संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः १४ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः १४ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १४ Translation - भाषांतर ॥व्यास उवाच ॥सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ॥श्रुतेयमद्भुता मेऽद्य कथा शंभोर्महात्मनः ॥१॥क्षिप्ते स्वतेजसि ब्रह्मन्भालनेत्रसमुद्भवे ॥लवणांभसि किं ताताभवत्तत्र वदाशु तत् ॥२॥सनत्कुमार उवाच ॥शृणु तात महाप्राज्ञ शिवलीलां महाद्भुताम् ॥यच्छ्रुत्वा श्रद्धया भक्तो योगिनां गतिमाप्नुयात् ॥३॥अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ॥क्षिप्तं च लवणाम्भोधौ सद्यो बालत्वमाप ह ॥४॥तत्र वै सिंधुगंगायाः सागरस्य च संगमे ॥रुरोदोच्चैस्स वै बाल सर्वलोक भयंकरः ॥५॥रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः ॥स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतः ॥६॥बालस्य रोदनेनैव सर्वे लोकाश्च तत्रसुः ॥सर्वतो लोकपालाश्च विह्वलीकृतमानसाः ॥७॥किं बहूक्तेन विप्रेन्द्र चचाल सचराचरम् ॥भुवनं निखिलं तात रोदनात्तच्छिशोर्विभो ॥८॥अथ ते व्याकुलास्सर्वे देवास्समुनयो द्रुतम् ॥पितामहं लोकगुरुं ब्रह्माणं शरणं ययुः ॥९॥तत्र गत्वा च ते देवा सुनयश्च सवासवाः ॥प्रणम्य च सुसंस्तुत्य प्रोचुस्तं परमेष्ठिनम् ॥१०॥देवा ऊचुः ॥लोकाधीश सुराधीश भयन्नस्समुपस्थितम् ॥तन्नाशय महायोगिञ्जातोयं ह्यद्भुतो रवः ॥११॥ ॥सनत्कुमार उवाच ॥इत्याकर्ण्य वचस्तेषां ब्रह्मा लोकपितामहः ॥गंतुमैच्छत्ततस्तत्र किमेतदिति विस्मितः ॥१२॥ततो ब्रह्मा सुरैस्तातावतरत्सत्यलोकतः ॥रसां तज्ज्ञातुमिच्छन्स समुद्रमगमत्तदा ॥१३॥यावत्तत्रागतो ब्रह्मा सर्वलोकपितामहः ॥तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह ॥१४॥आगतं विधिमालोक्य देवरूप्यथ सागरः ॥प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयत् ॥१५॥ततो ब्रह्माब्रवीद्वाक्यं सागरं विस्मयान्वितः ॥जलराशे द्रुतं ब्रूहि कस्यायं शिशुरद्भुतः ॥१६॥ ॥सनत्कुमार उवाच ॥ब्रह्मणो वाक्यमाकर्ण्य मुदितस्सागरस्तदा ॥प्रत्युवाच प्रजेशं स नत्वा स्तुत्वा कृतांजलिः ॥१७॥समुद्र उवाच ॥भो भो ब्रह्मन्मया प्राप्तो बालकोऽयमजानता ॥प्रभवं सिंधुगंगायामकस्मात्सर्वलोकप ॥१८॥जातकर्मादिसंस्कारान्कुरुष्वास्य जगद्गुरो ॥जातकोक्तफलं सर्वं विधातर्वक्तुमर्हसि ॥१९॥सनत्कुमार उवाच ॥एवं वदति पाथोधौ स बालस्सागरात्मजः ॥ब्रह्माणमग्रहीत्कण्ठे विधुन्वंतं मुहुर्मुहुः ॥२०॥विधूननं च तस्यैवं सर्वलोककृतो विधेः ॥पीडितस्य च कालेय नेत्राभ्यामगमज्जलम् ॥२१॥कराभ्यामब्धिजातस्य तत्सुतस्य महौजसः ॥कथंचिन्मुक्तकण्ठस्तु ब्रह्मा प्रोवाच सादरम् ॥२२॥ ॥ब्रह्मोवाच ॥शृणु सागर वक्ष्यामि तवास्य तनयस्य हि ॥जातकोक्तफलं सर्वं समाधानरतः खलु ॥२३॥नेत्राभ्यां विधृतं यस्मादनेनैव जलं मम ॥तस्माज्जलंधरेतीह ख्यातो नाम्ना भवत्वसौ ॥२४॥अधुनैवैष तरुणस्सर्वशास्त्रार्थपारगः ॥महापराक्रमो धीरो योद्धा च रणदुर्मदः ॥२५॥भविष्यति च गंभीरस्त्वं यथा समरे गुहः ॥सर्वजेता च संग्रामे सर्वसंपद्विराजितः ॥२६॥दैत्यानामधिपो बालः सर्वेषां च भविष्यति ॥विष्णोरपि भवेज्जेता न कुत श्चित्पराभवः ॥२७॥अवध्यस्सर्वभूतानां विना रुद्रं भविष्यति ॥यत एष समुद्भूतस्तत्रेदानीं गमिष्यति ॥२८॥पतिव्रतास्य भविता पत्नी सौभाग्यवर्द्धिनी ॥सर्वाङ्गसुन्दरी रम्या प्रियवाक्छीलसागरा ॥२९॥सनत्कुमार उवाच ॥इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ॥आमंत्र्य सरितान्नाथं ब्रह्मांतर्द्धानमन्वगात् ॥३०॥अथ तद्दर्शनोत्फुल्लनयनस्सागरस्तदा ॥तमात्मजं समादाय स्वगेहमगमन्मुदा ॥३१॥अपोषयन्महोपायैस्स्वबालं मुदितात्मकः ॥सर्वांगसुन्दरं रम्यं महाद्भुतसुतेजसम् ॥३२॥अथाम्बुधिस्समाहूय कालनेमिं महासुरम् ॥वृन्दाभिधां सुतां तस्य तद्भार्यार्थमयाचत ॥३३॥कालनेम्यसुरो वीरोऽसुराणां प्रवरस्सुधीः ॥साधु येनेम्बुधेर्याञ्चां स्वकर्मनिपुणो मुने ॥३४॥जलंधराय वीराय सागरप्रभवाय च ॥ददौ ब्रह्मविधानेन स्वसुतां प्राणवल्लभाम् ॥३५॥तदोत्सवो महानासीद्विवाहे च तयोस्तदा ॥सुखं प्रापुर्नदा नद्योऽसुराश्चैवाखिला मुने ॥३६॥समुद्रोऽति सुखं प्राप सुतं दृष्ट्वा हि सस्त्रियम् ॥दानं ददौ द्विजातिभ्योऽप्यन्येभ्यश्च यथाविधि ॥३७॥ये देवैर्निर्जिताः पूर्वं दैत्याः पाताल संस्थिताः ॥ते हि भूमंडलं याता निर्भयास्तमुपाश्रिताः ॥३८॥ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां सिंधुसुताय दत्त्वा ॥बभूवुरत्यन्तमुदान्विता हि तमाश्रिता देव विनिर्जयाय ॥३९॥स चापि वीरोम्बुधिबालकोऽसौ जलंधराख्योऽसुरवीरवीरः ॥संप्राप्य भार्यामतिसुन्दरी वशी चकार राज्यं हि कविप्रभावात् ॥४०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलं धरवधोपाख्याने जलंधरोत्पत्तिविवाहवर्णनं नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP