संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ४२ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ४२ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४२ Translation - भाषांतर नारद उवाच ॥शंखचूडवधं श्रुत्वा चरितं शशिमौलिनः ॥अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः ॥१॥ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः ॥मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम् ॥२॥ब्रह्मोवाच ॥जलंधरवधं श्रुत्वा व्यासस्सत्यवतीसुतः ॥अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम् ॥३॥सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् ॥सुप्रशंस्य महेशस्य चरितं मंगलायनम् ॥४॥सनत्कुमार उवाच ॥शृणु व्यास महेशस्य चरितं मंगलायनम् ॥यथान्धको गाणपत्यं प्राप शंभोः परात्मनः ॥५॥कृत्वा परमसंग्रामं तेन पूर्वं मुनीश्वर ॥प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः ॥६॥माहात्म्यमद्भुतं शंभोश्शरणागतरक्षिणः ॥सुभक्तवत्सलस्यैव नानालीलाविहारिणः ॥७॥माहात्म्यमेतद्वृषभध्वजस्य श्रुत्वा मुनिर्गंधवतीसुतो हि ॥वचो महार्थं प्रणिपत्य भक्त्या ह्युवाच तं ब्रह्मसुतं मुनींद्रम् ॥८॥व्यास उवाच ॥को ह्यंधको वै भगवन्मुनीश कस्यान्वये वीर्यवतः पृथिव्याम् ॥जातो महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतोंऽधकश्च ॥९॥एतत्समस्तं सरहस्यमद्य ब्रवीहि मे ब्रह्मसुतप्रसादात् ॥स्कंदान्मया वै विदितं हि सम्यक् महेशपुत्रादमितावबोधात् ॥१०॥गाणपत्यं कथं प्राप शंभोः परमतेजसः ॥सोंधको धन्य एवाति यो वभूव गणेश्वरः ॥११॥ ॥ब्रह्मोवाच ॥व्यासस्य चैतद्वचनं निशम्य प्रोवाच स ब्रह्मसुतस्तदानीम् ॥महेश्वरोतीः परमाप्तलक्ष्मीस्संश्रोतुकामं जनकं शुकस्य ॥१२॥सनत्कुमार उवाच ॥पुराऽऽगतो भक्तकृपाकरोऽसौ कैलासतश्शैलसुता गणाढ्यः ॥विहर्तुकामः किल काशिका वै स्वशैलतो निर्जरचक्रवती ॥१३॥स राजधानीं च विधाय तस्यां चक्रं परोतीः सुखदा जनानाम् ॥तद्रक्षकं भैरवनामवीरं कृत्वा समं शैलजयाहि बह्वीः ॥१४॥स एकदा मंदरनामधेयं गतो नगे तद्वरसुप्रभावात् ॥तत्रापि मानागणवीरमुख्यैश्शिवासमेतो विजहार भूरि ॥१५॥पूर्वे दिशो मन्दर शैलसंस्था कपर्द्दिनश्चंडपराकमस्य ॥चक्रे ततो नेत्रनिमीलनं तु सा पार्वती नर्मयुतं सलीलम् ॥१६॥प्रवालहेमाब्जधृतप्रभाभ्यां कराम्बुजाभ्यां निमिमील नेत्रे ॥हरस्य नेत्रेषु निमीलितेषु क्षणेन जातः सुमहांधकारः ॥१७॥तत्स्पर्शयोगाच्च महेश्वरस्य करौ च तस्याः स्खलितं मदांभः ॥शंभोर्ललाटे क्षणवह्नितप्तो विनिर्गतो भूरिजलस्य बिन्दुः ॥१८॥गर्भो बभूवाथ करालवक्त्रो भयंकरः क्रोधपरः कृतघ्नः ॥अन्धो विरूपी जटिलश्च कृष्णो नरेतरो वैकृतिकस्सुरोमा ॥१९ ॥गायन्हसन्प्ररुदन्नृत्यमानो विलेलिहानो घरघोरघोषः ॥जातेन तेनाद्भुतदर्शनेन गौरीं भवोऽसौ स्मितपूर्वमाह ॥२०॥श्रीमहेश उवाच ॥निमील्य नेत्राणि कृतं च कर्म बिभेषि साऽस्माद्दयिते कथं त्वम् ॥गौरी हरात्तद्वचनं निशम्य विहस्यमाना प्रमुमोच नेत्रे ॥२१॥जाते प्रकाशे सति घोररूपो जातोंधकारादपि नेत्रहीनः ॥तादृग्विधं तं च निरीक्ष्य भूतं पप्रच्छ गौरी पुरुषं महेशम् ॥२२॥गौर्य्युवाच ॥कोयं विरूपो भगवन्हि जातो नावग्रतो घोरभयंकरश्च ॥वदस्व सत्यं मम किं निमित्तं सृष्टोऽथ वा केन च कस्य पुत्रः ॥२३॥सनत्कुमार उवाच ॥श्रुत्वा हरस्तद्वचनं प्रियाया लीलाकरस्सृष्टिकृतोंऽधरूपाम् ॥लीलाकरायास्त्रिजगज्जनन्या विहस्य किंचिद्भगवानुवाच ॥२४॥महेश उवाच ॥शृण्वंबिके ह्यद्भुतवृत्तकारे उत्पन्न एषोऽद्भुतचण्डवीर्यः ॥निमीलिते चक्षुषि मे भवत्या स स्वेदजो मेंधकनामधेयः ॥२५॥त्वं चास्य कर्तास्ययथानुरूपं त्वया ससख्या दयया गणेभ्यः ॥स रक्षितव्यस्त्व यि तं हि वैकं विचार्य बुद्ध्या करणीयमार्ये ॥२६॥सनत्कुमार उवाच ॥गौरी ततो भृत्यवचो निशम्य कारुण्यभावात्सहिता सखीभिः ॥नानाप्रकारैर्बहुभिर्ह्युपायैश्चकार रक्षां स्वसुतस्य यद्वत् ॥२७॥कालेऽथ तस्मिञ्शिशिरे प्रयातो हिरण्यनेत्रस्त्वथ पुत्रकामः ॥स्वज्येष्ठबंधोस्तनयप्रतानं संवीक्ष्य चासीत्प्रियया नियुक्तः ॥२८॥अरण्यमाश्रित्य तपश्चकारासुरस्तदा कश्यपजस्सुतार्थम् ॥काष्ठोपमोऽसौ जितरोषदोषस्संदर्शनार्थं तु महेश्वरस्य ॥२९॥तुष्टः पिनाकी तपसास्य सम्यग्वरप्रदानाय ययौ द्विजेन्द्र ॥तत्स्थानमासाद्य वृषध्वजोऽसौ जगाद दैत्यप्रवरं महेशः ॥३०॥महेश उवाच ॥हे दैत्यनाथ कुरु नेन्द्रियसंघपातं किमर्थमेतद्व्रतमाश्रितं ते ॥प्रब्रूहि कामं वरदो भवोऽहं यदिच्छसि त्वं सकलं ददामि ॥३१॥सनत्कुमार उवाच ॥सरस्यमाकर्ण्य महेशवाक्यं ह्यतिप्रसन्नः कनकाक्षदैत्यः ॥कृतांजलिर्नम्रशिरा उवाच स्तुत्या च नत्वा विविधं गिरीशम् ॥३२॥ ॥हिरण्याक्ष उवाच ॥पुत्रस्तु मे चन्द्रललाट नास्ति सुवीर्यवान्दैत्यकुलानुरूपी ॥तदर्थमेतद्व्रतमास्थितोऽहं तं देहि देवेश सुवीर्यवंतम् ॥३३॥यस्माच्च मद्भ्रातुरनंतवीर्याः प्रह्लादपूर्वा अपि पंचपुत्राः ॥ममेह नास्तीति गतान्वयोऽहं को मामकं राज्यमिदं बुभूषेत् ॥३४॥राज्यं परस्य स्वबलेन हृत्वा भुंक्तेऽथवा स्वं पितुरेव दृष्टम् ॥च प्रोच्यते पुत्र इह त्वमुत्र पुत्री स तेनापिभवेत्पितासौ ॥३५॥ऊर्द्ध्वं गतिः पुत्रवतां निरुक्ता मनीषिभिर्धर्मभृतां वरिष्ठैः ॥सर्वाणि भूतानि तदर्थमेवमतः प्रवर्तेत पशून् स्वतेजसः ॥३६॥निरन्वयस्याथ न संति लोकास्तदर्थमिच्छंति जनाः सुरेभ्यः ॥सदा समाराध्य सुरात्रिपंकजं याचंत इत्थं सुतमेकमेव ॥३७॥सनत्कुमार उवाच ॥एतद्भवस्तद्वचनं निशम्य कृपाकरो दैत्यनृपस्य तुष्टः ॥तमाह दैत्यातप नास्ति पुत्रस्त्वद्वीर्यजः किंतु ददामि पुत्रम् ॥३८॥ममात्मजं त्वंधकनामधेयं त्वत्तुल्यवीर्यं त्वपराजितं च ॥वृणीष्व पुत्रं सकलं विहाय दुःखं प्रतीच्छस्व सुतं त्वमेव ॥३९॥सनत्कुमार उवाच ॥इत्येवमुक्त्वा प्रददौ स तस्मै हिरण्यनेत्राय सुतं प्रसन्नः ॥हरस्तु गौर्य्या सहितो महात्मा भूतादिनाथस्त्रिपुरारिरुग्रः ॥४०॥नतो हरात्प्राप्य सुतं स दैत्यः प्रदक्षिणीकृत्य यथाक्रमेण ॥स्तोत्रैरनेकैरभिपूज्य रुद्रं तुष्टस्स्वराज्यं गतवान्महात्मा ॥४१ततस्तु पुत्रं गिरिशादवाप्य रसातलं चंडपराक्रमस्तु ॥इमां धरित्रीमनयत्स्वदेशं दैत्यो विजित्वा त्रिदशानशेषान् ॥४२॥ततस्तु देवेर्मुनिभिश्च सिद्धैः सर्वात्मकं यज्ञमयं करालम् ॥वाराहमाश्रित्य वपुः प्रधानमाराधितो विष्णुरनंतवीर्यः ॥४३॥घोणाप्रहारैर्विविधैर्धरित्रीं विदार्य पातालतलं प्रविश्य ॥तुंडेन दैत्याञ्शतशो विचूर्ण्य दंष्ट्राभिरग्र्याभि अखंडिताभिः ॥४४॥पादप्रहारैरशनिप्रकाशैरुन्मथ्य सैन्यानि निशाचराणाम् ॥मार्तंडकोटिप्रतिमेन पश्चात्सुदर्शनेनाद्भुतचंडतेजाः ॥४५॥हिरण्यनेत्रस्य शिरो ज्वलंतं चिच्छेद दैत्यांश्च ददाह दुष्टान् ॥ततः प्रहृष्टो दितिजेन्द्रराजं स्वमंधकं तत्र स चाभ्यषिंचत् ॥४६॥स्वस्थानमागत्य ततो धरित्रीं दृष्ट्वांकुरेणोद्धरतः प्रहृष्टः ॥भूमिं च पातालतलान्महात्मा पुपोष भागं त्वथ पूर्वकं तु ॥४७॥देवैस्समस्तैर्मुनिभिःप्रहृष्टै रभिषुतः पद्मभुवा च तेन ॥ययौ स्वलोकं हरिरुग्रकायो वराहरूपस्तु सुकार्यकर्ता ॥४८॥हिरण्यनेत्रेऽथ हतेऽसुरेशे वराहरूपेण सुरेण देवाः ॥देवास्समस्ता मुनयश्च सर्वे परे च जीवास्सुखिनो बभूवुः ॥४९॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे हिरण्याक्षवधो नाम द्विचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP