संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ३७ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ३७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ३७ Translation - भाषांतर सनत्कुमार उवाच ॥तदा देवगणास्सर्वे दानवैश्च पराजिताः ॥दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः ॥१॥ते परावृत्य विश्वेशं शंकरं शरणं ययुः ॥त्राहि त्राहीति सर्वेशेत्यू चुर्विह्वलया गिरा२॥दृष्ट्वा पराजयं तेषां देवादीनां स शंकरः ॥सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह ॥३॥निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ ॥बलं च स्वगणानां वै वर्द्धयामास तेजसा ॥४॥शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैस्सह ॥युयुधे निर्भयस्संख्ये महावीरो हरात्मजः ॥५॥कृत्वा क्रोधं वीरशब्दं देवो यस्तारकांतकः ॥अक्षौहिणीनां शतकं समरे स जघान ह ॥६॥रुधिरं पातयामास काली कमललोचना ॥तेषां शिरांसि संछिद्य बभक्ष सहसा च सा ॥७॥पपौ रक्तानि तेषां च दानवानां समं ततः ॥युद्धं चकार विविधं सुरदानवभीषणम् ॥८॥शतलक्षं गजेन्द्राणां शतलक्षं नृणां तथा ॥समादायैकहस्तेन मुखे चिक्षेप लीलया ॥९॥कबंधानां सहस्रं च सन्ननर्त रणे बहु ॥महान् कोलाहलो जातः क्लीबानां च भयंकरः ॥१०॥पुनः स्कंदः प्रकुप्योच्चैः शरवर्षाञ्चकार ह ॥पातयामास क्षयतः कोटिशोऽसुरनायकान् ॥११॥दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः ॥भीताः प्रदुद्रुवुस्सर्वे शेषा मरणतस्तदा ॥१२॥वृषपर्वा विप्रचित्तिर्दंडश्चापि विकंपनः ॥स्कंदेन युयुधुस्सार्द्धं तेन सर्वे क्रमेण च ॥१३॥महामारी च युयुधे न बभूव पराङ्मुखी ॥बभूवुस्ते क्षतांगाश्च स्कंदशक्तिप्रपीडिताः ॥१४॥महामारीस्कंदयोश्च विजयोभूत्तदा मुने ॥नेदुर्दुंदुभयस्स्वर्गे पुष्पवृष्टिः पपात ह ॥१५॥स्कंदस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् ॥दानवानां क्षयकरं यथाप्रकृतिकल्पकम् ॥१६॥महामारीकृतं तच्चोपद्रवं क्षयहेतुकम् ॥चुकोपातीव सहसा सनद्धोभूत्स्वयं तदा ॥१७॥वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम् ॥अभयं सर्ववीराणां नानारत्नपरिच्छदम् ॥१८॥महावीरैश्शंखचूडो जगाम रथमध्यतः ॥धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम् ॥१९॥तस्य सा शरवृष्टिश्च दुर्निवार्य्या भयंकरी ॥महाघोरांधकारश्च वधस्थाने बभूव ह ॥२०॥देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः ॥एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि ॥२१॥पर्वतानां च सर्पाणां नागानां शाखिनां तथा ॥राजा चकार वृष्टिं च दुर्निवार्या भयंकरीम् ॥२२॥तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः ॥नीहारेण च सांद्रेण संवृतौ भास्करौ यथा ॥२३॥नानाविधां स्वमायां च चकार मयदर्शिताम् ॥तां नाविदन् सुराः केपि गणाश्च मुनिसत्तम ॥२४॥तदैव शङ्खचूडश्च महामायी महाबलः ॥शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै ॥२५॥बभंज तद्रथं दिव्यं चिच्छेद रथपीडकान् ॥मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ॥२६॥शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् ॥मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम् ॥२७॥पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा ॥रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम् ॥२८॥स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः ॥शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम् ॥२९॥सर्प्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ॥सर्वांश्चिच्छेद कोपेन दिव्या स्त्रेण शिवात्मजः ॥३०॥वह्निं निवारयामास पार्जन्येन शरेण ह ॥रथं धनुश्च चिच्छेद शंखचूडस्य लीलया ॥३१॥सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् ॥वीरशब्दं चकारासौ जगर्ज च पुनः पुनः ॥३२॥चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि ॥तत्प्रहारेण संप्राप मूर्च्छां दीर्घतमेन च ॥३३॥मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः ॥चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्च सः ॥३४॥शक्त्या जघान तं चापि कार्तिकेयं महाबलम् ॥स पपात महीपृष्ठेऽमोघां कुर्वन्विधिप्रदाम् ॥३५॥काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ॥ज्ञानेन तं शिवश्चापि जीवयामास लीलया ॥३६॥ददौ बलमनंतं च समुत्तस्थौ प्रतापवान् ॥गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः ॥३७॥एतस्मिन्नंतरे वीरो वीरभद्रो महाबलः ॥शंखचूडेन युयुधे समरे बलशालिना ॥३८॥ववर्ष समरेऽस्त्राणि यानियानि च दानवः ॥चिच्छेद लीलया वीरस्तानितानि निजैश्शरैः ॥३९॥दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः ॥तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान् ॥४०॥अथातीव चुकोपोच्चैश्शंखचूडः प्रतापवान् ॥शक्त्या जघानोरसि तं स चकंपे पपात कौ ॥४१॥क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः ॥जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः ॥४२॥एतस्मिन्नंतरे काली जगाम समरं पुनः ॥भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया ॥४३॥वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥सर्वे देवाश्च गंधर्वा यक्षा रक्षांसि पन्नगाः ॥४४॥वाद्यभांडाश्च बहुशश्शतशो मधुवाहकाः ॥पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः ॥४५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखंडे शंखचूडवधे ससैन्यशंखचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP