संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः २१

सृष्टिखण्डः - अध्यायः २१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पुलस्त्य उवाच
आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः
सुहृच्छक्रस्य निहता येन दैत्यास्सहस्रशः ॥१॥
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः
भवंति शतशो येन दानवाश्च पराजिताः ॥२॥
यथेच्छरूपधारी च मानुषोप्यपराजितः
तस्य भानुमती भार्या सती त्रैलोक्यसुंदरी ॥३॥
लक्ष्मीसदृशरूपेण निर्जितामरसुंदरी
राज्ञस्तस्याग्रमहिषी प्राणेभ्योपि गरीयसी ॥४॥
दशनारीसहस्राणां मध्ये श्रीरिव राजते
नृपकोटिसहस्रेण न कदाचित्समुच्यते ॥५॥
कदाचिदास्थानगतः पप्रच्छ स्वपुरोहितम्
विस्मयेनावृतो नत्वा वसिष्ठमृषिसत्तमम् ॥६॥
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा
कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम् ॥७॥
वसिष्ठ उवाच
पुरा लीलावती नाम वेश्या शिवपरायणा
तया दत्तश्चतुर्दश्यां पुष्करे लवणाचलः ॥८॥
हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकं
शूद्रः सुवर्णकारश्च कर्मकृत्सोऽभवत्तदा ॥९॥
भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः
तरवो हेमपुष्पाश्च श्रद्धायुक्तेन पार्थिव ॥१०॥
अतिरूपेण संपन्ना घटितास्ते सुशोभनाः
धर्मकार्यमिति ज्ञात्वा न गृहीतं च वेतनम् ॥११॥
उज्ज्वालिताश्च ते पत्न्या सुवर्णमयपादपाः
लीलावतीगृहे चापि परिचर्या च पार्थिव ॥१२॥
कृता ताभ्यामशाठ्येन द्विजशुश्रूषणादिका
सा च लीलावती वेश्या कालेन महतानघ ॥१३॥
सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम्
योऽसौ सुवर्णकारश्च दरिद्रोप्यतिसत्त्ववान् ॥१४॥
न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम्
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः ॥१५॥
यया सुवर्णकारस्य तरवो हेमनिर्मिताः
सम्यगुज्ज्वलिताः पत्न्या सेयं भानुमती तव ॥१६॥
तस्मान्नृलोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः
तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्नृपते कुरुष्व ॥१७॥
पुलस्त्य उवाच
तथेति संपूज्य सुधर्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान्
धान्याचलादीन्विधिनास्मरारेर्लोकं गतोसौ सुरपूज्यमानः ॥१८
पश्येद्यदीमानुपनीयमानान्स्पृशेन्मनुष्यैरिह दीयमानान्
शृणोति भक्त्याथ मतिं ददाति विकल्मषः सोपि दिवं प्रयाति ॥१९॥
दुःस्वप्नप्रशममुपैति पठ्यमानैः शैलेंद्रैर्भवभयभेदनैर्मनुष्यः
यः कुर्यात्किमु नृपपुंगवेह सम्यक्शांतात्मा सकलगिरींद्रसंप्रदानम् ॥२०॥
भीष्म उवाच
किमभीष्टवियोगशोकसंधानलमुद्धर्तुमुपोषणं व्रतं वा
विभवध्रुवकारिभूतलेस्मिन्भवभीतेरपि सूदनं च पुंसः ॥२१॥
पुलस्त्य उवाच
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात्
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिंद्रासुरमानवेषु गुह्यम् ॥२२॥
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्
दशम्यां लघुभुग्विद्वान्प्रारभेत यमेन तु ॥२३॥
उदङ्मुखः प्राङ्मुखो वा दंतधावनपूर्वकम्
एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम् ॥२४॥
श्रियं चाभ्यर्च्य विधिवद्भोक्ष्येऽहं चापरेहनि
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः ॥२५॥
स्नानं सर्वौषधैः कुर्यात्पंचगव्यजलेन तु
शुभ्रमाल्यांबरधरःपूजयेच्छ्रीशमुत्पलैः ॥२६॥
विशोकाय नमः पादौ जंघे च वरदाय वै
श्रीशाय जानुनी तद्वदूरू च जलशायिने ॥२७॥
कंदर्पाय नमो गुह्यं माधवाय नमः कटिं
दामोदरायेत्युदरं पार्श्वे च विपुलायवै ॥२८॥
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै
श्रीधराय विभोर्वक्षः करौ मधुभिदे नमः ॥२९॥
वैकुण्ठाय नमः कंठमास्यं पद्ममुखायवै
नासामशोकनिधये वासुदेवाय चाक्षिणी ॥३०॥
ललाटं वामनायेति हरये च पुनर्भ्रुवौ
अलकं माधवायेति किरीटं विश्वरूपिणे ॥३१॥
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्
एवं संपूज्य गोविंदं धूपमाल्यानुलेपनैः ॥३२॥
ततस्तु मंडलं कृत्वा स्थंडिलं कारयेन्मृदा
चतुरश्रं समंताच्च रत्निमात्रमुदक्प्लवम् ॥३३॥
श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम्
त्रिरंगुलोच्छ्रितावप्रास्तद्विस्तारो द्विरंगुलः ॥३४॥
स्थंडिलस्योपरिष्टात्तु भित्तिरष्टांगुला भवेत्
नदी वालुकया सूर्ये लक्ष्म्याः प्रतिकृतिं न्यसेत् ॥३५॥
स्थंडिले सूर्यमध्यस्थ लक्ष्मीमभ्यर्चयेद्बुधः
नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रिये ॥३६॥
नमस्तुष्ट्यै नमः पुष्ट्यै सृष्ट्यै दृष्ट्यै नमो नमः
विशोका दुःखनाशा यविशोका वरदास्तु ते ॥३७॥
विशोका मेस्तु संपत्त्यै विशोका सर्वसिद्धये
ततः शुभ्रांबरैः सूर्यं वेष्ट्य संपूजयेत्फलैः ॥३८॥
भक्ष्यैर्नानाविधैस्तद्वत्सुवर्णकमलेन च
राजतीषु च पात्रीषु न्यसेद्दर्भोदकं बुधः ॥३९॥
ततस्तु नृत्यगीतानि कारयेत्सकलां निशाम्
यामत्रये व्यतीते तु तत उत्थाय मानवः ॥४०॥
अभिगम्य च विप्राणां मिथुनानि च पूजयेत्
शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः ॥४१॥
शयनस्थानि पूज्यानि नमोस्तु जलशायिने
ततस्तु गीतवाद्येन रात्र्यां जागरणे कृते ॥४२॥
प्रभाते च ततः स्नानं कृत्वा दांपत्यमर्चयेत्
भोजयेच्च यथाशक्ति वित्तशाठ्येन वर्जितः ॥४३॥
भक्त्याश्रुत्वापुराणानितद्दिनंचातिवाहयेत्
अनेन विधिना सर्वं मासिमासि समाचरेत् ॥४४॥
व्रतांते शयनं दद्याद्गुडधेनुसमन्वितं
सोपधानं सविश्रामं स्वास्तरावरणं शुभं ॥४५॥
यथालक्ष्मीर्नरेश त्वां न परित्यज्य गच्छति
तथा सुरूपतारोग्यमशोकं चास्तु मे सदा ॥४६॥
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्
तथा विशोकता मेऽस्तु भक्तिरग्य्रा च केशवे ॥४७॥
मंत्रेणानेन शयनं गुडधेनुसमन्वितं
सूर्यश्च लक्ष्म्या सहितो दातव्यो भूतिमिच्छता ॥४८॥
उत्पलं करवीरं वाप्यम्लानं चैव कुंकुमं
केतकं सिंधुवारं च मल्लिकागंधपाटला ॥४९॥
कदंबं कुब्जकं जाती शस्तान्येतानि सर्वदा
भीष्म उवाच
गुडधेनुविधानं च समाचक्ष्व मुनीश्वर ॥५०॥
किं रूपा केन मंत्रेण दातव्या तदिहोच्यतां
पुलस्त्य उवाच
गुडधेनुविधानस्य यद्रूपमिह यत्फलम् ॥५१॥
तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ॥५२॥
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः
लघ्वेणकाजिनं तद्वत्वत्सं च परिकल्पयेत् ॥५३॥
प्राङ्मुखीं कल्पयेद्धेनुं मृदा वा गां सवत्सकां
उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयं ॥५४॥
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता
अर्द्धभारेण वत्सस्स्यात्कनिष्ठा भारकेण तु ॥५५॥
चतुर्थांशे नवत्सः स्याद्गृहवित्तानुसारतः
धेनुवत्सौ कृतौ चोभौ सितसूक्ष्मांबरावृतौ ॥५६॥
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ
सितसूत्रसिराजालौ सितकंबलकंबलौ ॥५७॥
ताम्रगंडकपृष्ठौ द्वौ सितचामरलोमकौ
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ॥५८॥
काञ्चनाक्षियुगोपेताविन्द्रनीलकनीनिकौ
क्षौमपुच्छौ कांस्यदोहौ शुभ्रातिकमनीयकौ ॥५९॥
सुवर्णशृंगाभरणौ राजताढ्य खुरौ च तौ
नानाफलसमायुक्तौ घ्राणगंधकरंडकौ ॥६०॥
इत्येवं रचयित्वा तु धूपदीपैस्तथार्चयेत्
या लक्ष्मीस्सर्वभूतानां या च देवेष्ववस्थिता ॥६१॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसौ ॥६२॥
चंद्रार्कशक्रशक्तिर्या सा धेनुर्वरदास्तु मे
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः ॥६३॥
सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मे
एवमामंत्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥६४॥
विधानमेतद्धेनूनां सर्वासामपि पठ्यते
यास्तु पापविनाशिन्यः पठ्यंते दश धेनवः ॥६५॥
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप
प्रथमा गुडधेनुः स्याद्घृतधेनुरथापरा ॥६६॥
तिलधेनुस्तृतीया च चतुर्थी जलनामिका
क्षीरधेनुः पंचमी च मधुधेनुस्तथापरा ॥६७॥
सप्तमी शर्कराधेनुरष्टमी दधिकल्पिता
रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः ॥६८॥
कुंभास्स्यू रसधेनूनामितरासां स्वराशयः
सुवर्णधेनुं चाप्यत्र केचिदिच्छंति मानवाः ॥६९॥
नवनीतेन तैलैश्च तथान्येपि महर्षयः
एतदेवविधानं स्यात्त एवोपस्करास्स्मृताः ॥७०॥
मंत्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि
यथा श्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥७१॥
गुडधेनुप्रसंगेन सर्वास्तव मयोदिताः
अशेषयज्ञफलदाः सर्वपापहराः शुभाः ॥७२॥
व्रतानामुत्तमं यस्माद्विशोकद्वादशीव्रतम्
तदंगत्वेन चैवात्र गुडधेनुः प्रशस्यते ॥७३॥
अयने विषुवे पुण्ये व्यतीपाते तथा पुनः
गुडधेन्वादयो देया उपरागादिपर्वसु ॥७४॥
विशोकद्वादशी चैषा सर्वपापहरा शुभा
यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ॥७५॥
इहलोके स सौभाग्यमायुरारोग्यमेव च
वैष्णवं पुरमाप्नोति मरणे स्मरणं हरेः ॥७६॥
नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्
न शोकदुःखदौर्गत्यं तस्य संजायते नृप ॥७७॥
नारी वा कुरुते या तु विशोकद्वादशीमिमां
नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात् ॥७८॥
यस्मादग्रे हरेर्नृत्यमनन्तं गीतवादनम्
इति पठति य इत्थं यः शृणोतीह सम्यक्
मधुमुरनरकारेरर्चनं वाथ पश्येत् ॥७९॥
मतिमपि च जनानां यो ददातीन्द्रलोके
स वसति विबुधौघैः पूज्यते कल्पमेकम्
भीष्म उवाच
भगवन्श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् ॥८०॥
यदक्षयं परे लोके देवर्षिगणपूजितम्
पुलस्त्य उवाच
मेरोः प्रदानं वक्ष्यामि दशधा नृपसत्तम ॥८१॥
यत्प्रदातानंतलोकान्प्राप्नोति सुरपूजितान्
पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च ॥८२॥
न तत्फलमधीतेषु कृतेष्विह यदश्नुते
तस्माद्दानं प्रवक्ष्यामि पर्वतानामनुक्रमात् ॥८३॥
प्रथमो धान्यशैलः स्यादिद्वतीयो लवणाचलः
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः ॥८४॥
पंचमस्तिलशैलस्स्यात्षष्टः कार्प्पासपर्वतः
सप्तमो घृतशैलः स्याद्रत्नशैलस्तथाष्टमः ॥८५॥
राजतो नवमस्तद्वद्दशमः शर्कराचलः
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः ॥८६॥
अयनो वेपुण्ये व्यतीपाते दिनक्षये
शुक्लपक्षे तृतीयायामुपरागेश शिक्षये ॥८७॥
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः
शुक्लायां पंचदश्यां वा पुण्यर्क्षे वा विधानतः ॥८८॥
धान्यशैलादयो देयाः कार्तिक्यां ज्येष्ठपुष्करे
तीर्थेष्वायतने वापि गोष्ठे वा भवनांगणे ॥८९॥
मंडपं कारयेद्भक्त्या चतुरश्रमुदङ्मुखम्
प्रागुदक्प्रवणं पुण्यं प्राङ्मुखं वा विधानतः ॥९०॥
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्
तन्मध्ये पर्वतं कुयाद्विष्कंभं पर्वतान्वितम् ॥९१॥
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः
मध्यमः पंचशतकैः कनिष्ठश्च त्रिभिः शतैः ॥९२॥
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्
मूर्द्धन्यवस्थानमथांबरेण कार्यं त्वनेकं च पुनर्द्विजाग्र्यैः ॥९३॥
चत्वारि शृंगाणि च राजतानि नितंबभागा अपि राजतास्स्युः
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपद्मरागैः ॥९४॥
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यकपुष्परागैः
श्रीखंडखंडैरभितः प्रवालैर्लतान्वितो मौक्तिकप्रस्तराढ्यः ॥९५॥
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोप्यत्र हिरण्मयः स्यात्
तथेक्षुवंशावृतकंदरस्तु घृतोदकप्रस्रवणो दिशासु ॥९६॥
शुभ्रांबराण्यंबुधरावलिस्यात्पूर्वेण पीतानि च दक्षिणेन
वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनानि ॥९७॥
रौप्यान्महेंद्रप्रमुखांस्तथाऽष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण
नानावनाली च समंततः स्यान्मनोरमम्माल्यविलेपनं च ॥९८॥
वितानकं चोपरि पंचवर्णमम्लानपुष्पाभरणं सितं च
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कंभगिरीन्क्रमेण ॥९९॥
तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यम्
पूर्वेण मंदरमनेकफलैश्चयुक्तं कामेन कांचनमयेन विराजमानम् ॥१००॥
याम्येन गंधमदनो विनिवेशनीयो गोधूमसंचयमयः कलधौतवांश्च
हैमेन यज्ञपतिना घृतमानसेन वस्त्रेणराजतवनैश्च स संयुतः स्यात् ॥१०१॥
पश्चात्तिलाचलमनेकसुगंधपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्
आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे ॥१०२॥
संस्थाप्यतं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सवस्त्रम्
पुष्पैश्च हेमवटपादपशेखरं तमाकारयेत्कनककेतुविराजमानम् ॥१०३॥
माक्षीकभद्रसरसा च वनेन तद्वद्रौप्येण भासुरवितानयुतं विधाय
होमश्चतुर्भिरथ वेदपुराणविद्भिर्दांतैरनिंद्यचरिताकृतिभिर्द्विजेंद्रैः ॥१०४॥
पूर्वेण हस्तमितमत्र विधाय कुंडं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च
रात्रौ च जागरमनुद्धतगीतरूपैरावाहनं च कथयामि शिलोच्चयानाम् ॥१०५॥
त्वं सर्वदेवगणधामनिधे विरुद्धमस्मद्गृहेष्वमरपर्वत नाशयाशु
क्षेमं विधत्स्व कुरु शांतिमनुत्तमां च संपूजितः परमभक्तिमता मया हि ॥१०६॥
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः
मूर्तामूर्तमयं बीजमतः पाहि सनातन ॥१०७॥
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मंदिरम्
रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे ॥१०८॥
यस्मादशून्यममरैर्नारीभिश्च शिरस्तव
तस्मान्मामुद्धरामुष्माद्दुःखसंसारसागरात् ॥१०९॥
एवमभ्यर्च्य तं मेरुं मंदरं चाभिपूजयेत्
यस्माच्चैत्ररथेन त्वं भद्राश्वेन च पर्वत ॥११०॥
शोभसे मंदर क्षिप्रमतस्तुष्टिकरो भव
यस्माच्चूडामणिर्जंबूद्वीपे त्वं गंधमादन ॥१११॥
गंधर्वगणशोभावांस्ततः कीर्तिर्दृढास्तु मे
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ॥११२॥
हिरण्मयाश्मशोभावांस्तस्मात्पुष्टिर्ध्रुवास्तु मे
उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च ॥११३॥
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे
एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः ॥११४॥
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमं
विष्कंभपर्वतान्दद्यादृत्विग्भ्यः क्रमशो नृप ॥११५॥
गावो देयाश्चतुर्विंशदथवा दश पार्थिव
शक्तितः सप्तचाष्टौ वा पंच दद्यादशक्तिमान् ॥११६॥
एकापि गुरवे देया कपिलाथ पयस्विनी
पर्वतानामशेषाणामेष एव विधिः स्मृतः ॥११७॥
त एव पूजने मंत्रास्त एवोपस्कराः स्मृताः
ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वतः ॥११८
स्वमंत्रेणैव सर्वेषु होमः शैलेषु पठ्यते
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते ॥११९॥
विधानं सर्वशैलानां क्रमशः शृणु पार्थिव
दानेषु चैव ये मंत्राः पर्वतेषु यथा फलम् ॥१२०॥
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्तिताः
अन्नाद्भवंति भूतानि जगदन्नेन वर्धते ॥१२१॥
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम ॥१२२॥
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्
मन्वंतरशतं साग्रं देवलोके महीयते ॥१२३॥
अप्सरोगणगंधर्वैराकीर्णेन विराजितः
विमानेन दिवः पृष्ठमायाति नृपसत्तम ॥१२४॥
कर्मक्षये राजराज्यमाप्नोतीह न संशयः
अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् ॥१२५॥
यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम्
उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः ॥१२६॥
मध्यमश्च तदर्धेन चतुर्भिरधमस्स्मृतः
वित्तहीनो यथाशक्ति द्रोणादूर्द्ध्वं च कारयेत् ॥१२७॥
चतुर्थांशेन विष्कंभपर्वतान्कारयेत्पृथक्
विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा ॥१२८॥
तद्वद्धेममयं सर्वलोकपालनिवेशनम्
सरांसि वनवृक्षादि तद्वच्चान्यान्निनिवेशयेत् ॥१२९॥
कुर्याज्जागरमत्रापि दानमंत्रान्निबोधत
सौभाग्यरससंयुक्तो यतोयं लवणे रसः ॥१३०॥
तदात्मकत्वेन च मां पाह्यापन्नं नगोत्तम
यस्मादन्ये रसाः सर्वे नोत्कटा लवणं विना ॥१३१॥
प्रियश्च शिवयोर्नित्यं तस्माच्छांतिप्रदो भव
विष्णुदेहसमुद्भूतो यस्मादारोग्यवर्धनः ॥१३२॥
तस्मात्पर्वतरूपेण पाहि संसारसागरात्
अनेन विधिना यस्तु दद्याल्लवणपर्वतम् ॥१३३॥
उमालोके वसेत्कल्पं ततो याति परां गतिम्
अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् ॥१३४॥
यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितः
उत्तमो दशभिर्भारैर्मध्यमः पंचभिर्मतः ॥१३५॥
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान्
तद्वदामंत्रणं पूजां हैमवृक्षान्सुरार्चनं ॥१३६॥
विष्कंभपर्वतांस्तद्वत्सरांसि वनदेवताः
होमं जागरणं तद्वल्लोकपालाधिवासनम् ॥१३७॥
धान्यपर्वतवत्कुर्यादिमं मंत्रमुदीरयेत्
यथा देवेषु विश्वात्मा प्रवरोयं जनार्दनः ॥१३८॥
सामवेदस्तु वेदानां महादेवस्तु योगिनां
प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा ॥१३९॥
तथा रसानां प्रवरः सदैवेक्षुरसो मतः
मम तस्मात्परां लक्ष्मीं ददातु गुडपर्वतः ॥१४०॥
यस्मात्सौभाग्यदायिन्या धाम त्वं गुडपर्वत
निर्मितश्चासि पार्वत्या तस्मान्मां पाहि सर्वदा ॥१४१॥
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम्
संपूज्यमानो गंधर्वैर्गौरीलोके महीयते ॥१४२॥
पुनः कल्पशतांते च सप्तद्वीपाधिपो भवेत्
आयुरारोग्यसंपन्नः शत्रुभिश्चापराजितः ॥१४३॥
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्
यस्य प्रदानाद्भवनं वैरिंचं यांति मानवाः ॥१४४॥
उत्तमः पलसाहस्रो मध्यमः पंचभिः शतैः
तदर्धेनाधमस्तद्वदल्पवित्तोपि मानवः ॥१४५॥
दद्यादेकपलादूर्द्ध्वं यथाशक्ति विमत्सरः
धान्यपर्वतवत्सर्वं विदध्याद्राजसत्तम ॥१४६॥
विष्कंभशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत्
नमस्ते सर्वबीजाय ब्रह्मगर्भाय वै नमः ॥१४७॥
यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय
यस्मादग्नेरपत्यं त्वं यस्मात्पुत्रो जगत्पतेः ॥१४८॥
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम
अनेन विधिना यस्तु दद्यात्कनकपर्वतम् ॥१४९॥
स याति परमं ब्रह्म लोकमानंदकारकम्
तत्र कल्पशतं तिष्ठेत्ततो याति परां गतिम् ॥१५०॥
अथातः संप्रवक्ष्यामि तिलशैलं विधानतः
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ॥१५१॥
उत्तमो दशभिर्द्रोणैर्मध्यमः पंचभिः स्मृतः
त्रिभिः कनिष्ठो राजेंद्र तिलशैलः प्रकीर्तितः ॥१५२॥
पूर्ववच्चापरं सर्वं विष्कंभपर्वतादिकम्
दानमंत्रं प्रवक्ष्यामि यथा च नृपपुंगव ॥१५३॥
यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः
तिलाः कुशाश्च माषाश्च तस्माच्छांतिप्रदो भव ॥१५४॥
हव्यकव्येषु यस्माच्च तिला एव हि रक्षणम्
लक्ष्मीं च कुरु शैलेंद्र तिलाचल नमोस्तु ते ॥१५५॥
इत्यामंत्र्य च यो दद्यात्तिलाचलमनुत्तमम्
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥१५६॥
कार्पासपर्वतश्चैव विंशद्भारैरिहोत्तमः
दशभिर्मध्यमः प्रोक्तः कनिष्ठः पंचभिर्मतः ॥१५७॥
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः
धान्यपर्वतवत्सर्वमासाद्यं राजसत्तम ॥१५८॥
प्रभातायां च शर्वर्यां दद्यादिदमुदीरयेत्
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा ॥१५९॥
कार्पासाद्रे नमस्तस्मादघौघ ध्वंसनो भव
इति कार्पासशैलेंद्रं यो दद्याच्छर्वसंनिधौ ॥१६०॥
रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह
अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम् ॥१६१॥
तेजोमयं घृतं पुण्यंमहापातकनाशनम्
विंशत्या घृतकुंभानामुत्तमः स्याद्घृताचलः ॥१६२॥
दशभिर्मध्यमः प्रोक्तः पंचभिस्त्वधमः स्मृतः
अल्पवित्तोपि कुर्वीत द्वाभ्यामिह विधानतः ॥१६३॥
विष्कम्भपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत्
शालितंडुलपात्राणि कुंभोपरि निवेशयेत् ॥१६४॥
कारयेत्संहतानुच्चान्यथाशोभं विधानतः
वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः ॥१६५॥
धान्यपर्वतवत्संर्वं विधानमिह पठ्यते
अधिवासनपूर्वं हि तद्वद्धोमसुरार्चनम् ॥१६६॥
प्रभातायां च शर्वर्यां गुरवे विनिवेदयेत्
विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः ॥१६७॥
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसि
तस्माद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शंकर ॥१६८॥
यस्मात्तेजोमयं ब्रह्म घृते चैव व्यवस्थितम्
घृतपर्वतरूपेण तस्मान्नः पाहि भूधर ॥१६९॥
अनेन विधिना दद्याद्घृताचलमनुत्तमम्
महापातकयुक्तोपि लोकमायाति शांभवम् ॥१७०॥
हंससारसयुक्तेन किंकिणीजालमालिना
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः ॥१७१॥
विचरेत्पितृभिः सार्धं यावदाभूतसंप्लवम्
अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम् ॥१७२॥
मुक्ताफलसहस्रेण पर्वतस्स्यादनुत्तमः
मध्यमः पंचशतिकस्त्रिशतेनाधमः स्मृतः ॥१७३॥
चतुर्थांशेन विष्कंभ पर्वताः स्युः समन्ततः
पूर्वेण वज्रगोमेदैर्दक्षिणेनेंद्रनीलकैः ॥१७४॥
पुष्यरागैर्युतः कार्यो विद्वद्भिर्गंधमादनः
वैडूर्यविद्रुमैः पश्चात्संमिश्रो विपुलाचलः ॥१७५॥
पद्मरागैः स सौवर्णैरुत्तरेणापि विन्यसेत्
धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत् ॥१७६॥
तद्वदावाहनं कृत्वा वृक्षान्देवांश्च कांचनान्
पूजयेत्पुष्पगन्धाद्यैः प्रभाते स्याद्विसर्जनम् ॥१७७॥
पूर्ववद्गुरुऋत्विग्भ्य इमं मंत्रमुदीरयेत्
यथा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः ॥१७८॥
त्वं च रत्नमयो नित्यमतः पाहि महाचल
यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः ॥१७९॥
पूजामंत्रप्रसादेन तस्मान्नः पाहि पर्वत
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् ॥१८०॥
स याति वैष्णवं लोकममरेश्वरपूजितः
यावत्कल्पशतं साग्रं वसेत्तत्र नराधिप ॥१८१॥
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्
ब्रह्महत्यादिकं किंचिदत्रामुत्राथवा कृतम् ॥१८२॥
तत्सर्वं नाशमायाति गिरिर्वज्राहतो यथा
अथातः संप्रवक्ष्यामि रौप्याचलमनुत्तमम् ॥१८३॥
यत्प्रदानान्नरो याति सोमलोकं नरोत्तम
दशभिः पलसाहस्रैरुत्तमो रजताचलः ॥१८४॥
पंचभिर्मध्यमः प्रोक्तस्तदर्धेनाधमः स्मृतः
अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितः सदा ॥१८५॥
विष्कंभपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत्
पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः ॥१८६॥
कलधौतमयांस्तद्वल्लोकेशान्कारयेद्बुधः
ब्रह्मविष्ण्वर्कवान्कार्यो नितंबोत्र हिरण्मयः ॥१८७॥
राजतं स्यात्तदन्येषां पर्वतांना च कांचनम्
शेषं च पूर्ववत्कुर्याद्धोमजागरणादिकम् ॥१८८॥
दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम्
विष्कंभशैलानृत्विग्भ्यः पूज्य वस्त्रविभूषणैः ॥१८९॥
इमं मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः
पितॄणां वल्लभं यस्मादिन्दोर्वा शंकरस्य च ॥१९०॥
रजतं पाहि तस्मान्नः शोकसंसारसागरात्
इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम् ॥१९१॥
गवामयुतसाहस्रफलमाप्नोति मानवः
सोमलोके सगंधर्वैः किन्नराप्सरसांगणैः ॥१९२॥
पूज्यमानो वसेद्विद्वान्यावदाभूतसंप्लवम्
अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् ॥१९३॥
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा
अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः ॥१९४॥
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः
भारेण चार्द्धभारेणकुर्याद्यः स्वल्पवित्तवान् ॥१९५॥
विष्कंभपर्वतान्कुर्यात्तुरीयांशेन मानवः
धान्यपर्वतवत्सर्वं हैमांबरसुसंयुतम् ॥१९६॥
मेरोरुपरितः स्थाप्यं हैमं तत्र तरुत्रयम्
मंदारः पारिजातश्च तृतीयः कल्पपादपः ॥१९७॥
एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निवेशयेत्
हरिचंदनसंतानौ पूर्वपश्चिमभागयोः ॥१९८॥
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले
मंदरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् ॥१९९॥
गंधमादनशृंगे तु धनदः स्यादुदङ्मुखः
प्राङ्मुखो वेदमूर्त्तिस्तु हंसः स्याद्विपुलाचले ॥२००॥
हैमी भवेत्सुपार्श्वे तु सुरभी दक्षिणामुखी
धान्यपर्वतवत्सर्वमावाहनमखादिकम् ॥२०१॥
कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम्
ऋत्विग्भ्यश्चतुरः शैलानिमान्मंत्रानुदीरयेत् ॥२०२॥
सौभाग्यामृतसारोयं परमः शर्कराचलः
तस्मादानंदकारी त्वं भवशैलेंद्र सर्वदा ॥२०३॥
अमृतं पिबतां ये तु पतिता भुवि शीकराः
देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल ॥२०४॥
मनोभवधनुर्मध्यादुद्भूता शर्करा पुनः
तन्मयोसि महाशैल पाहि संसारसागरात् ॥२०५॥
यो दद्याच्छर्कराशैलमनेन विधिना नरः
सर्वपापविनिर्मुक्तः प्रयाति ब्रह्ममंदिरम् ॥२०६॥
चंद्रसूर्यप्रतीकाशमधिरुह्यानुजीविभिः
सहैव यानमुत्तिष्ठेत्ततो विष्णुप्रभो दिवि ॥२०७॥
ततः कल्पशतांते तु सप्तद्वीपाधिपो भवेत्
आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम् ॥२०८॥
भोजनं शक्तितः कुर्यात्सर्वशैलेष्वमत्सरः
स्वयं चाक्षारलवणमश्नीयात्तदनुज्ञया ॥२०९॥
पर्वतोपस्करान्सर्वान्प्रापयेद्ब्राह्मणालयम्
एतत्ते सर्वमाख्यातं शैलदानमनुत्तमम् ॥२१०॥
यदन्यद्रोचते तुभ्यं तन्मां पृच्छस्व पार्थिव
भीष्म उवाच
भगवन्भवसंसारसागरोत्तारकारकम् ॥२११॥
किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यफलप्रदम्
पुलस्त्य उवाच
सौरधर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् ॥२१२॥
विशोकसप्तमीं तद्वत्तृतीयां फलसप्तमीम्
शर्करासप्तमीं कुर्यात्तथा कमलसप्तमीम् ॥२१३॥
मंदारसप्तमीं षष्ठीं सप्तमीं शुभसप्तमीम्
सर्वाः पुण्यफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः ॥२१४॥
विधानमासां वक्ष्यामि यथावदनुपूर्वशः
यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत् ॥२१५॥
सा तु कल्याणिनी नाम विजया च निगद्यते
प्रातर्गव्येन पयसा स्नानं नद्यां समाचरेत् ॥२१६॥
शुक्लांबरधरः पद्ममक्षतैः परिकल्पयेत्
प्राङ्मुखोष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम् ॥२१७॥
पुष्पाक्षताद्भिर्देवेशं विन्यसेत्सर्वतः क्रमात्
पूर्वेण तपनायेति मार्तंडायेति वै ततः ॥२१८॥
याम्ये दिवाकरायेति विधात्र इति नैर्ऋते
पश्चिमे वरुणायेति भास्करायेति चानिले ॥२१९॥
सौम्ये विकर्तनायेति देवायेत्यष्टमे दले
आदावंते च मध्ये चनमोस्तु परमात्मने ॥२२०॥
मंत्रैरेतैस्समभ्यर्च्य नमस्कारांत दापितैः
शुक्लैर्वस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः ॥२२१॥
स्थंडिले पूजयेद्भक्त्या गुडेन लवणेन वै
ततो व्याहृतिमंत्रेण विसृज्य द्विजपुंगवान् ॥२२२॥
शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत् ॥२२३॥
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः
कृतस्नानजपो विप्रैः सहैव घृतपायसम् ॥२२४॥
भुक्त्वा च वेदविदुषि वैडालव्रतवर्जिते
घृतपात्रं सकनकं सोदकुंभं निवेदयेत् ॥२२५॥
प्रीयतामत्र भगवान्परमात्मा दिवाकरः
अनेन विधिना सर्वं मासिमासि समाचरेत् ॥२२६॥
ततस्त्रयोदशे मासि गाश्च दद्यात्त्रयोदश
वस्त्रालंकारसंयुक्ताः स्वर्णशृंगाः पयस्विनीः ॥२२७॥
एकामपि प्रदद्याच्च वित्तहीनो विमत्सरः
न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः ॥२२८॥
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीं
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥२२९॥
आयुरारोग्यमैश्वर्यमनंतमिह जायते
सर्वपापहरा चेयं सर्वदैवतपूजिता ॥२३०॥
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी
इमामनंतफलदां यस्तु कल्याणसप्तमीं ॥२३१॥
शृणोति यः पठेद्वापि स च पापैः प्रमुच्यते
विशोकसप्तमीं तद्वद्वक्ष्यामि नृपसत्तम ॥२३२॥
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते
माघे कृष्णतिलै स्नातः पंचम्यां शुक्लपक्षतः ॥२३३॥
कृताहारः कृसरया दंतधावनपूर्वकम्
उपवासव्रतं कृत्वा ब्रह्मचारी निशि स्वपेत् ॥२३४॥
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः
कृत्वा तु कांचनं पद्ममर्कायेति प्रपूजयेत् ॥२३५॥
करवीरेण रक्तेन रक्तवस्त्रयुगेन च
यथा विशोकं भुवनं त्वयैवादित्य सर्वदा ॥२३६॥
तथा विशोकता मे स्यात्त्वद्भक्तिः प्रतिजन्म च
एवं सपूज्य षष्ठ्यां तु भक्त्या संपूजयेद्द्विजान् ॥२३७॥
स्वयं संप्राश्य गोमूत्रमुत्थाय कृतनैत्यकः
संपूज्य विप्रान्यत्नेन गुडपात्रसमन्वितम् ॥२३८॥
सद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत्
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः ॥२३९॥
ततः पुराणश्रवणं कर्त्तव्यं भूतिमिच्छता
अनेन विधिना सर्वमुभयोरपि पक्षयोः ॥२४०॥
कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी
व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम् ॥२४१॥
शय्यां सोपस्करां दद्यात्कपिलां च पयस्विनीं
अनेन विधिना यस्तु वित्तशाठ्येन वर्जितः ॥२४२॥
विशोकसप्तमीं कुर्यात्स याति परमां गतिम्
यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत् ॥२४३॥
तावन्न शोकमाप्नोति रोगदौर्गत्यवर्जितः
यं यं कामयते कामं तं तं प्राप्नोति पुष्कलम् ॥२४४॥
निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति
यः पठेच्छृणुयाद्वापि विशोकाख्यां तु सप्तमीम् ॥२४५॥
सोपींद्रलोकमासाद्य न दुःखी जायते क्वचित्
अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् ॥२४६॥
यामुपोष्य नरः पापैर्विमुक्तः स्वर्गभाग्भवेत्
मार्गशीर्षे शुभे मासि पंचम्यां नियतव्रतः ॥२४७॥
षष्ठीमुपोष्य कमलं कारयित्वा तु कांचनम्
शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुंबिने ॥२४८॥
रूपं च कांचनं कृत्वा फलस्यैकस्य धर्मवित्
दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति ॥२४९॥
शक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम्
कृत्वा कुर्यात्फलत्यागं यावत्स्यात्कृष्णसप्तमी ॥२५०॥
तामुपोष्याथ विधिवदनेनैव क्रमेण तु
तद्वद्धेमफलं दत्वा सुवर्णकमलान्वितम् ॥२५१॥
शर्करापात्रसंयुक्तं वस्त्रमालासमन्वितम्
संवत्सरमनेनैव विधिनोभयसप्तमीम् ॥२५२॥
उपोष्य दद्यात्क्रमशः सूर्यमंत्रमुदीरयेत्
भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः ॥२५३॥
श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति
प्रतिमासं च सप्तम्यामेकैकं नाम कीर्त्तयेत् ॥२५४॥
प्रतिपक्षं फलत्यागमेतत्कुर्वन्समाचरेत्
व्रतांते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः ॥२५५॥
शर्कराकलशं दद्याद्धेमपद्मफलान्वितम्
यथा न विफलः कामस्त्वद्भक्तानां सदा भवेत् ॥२५६॥
तथानंतफलावाप्तिरस्तु मे जन्मजन्मनि
इमामनंतफलदां यः कुर्यात्फलसप्तमीम् ॥२५७॥
भूतभव्यांश्च पुरुषांस्तारयेदेकविंशतिम्
यः शृणोति पठेद्वापि सोपि कल्याणभाग्भवेत् ॥२५८॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते
सुरापानादिकं किंञ्चिदत्रामुत्र च वा कृतम् ॥२५९॥
तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम्
शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम् ॥२६०॥
आयुरारोग्यमैश्वर्यं ययानंतं प्रजायते
माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः ॥२६१॥
प्रातः स्नात्वा तिलैः शुभ्रैः शुद्धमाल्यानुलेपनः
स्थंडिले पद्ममालिख्य कुंकुमेन सकर्णिकम् ॥२६२॥
तस्मिन्नमः सवित्रेति गंधपुष्पं निवेदयेत्
स्थापयेदुदकुंभं च शर्करापात्रसंयुतम् ॥२६३॥
शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः
स्वर्णपुष्पसमायुक्तं मंत्रेणानेन पूजयेत् ॥२६४॥
विश्ववेदमयो यस्मात्त्वं वेदेषु च पठ्यसे
त्वमेवामृतसर्वस्वमतः शांतिं प्रयच्छ मे ॥२६५॥
पंचगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ
सौरसूक्तं जपन्नास्ते पुराणश्रवणेन च ॥२६६॥
अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः
तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत् ॥२६७॥
भोजयेच्छक्तितो विप्रान्शर्कराघृतपायसैः
भुंजीतातैललवणं स्वयमप्यथ वाग्यतः ॥२६८॥
अनेन विधिना सर्वं मासिमासि समाचरेत्
संवत्सरांते शयनं शर्कराकलशान्वितम् ॥२६९॥
सर्वोपस्करसंयुक्तं तथैकांगां पयस्विनीम्
गृहं च शक्तिमान्दद्यात्समस्तोपस्करान्वितम् ॥२७०॥
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा
दशभिर्वा त्रिभिर्वापि निष्केणैकेन वा पुनः ॥२७१॥
पद्मं स्वशक्तितो दद्यात्पूर्ववन्मंत्रपाठनम्
वित्तशाठ्यं न कुर्वीत कुर्वन्दोषान्समश्नुते ॥२७२॥
अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिंदवः
समुत्पेतुर्द्धरण्यां ये शालिमुद्गेक्षवस्तु ते ॥२७३॥
शर्करायारसस्तस्मादिक्षुसारोमृतात्मवान्
इष्टारवेरतः पुण्या शर्करा हव्यकव्ययोः ॥२७४॥
शर्करासप्तमी चेयं वाजिमेधफलप्रदा
सर्वदुष्टोपशमनी पुत्रपौत्रविवर्धिनी ॥२७५॥
यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति
कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ॥२७६॥
इदमनघ शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके
मतिमपि च ददाति सोपि देवैरमरपुरे परिपूज्यते मुनीन्द्रैः ॥२७७॥
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम्
यस्यास्संकीर्त्तनादेव तुष्यतीह दिवाकरः ॥२७८॥
वसंतामलसप्तम्यां सुस्नातो गौरसर्षपैः
तिलपात्रे च सौवर्णं निधाय कमलं शुभम् ॥२७९॥
वस्त्रयुग्मावृतं कृत्वा गंधपुष्पैरथार्चयेत्
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ॥२८०॥
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तुते
ततो द्विकालवेलायामुदकुंभसमन्वितम् ॥२८१॥
विप्राय दद्यात्संपूज्य वस्त्रमाल्यविभूषणैः
शक्तितः कपिलां दद्यादलंकृत्य विधानतः ॥२८२॥
अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान्
यथाशक्ति च भुंजीत विमांसं तैलवर्जितं ॥२८३॥
अनेन विधिना शुक्लसप्तम्यां मासि मासि च
सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः ॥२८४॥
व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम् ॥२८५॥
गाश्च प्रदद्याच्छक्त्या तु सुवर्णस्य पयस्विनीः
भाजनासनदीपादीन्दद्यादिष्टानुपस्करान् ॥२८६॥
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम्
लक्ष्मीमनंतामभ्येति सूर्यलोके च मोदते ॥२८७॥
कल्पेकल्पे ततो लोकान्सप्त गत्वा पृथक्पृथक्
अप्सरोभिः परिवृतस्ततो याति परां गतिं ॥२८८॥
पश्येदिमां यः शृणुयान्मुहूर्ते पठेच्च भक्त्याथ मतिं ददाति
सोप्यत्र लक्ष्मीममलामवाप्य गंधर्वविद्याधरलोकमेति ॥२८९॥
अतः परं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
सर्वकामप्रदां पुण्यां नाम्ना मंदारसप्तमीं ॥२९०॥
माघस्यामलपक्षे तु पंचम्यां लघुभुङ्नरः
दंतकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः ॥२९१॥
विप्रान्संपूजयित्वा तु मंदारं प्रार्थयेन्निशि
ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान् ॥२९२॥
भोजयेच्छक्तितः कुर्यान्मंदारकुसुमाष्टकं
सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनं ॥२९३॥
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेष्टपत्रकं
हेममंदारकुसुमैर्भास्करायेति पूर्वतः ॥२९४॥
नमस्कारेण तद्वच्च सूर्यायेत्यमले दले
दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते ॥२९५॥
पश्चिमे वेदधाम्ने च वायव्ये चंडभानवे
पूष्णे चोत्तरतः पूज्य आनंदायेति तत्परम् ॥२९६॥
कर्णिकायां च पुरुषः स्थाप्यः सर्वात्मनेपि च
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः ॥२९७॥
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः
भुंजीतातैललवणं वाग्यतः प्राङ्मुखो गृही ॥२९८॥
अनेन विधिना सर्वं सप्तम्यां मासिमासि च
कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः ॥२९९॥
एतदेव व्रतांते तु निधाय कलशोपरि
गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता ॥३००॥
नमो मंदारनाथाय मंदारभवनाय च
त्वं रवे तारयस्वास्मानस्मात्संसारसागरात् ॥३०१॥
अनेन विधिना यस्तु कुर्यान्मंदारसप्तमीम्
विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते ॥३०२॥
इमामघौघपटलभीषणध्वांतदीपिकां
गच्छन्संगृह्य संसारशर्वर्यां न स्खलेन्नरः ॥३०३॥
मंदारसप्तमीमेतामीप्सितार्थफलप्रदां
यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते ॥३०४॥
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीं
यामुपोष्य नरो रोगशोकौघात्तु प्रमुच्यते ॥३०५॥
पुण्यमाश्वयुजे मासि कृतस्नानजपः शुचिः
वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीं ॥३०६॥
कपिलां पूजयेद्भक्त्या गंधमाल्यानुलेपनैः
नमामि सूर्यसंभूतामशेषभुवनालयां ॥३०७॥
त्वामहं शुभकल्याणि स्वशरीरविशुद्धये
अथ कृत्वा तिलप्रस्थं ताम्रपात्रेणसंयुतम् ॥३०८॥
कांचनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितं
सोपधानं च विश्रामभाजनासनसंयुतम् ॥३०९॥
फलैर्नानाविधैर्भक्ष्यैः घृतपायससंयुतैः
दद्याद्द्विकालवेलायामर्यमा प्रीयतामिति ॥३१०॥
पंचगव्यं च संप्राश्य स्वपेद्भूमावसंस्तरे
ततः प्रभाते संजाते भक्त्या संतर्पयेद्द्विजान् ॥३११॥
अनेन विधिना दद्यान्मासिमासि सदा नरः
वाससी वृषभं हैमं तद्वद्गां कांचनोद्भवाम् ॥३१२॥
संवत्सरांते शयनमिक्षुदंडगुडान्वितम्
ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा ॥३१३॥
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति
अनेन विधिना विद्वान्कुर्याद्यः शुभसप्तमीम् ॥३१४॥
तस्य श्रीर्विमला कीर्त्तिर्भवेज्जन्मनि जन्मनि
अप्सरोगणगंधर्वैः पूज्यमानः सुरालये ॥३१५॥
वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम्
कल्पादाववतीर्णश्च सप्तद्वीपाधिपो भवेत् ॥३१६॥
भ्रूणहत्यासहस्रस्य ब्रह्महत्याशतस्य च
नाशायालमियं पुण्या पठ्यते शुभसप्तमी ॥३१७॥
इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसंगादपि दीयमानम्
सोप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम् ॥३१८॥
यावत्समास्सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्
स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः ॥३१९॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पुष्करमाहात्म्ये एकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP