संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ४५ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ४५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४५ Translation - भाषांतर भीष्म उवाच - इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ॥१॥पुलस्त्य उवाच - पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुःदैत्यानामादिपुरुषश्चकार सुमहत्तपः ॥२॥दशवर्षसहस्राणि दशवर्षशतानि चजलवासी समभवत्स्नानमौनधृतव्रतः ॥३॥वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हिब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ॥४॥ततः स्वयंभूर्भगवान्स्वयमागत्य तत्र हिविमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥५॥आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सहरुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ॥६॥दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथानक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः ॥७॥देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथाराजर्षिभिः पुण्यकृद्भिर्गंधर्वाप्सरसांगणैः ॥८॥चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैःब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥९॥प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रतवरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥१०॥हिरण्यकशिपुरुवाच - न देवासुरगंधर्वा न यक्षोरगराक्षसाःन मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ॥११॥ऋषयो मानवाः शापैर्न शपेयुः पितामहयदि मे भगवान्प्रीतो वर एष वृतो मया ॥१२॥न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वान शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः ॥१३॥भवेयमहमेवार्कः सोमो वायुर्हुताशनःसलिलं चांतरिक्षं च नक्षत्राणि दिशो दश ॥१४॥अहं क्रोधश्च कामश्च वरुणो वासवो यमःधनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥१५॥ब्रह्मोवाच - एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतःसर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः ॥१६॥एवमुक्त्वा स भगवान्जगामाकाशमेव हिवैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥१७॥ततो देवाश्च गंधर्वा ऋषिभिः सह चारणाःवरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः ॥१८॥देवा ऊचुः - वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरःतत्प्रसादश्च भगवन्वधोप्यस्य विचिंत्यताम् ॥१९॥भगवान्सर्वभूतानामादिकर्त्ता स्वयंप्रभुःस्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः ॥२०॥सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिःआश्वासयामास तदा सुशीतैर्वचनांबुभिः ॥२१॥अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलंतपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति ॥२२॥तच्छ्रुत्वा विबुधा वाक्यं सर्वे पंकजजाननात्स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः ॥२३॥लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधतहिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः ॥२४॥आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्सत्यधर्मपरान्दान्तान्धर्षयामास दानवः ॥२५॥देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरःत्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥२६॥यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणायज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान् ॥२७॥तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथारुद्रा देवगणा यक्षा देवद्विजमहर्षयः ॥२८॥शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्देवदेवं यज्ञमयं वासुदेवं सनातनम् ॥२९॥देवा ऊचुः - नारायण महाभाग देवास्त्वां शरणं गताःत्रायस्व जहि दैत्येंद्रं हिरण्यकशिपुं प्रभो ॥३०॥त्वं हि नः परमोदाता त्वं हि नः परमो गुरुःत्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः ॥३१॥विष्णुरुवाच - भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥३२॥एनं हि सगणं दैत्यं वरदानेन गर्वितम्अवध्यममरेंद्राणां दानवेंद्रं निहन्म्यहम् ॥३३॥एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययःहिरण्यकशिपुस्थानं जगाम हरिरीश्वरः ॥३४॥तेजसा भास्काराकारः शशीकांत्येव चापरःनरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा ॥३५॥नारसिंहेन वपुषा पाणिं संगृह्य पाणिनाततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम् ॥३६॥सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम् ॥३७॥वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम्जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम् ॥३८॥वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसाअंतःसलिलसंयुक्तां विहितां विश्वकर्मणा ॥३९॥दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि ॥४०॥अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिःसिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः ॥४१॥रश्मिमती स्वभावेन दिव्यगंधमनोरमासुसुखा न च दुःखा सा न शीता न च घर्मदा ॥४२॥न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति तेनानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः ॥४३॥अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभादीप्यते नाकपृष्ठस्था भासयंती विभासुरा ॥४४॥सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाःरसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं ॥४५॥पुण्यगंधास्रजश्चापि नित्यकालफला द्रुमाःउष्णे शीतानि तोयानि शीते चोष्णानि संति वै ॥४६॥पुष्पिताग्रान्महाशाखान्प्रवालांकुरधारिणःलतावितानसंछन्नान्कल्पानैक्षिष्ठ स प्रभुः ॥४७॥गंधवंति च पुष्पाणि रसवंति फलानि चतानि शीतानि चोष्णानि तत्रतत्र सरांसि च ॥४८॥अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुःनलिनैः पुंडरीकैश्च शतपत्रैः सुगंधिभिः ॥४९॥रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथानानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45. ॥५०॥कारंडवैश्चक्रवाकैः सारसैः कुररैरपिविमलस्फटिकाभानि पांडुरच्छदनैर्द्विजैः ॥५१॥बहुहंसोपगीतानि सारसानां रुतानि चगंधयुक्ता लतास्तत्र पुष्पमंजरिधारिणीः ॥५२॥दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्चूतानिम्बानागवृक्षाः कदंबा बकुला धवाः ॥५३॥प्रियंगवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाःशालास्तालास्तमालाश्च चंपकाश्च मनोरमाः ॥५४॥तथैवान्ये व्यराजंत सभायां पुष्पिता द्रुमाःएलाक कुभकंकोल लवली कर्णपूरकाः ॥५५॥मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाःअंजनाशोकपर्णासा बहवश्चित्रका द्रुमाः ॥५६॥वरुणाश्च पलाशाश्चा पनसास्सह चंदनैःनीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिंदुकाः ॥५७॥पारिजाताश्च तरवो मल्लिका भद्रदारवःअटरूषाः पीलूकाश्च तथा चैवैलवालुकाः ॥५८॥मंदारकाः कुरवका पुन्नागाः कुटजास्तथारक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह ॥५९॥किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाःकालेयका दुकूलाश्च हिंगवस्तैलवर्त्तिकाः ॥६०॥खर्जूरा नालिकेराश्च हरीतक मधूककाःसप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः ॥६१॥असनाश्च तमालाश्च नानागुल्मसमावृताःलताश्च विविधाकाराः पुष्पपत्रफलोपगाः ॥६२॥एते चान्ये च बहवस्तत्र काननजा द्रुमाःनानापुष्पफलोपेता व्यराजंत समंततः ॥६३॥चकोराः शतपत्राश्च मत्तकोकिलशारिकाःपुष्पितान्पुष्पिताग्रांश्च संपतंति महाद्रुमान् ॥६४॥रक्तपीतारुणास्तत्र पादपाग्रगताः खगाःपरस्परमवैक्षंत प्रहृष्टा जीवजीविकाः ॥६५॥तस्यां सभायां दैत्येंद्रो हिरण्यकशिपुस्तदाआसीन आसने चित्रे दशनल्वे प्रमाणतः ॥६६॥दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृतेहिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुंडलः ॥६७॥उपचेरुर्महादैत्या हिरण्यकशिपुं तदादिव्यतालानि गीतानि जगुर्गंधर्वसत्तमाः ॥६८॥विश्वाची सहजन्या च प्रम्लोचेति च पूजितादिव्याथ सौरभेयी च समीची पुंजिकस्थला ॥६९॥मिश्रकेशी च रंभा च चित्रभा श्रुतिविभ्रमाचारुनेत्रा घृताची च मेनका चोर्वशी तथा ॥७०॥एतास्सहस्रशश्चान्या नृत्यगीतविशारदाःउपातिष्ठंत राजानं हिरण्यकशिपुं प्रभुम् ॥७१॥उपासते दितेः पुत्राः सर्वे लब्धवरास्तथाबलिर्विरोचनस्तत्र नरकः पृथिवीसुतः ॥७२॥प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरःसुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा ॥७३॥घटोदरो महापार्श्वः क्रथनः पिठरस्तथाविश्वरूपस्वरूपश्च विश्वकायो महाबलः ॥७४॥दशग्रीवश्च वाली च मेघवासा महासुरःघटाभो विटरूपश्च ज्वलनश्चेंद्रतापनः ॥७५॥दैत्यदानवसंघास्ते सर्वे ज्वलितकुंडलाःस्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः ॥७६॥सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवःएते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ॥७७॥उपासते महात्मानं सर्वे दिव्यपरिच्छदाःविमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः ॥७८॥महेन्द्रवपुषः सर्वे विचित्रांगदबाहवःभूषितांगा दितेः पुत्रास्तमुपासत सर्वतः ॥७९॥ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनःन श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये ॥८०॥रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम्स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम् ॥८१॥कनकवलयहारभूषितांगं दितितनयं स मृगाधिपो ददर्शदिवसकरकरप्रभं ज्वलंतं दितिजसहस्रशतैर्निषेव्यमाणम् ॥८२॥ततो दृष्ट्वा महाभागं कालचक्रमिवागतम्नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम् ॥८३॥हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्दिव्येन वपुषा सिंहमपश्यद्देवमागतम् ॥८४॥तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम्विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥८५॥प्रह्लाद उवाच - महाराज महाबाहो दैत्यानामादिसंभवन श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः ॥८६॥अव्यक्तं परमं दिव्यं किमिदं रूपमागतम्दैत्यांतकरणं घोरं शंसतीव मनो मम ॥८७॥अस्य देवाः शरीरस्थाः सागराः सरितस्तथाहिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥८८॥चंद्रमास्सहनक्षत्रैरादित्या रश्मिभिः सहधनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥८९॥मरुतो देवगंधर्वा ऋषयश्च तपोधनाःनागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥९०॥ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमंति हिस्थावराणि च सर्वाणि जंगमानि तथैव च ॥९१॥भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतःविमानशतसंकीर्णा सर्वा या भवतः सभा ॥९२॥सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतःदृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत् ॥९३॥प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्चउत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च ॥९४॥सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वेक्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे ॥९५॥प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुःउवाच दानवान्सर्वान्गणांश्च सगणाधिपः ॥९६॥मृगेंद्रो गृह्यतामेष अपूर्वां तनुमास्थितःयदि वा संशयः कश्चिद्वध्यतां वनगोचरः ॥९७॥ते दानवगणास्सर्वे मृगेंद्रं भीमविक्रमम्परिक्षिपंतो मुदितास्त्रासयामासुरोजसा ॥९८॥सिंहनादं विमुच्याथ नरसिंहो महाबलःबभंज तां सभां सर्वां व्यादितास्य इवांतकः ॥९९॥सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः1.45. ॥१००॥सर्वास्त्राणामथ श्रेष्ठं दंडमस्त्रं सुदारुणम्कालचक्रं तथा घोरं विष्णुचक्रं तथापरं ॥१०१॥पैतामहं महात्युग्रं त्रैलोक्यनिर्मितं महत्विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयम् ॥१०२॥रौद्रं तथोग्रशूलं च कंकालं मुसलं तथाअस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च ॥१०३॥नारायणास्त्रमैंद्रं च आग्नेयं शैशिरं तथावायव्यं मथनं चैव कपालमथ किंकरम् ॥१०४॥तथा प्रतिहतां शक्तिं क्रौंचमस्त्रं तथैव चमोहनं शोषणं चैव संतापनविलापने ॥१०५॥कंपनं शातनं चैव महास्त्रं चैव रोधनम्कालमुद्गरमक्षोभ्यं तापनं च महाबलम् ॥१०६॥संवर्तनं मोहनं च तथा मायाधरं वरम्गान्धर्वमस्त्रं दयितमसिरत्नं च नंदकम् ॥१०७॥प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्अस्त्रं पाशुपतं चैव यस्या प्रतिहता गतिः ॥१०८॥एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदाअसृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ॥१०९॥अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमःविवस्वान्घर्मसमये हिमवंतमिवांशुभिः ॥११०॥स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरःक्षणेनाप्लावयत्सर्वं मैनाकमिव सागरः ॥१११॥प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथावज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः ॥११२॥मुद्गरैः कूटपाशैश्च शिलोलूखलपर्वतैःशतघ्नीभिश्च दीप्ताभिर्दंडैरपि सुदारुणैः ॥११३॥ते दानवाः पाशगृहीतहस्ता महेंद्रतुल्याशनितुल्य वेगाःसमंततोभ्युद्यतबाहुकायाः स्थिताः सशीर्षा इव नागपोताः ॥११४॥सुवर्णमालाकुलभूषितांगाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताःस्फुरत्प्रभास्ते च सशृंगदेहाश्चीनांशुका भांति यथैव हंसाः ॥११५॥सोसृजद्दानवो मायामग्निं वायुं समीरितम्तमिंद्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः ॥११६॥महता तोयवर्षेण शमयमास पावकम्तस्यां प्रतिहतायां तु मायायां युधि दानवः ॥११७॥असृजद्घोरसंकाशं तमस्तीव्रं समंततःतमसा संवृते लोके दैत्येष्वात्तायुधेषु च ॥११८॥स्वतेजसा परिवृतो दिवाकर इवोद्गतःत्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे ॥११९॥ललाटस्थां त्रिकूटस्थां गंगां त्रिपथगामिवततः सर्वासु मायासु हतासु दितिनंदनाः ॥१२०॥हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुःततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा ॥१२१॥तस्मिन्क्रुद्धे तु दैत्येंद्रे तमोभूतमभूज्जगत्आवहः प्रवहश्चैव विवहोथ समीरणः ॥१२२॥परावहस्संवहश्च उद्वहश्च महाबलःतथा परिवहः श्रीमानुत्पातभयशंसिनः ॥१२३॥इत्येवं क्षुभिताः सप्त मरुतो गगनेचराःये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवंति हि ॥१२४॥ते सर्वे गगने हृष्टाव्यचरंश्च यथासुखम्अयोगतश्चाप्यचरद्योगं निशि निशाचरः ॥१२५॥सग्रहः सह नक्षत्रैस्तारापतिररिंदमविवर्णतां च भगवान्गतो दिवि दिवाकरः ॥१२६॥कृष्णः कबंधश्च तदा लक्ष्यते सुमहान्दिविअसृजच्चासितां सूर्यो धूमवत्तां विभावसुः ॥१२७॥गगनस्थश्च भगवानभीक्ष्णं परिविष्यतेसप्तधूमनिभा घोराः सूर्यादि विसमुत्थिताः ॥१२८॥सोमस्य गगनस्थस्य ग्रहास्तिष्ठंति शृंङ्गगाःवामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ॥१२९॥शनैश्चरो लोहितांगो लोहितांगसमद्युतिःसमं समधिरोहंत सर्वे वै गगनेचराः ॥१३०॥शृंगाणि शनकैर्घोरा युगांता वर्त्तन ग्रहाःचंद्रमाश्च सनक्षत्रो ग्रहैः सह तमोनुदः ॥१३१॥चराचरविनाशाय रोहिणीं नाभ्यनंदतगृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते ॥१३२॥उल्काः प्रज्वलिताश्चंद्रे व्यचरंत यथासुखम्देवानामधिपो देवः सोप्यवर्षत शोणितम् ॥१३३॥अपतद्गगनादुल्का विद्युद्रूपा महास्वनाअकाले च द्रुमास्सर्वे पुष्प्यंति च फलंति च ॥१३४॥लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाःफले फलान्यजायंत पुष्पे पुष्पं तथैव च ॥१३५॥उन्मीलंति निमीलंति हसंति प्ररुदंति चविक्रोशंति च गंभीरं धूमायंते ज्वलंति च ॥१३६॥प्रतिमास्सर्वदेवानां कथयंत्यो महद्भयम्आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः ॥१३७॥चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थितेनद्यश्च प्रतिकूलानि वहंति कलुषोदकाः ॥१३८॥न प्राकाशंत च दिशो रक्तरेणुसमाकुलाःवानस्पत्या न पूज्यंते पूजनार्हाः कथंचन ॥१३९॥वायुवेगेन हन्यंते भज्यंते प्रणमंति चतथा च सर्वभूतानां छाया न परिवर्त्तते ॥१४०॥अपरेण गते सूर्ये सलोकानां युगक्षयेतदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः ॥१४१॥भांडागारायुधागारे निविष्टमभवन्मधुअसुराणां विनाशाय सुराणां विजयाय च ॥१४२॥दृश्यंते विविधोत्पाता घोराघोरनिदर्शनाःएते चान्ये च बहवो घोररूपाः समुत्थिताः ॥१४३॥दैत्येंद्रस्य विनाशाय दृश्यंते रणशंसिनःमेदिन्यां कंपमानायां दैत्येंद्रेण महात्मनः ॥१४४॥महीधरा नागगणा निपेतुरमितौजसःविषज्वालाकुलैर्वक्त्रैर्विमुंचंतो हुताशनम् ॥१४५॥चतुःशीर्षाः पंचशीर्षाः सप्तशीर्षाश्च पन्नगाःवासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ॥१४६॥एलामुखः कालियश्च महापद्मश्च वीर्यवान्सहस्रशीर्षश्शुद्धांगो हेमतालध्वजः प्रभुः ॥१४७॥शेषोनंतो महानागो ह्यप्रकंप्यश्च कंपिताःदीप्यंतेंतर्जलस्थानि पृथिवीविवराणि वै ॥१४८॥सप्तदैत्येंद्रकोपेन कंपितानि समंततःनानातेजोधराश्चापि पातालतलचारिणः ॥१४९॥पाताले सहसा क्षुब्धे दुष्प्रकंप्याः प्रकंपिताःहिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्1.45. ॥१५०॥संदष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजःगंगा भागीरथी चैव कौशिकी सरयूरपि ॥१५१॥यमुना चाथ कावेरी कृष्णवेणी च निम्नगातुंगभद्रा महावेगा नदी गोदावरी तथा ॥१५२॥चर्मण्वती च सिंधुश्च तथा नदनदीपतिःमेलकप्रभवश्चैव शोणो मणिनिभोदकः ॥१५३॥नर्मदा च शुभस्रोतास्तथा वेत्रवती नदीगोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती ॥१५४॥महाकालमहीचैव तमसा पुष्पवाहिनीजंबूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम् ॥१५५॥सुवर्णपुटकं चैव सुवर्णाकरमंडितम्महानदश्च लौहित्यश्शैलः कांचनशोभितः ॥१५६॥पत्तनं कोशकाराणां कशं च रजताकरम्मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च ॥१५७॥स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाःभवनं वैनतेयस्य दैत्येंद्रेणाभिकंपितम् ॥१५८॥कैलासशिखराकारं यत्कृतं विश्वकर्मणारत्नतोयो महाभीमो लौहित्यो नाम सागरः ॥१५९॥उदयश्च महाशैल उच्छ्रितः शतयोजनम्सवर्णवेदिकः श्रीमान्मेघपंक्तिनिषेवितः ॥१६०॥भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैःसालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥१६१॥अयोमुखश्च विख्यातः सर्वतो धातुमंडितःतमालवनगंधश्च पर्वतो मलयः शुभः ॥१६२॥सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव चभोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः ॥१६३॥तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाःक्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः ॥१६४॥अगस्त्यभवनं चैव यदगस्त्यकृतं पुरासिद्धचारणसंघैश्च विप्रकीर्णं मनोहरम् ॥१६५॥विचित्रनानाविहगं सपुष्पितमहाद्रुमम्जातरूपमयैः शृंगैरप्सरोगणसेवितम् ॥१६६॥गिरिः पुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनःउत्थितः सागरं भित्वा विश्रामश्चंद्रसूर्ययोः ॥१६७॥रराज स महाशृंगैर्गगनं विलिखन्निवचंद्रसूर्यांशुसंकाशैः सागरांबुसमावृतैः ॥१६८॥विद्युत्त्वान्पर्वतः श्रीमानायतः शतयोजनम्विद्युतां यत्र संपाता निपात्यंते नगोत्तमे ॥१६९॥ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितःकुंजरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम् ॥१७०॥विमलाख्या च दुर्द्धर्षा सर्पाणां मालती पुरीतथा भोगवती चापि दैत्येंद्रेणाभिकंपिता ॥१७१॥महासेनगिरिश्चैव पारियात्रश्च पर्वतःचक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः ॥१७२॥प्राग्ज्योतिषपुरं चापि जातरूपमयं शुभम्यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः ॥१७३॥मेघश्च पर्वतश्रेष्ठो मेघगंभीरनिस्स्वनःषष्टिस्तत्र सहस्राणि पर्वतानां विशांपते ॥१७४॥तरुणादित्यसंकाशो मेरुश्चैव महान्गिरिःयक्षराक्षसगंधर्वैर्नित्यं सेवितकंदरः ॥१७५॥हेमगर्भो महासेनस्तथा मेघसखो गिरिःकैलासश्चैव शैलेंद्रो दानवेंद्रेण कंपितः ॥१७६॥हेमपुष्करसञ्छन्नं तेन वैखानसं सरःकंपितं मानसं चैव हंसकारंडवाकुलम् ॥१७७॥त्रिशृंगः पर्वतश्रेष्ठः कुमारी च सरिद्वरातुषारचयसंच्छन्नो मंदरश्चापि पर्वतः ॥१७८॥उशीरबीजश्च गिरिर्भद्रप्रस्थस्तथाद्रिराट्प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः ॥१७९॥देवाभः पर्वतश्चैव तथा वै वालुकागिरिःक्रौंचः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः ॥१८०॥एते चान्ये च गिरयो देशा जनपदास्तथानद्यः ससागराः सर्वाः दानवेनाभिकंपिताः ॥१८१॥कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकंपितःखेचराश्च निशापुत्राः पातालतलवासिनः ॥१८२॥गणस्तथापरो रौद्रो मेघनामांकुशायुधःऊर्द्ध्वगो भीमवेगश्च सर्व एतेभिकंपिताः ॥१८३॥गदी शूली करालश्च हिरण्यकशिपुस्तथाजीमूतघननिर्घोषो जीमूत इव वेगवान् ॥१८४॥देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत्स तु तेन ततस्तीक्ष्णैर्मृगेंद्रेण महानखैः ॥१८५॥तदोंकारसहायेन विदार्य निहतो युधिमही च कालश्च शशीनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः ॥१८६॥नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात्ततः प्रमुदिता देवा ऋषयश्च तपोधनाः ॥१८७॥तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम्यत्त्वया विधृतं देव नारसिंहमिदं वपुः ॥१८८॥एतदेवार्चयिष्यंति परापरविदो जनाःब्रह्मोवाच - भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः ॥१८९॥भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययःपरां च सिद्धिं च परं च सत्वं परं रहस्यं परमं हविश्च ॥१९०॥परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणम्परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं ॥१९१॥परं च यज्ञं परमं च होत्रं त्वामाहुरग्य्रं परमं पुराणम्परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् ॥१९२॥परं रहस्यं परमां गतिं च त्वामाहुरग्य्रं परमं पुराणम्एवमुक्त्वा तु भगवान्सर्वलोकपितामहः ॥१९३॥स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुःततो नदत्सु तूर्येषु नृत्यंतीष्वप्सरःसु च ॥१९४॥क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरःनारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान् ॥१९५॥पौराणं रूपमास्थाय प्रययौ गरडध्वजःअष्टचक्रेण यानेन भूतियुक्तेन भास्वता ॥१९६अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥१९७॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे नरसिंहप्रादुर्भावो नाम पंचचत्वारिंशत्तमोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP