संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः २३ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः २३ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः २३ Translation - भाषांतर व्यास उवाच ॥सनत्कुमार सर्वज्ञ वद त्वं वदतां वर ॥किमकार्षीद्धरिस्तत्र धर्मं तत्याज सा कथम् ॥१॥सनत्कुमार उपाच ॥विष्णुर्जालंधरं गत्वा दैत्यस्य पुटभेदनम् ॥पातिव्रत्यस्य भंगाय वृन्दायाश्चा करोन्मतिम् ॥२॥वृन्दां स दर्शयामास स्वप्नं मायाविनां वरः ॥स्वयं तन्नगरोद्यानमास्थितोऽद्भुतविग्रहः ॥३॥अथ वृन्दा तदा देवी तत्पत्नी निशि सुव्रता ॥हरेर्मायाप्रभावात्तु दुस्स्वप्नं सा ददर्श ह ॥४॥स्वप्नमध्ये हि सा विष्णुमायया प्रददर्श ह ॥भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् ॥५॥कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ॥दक्षिणाशां गतं मुंडं तमसा च वृतं तदा ॥६॥स्वपुरं सागरे मग्नं सहसैवात्मना सह ॥इत्यादि बहुदुस्स्वप्नान्निशांते सा ददर्श ह ॥७॥ततः प्रबुध्य सा बाला तं स्वप्नं स्वं विचिन्वती ॥ददर्शोदितमादित्यं सच्छिद्रं निःप्रभं मुहुः ॥८॥तदनिष्टमिदं ज्ञात्वा रुदंती भयविह्वला ॥कुत्रचिन्नाप सा शर्म गोपुराट्टालभूमिषु ॥९॥ततस्सखीद्वययुता नगरोद्यानमागमत् ॥तत्रापि सा गता बाला न प्राप कुत्रचित्सुखम् ॥१०॥ततो जलंधरस्त्री सा निर्विण्णोद्विग्नमानसा ॥वनाद्वनांतरं याता नैव वेदात्मना तदा ॥११॥भ्रमती सा ततो बाला ददर्शातीव भीषणौ ॥राक्षसौ सिंहवदनौ दृष्ट्वा दशनभासुरौ ॥१२॥तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा ॥ददर्श तापसं शांतं सशिष्यं मौनमास्थितम् ॥१३॥ततस्तत्कंठमासाद्य निजां बाहुलतां भयात् ॥मुने मां रक्ष शरणमागतास्मीत्यभाषत ॥१४॥मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा ॥हुंकारेणैव तौ घोरौ चकार विमुखौ द्रुतम् ॥१५॥तद्धुंकारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ ॥विस्मितातीव दैत्येन्द्रपत्नी साभून्मुने हृदि ॥१६॥ततस्सा मुनिनाथं तं भयान्मुक्ता कृतांजलिः ॥प्रणम्य दंडवद्भूमौ वृन्दा वचनमब्रवीत् ॥१७॥वृन्दोवाच ॥मुनिनाथ दयासिन्धो परपीडानिवारक ॥रक्षिताहं त्वया घोराद्भयादस्मात्ख लोद्भवात् ॥१८॥समर्थस्सर्वथा त्वं हि सर्वज्ञोऽपि कृपानिधे ॥किंचिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय ॥१९॥जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ॥स तत्रास्ते कथं युद्धे तन्मे कथय सुव्रत ॥२०॥सनत्कुमार उवाच ॥मुनिस्तद्वाक्यमाकर्ण्य मौनकपटमास्थितः ॥कर्त्तुं स्वार्थं विधानज्ञः कृपयोर्द्ध्वमवैक्षत ॥२१॥तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ ॥ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ॥२२॥नीत्वा क्षणार्द्धमागत्य पुनस्तस्याग्रतः स्थितौ ॥तस्यैव कं कबंधं च हस्तावास्तां मुनीश्वर ॥२३॥शिरः कबंधं हस्तौ तौ दृष्ट्वाब्धितनयस्य सा ॥पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ॥२४॥ ॥वृन्दोवाच ॥यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो ॥स कथं न वदस्यद्य वल्लभां मामनागसम् ॥२५॥येन देवास्सगंधर्वा निर्जिता विष्णुना सह ॥कथं स तापसेनाद्य त्रैलोक्यविजयी हत ॥२५॥नांगीकृतं हि मे वाक्यं रुद्रतत्त्वमजानता ॥परं ब्रह्म शिवश्चेति वदंत्या दैत्यसत्तम ॥२७॥ततस्त्वं हि मया ज्ञातस्तव सेवाप्रभावतः ॥गर्वितेन त्वया नैव कुसंगवशगेन हि ॥२८॥इत्थंप्रभाष्य बहुधा स्वधर्मस्था च तत्प्रिया ॥विललाप विचित्रं सा हृदयेन विदूयता ॥२९॥ततस्सा धैर्यमालंब्य दुःखोच्छ्रवा सान्विमुंचती ॥उवाच मुनिवर्यं तं सुप्रणम्य कृतांजलिः ॥३०॥वृन्दोवाच ॥कृपानिधे मुनिश्रेष्ठ परोपकरणादर ॥मयि कृत्वा कृपां साधो जीवयैनं मम प्रभुम् ॥३१॥यत्त्वमस्य पुनश्शक्तो जीवनाय मतो मम ॥अतस्संजीवयैनं मे प्राणनाथं मुनीश्वर ॥३२॥सनत्कुमार उवाच ॥इत्युक्त्वा दैत्यपत्नी सा पतिव्रत्यपरायणाः ॥पादयोः पतिता तस्य दुःखश्वासान् विमुञ्चती ॥३३॥मुनिरुवाच ॥नायं जीवयितुं शक्तो रुद्रेण निहतो युधि ॥रुद्रेण निहता युद्धे न जीवन्ति कदाचन ॥३४॥तथापि कृपयाविष्ट एनं संजीवयाम्यहम् ॥रक्ष्याश्शरणगाश्चेति जानन्धर्मं सनातनम् ॥३५ ॥सनत्कुमार उवाच ॥इत्युक्त्वा स मुनिस्तस्या जीवयित्वा पतिं मुने ॥अंतर्दधे ततो विष्णुस्सर्वमायाविनां वरः ॥३६॥द्रुतं स जीवितस्तेनोत्थितः सागरनन्दनः ॥वृन्दामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः ३७॥अथ वृन्दापि भर्तारं दृष्ट्वा हर्षितमानसा ॥जहौ शोकं च निखिलं स्वप्नवद्धृद्यमन्यत ॥३८॥अथ प्रसन्नहृदया सा हि संजातहृच्छया ॥रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरान् ॥३९॥कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव हि ॥निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥४०॥वृन्दोवाच ॥धिक् तदेवं हरे शीलं परदाराभिगामिनः ॥ज्ञातोऽसि त्वं मया सम्यङ्मायी प्रत्यक्षतापसः ॥४१॥सनत्कुमार उवाच ॥इत्युक्त्वा क्रोधमापन्ना दर्शयंती स्वतेजसम् ॥शशाप केशवं व्यास पातिव्रत्यरता च सा ॥४२॥रे महाधम दैत्यारे परधर्मविदूषक ॥गृह्णीष्व शठ मद्दत्तं शापं सर्वविषोल्बणम् ॥४३॥यौ त्वया मायया ख्यातौ स्वकीयौ दर्शितौ मम ॥तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः ॥४४॥त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् ॥भ्रम सर्पेश्वरेणायं यस्ते शिष्यत्वमागतः४५॥सनत्कुमार उवाच ॥इत्युक्त्वा सा तदा वृन्दा प्रविशद्धव्यवाहनम् ॥विष्णुना वार्यमाणापि तस्मितासक्तचेतसा४६॥तस्मिन्नवसरे देवा ब्रह्माद्या निखिला मुने ॥आगता खे समं दारैः सद्गतिं वै दिदृक्षवः ॥४७॥अथ दैत्येन्द्रपत्न्यास्तु तज्ज्योतिः परमं महत् ॥पश्यतां सर्वदेवानामलोकमगमद्द्रुतम् ॥४८॥शिवातनौ विलीनं तद्वृन्दातेजो बभूव ह ॥आसीज्जयजयारावः खस्थितामर पंक्तिषु ॥४९॥एवं वृन्दा महाराज्ञी कालनेमिसुतोत्तमा ॥पातिव्रत्यप्रभावाच्च मुक्तिं प्राप परां मुने ॥५०॥ततो हरिस्तामनुसंस्मन्मुहुर्वृन्दाचिताभस्मरजोवगुंठितः ॥तत्रैव तस्थौ सुरसिद्धसंघकैः प्रबोध्यमानोपि ययौ न शांतिम् ॥५१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने वृन्दापतिव्रतभंगदेहत्यागवर्णनं नाम त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP