संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः २४ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः २४ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः २४ Translation - भाषांतर ॥व्यास उवाच ॥विधेः श्रेष्ठसुत प्राज्ञः कथेयं श्राविताद्भुता ॥ततश्च किमभूदाजौ कथं दैत्यो हतो वद ॥१॥सनत्कुमार उवाच ॥अदृश्य गिरिजां तत्र दैत्येन्द्रे रणमागते ॥गांधर्वे च विलीने हि चैतन्योऽभूद्वृषध्वजः ॥२॥अंतर्धानगतां मायां दृष्ट्वा बुद्धो हि शंकरः ॥चुक्रोधातीव संहारी लौकिकीं गतिमाश्रितः ॥३॥ततश्शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ॥स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरोघैस्समवाकिरद्रणे ॥४॥क्षिप्तं प्रभुस्तं शरजालमुग्रं जलंधरेणातिबलीयसा हरः ॥प्रचिच्छेद शरैर्वरैर्निजैर्नचित्रमत्र त्रिभवप्रहंतुः ॥५॥ततो जलंधरो दृष्ट्वा रुद्र्मद्भुतविक्रमम् ॥चकार मायया गौरीं त्र्यम्बकं मोहयन्निव ॥६॥रथोपरि गतां बद्धां रुदंतीं पार्वतीं शिवः ॥निशुंभ शुंभदैत्यैश्च बध्यमानां ददर्श सः ॥७॥गौरीं तथाविधां दृष्ट्वा लौकिकीं दर्शयन्गतिम् ॥बभूव प्राकृत इव शिवोप्युद्विग्नमानसः ॥८॥अवाङ्मुखस्थितस्तूष्णीं नानालीलाविशारदः ॥शिथिलांगो विषण्णात्मा विस्मृत्य स्वपराक्रमम् ॥९॥ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः ॥आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥१०॥ततो रुद्रो महालीलो ज्ञानतत्त्वः क्षणात्प्रभुः ॥रौद्ररूपधरो जातो ज्वालामालातिभीषणः ॥११॥तस्यातीव महारौद्ररूपं दृष्ट्वा महासुराः ॥न शेकुः प्रमुखे स्थातुं भेजिरे ते दिशो दश ॥१२॥निशुंभशुंभावपि यौ विख्यातौ वीरसत्तमौ ॥आपे तौ शेकतुर्नैव रणे स्थातुं मुनीश्वर ॥१३॥जलंधरकृता मायांतर्हिताभूच्च तत्क्षणम् ॥हाहाकारो महानासीत्संग्रामे सर्वतोमुखे ॥१४॥ततश्शापं ददौ रुद्रस्तयोश्शुंभनिशुंभयोः ॥पलायमानौ तौ दृष्ट्वा धिक्कृत्य क्रोधसंयुतः ॥१५॥रुद्र उवाच ॥युवां दुष्टावतिखलावपराधकरौ मम ॥पार्वतीदंडदातारौ रणादस्मात्पराङ्मुखौ ॥१६॥पराङ्मुखो न हंतव्य इति वध्यौ न मे युवाम् ॥मम युद्धादतिक्रांतौ गौर्य्या वध्यौ भविष्यतः ॥१७॥एवं वदति गौरीशे सिन्धुपुत्रो जलंधरः ॥चुक्रोधातीव रुद्राय ज्वलज्ज्वलनसन्निभः ॥१८॥रुद्रे रणे महावेगाद्ववर्ष निशिताञ्छरान् ॥बाणांधकारसंछन्नं तथा भूमितलं ह्यभूत् ॥१९॥यावद्रुद्रः प्रचिच्छेद तस्य बाणगणान्द्रुतम् ॥तावत्सपरिघेणाशु जघान वृषभं बली ॥२०॥वृषस्तेन प्रहारेण परवृत्तो रणांगणात् ॥रुद्रेण कृश्यमाणोऽपि न तस्थौ रणभूमिषु ॥२१॥अथ लोके महारुद्रस्स्वीयं तेजोऽतिदुस्सहम् ॥दर्शयामास सर्वस्मै सत्यमेतन्मुनीश्वर ॥२२॥ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः ॥प्रलयानलवद्धोरो बभूव सहसा प्रभुः ॥२३॥दृष्ट्वा पुरः स्थितं दैत्यं मेघकूटमिव स्थितम् ॥अवध्यत्वमपि श्रुत्वाप्यन्यैरभ्युद्यतोऽभवत् ॥२४॥ब्रह्मणो वचनं रक्षन्रक्षको जगतां प्रभुः ॥हृदानुग्रहमातन्वंस्तद्वधाय मनो दधत् ॥२५॥कोपं कृत्वा परं शूली पादांगुष्ठेन लीलया ॥महांभसि चकाराशु रथांगं रौद्रमद्भुतम् ॥२६॥कृत्वार्णवांभसि शितं भगवान्रथांगं स्मृत्वा जगत्त्रयमनेन हतं पुरारिः ॥दक्षान्धकांतकपुरत्रययज्ञहंता लोकत्रयांतककरः प्रहसन्नुवाच ॥२७॥महारुद्र उवाच ॥पादेन निर्मितं चक्रं जलंधर महाम्भसि ॥बलवान्यदि चोद्धर्त्तुं तिष्ठ योद्धुं न चान्यथा ॥२८॥सनत्कुमार उवाच ॥तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः ॥प्रदहन्निव चक्षुर्भ्यां प्राहालोक्य स शंकरम् ॥२९॥जलंधर उवाच ॥रेखामुद्धृत्य हत्वा च सगणं त्वां हि शंकर ॥हत्वा लोकान्सुरैस्सार्द्धं स्वभागं गरुडो यथा ॥३०॥हंतुं चराचरं सर्वं समर्थोऽहं सवासवम् ॥को महेश्वर मद्बाणैरभेद्यो भुवनत्रये ॥बालभावेन भगवांतपसैव विनिर्जितः ॥ब्रह्मा बलिष्ठः स्थाने मे मुनिभिस्सुरपुंगवैः ॥३२॥दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम् ॥तपसा किं त्वया रुद्र निर्जितो भगवानपि ॥३३॥इन्द्राग्नियमवित्तेशवायुवारीश्वरादयः ॥न सेहिरे यथा नागा गंधं पक्षिपतेरिव ॥३४॥न लब्धं दिवि भूमौ च वाहनं मम शंकर ॥समस्तान्पर्वतान्प्राप्य धर्षिताश्च गणेश्वराः ॥३५॥गिरीन्द्रो मन्दरः श्रीमान्नीलो मेरुस्सुशोभनः ॥धर्षितो बाहुदण्डेन कण्डा उत्सर्पणाय मे ॥३६॥गंगा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ ॥अरोणां मम भृत्यैश्च जयो लब्धो दिवौकसात् ॥३७॥वडवाया मुखं बद्धं गृहीत्वा तां करेण तु ॥तत्क्षणादेव सकलमेकार्णवमभूत्तदा ॥३८॥ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि ॥सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम् ॥३९॥गरुडोऽपि मया बद्धो नागपाशेन विष्णुना ॥उर्वश्याद्या मयानीता नार्यः कारागृहांतरम् ॥४०॥मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणाम् ॥जलंधरं महादैत्यं सिंधुपुत्रं महाबलम् ॥४१॥सनत्कुमार उवाच ॥इत्युक्त्वाथ महादेवं तदा वारिधिनन्दनः ॥न चचाल न सस्मार निहतान्दानवान्युधि ॥४२॥दुर्मदेनाविनीतेन दोर्भ्यामास्फोट्य दोर्बलात् ॥तिरस्कृतो महादेवो वचनैः कटुकाक्षरैः ॥४३॥तच्छ्रुत्वा दैत्यवचनममंगलमतीरितम् ॥विजहास महादेवाः परमं क्रोधमादधे ॥४४॥सुदर्शनाख्यं यच्चक्रं पदांगुष्ठविनिर्मितम् ॥जग्राह तत्करे रुद्रस्तेन हंतुं समुद्यतः ॥४५॥सुदर्शनाख्यं तच्चक्रं चिक्षेप भगवान्हरः ॥कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥४६॥प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम् ॥जहार तच्छिरो वेगान्महदायतलोचनम् ॥४७॥रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् ॥शिरश्चाप्यब्धिपुत्रस्य हाहाकारो महानभूत् ॥४८॥द्विधा पपात तद्देहो ह्यंजनाद्रिरिवाचलः ॥कुलिशेन यथा वारांनिधौ गिरिवरो द्विधा ॥४९॥तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् ॥ततस्समस्ता पृथिवी विकृताभून्मुनीश्वर ॥५०॥तद्रक्तमखिलं रुद्रनियोगान्मांसमेव च ॥महारौरवमासाद्य रक्तकुंडमभूदिह ॥५१॥तत्तेजो निर्गतं देहाद्रुद्रे च लयमागमत् ॥वृन्दादेहोद्भवं यद्वद्गौर्य्यां हि विलयं गतम् ॥५२॥जलंधरं हतं दृष्ट्वा देवगन्धर्वपन्नगाः ॥अभवन्सुप्रसन्नाश्च साधु देवेति चाब्रुवन् ॥५३॥सर्वे प्रसन्नतां याता देवसिद्धमुनीश्वराः ॥पुष्पवृष्टिं प्रकुर्वाणास्तद्यशो जगुरुच्चकैः ॥५४॥देवांगना महामोदान्ननृतुः प्रेमविह्वलाः ॥कलस्वराः कलपदं किन्नरैस्सह संजगुः ॥५५॥दिशः प्रसेदुस्सर्वाश्च हते वृन्दापतौ मुने ॥ववुः पुण्यास्सुखस्पर्शा वायवस्त्रिविधा अपि ॥५६॥चन्द्रमाः शीततां यातो रविस्तेपे सुतेजसा ॥अग्नयो जज्वलुश्शांता बभूव विकृतं नभः ॥५७॥एवं त्रैलोक्यमखिलं स्वास्थ्यमापाधिकं मुने ॥हतेऽब्धितनये तस्मिन्हरेणानतमूर्तिना ॥५८॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवर्णनं नाम चतुर्विशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP