संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः १३ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः १३ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १३ Translation - भाषांतर व्यास उवाच ॥भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक ॥जलंधरं महादैत्यमवधीच्छंकरः प्रभुः ॥१॥तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः ॥विस्तारपूर्वकं शृण्वन्कस्तृप्येत्तद्यशोऽमलम् ॥२॥ ॥सूत उवाच ॥इत्येवं व्याससंपृष्टो ब्रह्मपुत्रो महामुनिः ॥उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः ॥३॥सनत्कुमार उवाच ॥एकदा जीवशक्रौ च भक्त्या परमया मुने ॥दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम् ॥४॥अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरः प्रभुः ॥परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः ॥५॥दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्गतिस्सताम् ॥जटाबद्धेन शिरशातिष्ठत्संशोभिताननः ॥६॥अथ तौ गुरुशक्रौ च कुर्वंतौ गमनं मुदा ॥आलोक्य पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥७॥महातेजस्विनं शांतं जटासंबद्धमस्तकम् ॥महाबाहुं महोरस्कं गौरं नयनभीषणम् ॥६॥अथो पुरंदरोऽपृच्छत्स्वाधिकारेण दुर्मदः ॥पुरुषं तं स्वमार्गांतस्थितमज्ञाय शंकरम् ॥९॥पुरन्दर उवाच ॥कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः ॥स्वस्थानेसंस्थितश्शंभु किं वान्यत्र गतः प्रभुः ॥१०॥सनत्कुमार उवाच ॥शक्रेणेत्थं स पृष्टस्तु किंचिन्नोवाच तापसः ॥शक्रः पुनरपृच्छद्वै नोवाच स दिगंबरः ॥११॥पुनः पुरंदरोऽपृच्छ्ल्लोकानामधिपेश्वरः ॥तूष्णीमास महायोगी लीलारूपधरः प्रभुः ॥१२॥इत्थं पुनः पुनः पृष्टश्शक्रेण स दिगम्बरः ॥नोवाच किंचिद्भगवाञ्छक्रज्ञानपरीक्षया ॥१३॥अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः ॥उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम् ॥१४॥ ॥इन्द्र उवाच ॥रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि ॥अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥१५॥सनत्कुमार उवाच ॥इत्युदीर्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ॥हंतुं दिगंबरं वज्रमुद्यतं स चकार ह ॥१६॥पुरंदरं वज्रहस्तं दृष्ट्वा देवस्सदाशिवः ॥चकार स्तंभनं तस्य वज्रपातस्य शंकरः ॥१७॥ततो रुद्रः क्रुधाविष्टः करालाक्षो भयंकरः ॥द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥१८॥बाहुप्रतिष्टंभभुवामन्युनांतश्शचीपतिः ॥समदह्यत भोगीव मंत्ररुद्धपराक्रमः ॥१९॥दृष्ट्वा बृहस्पतिस्तूर्णं प्रज्वलंतं स्वतेजसा ॥पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम् ॥२०॥कृतांजलिपुटो भूत्वा ततो गुरुरुदारधीः ॥नत्वा च दंडवद्भूमौ प्रभुं स्तोतुं प्रचक्रमे ॥२१॥गुरुरुवाच ॥नमो देवाधिदेवाय महादेवाय चात्मने ॥महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥२२॥दीननाथाय विभवे नमोंऽधकनिषूदिने ॥त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥२३॥विरूपाक्षाय रुद्राय बहुरूपाय शंभवे ॥विरूपायातिरूपाय रूपातीताय ते नमः ॥२४॥यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ॥नमस्ते मखरूपाय परकर्मप्रवर्तिने ॥२५॥कालांतकाय कालाय कालभोगिधराय च ॥नमस्ते परमेशाय सर्वत्र व्यापिने नमः ॥२६॥नमो ब्रह्मशिरोहंत्रे ब्रह्मचंद्र स्तुताय च ॥ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने ॥२७॥त्वमग्निरनिलो व्योम त्वमेवापो वसुंधरा ॥त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि ॥२८॥त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः ॥मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः ॥२९॥त्वमेव सर्व लोकेशस्त्वमेव जगदात्मकः ॥सर्वान्वयस्सर्वभिन्नस्त्वमेव प्रकृतेः परः ॥३०॥त्वं वै सृजसि लोकांश्च रजसा विधिनामभाक् ॥सत्त्वेन हरिरूपस्त्वं सकलं यासि वै जगत् ॥३१॥त्वमेवासि महादेव तमसा हररूपधृक् ॥लीलया भुवनं सर्वं निखिलं पांचभौतिकम् ॥३२॥त्वद्ध्यानबलतस्सूर्यस्तपते विश्वभावन ॥अमृतं च्यवते लोके शशी वाति समरिणः ॥३३॥त्वद्ध्यानबलतो मेघाश्चांबु वर्षंति शंकर ॥त्वद्ध्यानबलतश्शक्रस्त्रिलोकीं पाति पुत्रवत् ॥३४॥त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः ॥स्वाधिकारं च कुर्वंति चकिता भवतो भयात् ॥३५॥त्वत्पादकमलस्यैव सेवनाद्भुवि मानवाः ॥नाद्रियन्ते सुरान्रुद लोकैश्वर्यं च भुंजते ॥३६॥त्वत्पादकमलस्यैव सेवनादगमन्पराम् ॥गतिं योगधना नामप्यगम्यां सर्वदुर्लभाम् ॥३७॥ ॥सनत्कुमार उवाच ॥बृहस्पतिरिति स्तुत्वा शंकरं लोकशंकरम् ॥पादयो पातयामास तस्येशस्य पुरंदरम् ॥३८॥पातयित्वा च देवेशमिंद्रं नत शिरोधरम् ॥बृहस्पतिरुवाचेदं प्रश्रयावनतश्शिवम् ॥३९॥ ॥बृहस्पतिरुवाच ॥दीननाथ महादेव प्रणतं तव पादयोः ॥समुद्धर च शांतं स्वं क्रोधं नयनजं कुरु ॥४०॥तुष्टो भव महादेव पाहीद्र शरणागतम् ॥अग्निरेव शमं यातु भालनेत्रसमुद्भवः ॥४१॥ ॥सनत्कुमार उवाच ॥इत्याकर्ण्य गुरोर्वाक्यं देवदेवो महेश्वरः ॥उवाच करुणासिन्धुर्मेघनिर्ह्रादया गिरा ॥४२॥महेश्वर उवाच ॥क्रोधं च निस्सृते नेत्राद्धारयामि बृहस्पतेः ॥कथं हि कञ्चुकीं सर्पस्संधत्ते नोज्झितां पुनः ॥४३॥सनत्कुमार उवाचु ॥इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ॥उवाच क्लिष्टरूपश्च भयव्याकुलमानसः ॥४४॥बृहस्पतिरुवाच ॥हे देव भगवन्भक्ता अनुकंप्याः सदैव हि ॥भक्तवत्सलनामेति त्वं सत्यं कुरु शंकर ॥४५॥क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ॥उद्धर्तस्सर्वभक्तानां समुद्धर पुरंदरम् ॥४६॥सनत्कुमार उवाच ॥इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ॥प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्त्तिहा ॥४७॥शिव उवाच ॥प्रीतः स्तुत्यानया तात ददामि वरमुत्तमम् ॥इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ॥४८॥समुद्भूतोऽनलो योऽयं भालनेत्रात्सुरेशहा ॥एनं त्यक्ष्याम्यहं दूरं यथेन्द्रं नैव पीडयेत् ॥४९॥ ॥सनत्कुमार उवाच् ॥इत्युक्त्वा तं करे धृत्वा स्वतेजोऽनलमद्भुतम् ॥भालनेत्रात्समुद्भूतं प्राक्षिपल्लवणांभसि ॥५०॥ततश्चांतर्दधे रुद्रो महालीलाकरः प्रभुः ॥गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ॥५१॥यदर्थं गमनोद्युक्तौ दर्शनं प्राप्य तस्य वै ॥कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ॥५२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे जलंधरवधोपाख्याने शक्रजीवनं नाम त्रयोदशोऽ ध्यायः ॥१३॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP