संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ३९ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ३९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३९ Translation - भाषांतर भीष्म उवाचकथितं वामनस्यैव माहात्म्यं विस्तरेण वैपुनस्तस्यैव माहात्म्यमन्यद्विष्णोरतो वद ॥१॥पद्मं कथमभूद्देव नाभौ येनाभवज्जगत्कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा ॥२॥कथं पद्मे महाकल्पेऽभवत्पद्ममयं जगत्जलार्णवगतस्येह नाभौ जातं जलानुगं ॥३॥प्रभावं पद्मनाभस्य स्वपतः सागरांभसिपुष्करे तु कथं जाता देवा ॠषिगणाः पुरा ॥४॥एतदाख्याहि निखिलं योगं योगविदां पतेकथं निर्मितवांस्तत्र चैतं लोकं सनातनम् ॥५॥कथमेकार्णवे शून्ये नष्टे स्थावरजंगमेभूगोलके प्रदग्धे तु प्रणष्टोरगराक्षसे ॥६॥नष्टानलानिलाकाशे नष्टधर्मे महीतलेकेवले गह्वरीभूते महाभूतविपर्यये ॥७॥किं नु विश्वपतिः साक्षान्महातेजा महाद्युतिःआस्ते यथाध्याननिष्ठो विधिमास्थाय योगवित् ॥८॥शृण्वतः परया भक्त्या ब्रह्मन्नेतदशेषतःवक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम् ॥९॥श्रद्धिनः सूपविष्टस्य भगवन्वक्तुमर्हसिपुलस्त्य उवाचनारायणस्य यशसः श्रवणे या तव स्पृहा ॥१०॥सद्वंशान्वयपूतस्य न्याय्यं कुरुकुलोद्वहशृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति ॥११॥ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः ॥१२॥पराशरसुतः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्तत्तेऽहं कथयिष्यामि यथाभक्ति यथाश्रुति ॥१३॥यद्विज्ञातं मया सम्यगृषिमार्गेण सत्तमकः समुत्सहते ज्ञातुं परं नारायणात्मकम् ॥१४॥विश्वावितारं ब्रह्मायं न वेदयति तत्वतःतत्कर्मविश्वदेवा न तद्रहस्यं महर्षिषु ॥१५॥स इज्यस्सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम्अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम् ॥१६॥अधिदैवं च तद्दैवमधिदैवतसंज्ञितम्अधिभूतं च तद्भूतं परं च परमार्थिनाम् ॥१७॥स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुःयः कर्त्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च ॥१८॥प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यतेप्राणः पंचविधश्चैव ध्रुवमक्षरमेव च ॥१९॥कालः पाकश्च यज्ञश्च यष्टा चाधीतमेव चउच्यते विविधैर्भावैः स एवायं तु तत्परम् ॥२०॥स एव भगवान्सर्वं करोति न करोति चसोस्मिन्कारयते सर्वं स्थानिनां च कृतिः कृता ॥२१॥यजामहे तमेवाद्यं स एवोत्थाननिर्वृतःयो वक्ता यच्च वक्तव्यं यश्चाहं तद्ब्रवीमि ते ॥२२॥श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्पितम्या कथायाश्च श्रुतयो यो धर्मी धर्मतत्परः ॥२३॥विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतःयत्सत्यं यदनृतमादिमध्यभूतं यच्चांत्यं निरवधिकं च यद्भविष्यम् ॥२४॥यत्किंचिच्चरमचरं यदस्ति चान्यत्सर्वं तत्पुरुषवरः प्रधानभूतःचत्वार्य्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ॥२५॥तस्य तावच्छती संध्या द्विगुणा कुरुनंदनयत्र धर्मश्चतुष्पादस्त्वधर्मः पादविग्रहः ॥२६॥स्वधर्मनिरताः शांता जायंते यत्र मानवाःविप्रा स्थिता धर्मपरा राजवृत्तिस्थिता नृपाः ॥२७॥कृष्यामभिरता वैश्याः शूद्रा शुःश्रूषवस्तथातदा सत्यं च सत्वं च धर्मश्चैव विवर्धते ॥२८॥सद्भिराचरितो धर्मो येन लोकः प्रवर्त्ततेएतत्कृतयुगे वृत्तं सर्वेषामेव पार्थिव ॥२९॥प्राणिनां धर्मसंज्ञानां नराणां नीचजन्मनाम्त्रीणिवर्षसहस्राणि त्रेतायुगमिहोच्यते ॥३०॥तस्य तावच्छती संध्या द्विगुणा परिकीर्तिताद्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ॥३१॥यत्र सत्यं च सत्वं च क्रिया धर्मो विधीयतेत्रेतायां विकृतिं यांति वर्णा लोभेन संयुताः ॥३२॥चातुर्वर्ण्यस्य वै कृत्यं क्षांतिर्दौर्बल्यमेव चएषा त्रेतायुगगतिर्विचित्रा देवनिर्मिता ॥३३॥द्वापरं द्विसहस्रं तु वर्षाणां कुरुनन्दनतस्य तावच्छती सन्ध्या द्विगुणं युगमुच्यते ॥३४॥तत्राप्यतीवार्थपराः प्राणिनो रजसा हताःशठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुनन्दन ॥३५॥द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितःविपर्ययशतैर्धर्मः क्षयमेति कलौ युगे ॥३६॥ब्रह्मण्यभावश्च्यवते तथास्तिक्यं विवर्ज्यतेव्रतोपवासास्त्यज्यंते कलौ वै युगपर्यये ॥३७॥तदा वर्षसहस्रं तु वर्षाणां द्वे शते तथायत्राधर्मश्चतुष्पादो धर्मः पादपरिग्रहः ॥३८॥कामिनस्तापसाः क्षुद्रा जायंते यत्र मानवाःन चावसायिकः कश्चिन्न साधुर्न च सत्यवाक् ॥३९॥नास्तिका ब्राह्मणा भक्ता ज्ञायंते तत्र मानवाःअहंकारगृहीताश्च प्रक्षीणस्नेहबंधनाः ॥४०॥विप्राः शूद्रसमाचारास्संति सर्वे कलौ युगेआश्रमाणां विपर्यासः कलौ संप्रति वर्तते ॥४१॥वर्णानां चैव संदेहो युगांते कुरुनंदनएषा द्वादशसाहस्री युगाख्या पूर्वनिर्मिता ॥४२॥सहस्रयुगपर्यंतं तदहर्ब्राह्ममुच्यतेततो ह निगते तस्मिन्सर्वेषामेव जीविनाम् ॥४३॥शरीरनिर्वृतिं दृष्ट्वा कालः संहारबुद्धिमान्देवतानां च सर्वेषां ब्राह्मणानां महीपते ॥४४॥दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्गंधर्वाणामप्सरसां भुजंगानां च पार्थिव ॥४५॥पर्वतानां नदीनां च पशूनां चैव सत्तमतिर्यग्योनिगतानां च क्रिमीणां दंशिनां तथा ॥४६॥सर्वभूतपतिः पंच भूत्वा भूतानि भूतकृत्जगत्संहरणार्थाय कुरुते वैशसं महत् ॥४७॥भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम्भूत्वा वह्निर्निर्दहन्सर्वलोकान्भूत्वा मेघो भूय उग्रोऽभ्यवर्षत् ॥४८॥भूत्वा नारायणो योगी सर्वमूर्ति विभावसुःगभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥४९॥ततः पीत्वार्णवान्सर्वान्नदीकूपांश्च सर्वतःपर्वतानां च सलिलं सर्वमादाय योगवित्1.39. ॥५०॥भूत्वा चैव स हस्तार्चिर्महीं भित्वा रसातलेरमते जलमादाय पिबन्रसमनुत्तमं ॥५१॥मूर्त्तामूर्त्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवंतत्सर्वमरविंदाक्ष आदत्ते पुरुषोत्तमः ॥५२॥वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत्प्राणापानं समासाद्य वायुना क्रमते हरिः ॥५३॥ततो देवगणानां च सर्वेषां चैव देहिनाम्पंचेंद्रियगुणास्सर्वे भूतान्येव च यानि च ॥५४॥घ्रेयं घ्राणं शरीरं च पृथिवीसंश्रिता गुणाःलोकयात्रा भगवता मुहूर्तेन विनाशिता ॥५५॥जिह्वारसश्च स्नेहश्च संश्रिताः सलिले गुणाःरूपं चक्षुर्विभागश्च नेत्र ज्योतिः श्रिता गुणाः ॥५६॥स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाःशब्दः श्रोत्रे च श्रवणं गगनं संश्रिता गुणाः ॥५७॥मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेति संश्रिताःपरेण परमेष्ठी च हृषीकेशमुपाश्रिताः ॥५८॥ततो भगवतस्तस्य रश्मिभिः परिवारिताःवायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः ॥५९॥तेषां संहरणोद्भूतः पावकः शतधा ज्वलन्प्रदहन्नखिलं विश्वं वृत्तः संवर्त्तकोऽनलः ॥६०॥सपर्वतद्रुमान्गुल्मान्लतावल्लीस्तृणानि चविमानानि च दिव्यानि पुराणि विविधानि च ॥६१॥यानि चाश्रयणीयानि सर्वाण्यप्यदहद्भृशम्भस्मीकृत्य तु तान्सर्वांल्लोकान्ल्लोकगुरोर्गुरुः ॥६२॥स भूतिं धारयामास युगांते लोकसंभवाम्सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाघनः ॥६३॥दिव्यतोयेन हविषा तर्पयामास मेदिनींततः क्षीरनिकाशेन स्वादुना परमांभसा ॥६४॥शिशिरेण च पुण्येन महीनिर्वाणमागमत्तेन तोयेन संपृक्ता पयस्साधर्म्यतो धरा ॥६५॥एकार्णावजलीभूता सर्वसत्वविवर्जितामहासत्वान्यपि विभुं प्रविष्टान्यमितौजसं ॥६६॥नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृतेसंशोषमात्मना कृत्वा समुद्राणां च देहिनः ॥६७॥दग्ध्वा संकोच्य च तथा स्वपित्येकः सनातनःपौराणं रूपमास्थाय स्वपित्यमितविक्रमः ॥६८॥एकार्णवजलेयायी योगी योगमुपासितःअनेकानि सहस्राणि युगान्येकार्णवांभसि ॥६९॥न चैव कश्चिदव्यक्तं व्यक्तो वेदितुमर्हतिकश्चैष पुरुषो नाम किं योगः कश्च योगवान् ॥७०॥न पृष्ठे नैवमभितो नैव पार्श्वे न चाग्रतःकश्चिद्विज्ञायते तस्य दृश्यते देवसत्तमः ॥७१॥नभः क्षितिं पवनमपः प्रकाशनं प्रजापतिं भुवनधरं सुरेश्वरम्पितामहं श्रुतिनिलयं मुनिं प्रभुं समापयञ्छयनमरोचयत्प्रभुः ॥७२॥एवमेकार्णवीभूते शेते लोके महाद्युतिःप्रच्छाद्य सलिलेनोर्वीं हंसो नारायणाय ते ॥७३॥महतो रजसो मध्ये महार्णवसमस्य वैवारिजाक्षो महाबाहुरक्षयं ब्रह्म यद्विदुः ॥७४॥आत्मरूपसरूपेण तमसा संवृतः प्रभुःमनः सात्विकमादाय यत्र तत्सत्वमाहितं ॥७५॥यथातथ्यं परं ज्ञानं भूताय ब्रह्मणे ततःरहस्यं च तथोद्दिष्टं यथोपनिषदां स्मृतम् ॥७६॥पुरुषो यज्ञ इत्येतत्परमं परिकीर्तितम्यश्चान्यः पुरुषाख्यः स्यात्स एव पुरुषोत्तमः ॥७७॥ये च यज्ञकरा विप्रा ये ॠत्विज इति स्मृताःअस्मादेव पुरा भूता वक्त्रेभ्यः श्रूयते तथा ॥७८॥ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगंहोतारं च तथाद्ध्वर्युं बाहुभ्यामसृजत्प्रभुः ॥७९॥ब्रह्माणं ब्राह्माणाच्छंसि स्तोतारौ चैव सर्वशःमेढ्राच्च मैत्रावरुणं प्रतिष्ठातारमेव च ॥८०॥उदरात्प्रतिहर्तारं पोतारं चैव पार्थिवपाणिभ्यामथ चाग्नीध्रमुन्नेतारं च याजुषम् ॥८१॥अच्छावाकमथोरुभ्यां सुब्रह्मण्यं च सामगम्एवमेवं स भगवान्षोडशैतान्जगत्पतिः ॥८२॥स्वयंभूः सर्वयज्ञानामृत्विजोऽसृजदुत्तमान्तदा चैष महायोगी पुरुषो यज्ञसंज्ञितः ॥८३॥वेदाश्चैव तथा सर्वे सहांगोपनिषत्क्रियाःस्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा ॥८४॥श्रूयतां तु तदा विप्रो मार्कंडेयः कुतूहलात्गीर्णो भगवता तेन कुक्षावासीन्महामुनिः ॥८५॥बहुवर्षसहस्रायुस्तस्यैव वरतेजसःअटंस्तीर्थप्रसंगेन पृथिवीतीर्थगोचरः ॥८६॥आश्रमाणि च पुण्यानि देवतायतनानि चदेशाद्राष्ट्राणि चित्राणि पुराणि विविधानि च ॥८७॥जपहोमपराः शांतास्तपोभिरमलाः स्मृताःमार्कंडेयस्ततस्तस्य शनैर्वक्त्राद्विनिर्गतः ॥८८॥निष्क्रामन्तं न चात्मानं जानीते देवमाययानिष्क्रम्य तस्य उदरादेकार्णवमथो जगत् ॥८९॥सर्वतस्तमसाछन्नं मार्कंडेयोन्ववैक्षततस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम् ॥९०॥देवदर्शनसंहृष्टो विस्मयं परमं गतःसोऽचिंतयदमोघात्मा मार्कंडेयोथ शंकितः ॥९१॥किं नु स्याच्चित्तसंमोहः किं नु स्वप्नोनुभूयतेव्यक्तमन्यतरो भाव एतयोर्भविता मम ॥९२॥न हि स्वप्नो ह्ययं सत्ययुक्तं यत्सत्यमर्हतिनष्टचंद्रार्कपवनो नष्टपर्वतभूतलः ॥९३॥कतमः स्यादयं लोक इति शोकमुपागतःददर्श चापि पुरुषं स्वपंतं पर्वतोपमम् ॥९४॥सलिलेऽधमथो मग्नं जीमूतमिव सागरेतपंतमिव तेजोभिरामुक्तशशिभास्करम् ॥९५॥गांभीर्यात्सागरमिव भासमानम्मवौजसादेवं द्रष्टुमिहायातः को भवानिति विस्मयात् ॥९६॥तथैव च मुनिः कुक्षिं पुनरेव प्रवेशितःसंप्रविष्टः पुनः कुक्षिं मार्कंडेयः सविस्मयम् ॥९७॥तथैव च पुनर्भूयो विजानन्स्वप्नदर्शनम्स तथैव यथापूर्वं पृथिवीमटते वनम् ॥९८॥पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि चक्रतुभिर्यजमानांश्च समाप्तगुरुदक्षिणैः ॥९९॥अपश्यद्देवकुक्षिस्थान्यज्ञस्थान्शतशो द्विजान्सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः1.39. ॥१००॥चत्वार आश्रमाः सम्यग्यथापूर्वं विलोकिताएवं वर्षशतं साग्रं मार्कंडेयेन धीमता ॥१०१॥चरता पृथिवी सर्वा तत्कुक्षौ हि समीक्ष्यतेततः कदाचिदथ वै पुनः कुक्षेर्विनिर्गतः ॥१०२॥सुप्तंन्यग्रोधशाखायांबालमेकंनिरीक्ष्यचतथैवैकार्णवजले नीहारेणावृतांतरे ॥१०३॥अव्यक्तक्रीडिते लोके सर्वभूतविवर्जितेस मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः ॥१०४॥बालमादित्यसंकाशं न शक्नोत्यभिवीक्षितुम्सोप्यचिंतयदेकांते स्थित्वा सलिलसन्निधौ ॥१०५॥पूर्वदृष्टमिदं मेने शंकितो देवमाययाअगाधे सलिले शेते मार्कंडेयः सविस्मयः ॥१०६॥पूर्ववत्तमथो द्रष्टुमव्रजत्त्रस्तलोचनःस तस्मै भगवानाह स्वागतो बाल भो इति ॥१०७॥बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमःमार्कंडेय न भेतव्यमागच्छस्व ममांतिकम् ॥१०८॥मार्कंडेय उवाचको नाम्ना कीर्तयति मां कुर्वन्परिभवं ममदिव्यवर्षसहस्राख्यं धर्षयंश्चैव मे वयः ॥१०९॥न ह्येष च सदाचारो देवेष्वपि ममोचितःमां ब्रह्मापि हि सस्नेहो दीर्घायुरिति भाषते ॥११०॥कस्तपोघोरमासाद्य ममाद्य त्यक्तजीवितःमार्कंडेयेति मामुक्त्वा मृत्युमीक्षितुमर्हसि ॥१११॥एवं प्रक्षुभितः क्रोधान्मार्कंडेयो महामुनिःतदैनं भगवान्भूयो बभाषे मधुसूदनः ॥११२॥श्रीभगवानुवाचअहं ते जनको वत्स हृषीकेशः पिता गुरुःआयुः प्रदाता पौराणः किं मां त्वं नोपसर्पसि ॥११३॥मां पुत्रकामः प्रथमं त्वत्पितांगिरसो मुनिःपूर्वमाराधयामास तपस्तीव्रं समाश्रितः ॥११४॥तं दृष्ट्वा घोरतपसं त्रिदशोत्तमतेजसम्दत्तवांस्त्वामहं पुत्रं महर्षिममितौजसम् ॥११५॥कस्समुत्सहते चान्यो योगिभूतात्मगात्मकम्द्रष्टुमेकार्णवगतं क्रीडंतं योगमायया ॥११६॥ततः प्रहृष्टहृदयो विस्मयोत्फुल्ललोचनःमूर्ध्नि बद्धांजलिपुटो मार्कंडेयो माहातपाः ॥११७॥नामगोत्रे तु संप्रोच्य दीर्घायुर्लोकपूजितःतस्मै भगवते भक्त्या नमस्कारमथाकरोत् ॥११८॥मार्कंडेय उवाचइच्छामि तत्त्वतो ज्ञातुमिमां मायां तवानघयदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥११९॥किं संज्ञश्चैव भगवान्लोके विज्ञायसे प्रभोतर्कयेहं महात्मानं को ह्यन्यः स्थातुमर्हसि ॥१२०॥श्रीभगवानुवाचअहं नारायणो ब्रह्मन्सर्वभूतविनाशनःअहं सहस्रशीर्षास्यः सहस्रपदसंयुतः ॥१२१॥आदित्यवर्णः पुरुषो मुखे ब्रह्ममयो ह्यहम्अहमग्निर्हव्यवहः सप्तसप्तिभिरन्वितः ॥१२२॥अहमिंद्रपदः शक्र ॠतूनां परिवत्सरःअहं योगिषु सांख्याख्यो युगांतावर्त एव च ॥१२३॥अहं सर्वाणि सत्वानि दैवतान्यखिलानि चभुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम् ॥१२४॥कृतांतः सर्वभूतानां विज्ञेयः कालसंज्ञितःअहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥१२५॥अहं दया परोधर्मः क्षीरोदोहं महार्णवःयत्सत्यं तत्परं त्वेक अहमेव प्रजापतिः ॥१२६॥अहं सांख्यमहं योगो ह्यहं तत्परमं पदम्अहमिज्या क्रिया चाहमहं विद्याधिपः स्मृतः ॥१२७॥अहं ज्योतिरहं वायुरहं भूमिरहं जलम्आकाशोहं समुद्राश्च नक्षत्राणि दिशो दश ॥१२८॥अहं वर्षमहं सोमः पर्जन्योहमहं रविःअहं पुराणं परमं तथैवाहं परायणम् ॥१२९॥भविष्ये चापि सर्वत्र भविष्यत्सर्वसंग्रहःयत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन ॥१३०॥यच्चानुभवसे लोके तत्सर्वं मामनुस्मरविश्वं सृष्टं मया पूर्वं सृजेद्यापि च पश्य माम् ॥१३१॥युगे युगे च रक्षामि मार्कंडेयाखिलं जगत्तदेतत्कथितं सर्वं मार्कंडेयावधारय ॥१३२॥शुश्रूषुरपि धर्मेषु कुक्षौ चरसुखं मममम ब्रह्मा शरीरस्थो देवाश्च ॠषिभिः सह ॥१३३॥व्यक्तमव्यक्तयोगं मामवगच्छ मुरद्विषम्अहमेकाक्षरो मंत्रस्त्र्यक्षरश्च पितामहः ॥१३४॥परस्त्रिवर्गओंकारः परमात्मप्रदर्शनःएवमादिपुराणं च वदतेमां महामते ॥१३५॥वक्त्रं यातो भगवतो मार्कंडेयो महामुनिःततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ॥१३६॥तस्यासम्मुखमेकान्ते शुश्रूषुर्हंसमव्ययम्यदक्षयं विविधमुपाश्रितं तु तन्महार्णवे व्यपगतचंद्रभास्करे ॥१३७॥शनैश्चरन्प्रभुरथ हंससंज्ञितः सृजन्जगद्विहरति कालपर्ययेअथ चैवं शुचिर्भूत्वा वरयामास वै तपः ॥१३८॥छादयित्वात्मनो देहं पयसांबुजसंभवःततो महात्मातिबलो मर्त्यलोकविसर्जने ॥१३९॥महतां चैव भूतानां विश्वो विश्वमचिंतयत्तस्य चिंतयमानस्य नियते संस्थितेर्णवे ॥१४०॥निराकाशे तोयमये सूक्ष्मे जगति संक्षयेईशः संक्षोभयामास सोर्णवं सलिलं गतः ॥१४१॥अथांतरादपां सूक्ष्ममथ च्छिद्रमभूत्पुराशब्दं प्रति ततो भूतो मारुतश्छिद्रसंभवः ॥१४२॥संलब्ध्वांतरसंक्षोभं व्यवर्धत समीरणःनभस्वता बलवता वेगाद्विक्षोभितोर्णवः ॥१४३॥तस्यार्णवस्य क्षुब्धस्य तस्मिन्नंभसि मथ्यतःकृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरो महान् ॥१४४॥ततः संशोषयामास पावकः सलिलं बहुसमस्तजलधिश्छिद्रमभवद्विसृतं नभः ॥१४५॥आत्मतेजोभवाः पुण्या आपोमृतरसोपमाःआकाशं छिद्रसंभूतं वायुराकाशसंभवः ॥१४६॥अथ संघर्षसम्भूतं पावकं चास्य संभवम्दृष्ट्वा पितामहो देवो महाभूतविभावनः ॥१४७॥दृष्ट्वा भूतानि भगवान्लोकसृष्ट्यर्थमुत्तमम्ब्रह्मणो जन्मसहितं बहुरूपो ह्यचिंतयत् ॥१४८॥चतुर्युगानां संख्यातं सहस्रं युगपर्ययेयत्पृथिव्यां द्विजेंद्राणां तपसा भावितात्मनाम् ॥१४९॥बहुजन्मविशुद्धात्मा ब्रह्मणो हरिरुच्यतेज्ञानं दृष्ट्वा तु विश्वात्मा योगिनां याति योग्यताम्1.39. ॥१५०॥तं योगवंतं विज्ञाय संपूर्णैश्वर्यमुत्तमम्पदे ब्रह्मणि विश्वस्य न्ययोजयत योगवित् ॥१५१॥ततस्तस्मिन्महातोये महेशो हरिरच्युतःजलक्रीडां च विधिवत्स चक्रे सर्वलोककृत् ॥१५२॥पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततःसहस्त्रवर्णं विरजं भास्कराभं हिरण्मयम् ॥१५३॥हुताशनज्वलितशिखोज्जवलप्रभं समुत्थितं शरदमलार्कतेजसम्विराजते कमलमुदारवर्चसं महात्मनस्तनुरुह चारुशैवलम् ॥१५४॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पद्मप्रादुर्भावोनामैकोनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP