संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ४०

युद्धखण्डः - अध्यायः ४०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः ॥
तथा वीरान् प्राणसमान् चुकोपातीव दानवः ॥१॥
उवाच वचनं शंभुं तिष्ठाम्याजौ स्थिरो भव ॥
किमेतैर्निहतैर्मेद्य संमुखे समरं कुरु ॥२॥
इत्युक्त्वा दानवेन्द्रोसौ सन्नद्धस्समरे मुने ॥
अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च ॥३॥
दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः ॥
चकार शरवृष्टिञ्च तोयवृष्टिं यथा घनः ॥४॥
मायाश्चकार विविधा अदृश्या भयदर्शिताः ॥
अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ॥५॥
ता दृष्ट्वा शंकरस्तत्र चिक्षे पास्त्रं च लीलया ॥
माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ॥६॥
तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा ॥
दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ॥७॥
अथ युद्धे महेशानस्तद्वधाय महाबलः ॥
शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ॥८॥
तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी ॥
क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर ॥९॥
सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने ॥
किमेकदानवस्येश शङ्खचूडस्य सांप्रतम् ॥१०॥
तथापि वेदमर्यादा न नाश्या स्वामिना त्वया ॥
तां शृणुष्व महादेव सफलं कुरु सत्यतः ॥११॥
यावदस्य करेऽत्युग्रं कवचं परमं हरेः ॥
यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः ॥१२॥
तावदस्य जरामृत्युश्शंखचूडस्य शंकर ॥
नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ॥१३॥
इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा ॥
हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ॥१४॥
वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः ॥
शङ्खचूडोपकंठं च गत्वोवाच स तं तदा ॥१५॥
वृद्धब्राह्मण उवाच ॥
देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय सांप्रतम् ॥१६॥
नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् ॥
पश्चात्त्वां कथयिष्यामि पुनस्सत्यं करिष्यसि ॥१७॥
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ॥
कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ॥१८॥
तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः ॥
तद्ददौ कवचं दिव्यं विप्राय प्राणसंमतम् ॥१९॥
मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः ॥
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥२०॥
गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः ॥
वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ॥२१॥
एतस्मिन्नंतरे शंभुमीरयन् स्ववचः प्रभुः ॥
शंखचूडवधार्थाय शूलं जग्राह प्रज्वलत् ॥२२॥
तच्छूलं विजयं नाम शङ्करस्य परमात्मनः ॥
सञ्चकाशे दिशस्सर्वा रोदसी संप्रकाशयन् ॥२३॥
कोटिमध्याह्नमार्तंडप्रलयाग्निशिखोपमम् ॥
दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ॥२४॥
तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम् ॥
सुरासुराणां सर्वेषां दुस्सहं च भयंकरम् ॥२५॥
संहर्तुं सर्वब्रह्माडमवलंब्य च लीलया ॥
संस्थितं परमं तत्र एकत्रीभूय विज्वलत् ॥२६॥
धनुस्सहस्रं दीर्घेण प्रस्थेन शतहस्तकम् ॥
जीवब्रह्मास्वरूपं च नित्यरूपमनिर्मितम् ॥२७॥
विभ्रमद् व्योम्नि तच्छूलं शंख चूडोपरि क्षणात् ॥
चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ॥२८॥
अथ शूलं महेशस्य द्रुतमावृत्य शंकरम ॥
ययौ विहायसा विप्रमनोयायि स्वकार्यकृत् ॥२९॥
नेदुर्दुंदुभयस्स्वर्गे जगुर्गंधर्वकिन्नराः ॥
तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ॥३०॥
बभूव पुष्पवृष्टिश्च शिवस्योपरि संततम् ॥
प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ॥३१॥
शंखचूडो दानवेन्द्रः शिवस्य कृपया तदा ॥
शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह ॥३२॥
अस्थिभिश्शंखचूडस्य शंखजातिर्बभूव ह ॥
प्रशस्तं शंखतोयं च सर्वेषां शंकरं विना ॥३३॥
विशेषेण हरेर्लक्ष्म्याः शंखतोयं महाप्रियम् ॥
संबंधिनां च तस्यापि न हरस्य महामुने ॥३४॥
तमित्थं शंकरो हत्वा शिवलोकं जगाम सः ॥
सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः ॥३५॥
हरिर्जगाम वैकुंठं कृष्णस्स्ववस्थो बभूव ह ॥
सुरास्स्वविषयं प्रापुः परमानन्दसंयुताः ॥३६॥
जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम् ॥
निर्मलं चाभवद्व्योम क्षितिस्सर्वा सुमंगला ॥३७॥
इति प्रोक्तं महेशस्य चरितं प्रमुदावहम् ॥
सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम् ॥३८॥
धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम् ॥
भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम् ॥३९॥
य इदं शृणुयान्नित्यं चरितं शशिमौलिनः ॥
श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः ॥४०॥
धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः ॥
सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः ॥४१॥
इदमाख्यानमतुलं सर्वोपद्रवनाशनम् ॥
परमज्ञानजननं शिवभक्तिविवर्द्धनम् ॥४२॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ॥
धनाढ्यो वैश्यजश्शूद्रश्शृण्वन् सत्तमतामियात् ॥४३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शंखचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ॥४० ॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP