु न च द्रष्टुं पुरस्तान्नोपसर्पितुम्शेकुस्त्रस्ताः सुरास्सर्वे पद्मयोनिं महाप्रभुम् ॥९८॥अभिभूतमिवात्मानं मन्यमाना हतत्विषःसर्वे ते मंत्रयामासुर्दैवता हितमात्मनः ॥९९॥गच्छामः शरणं शंभुं निस्तेजसोऽस्य तेजसादेवा ऊचुःनमस्तेसर्वसत्वेश महेश्वर नमोनमः ॥१००॥जगद्योने परंब्रह्म भूतानां त्वं सनातनःप्रतिष्ठा सर्वजगतां त्वं हेतुर्विष्णुना सह ॥१०१॥एवं संस्तूयमानोसौ देवर्षिपितृदानवैःअंतर्हित उवाचेदं देवाः प्रार्थयतेप्सितम् ॥१०२॥देवा ऊचुःप्रत्यक्षदर्शनं दत्वा देहि देव यथेप्सितम्कृत्वा कारुण्यमस्माकं वरश्चापि प्रदीयताम् ॥१०३॥यदस्माकं महद्वीर्यं तेज ओजः पराक्रमःतत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा ॥१०४॥विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभोजायते तु यथापूर्वं तथा कुरु महेश्वर ॥१०५॥ततः प्रसन्नवदनो देवैश्चापि नमस्कृतःजगाम यत्र ब्रह्माऽसौ रजोहंकारमूढधीः ॥१०६॥स्तुवंतो देवदेवेशं परिवार्य समाविशन्ब्रह्मा तमागतं रुद्रं न जज्ञे रजसावृतः ॥१०७॥सूर्यकोटिसहस्राणां तेजसा रंजयन्जगत्तदादृश्यत विश्वात्मा विश्वसृग्विश्वभावनः ॥१०८॥सपितामहमासीनं सकलं देवमंडलम्अभिगम्य ततो रुद्रो ब्रह्माणं परमेष्ठिनम् ॥१०९॥अहोतितेजसा वक्त्रमधिकं देव राजतेएवमुक्त्वाट्टहासं तु मुमोच शशिशेखरः ॥११०॥वामांगुष्ठनखाग्रेण ब्रह्मणः पंचमं शिरःचकर्त कदलीगर्भं नरः कररुहैरिव ॥१११॥विच्छिन्नं तु शिरः पश्चाद्भवहस्ते स्थितं तदाग्रहमंडलमध्यस्थो द्वितीय इव चंद्रमाः ॥११२॥करोत्क्षिप्तकपालेन ननर्त च महेश्वरःशिखरस्थेन सूर्येण कैलास इव पर्वतः ॥११३॥छिन्ने वक्त्रे ततो देवा हृष्टास्तं वृषभध्वजम्तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनम् ॥११४॥देवा ऊचुःनमः कपालिने नित्यं महाकालस्य कालिनेऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने ॥११५॥नमो हर्षविलासाय सर्वदेवमयाय चकलौ संहारकर्ता त्वं महाकालः स्मृतो ह्यसि ॥११६॥भक्तानामार्तिनाशस्त्वं दुःखांतस्तेन चोच्यसेशंकरोष्याशुभक्तानां तेन त्वं शंकरः स्मृतः ॥११७॥छिन्नं ब्रह्मशिरो यस्मात्त्वं कपालं बिभर्षि चतेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीद नः ॥११८॥एवं स्तुतः प्रसन्नात्मा देवान्प्रस्थाप्य शंकरःस्वानि धिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः ॥११९॥विज्ञाय ब्रह्मणो भावं ततो वीरस्य जन्म चशिरो नीरस्य वाक्यात्तु लोकानां कोपशांतये ॥१२०॥शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम्तेजोनिधि परं ब्रह्म ज्ञातुमित्थं प्रजापतिम् ॥१२१॥निरुक्तसूक्तरहस्यैर्ऋग्यजुः सामभाषितैःरुद्र उवाचअप्रमेय नमस्तेस्तु परमस्य परात्मने ॥१२२॥अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयःविजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते ॥१२३॥ऊर्द्ध्ववक्त्र नमस्तेस्तु सत्वात्मकधरात्मकजलशायिन्जलोत्पन्न जलालय नमोस्तु ते ॥१२४॥जलजोत्फुल्लपत्राक्ष जय देव पितामहत्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर ॥१२५॥यज्ञाहुतिसदाहार यज्ञांगेश नमोऽस्तु तेस्वर्णगर्भ पद्मगर्भ देवगर्भ प्रजापते ॥१२६॥त्वं यज्ञस्त्वं वषट्कारः स्वधा त्वं पद्मसंभववचनेन तु देवानां शिरश्छिन्नं मया प्रभो ॥१२७॥ब्रह्महत्याभिभूतोस्मि मां त्वं पाहि जगत्पतेइत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत् ॥१२८॥ब्रह्मोवाचसखा नाराणो देवः स त्वां पूतं करिष्यतिकीर्तनीयस्त्वया धन्यः स मे पूज्यः स्वयं विभुः ॥१२९॥अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुनायेन ते भक्तिरुत्पन्ना स्तोतुं मां मतिरुत्थिता ॥१३०॥शिरश्छेदात्कपाली त्वं सोमसिद्धांतकारकःकोटीः शतं च विप्राणामुद्धर्तासि महाद्युते ॥१३१॥ब्रह्महत्याव्रतं कुर्या नान्यत्किंचन विद्यतेअभाष्याः पापिनः क्रूरा ब्रह्मघ्नाः पापकारिणः ॥१३२॥वैतानिका विकर्मस्था न ते भाष्याः कथंचनतैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम् ॥१३३॥अंगस्पर्शे कृते रुद्र सचैलो जलमाविशेत्एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः ॥१३४॥स भवान्ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचरचीर्णे व्रते पुनर्भूयः प्राप्स्यसि त्वं वरान्बहून् ॥१३५॥एवमुक्त्वा गतो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान्अचिंतयत्तदाविष्णुं ध्यानगत्या ततः स्वयं ॥१३६॥लक्ष्मीसहायं वरदं देवदेवं सनातनम्अष्टांगप्रणिपातेन देवदेवस्त्रिलोचनः ॥१३७॥तुष्टाव प्रणतो भूत्वा शंखचक्रगदाधरम्रुद्र उवाचपरं पराणाममृतं पुराणं परात्परं विष्णुमनंतवीर्यं ॥१३८॥स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणम्परात्परं पूर्वजमुग्रवेगं गंभीरगंभीरधियां प्रधानम् ॥१३९॥नतोस्मि देवं हरिमीशितारं परात्परं धामपरं च धामपरापरं तत्परमं च धाम परापरेशं पुरुषं विशालम् ॥१४०॥नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्जसदास्थितत्वात्पुरुषप्रधानं शांतं प्रधानं शरणं ममास्तु ॥१४१॥नारायणं वीतमलं पुराणं परात्परं विष्णुमपारपारम्पुरातनं नीतिमतां प्रधानं धृतिक्षमाशांतिपरं क्षितीशम् ॥१४२॥शुभं सदा स्तौमि महानुभावं सहस्रमूर्द्धानमनेकपादम्अनंतबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम् ॥१४३॥नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशैरगम्यम्त्रिसर्गसंस्थं त्रिहुताशनेत्रं त्रितत्वलक्ष्यं त्रिलयं त्रिनेत्रम् ॥१४४नमामि नारायणमप्रमेयं कृते सितं द्वापरतश्च रक्तम्कलौ च कृष्णं तमथो नमामि ससर्ज यो वक्त्रत एव विप्रान् ॥१४५॥भुजांतरात्क्षत्रमथोरुयुग्माद्विशः पदाग्राच्च तथैव शूद्रान्नमामि तं विश्वतनुं पुराणं परात्परं पारगमप्रमेयम् ॥१४६॥सूक्ष्ममूर्त्तिं महामूर्त्तिं विद्यामूर्त्तिममूर्तिकम्कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥१४७॥सहस्रशीर्षं देवेशं सहस्राक्षं महाभुजम्जगत्संव्याप्य तिष्ठंतं नमस्ये परमेश्वरम् ॥१४८॥शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम्नीलमेघप्रतीकाशं नमस्ये शार्ङ्गपाणिनम् ॥१४९॥शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम्भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥१५०॥न चात्र किंचित्पश्यामि व्यतिरिक्तं तवाच्युतत्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥१५१॥एवं तु वदतस्तस्य रुद्रस्य परमेष्ठिनःइतीरितेस्तेन सनातन स्वयं परात्परस्तस्य बभूव दर्शने ॥१५२॥रथांगपाणिर्गरुडासनो गिरिं विदीपयन्भास्करवत्समुत्थितःवरं वृणीष्वेति सनातनोब्रवीद्वरस्तवाहं वरदः समागतः ॥१५३॥इतीरिते रुद्रवरो जगाद ममातिशुद्धिर्भविता सुरेशन चास्य पापस्य हरं हि चान्यत्संदृश्यतेग्र्यं च ऋते भवं तम् ॥१५४॥ब्रह्महत्याभिभूतस्य तनुर्मे कृष्णतां गताशवगंधश्च मे गात्रे लोहस्याभरणानि मे ॥१५५॥कथं मे न भवेदेवमेतद्रूपं जनार्दनम्किं करोमि महादेव येन मे पूर्विका तनूः ॥१५६॥त्वत्प्रसादेन भविता तन्मे कथय चाच्युतविष्णुरुवाचब्रह्मवध्या परा चोग्रा सर्वकष्टप्रदा परा ॥१५७॥मनसापि न कुर्वीत पापस्यास्य तु भावनाम्भवता देववाक्येन निष्ठा चैषा निबोधिता ॥१५८॥इदानीं त्वं महाबाहो ब्रह्मणोक्तं समाचरभस्मसर्वाणि गात्राणि त्रिकालं घर्षयेस्तनौ ॥१५९॥शिखायां कर्णयोश्चैव करे चास्थीनि धारयएवं च कुर्वतो रुद्र कष्टं नैव भविष्यति ॥१६०॥संदिश्यैवं स भगवांस्ततोंऽतर्द्धानमीश्वरःलक्ष्मीसहायो गतवान्रुद्रस्तं नाभिजज्ञिवान् ॥१६१॥कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम्हिमवंतं समैनाकं मेरुणा च सहैव तु ॥१६२॥कैलासं सकलं विंध्यं नीलं चैव महागिरिम्कांचीं काशीं ताम्रलिप्तां मगधामाविलां तथा ॥१६३॥वत्सगुल्मं च गोकर्णं तथा चैवोत्तरान्कुरून्भद्राश्वं केतुमालं च वर्षं हैरण्यकं तथा ॥१६४॥कामरूपं प्रभासं च महेंद्रं चैव पर्वतम्ब्रह्महत्याभिभूतोसौ भ्रमंस्त्राणं न विंदति ॥१६५॥त्रपान्वितः कपालं तु पश्यन्हस्तगतं सदाकरौ विधुन्वन्बहुशो विक्षिप्तश्च मुहुर्मुहुः ॥१६६॥यदास्य धुन्वतो हस्तौ कपालं पतते न तुतदास्य बुद्धिरुत्पन्ना व्रतं चैतत्करोम्यहम् ॥१६७॥मदीयेनैव मार्गेण द्विजा यास्यंति सर्वतःध्यात्वैवं सुचिरं देवो वसुधां विचचार ह ॥१६८॥पुष्करं तु समासाद्य प्रविष्टोऽरण्यमुत्तमम्नानाद्रुमलताकीर्णं नानामृगरवाकुलम् ॥१६९॥द्रुमपुष्पभरामोद वासितं यत्सुवायुनाबुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम् ॥१७०॥नानागधंरसैरन्यैः पक्वापक्वैः फलैस्तथाविवेश तरुवृंदेन पुष्पामोदाभिनंदितः ॥१७१॥अत्राराधयतो भक्त्या ब्रह्मा दास्यति मे वरम्ब्रह्मप्रसादात्संप्राप्तं पौष्करं ज्ञानमीप्सितम् ॥१७२॥पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्एवं वै ध्यायतस्तस्य रुद्रस्यामिततेजसः ॥१७३॥आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कंजजःउवाच प्रणतं रुद्रमुत्थाप्य च पुनर्गुरुः ॥१७४॥दिव्यव्रतोपचारेण सोहमाराधितस्त्वयाभवता श्रद्धयात्यर्थं ममदर्शनकांक्षया ॥१७५॥व्रतस्था मां हि पश्यंति मनुष्या देवतास्तथातदिच्छया प्रयच्छामि वरं यत्प्रवरं वरम् ॥१७६॥सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितम्मनोवाक्कायभावैश्च संतुष्टेनांतरात्मना ॥१७७॥कं ददामि च वै कामं वद भोस्ते यथेप्सितम्रुद्र उवाचएष एवाद्य भगवन्सुपर्याप्तो महा वरः ॥१७८॥यद्दृष्टोसि जगद्वंद्य जगत्कर्तर्नमोस्तुतेमहता यज्ञसाध्येन बहुकालार्जितेन च ॥१७९॥प्राणव्ययकरेण त्वं तपसा देव दृश्यतेइदं कपालं देवेश न करात्पतितं विभो ॥१८०॥त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभोत्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत् ॥१८१॥सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यताम्पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे ॥१८२॥पूतो भवामि येनाहं मुनीनां भावितात्मनाम्ब्रह्मोवाचअविमुक्तं भगवतः स्थानमस्ति पुरातनम् ॥१८३॥कपालमोचनं तीर्थं तव तत्र भविष्यतिअहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति ॥१८४॥दर्शने भवतस्तत्र महापातकिनोपि येतेपि भोगान्समश्नंति विशुद्धा भवने मम ॥१८५॥वरणापि असीचापि द्वे नद्यौ सुरवल्लभेअंतराले तयोः क्षेत्रे वध्या न विशति क्वचित् ॥१८६॥तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तवआदेहपतनाद्ये तु क्षेत्रं सेवंति मानवाः ॥१८७॥ते मृता हंसयानेन दिवं यांत्यकुतोभयाःपंचक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव ॥१८८॥क्षेत्रमध्याद्यदा गंगा गमिष्यति सरित्पतिम्तदा सा महती पुण्या पुरी रुद्र भविष्यति ॥१८९॥पुण्या चोदङ्मुखी गंगा प्राची चापि सरस्वतीउदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी ॥१९०॥तत्र वै विबुधाः सर्वे मया सह सवासवाःआगता वासमेष्यंति कपालं तत्र मोचय ॥१९१॥तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन्श्राद्धैस्तु प्रीणयिष्यंति तेषां लोकोऽक्षयो दिवि ॥१९२॥वाराणस्यां महातीर्थे नरः स्नातो विमुच्यतेसप्तजन्मकृतात्पापाद्गमनादेव मुच्यते ॥१९३॥तत्तीर्थं सर्वतीर्थानामुत्तमं परिकीर्तितम्त्यजंति तत्र ये प्राणान्प्राणिनः प्रणतास्तव ॥१९४॥रुद्रत्वं ते समासाद्य मोदंते भवता सहतत्रापि हि तु यद्दत्तं दानं रुद्र यतात्मना ॥१९५॥स्यान्महच्च फलं तस्य भविता भावितात्मनःस्वांगस्फुटित संस्कारं तत्र कुर्वंति ये नराः ॥१९६॥ते रुद्रलोकमासाद्य मोदंते सुखिनः सदातत्र पूजा जपो होमः कृतो भवति देहिनां ॥१९७॥अनंतफलदः स्वर्गो रुद्रभक्तियुतात्मनःतत्र दीपप्रदाने तु ज्ञानचक्षुर्भवेन्नरः ॥१९८॥अव्यंगं तरुणं सौम्यं रूपवंतं तु गोसुतम्योङ्कयित्वा मोचयति स याति परमं पदम् ॥१९९॥पितृभिः सहितो मोक्षं गच्छते नात्र संशयःअथ किं बहुनोक्तेन यत्तत्र क्रियते नरैः ॥२००॥कर्मधर्मं समुद्दिश्य तदनंतफलं भवेत्स्वर्गापवर्गयोर्हेतुस्तद्धि तीर्थम्मतं भुवि ॥२०१॥स्नानाज्जपात्तथा होमादनंतफलसाधनम्गत्वा वाराणसीतीर्थं भक्त्या रुद्रपरायणाः ॥२०२॥ये तत्र पंचतां प्राप्ता भक्तास्ते नात्र संशयःवसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः ॥२०३॥प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिःत्रिविधः पिंडदानाय विधिरुक्तो मयानघ ॥२०४॥मानुषैः पिंडादानं तु कार्यमत्रागतैस्सदापिंडदानं च तत्रैव स्वपुत्रैः कार्यमादरात् ॥२०५॥सुपुत्रास्ते पितॄणां तु भवंति सुखदायकाःप्रोक्तं तीर्थं मया तुभ्यं दर्शनादपि मुक्तिदम् ॥२०६॥स्नात्वा तु सलिले तत्र मुच्यते जन्मबंधनात्विमुक्तो ब्रह्महत्यायास्तत्र रुद्र यथासुखम् ॥२०७॥अविमुक्ते मया दत्ते तिष्ठ त्वं भार्यया सहरुद्र उवाचपृथिव्यां यानि तीर्थानि तेष्वहं विष्णुना सह ॥२०८॥तिष्ठामि भवतोक्तेन वर एष वृतो मयाअहं देवो महादेव आराध्यो भवता सदा ॥२०९॥वरं दास्यामि ते चाहं संतुष्टेनांतरात्मनाविष्णोश्चाहं प्रदास्यामि वरांश्च मनसीप्सितान् ॥२१०॥सुराणां चैव सर्वेषां मुनीनां भवितात्मनाम्अहं दाता अहं याच्यो नान्यो भाव्यः कथंचन ॥२११॥ब्रह्मोवाचएवं करिष्येहं रुद्र यत्वयोक्तं वचः शुभम्नारायणश्च ते वाक्यं कर्ता सर्वं न संशयः ॥२१२॥विसृज्यैवं तदा रुद्रं ब्रह्मा चांतरधीयतवाराणस्यां महादेवो गत्वा तीर्थं न्यवेशयत् ॥२१३इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे रुद्रस्य ब्रह्मवध्यानाशश्चतुर्दशोऽध्यायः ॥१४ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP