संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ३३ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ३३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३३ Translation - भाषांतर भीष्म उवाचमार्कंडेयेन वै रामः कथमत्र प्रबोधितःकथं समागमो भूतः कस्मिन्काले कदा मुने ॥१॥मार्कंडेयः कस्य सुतः कथं जातो महातपाःनाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने ॥२॥पुलस्त्य उवाचअथ ते संप्रवक्ष्यामि मार्कंडेयोद्भवं पुनःपुराकल्पे मुनिः पूर्वं मृकंडुर्नाम विश्रुतः ॥३॥भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपःतस्य पुत्रस्तदा जातो वसतस्तु वनांतरे ॥४॥सपंचवार्षिको भूतो बाल एव गुणाधिकःज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदांगणे ॥५॥स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यततस्य पित्रा स वै पृष्टः कियदायुः सुतस्य मे ॥६॥संख्यायाचक्ष्व वर्षाणि तस्याल्पान्यधिकानि वामृकंडुनैवमुक्तस्तु स ज्ञानी वाक्यमब्रवीत् ॥७॥षण्मासमायुः पुत्रस्य धात्रा सृष्टं मुनीश्वरनैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम् ॥८॥स तच्छ्रुत्वा वचो भीष्म ज्ञानिना यदुदाहृतम्अथोपनयनं चक्रे बालकस्य पिता तदा ॥९॥आह चैनं पितापुत्रमृषींस्त्वमभिवादयएवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने ॥१०॥न वर्णा वर्णतां वेत्ति सर्ववर्णाभिवादनःपंचमासास्त्वतिक्रांता दिवसाः पंचविंशतिः ॥११॥मार्गेणाथ समायाता ऋषयस्तत्र सप्त वैबालेन तेन ते दृष्टाः सर्वे चाप्यभिवादिताः ॥१२॥आयुष्मान्भव तैरुक्तः स बालो दंडमेखलीउक्त्वैवं ते पुनर्बालमपश्यन्क्षीणजीवितम् ॥१३॥दिनानि पंच तस्यायुर्ज्ञात्वा भीताश्च ते नृपतं गृहीत्वा बालकं च गतास्ते ब्रह्मणोंतिकम् ॥१४॥प्रतिमुच्य च तं राजन्प्रणिपेतुः पितामहम्अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः ॥१५॥चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात् ॥१६॥पितामह ऋषीन्दृष्ट्वा प्रोवाच विस्मयान्वितःकार्येण येन चायातः कोयं बालो निवेद्यताम् ॥१७॥ततस्त ऋषयो राजन्सर्वं तस्मै न्यवेदयन्पुत्रो मृकंडोः क्षीणायुः सायुषं कुरु बालकम् ॥१८॥अल्पायुषस्त्वस्य मुनिर्बध्वेमां चापि मेखलाम्यज्ञोपवीतं दंडं च दत्वा चैनमबोधयत् ॥१९॥यं कंचित्पश्यसे बाल भ्रमंतं भूतले जनम्तस्याभिवादः कर्तव्य एवमाह पिता वचः ॥२०॥अभिवादनशीलोयं क्षितौ दृष्टः परिभ्रमन्तीर्थयात्राप्रसंगेन दैवयोगात्पितामह ॥२१॥चिरायुर्भव पुत्रेति प्रोक्तोसौ तत्र बालकःकथं वचो भवेत्सत्यमस्माकं भवता सह ॥२२॥एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहःऋतवाक्यादियं भूमिः संस्थिता सर्वतोभया ॥२३॥ब्रह्मोवाचमत्समश्चायुषा बालो मार्कंडेयो भविष्यतिकल्पस्यादौ तथाचांते मतो मे मुनिसत्तमः ॥२४॥एवं ते मुनयो बालं ब्रह्मलोके पितामहात्संसाध्य प्रेषयामासुर्भूयोप्येनं धरातलम् ॥२५॥तीर्थयात्रां गता विप्रा मार्कंडेयो निजं गृहम्जगाम तेषु यातेषु पितरं स्वमथाब्रवीत् ॥२६॥ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिःदीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः ॥२७॥एतदन्यच्च मे दत्तं गतं चिंताकरं तवकल्पस्यादौ तथा चांते भविष्ये समनंतरे ॥२८॥लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितःपुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः ॥२९॥तत्राहं देवदेवेशमुपासिष्ये पितामहम्सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम् ॥३०॥सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम्ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम् ॥३१॥मार्कंडेयवचः श्रुत्वा मृकंडुर्मुनिसत्तमःजगाम परमं हर्षं क्षणमेकं समुच्छ्वसन् ॥३२॥धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत्अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥३३॥सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहःत्वया दायादवानस्मि पुत्रेण वंशधारिणा ॥३४॥त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम्दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च ॥३५॥नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम्त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च ॥३६॥पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम्कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम् ॥३७॥शृंगशब्दाभिधानानि शुभप्रस्रवणानि चब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः ॥३८॥पुष्करेषु महाराजा नातः पुण्यतमं भुविविरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम् ॥३९॥ब्रह्मलोकस्य पन्थानं धन्याः पश्यंति पुष्करंयस्तु वर्षशतं साग्रमग्निहोत्रमुपासते ॥४०॥कार्तिकीं वा वसेदेकां पुष्करे सममेव चकर्तुम्मया न शकितं कर्मणा नैव साधितम् ॥४१॥तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितःतत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः ॥४२॥नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतलेअहं वै तोषितो येन पञ्चवार्षिकजन्मना ॥४३॥वरेण त्वं मदीयेन उपमां चिरजीविनाम्गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम ॥४४॥एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान्एवं लब्धप्रसादेन मृकण्डुतनयेन च ॥४५॥आश्रमःस्थापितस्तेन मार्कण्डाश्रम इत्युततत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेत् ॥४६॥सर्वपापविशुद्धात्मा चिरायुर्जायते नरःपुलस्त्य उवाचतथान्यं ते प्रवक्ष्यामि इतिहासं पुरातनम् ॥४७॥यथा रामेण वै तीर्थं पुष्करं तु विनिर्मितम्चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च ॥४८॥अत्रेराश्रममासाद्य पप्रच्छ मुनिसत्तमम्राम उवाचकानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने ॥४९॥यत्र गत्वा नरो योगिन्वियोगं सह बंधुभिःनैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत1.33. ॥५०॥अनेन वनवासेन राज्ञस्तु मरणेन चभरतस्य वियोगेन परितप्ये ह्यहं त्रिभिः ॥५१॥तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदाध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत् ॥५२॥अत्रिरुवाचसाधु पृष्टं त्वया वीर रघूणां वंशवर्धनमम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतम् ॥५३॥पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौकुंडत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम् ॥५४॥तेषु गत्वा दशरथं पिंडदानेन तर्पयतीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम् ॥५५अवियोगा च सुरसा वापी रघुकुलोद्वहतथा सौभाग्यकूपोन्यः सुजलो रघुनंदन ॥५६॥तेषु पिंडप्रदानेन पितरो मोक्षमाप्नुयुःआभूतसंप्लवं कालमेतदाह पितामहः ॥५७॥तत्र राघव गच्छस्व भूयोप्यागमनं क्रियाःतथेति चोक्त्वा रामोपि गमनाय मनो दधे ॥५८॥ऋक्षवंतमभिक्रम्य नगरं वैदिशं तथाचर्मण्वतीं समुत्तीर्य प्राप्तोसौ यज्ञपर्वतम् ॥५९॥तमतिक्रम्य वेगेन मध्यमे पुष्करे स्थितःपितॄन्संतर्पयामास अद्भिर्देवांश्च सर्वशः ॥६०॥स्नानावसाने रामेण मार्कंडो मुनिपुंगवःआगच्छन्शिष्यसंयुक्तो दृष्टस्तत्रैव धीमता ॥६१॥गत्वा वै संमुखं तस्य प्रणिपत्य च सादरम्पृष्टोऽवियोगदः कूपः कतमस्यां दिशि प्रभो ॥६२॥सुतो दशरथस्याहं रामो नाम जनैः स्मृतःसौभाग्यवापीं तां द्रष्टुमहं प्राप्तोत्रिशासनात् ॥६३॥तत्स्थानं तौ च वै कूपौ भगवान्प्रब्रवीतु मेएवमुक्तश्च रामेण मार्कंडः प्रत्युवाच ह ॥६४॥मार्कंडेय उवाचसाधु राघव भद्रं ते सुकृतं भवता कृतम्तीर्थयात्राप्रसंगेन यत्प्राप्तोसीह सांप्रतम् ॥६५॥एह्यागच्छस्व पश्य स्ववापीं तामवियोगदाम्अवियोगश्च सर्वैश्च कूप एवात्र जायते ॥६६॥आमुष्मिके चैहिके च जीवतोपि मृतस्य वाएतद्वाक्यं मुनींद्रस्य श्रुत्वा लक्ष्मणपूर्वजः ॥६७॥सस्मार रामो राजानं तदा दशरथं नृपभरतं सह शत्रुघ्न्रंभातॄनन्यांश्चनागरान् ॥६८॥एवंचिंतयतस्तस्य संध्याकालो व्यजायतउपास्य पश्चिमां संध्यां मुनिभिःसह राघवः ॥६९॥सुष्वाप तां निशां तत्र भ्रातृभार्यासमन्वितःविभावर्यवसाने तु स्वप्नांते रघुनंदनः ॥७०॥पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किलविवाहमंगले वृत्ते बहुभिर्बांधवैः सह ॥७१॥समासीनः सभार्योऽसावृषिभिः परिवारितःलक्ष्मणेनाप्येवमेव दृष्टोऽसौ सीतया तथा ॥७२॥प्रभाते तु मुनीनां तत्सर्वमेव प्रकीर्तितम्ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रघूत्तम ॥७३॥मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतम्वृद्धिकामास्तु पितरस्तथा चैवान्नकांक्षिणः ॥७४॥ददंति दर्शनं स्वप्ने भक्तियुक्तस्य राघवअवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च ॥७५॥चतुर्दशानां वर्षाणां भविता राघव ध्रुवम्कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च ॥७६॥अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाःअहं च जमदग्निश्च भारद्वाजश्च लोमशः ॥७७॥देवरातः शमीकश्च षडेते वै द्विजोत्तमाःश्राद्धे च ते महाबाहो संभारांस्त्वमुपाहर ॥७८॥मुख्यं चेंगुदिपिण्याकं बदरामलकैः सहश्रीफलानि च पक्वानि मूलं चोच्चावचं बहु ॥७९॥मार्गेण चाथ मांसेन धान्येन विविधेन चतृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत ॥८०॥पुष्करारण्यमासाद्य नियतो नियताशनःपितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात् ॥८१॥स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम्इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप ॥८२॥लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम्शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु ॥८३॥जंबीराणि च मुख्यानि मूलानि विविधानि चपक्वानि च कपित्थानि फलान्यन्यानि यानि च ॥८४॥तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मणतथा तत्कृतवान्सर्वं रामादेशाच्च राघवः ॥८५॥बदरेङ्गुदिशाकानि मूलानि विविधानि चतत्राहृत्य च रामेण कूटाकारः कृतो महान् ॥८६॥परिपक्वं च जानक्या सिद्धं रामे निवेदितम्स्नात्वा रामो योगवाप्यां मुनींस्ताननुपालयन् ॥८७॥मध्याह्नाच्चलिते सूर्ये काले कुतपके तथाआयाता ऋषयः सर्वे ये रामेणानुमंत्रिताः ॥८८॥तानागतान्मुनीन्दृष्ट्वा वैदेही जनकात्मजारामांतिकं परित्यज्य व्रीडिताऽन्यत्र संस्थिता ॥८९॥विस्मयोत्फुल्लनयना चिंतयाना च वेपतीब्राह्मणा नेह जानंति श्राद्धकाले ह्युपस्थिताः ॥९०॥रामेण भोजिता विप्राः स्मृत्युक्तेन यथाविधिवैदिक्यश्च कृतास्सर्वाः सत्क्रिया यास्समीरिताः ॥९१॥पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकःभुक्तवत्सु च विप्रेषु दत्वा पिंडान्यथाक्रमम् ॥९२॥प्रेषितेषु यथाशक्ति दत्वा तेषु च दक्षिणाम्गतेषु विप्रमुख्येषु प्रियां रामोऽब्रवीदिदम् ॥९३॥किमर्थं सुभ्रु नष्टासि मुनीन्दृष्ट्वा त्विहागतान्तत्सर्वं त्वमिदं तत्वं कारणं वद माचिरम् ॥९४॥भवितव्यं कारणेन तच्च गोप्यं न मे कुरुशापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते ॥९५॥एवमुक्ता तदा भर्त्रा त्रपयाऽवाङ्मुखी स्थिताविमुंचंती साऽश्रुपातं राघवं वाक्यमब्रवीत् ॥९६॥शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम्राम त्वयाऽचिंत्यमानो राजेंद्रस्त्विह चागतः ॥९७॥सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौद्विजानां देहसंयुक्तास्त्रयस्ते रघुनंदन ॥९८॥पितरस्तु मया दृष्टा ब्राह्मणांगेषु राघवदृष्ट्वा त्रपान्विता चाहमपक्रांता तवांतिकात् ॥९९॥त्वया वै भोजिता विप्राः कृतं श्राद्धं यथाविधिवल्कलाजिनसंवीता कथं राज्ञः पुरःसरा1.33. ॥१००॥भवामि रिपुवीरघ्न सत्यमेतदुदाहृतम्कौशेयानि च वस्त्राणि कैकेय्यापहृतानि च ॥१०१॥ततः प्रभृति चैवाहं चीरिणी तु वनाश्रयम्ज्ञात्वाहं न वदे किंचिन्मा ते दुःखं भवत्विति ॥१०२॥नाहं स्मरामि वै मातुर्न पितुश्च परंतपकदा भविष्यतीहांतो वनवासस्य राघव ॥१०३॥एतदेवानिशं राम चिंतयंत्याः पुनः पुनःव्रजंति दिवसा नाथ तव पद्भ्यां शपाम्यहम् ॥१०४॥स्वहस्तेन कथं राज्ञो दास्ये वै भोजनं त्विदम्दासानामपि यो दासो नोपभुंजीतयत्क्वचित् ॥१०५॥एतादृशी कथं त्वस्मै संप्रदातुं समुत्सहेयाहं राज्ञा पुरा दृष्टा सर्वालङ्कारभूषिता ॥१०६॥बालव्यजनहस्ता च वीजयंती नराधिपम्सा स्वेदमलदिग्धांगी कथं पश्यामि भूमिपम् ॥१०७॥व्यक्तं त्रिविष्टपं प्राप्तस्त्वया पुत्रेण तारितःदृष्ट्वा मां दुःखितां बालां वने क्लिष्टामनागसम् ॥१०८॥शोकः स्यात्पार्थिवस्यास्य तेन नष्टास्मि राघवभवान्प्राणसमो राम न ते गोप्यं ममत्विह ॥१०९॥सत्येन तेन चैवाथ स्पृशामि चरणौ तवतच्छ्रुत्वा राघवः प्रीतः प्रियां तां प्रियवादिनीम् ॥११०॥अंकमानीय सुदृढं परिष्वज्य च सादरम्भुक्तौ भोज्यं तदा वीरौ पश्चाद्भुक्ता च जानकी ॥१११॥एवं स्थितौ तदा सा च तां रात्रिं तत्र राघवौउदिते च सहस्रांशौ गमनाय मनो दधुः ॥११२॥प्रत्यङ्मुखं गतः क्रोशं ज्येष्ठं यावच्च पुष्करम्पूर्वभागे पुष्करस्य यावत्तिष्ठति राघवः ॥११३॥शुश्राव च ततो वाचं देवदूतेन भाषितम्भो भो राघव भद्रं ते तीर्थमेतत्सुदुर्लभम् ॥११४॥अस्मिन्स्थाने स्थितो वीर आत्मनः पुण्यतां कुरुदेवकार्यं त्वया कार्यं हंतव्या देवशत्रवः ॥११५॥ततो हृष्टमना वीरो ह्यब्रवील्लक्ष्मणं वचःसौमित्रेऽनुगृहीतोहं देवदेवेन ब्रह्मणा ॥११६॥अत्राश्रमपदं कृत्वा मासमेकं च लक्ष्मणव्रतं चरितुमिच्छामि कायशोधनमुत्तमम् ॥११७॥तथेति लक्ष्मणेनोक्ते व्रतं परिसमाप्यतुपिंडदानादिभिर्दानैः श्राद्धैश्चैव पितामहान् ॥११८॥पुष्करे तु तदा रामोऽतर्पयद्विधिवत्तदाकनका सुप्रभा चैव नंदा प्राची सरस्वती ॥११९॥पंचस्रोताः पुष्करेषु पितॄणां तुष्टिदायिनीदैनंदिनीं पितॄणां तु पूजां तां पितृपूर्विकाम् ॥१२०॥रचयित्वा तदा रामो लक्ष्मणं वाक्यमब्रवीत्एहि लक्ष्मण शीघ्रं त्वं पुष्कराज्जलमानय ॥१२१॥पादप्रक्षालनं कृत्वा शयनं कुरु संस्तरेविभावर्यां निवृत्तायां यास्यामो दक्षिणां दिशम् ॥१२२॥लक्ष्मणस्त्वब्रवीद्वाक्यं सीतयानीय तां पयःनाहं राम सर्वकाले दासभावं करोमि ते ॥१२३॥इयंपुष्टाचसुभृशंपीवरीचममाप्युतकिं त्वं करिष्यस्यनया भार्यया वद सांप्रतम् ॥१२४॥किं वा मृतस्य वै पृष्ठ इयं यास्यति ते प्रियारक्षसे त्वं सदा कालं सुपुष्टां चैव सर्वदा ॥१२५॥हृष्टा चैषा क्लेशयति सततं मां रघूत्तमत्वं च क्लेशयसे राम परत्र जायते क्षतिः ॥१२६॥त्वत्कृते च सदा चाहं पिपासां क्षुधया सहसंसहामि न संदेहः परत्र च निशामय ॥१२७॥मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यतेभार्य्या पुत्रो धनं चापि एवमाहुर्मनीषिणः ॥१२८॥मृतश्च ते पिता राम त्यक्त्वा राज्यमकंटकम्विनिक्षिप्य वने त्वां च कैकेय्याः प्रियकाम्यया ॥१२९॥इहस्थिता सा कैकेयी धनं सर्वे च बांधवाःमहाराजो दशरथ एक एव गतो गतिम् ॥१३०॥मन्येहं न त्वया सार्धं सीता यास्यति वै ध्रुवम्करिष्यसे किमनया वद राघव सांप्रतम् ॥१३१॥श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितम्विमना राघवस्तस्थौ सीता चापि वरानना ॥१३२॥यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार हस्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करेक्षणौ ॥१३३॥नीत्वा विभावरीं तत्र गमनाय मनो दधुःएह्युत्तिष्ठ च सौमित्रे व्रजामो दक्षिणां दिशम् ॥१३४॥सौमित्रिरब्रवीद्राम नाहं यास्ये कथंचनव्रज त्वमनया सार्धं भार्यया कमलेक्षण ॥१३५॥नान्यद्वनं गमिष्यामि नैवायोध्यां च राघवअस्मिन्वने वसिष्यामि वर्षाणीह चतुर्दश ॥१३६॥मया विना त्वयोध्यायां यदि त्वं न गमिष्यसिअनेन वर्त्मना भूप आगंतव्यं त्वया विभो ॥१३७॥यदि जीवामि तत्कालं पुनर्यास्ये पितुः पुरम्तपस्संभावयिष्यामि मया त्वं किं करिष्यसि ॥१३८॥व्रज सौम्य शिवः पंथामा च ते परिपंथिनःपश्यामि त्वां पुनः प्राप्तं सभार्यं कमलेक्षणम् ॥१३९॥पितृपैतामहं राज्यमयोध्यायां नराधिपशत्रुघ्नभरतौ चोभौ त्वदाज्ञाकरणे स्थितौ ॥१४०॥अहं ते प्रतिकूलस्तु वनवासे विशेषतःअनारतं दिवा चाहं रात्रौ चैव परंतप ॥१४१॥कर्मकर्तुं न शक्रोमि व्रज सौम्य यथासुखम्एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः ॥१४२॥कथं पूर्वमयोध्याया निर्गतोसि मया सहवने वत्स्याम्यहं राम नववर्षाणि पंच च ॥१४३॥न तु त्वया विरहितः स्वर्गेपि निवसे क्वचित्या गतिस्ते नरव्याघ्र मम सापि भविष्यति ॥१४४॥प्रसादः क्रियतां मह्यं नय मामपि राघवइदानीमर्धमार्गे त्वं कथं स्थास्यसि शत्रुहन् ॥१४५॥लक्ष्मणस्त्वब्रवीद्रामं नाहं गंता वने पुनःलक्ष्मणं संस्थितं ज्ञात्वा रामो वचनमब्रवीत् ॥१४६॥मामनुव्रज सौमित्र एको यास्यामि काननम्द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः ॥१४७॥गृहीत्वाऽथ समुत्तस्थौ रामवाक्यं स लक्ष्मणःमर्यादापर्वतं प्राप्तौ क्षेत्रसीमां परंतपौ ॥१४८॥अजगंधं च देवेशं देवदेवं पिनाकिनम्अष्टांगप्रणिपातेन नत्वा रामस्त्रिलोचनम् ॥१४९॥तुष्टाव प्रयतः स्थित्वा शंकरं पार्वतीप्रियम्कृतांजलिपुटो भूत्वा रोमांचितशरीरकः1.33. ॥१५०॥सात्विकं भावमापन्नो विनिर्धूतरजस्तमाःलोकानां कारणं देवं बुबुधे विबुधाधिपम् ॥१५१॥राम उवाचकृत्स्नस्य योऽस्य जगतः स चराचरस्य कर्ता कृतस्य च पुनः सुखदुःखदश्चसंहारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि ॥१५२॥योऽयं सकृद्विमलचारुविलोलतोयां गंगां महोर्मिविषमां गगनात्पतंतीम्मूर्ध्ना दधेऽस्रजमिव प्रविलोलपुष्पां तं शंकरं शरणदं शरणं व्रजामि ॥१५३॥कैलासशैलशिखरं परिकम्प्यमानं कैलासशृंगसदृशेन दशाननेनयत्पादपद्मविधृतं स्थिरतां दधार तं शंकरं शरणदं शरणं व्रजामि ॥१५४॥येनासकृद्दनुसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समग्रैःसंयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि ॥१५५॥दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमपातयच्चतस्तंभयः कुलिशयुक्तमथेंद्रहस्तं तं शंकरं शरणदं शरणं व्रजामि ॥१५६॥एनःकृतोपिविषयेष्वपिसक्तचित्ताज्ञानान्वयश्रुतगुणैरपिनैवयुक्ताःयं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजामि ॥१५७॥अत्रिप्रसूतिरविकोटिसमानतेजाः संत्रासनं विबुधदानवसत्तमानाम्यः कालकूटमपिबत्प्रसभं सुदीप्तं तं शंकरं शरणदं शरणं व्रजामि ॥१५८॥ब्रह्मेंद्ररुद्रमरुतां च सषण्मुखानां दद्याद्वरं सुबहुशो भगवान्महेशःनन्दिं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि ॥१५९॥आराधितः सुतपसा हिमवन्निकुंजे धूमव्रतेन मनसापि परैरगम्येसंजीवनीमकथयद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि ॥१६०॥नानाविधैर्गजबिडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्बलिभिर्गणैंद्रैःयोभ्यर्चितोमरगणैश्च सलोकपालैस्तं शंकरं शरणदं शरणं व्रजामि ॥१६१॥शंखेंदुकुंदधवलं वृषभं प्रवीरमारुह्य यः क्षितिधरेंद्रसुतानुयातःयात्यंबरं प्रलयमेघविभूषितं च तं शंकरं शरणदं शरणं व्रजामि ॥१६२॥शांतं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम्भक्त्यानतं स्तुतिपरं प्रसभं ररक्ष तं शंकरं शरणदं शरणं व्रजामि ॥१६३॥यः सव्यपाणि कमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव पुरस्सुराणाम्ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त्त तं शंकरं शरणदं शरणं व्रजामि ॥१६४॥यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतंद्रितात्मादीप्तस्तमांसि नुदते स्वकरैर्विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि ॥१६५॥ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्यऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनामनुभवंत्यविशुद्धचित्ताः ॥१६६॥तस्यैवं स्तुवतोऽवोचच्छूलपाणिर्वृषध्वजःउवाच वचनं हृष्टो राघवं तुष्टमानसः ॥१६७॥रुद्र उवाचराम हृष्टोस्मि भद्रं ते जातस्त्वं निर्मले कुलेत्वं चापि जगतां वंद्यो देवो मानुषरूपधृत् ॥१६८॥त्वया नाथेन वै देवाः सुखिनः शाश्वतीः समासेविष्यंते चिरं कालं गते वर्षे चतुर्दशे ॥१६९॥अयोध्यामागतं त्वां ये द्रक्ष्यंति भुवि मानवाःसुखं तेऽत्र भजिष्यंति स्वर्गे वासन्तथाक्षयम् ॥१७०॥देवकार्यं महत्कृत्वा आगच्छेथाः पुनः पुरीम्राघवस्तु तथा देवं नत्वा शीघ्रं विनिर्गतः ॥१७१॥इंद्रमार्गां नदीं प्राप्य जटाजूटं नियम्य चअब्रवील्लक्ष्मणं राम इदमर्पय मे धनुः ॥१७२॥रामवाक्यं तु तच्छ्रुत्वा सीतां वै लक्ष्मणोऽब्रवीत्किमर्थं देवि रामेण त्यक्तोहं कारणं विना ॥१७३॥अपराधं न जानामि कुपितो यन्महाभुजःरामेणाहं परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम् ॥१७४॥नैव मे जीवितेनार्थो धिग्धिङ्मां कुलपांसनम्आर्यस्य येन वै मन्युर्जनितः पापकारिणा ॥१७५॥कांस्तु लोकान्गमिष्यामि अपध्यातो महात्मनाउभौ हस्तौ मुखे कृत्वा साश्रुकंठोऽब्रवीदिदम् ॥१७६॥नापराध्यामि रामस्य कर्मणा मनसा गिरास्पृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेत् ॥१७७॥ततः सीताऽब्रवीद्रामं त्यक्तः किमनुजस्त्वयावैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने ॥१७८॥राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम्न कदाचिदपि स्वप्ने लक्ष्मणस्य मतं प्रिये ॥१७९॥श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम्अत्र क्षेत्रे जनास्सत्यं सर्वे हि स्वार्थतत्पराः ॥१८०॥परस्परं न पश्यंति स्वात्मनश्च हितं वचःन शृण्वंति पितुः पुत्राः पुत्राणां पितरस्तथा ॥१८१॥न शिष्या हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुःअर्थानुबंधिनीप्रीतिर्न कश्चित्कस्यचित्प्रियः ॥१८२॥इत्येवं कथयन्नेव प्राप्तो रेवां महानदीम्चक्रेभिषेकं काकुत्स्थः सानुजः सह सीतया ॥१८३॥तर्पयित्वा च सलिलैः स्वान्पितॄन्दैवतान्यपिउदीक्ष्य च मुहुः सूर्यं देवताश्च समाहितः ॥१८४॥कृताभिषेकस्तु रराज रामः सीता द्वितीयः सह लक्ष्मणेनकृताभिषेकः सह शैलपुत्र्या गुहेन सार्धं भगवानिवेशः ॥१८५॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे मार्कंडेयाश्रमदर्शनं नाम त्र्यस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP