संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ३१ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ३१ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ३१ Translation - भाषांतर सनत्कुमार उवाच ॥अथाकर्ण्य वचश्शंभुर्हरिविध्योस्सुदीनयोः ॥उवाच विहसन्वाण्या मेघनादगभीरया ॥१॥शिव उवाच ॥हे हरे वत्स हे ब्रह्मंस्त्यजतं सर्वशो भयम् ॥शंखचूडोद्भवं भद्रं सम्भविष्यत्यसंशयम् ॥२॥शंखचूडस्य वृत्तांतं सर्वं जानामि तत्त्वतः ॥कृष्णभक्तस्य गोपस्य सुदाम्नश्च पुरा प्रभो ॥३॥मदाज्ञया हृषीकेशो कृष्णरूपं विधाय च ॥गोशालायां स्थितो रम्ये गोलोके मदधिष्ठिते ॥४॥स्वतंत्रोहमिति स्वं स मोहं मत्वा गतः पुरा ॥क्रीडास्समकरोद्बह्वीस्स्वैरवर्तीव मोहितः ॥५॥तं दृष्ट्वा मोहमत्युग्रं तस्याहं मायया स्वया ॥तेषां संहृत्य सद्बुद्धिं शापं दापितवान् किल ॥६॥इत्थं कृत्वा स्वलीलां तां मायां संहृतवानहम् ॥ज्ञानयुक्तास्तदा ते तु मुक्तमोहास्सुबुद्धयः ॥७॥समीपमागतास्ते मे दीनीभूय प्रणम्य माम् ॥अकुर्वन्सुनुतिं भक्त्या करौ बद्ध्वा विनम्रकाः ॥८॥वृत्तांतमवदन्सर्वं लज्जाकुलितमानसाः ॥ऊचुर्मत्पुरतो दीना रक्षरक्षेति वै गिरः ॥९॥तदा त्वहं भवस्तेषां संतुष्टः प्रोक्तवान् वचः ॥भयं त्यजत हे कृष्ण यूयं सर्वे मदाज्ञया ॥१०॥रक्षकोऽहं सदा प्रीत्या सुभद्रं वो भविष्यति ॥मदिच्छयाऽखिलं जातमिदं सर्वं न संशयः ॥११॥स्वस्थानं गच्छ त्वं सार्द्धं राधया पार्षदेन च ॥दानवस्तु भवेत्सोयं भारतेऽत्र न संशयः ॥१२॥शापोद्धारं करिष्येऽहं युवयोस्समये खलु ॥मदुक्तमिति संधार्य शिरसा राधया सह ॥१३॥श्रीकृष्णोऽमोददत्यंतं स्वस्थानमगमत्सुधीः ॥न्यष्ठातां सभयं तत्र मदाराधनतत्परौ ॥१४॥मत्वाखिलं मदधीनमस्वतन्त्रं निजं च वै ॥स सुदामाऽभवद्राधाशापतो दानवेश्वरः ॥१५॥शङ्खचूडाभिधो देवद्रोही धर्मविचक्षणः ॥क्लिश्नाति सुबलात्कृत्स्नं सदा देवगणं कुधीः ॥१६॥मन्मायामोहितस्सोतिदुष्टमंत्रिसहा यवान् ॥तद्भयं त्यजताश्वेव मयि शास्तरि वै सति ॥१७॥सनत्कुमार उवाच ॥इत्यूचिवाञ्शिवो यावद्धरिब्रह्मपुरः कथाम् ॥अभवत्तावदन्यच्च चरितं तन्मुने शृणु ॥१८॥तस्मिन्नेवांतरे कृष्णो राधया पार्षदैः सह ॥सद्गोपैराययौ शंभुमनुकूलयितुं प्रभुम् ॥१९॥प्रभुं प्रणम्य सद्भक्त्या मिलित्वा हरिमादरात् ॥संमतो विधिना प्रीत्या संतस्थौ शिवशासनात् ॥२०॥ततः शंभुं पुनर्नत्वा तुष्टाव विहिताञ्जलिः ॥श्रीकृष्णो मोहनिर्मुक्तो ज्ञात्वा तत्त्वं शिवस्य हि ॥२१॥श्रीकृष्ण उवाच ॥देवदेव महादेव परब्रह्म सतांगते ॥क्षमस्व चापराधं मे प्रसीद परमेश्वर ॥२२॥त्वत्तः शर्व च सर्वं च त्वयि सर्वं महेश्वर ॥सर्वं त्वं निखिलाधीश प्रसीद परमेश्वर ॥२३॥त्वं ज्योतिः परमं साक्षात्सर्वव्यापी सनातनः ॥त्वया नाथेन गौरीश सनाथास्सकला वयम् ॥२४॥सर्वोपरि निजं मत्वा विहरन्मोहमाश्रितः ॥तत्फलं प्राप्तवानस्मि शापं प्राप्तस्सवामकः ॥२५॥पार्षदप्रवरो यो मे सुदामा नाम गोपकः ॥स राधाशापतः स्वामिन्दानवीं योनिमाश्रितः ॥२६॥अस्मानुद्धर दुर्ग्गेश प्रसीद परमेश्वर ॥शापोद्धारं कुरुष्वाद्य पाहि नश्शरणागतान् ॥२७॥इत्युक्त्वा विररामैव श्रीकृष्णो राधया सह ॥प्रसन्नोऽभूच्छिवस्तत्र शरणागतवत्सलः ॥२८श्रीशिव उवाच ॥हे कृष्ण गोपिकानाथ भयं त्यज सुखी भव ॥मयानुगृह्णता तात सर्वमाचरितं त्विदम् ॥२९॥संभविष्यति ते भद्रं गच्छ स्वस्थानमुत्तमम् ॥स्थातव्यं स्वाधिकारे च सावधानतया सदा ॥३०॥विहरस्व यथाकामं मां विज्ञाय परात्परम् ॥स्वकार्यं कुरु निर्व्यग्रं राधया पार्षदैः खलु ॥३१॥वाराहप्रवरे कल्पे तरुण्या राधया सह ॥शापप्रभावं भुक्त्वा वै पुनरायास्यति स्वकम् ॥३२सुदामा पार्षदो यो हि तव कृष्ण प्रियप्रियः ॥दानवीं योनिमाश्रित्येदानीं क्लिश्नाति वै जगत् ॥३३॥शापप्रभावाद्राधाया देवशत्रुश्च दानवः ॥शङ्खचूडाभिधस्सोऽति दैत्यपक्षी सुरदुहः ॥३४॥तेन निस्सारिता देवास्सेन्द्रा नित्यं प्रपीडिताः ॥हृताधिकारा विकृतास्सर्वे याता दिशो दश ॥३५॥ब्रह्माच्युतौ तदर्थे ही हागतौ शरणं मम ॥तेषां क्लेशविनिर्मोक्षं करिष्ये नात्र संशयः ॥३६॥सनत्कुमार उवाच ॥इत्युक्त्वा शंकरः कृष्णं पुनः प्रोवाच सादरम् ॥हरिं विधिं समाभाष्य वचनं क्लेशनाशनम् ॥३७॥शिव उवाच ॥हे हरे हे विधे प्रीत्या ममेदं वचनं शृणु ॥गच्छतं त्वरितं तातौ देवानंदाय निर्भयम् ॥३८॥कैलासवासिनं रुद्रं मद्रूपं पूर्णमुत्तमम् ॥देवकार्यार्थमुद्भूतं पृथगाकृतिधारिणम् ॥३९॥एतदर्थे हि मद्रूपः परिपूर्णतमः प्रभुः ॥कैलासे भक्तवशतस्संतिष्ठति गिरौ हरे ॥४०॥मत्तस्त्वत्तो न भेदोऽस्ति युवयोस्सेव्य एव सः ॥चराचराणां सर्वेषां सुरादीनां च सर्वदा ॥४१॥आवयोभेदकर्ता यस्स नरो नरकं व्रजेत् ॥इहापि प्राप्नुयात्कृष्टं पुत्रपौत्रविवर्जितः ॥४२॥इत्युक्तवंतं दुर्गेशं प्रणम्य च मुहुर्मुहुः ॥राधया सहितः कृष्णः स्वस्थानं सगणो ययौ ॥४३॥हरिर्ब्रह्मा च तौ व्यास सानन्दौ गतसाध्वसौ ॥मुहुर्मुहुः प्रणम्येशं वैकुंठं ययतुर्द्रुतम् ॥४४॥तत्रागत्याखिलं वृत्तं देवेभ्यो विनिवेद्य तौ ॥तानादाय ब्रह्मविष्णू कैलासं ययतुर्गिरिम् ॥४५॥तत्र दृष्ट्वा महेशानं पार्वतीवल्लभं प्रभुम् ॥दीनरक्षात्तदेहं च सगुणं देवनायकम् ॥४६॥तुष्टुवुः पूर्ववत्सर्वे भक्त्या गद्गदया गिरा ॥करौ बद्ध्वा नतस्कंधा विनयेन समन्विताः ॥४७॥देवा ऊचुः ॥देवदेव महादेव गिरिजानाथ शंकर ॥वयं त्वां शरणापन्ना रक्ष देवान्भयाकुलान् ॥४८॥शंखचूडदानवेन्द्रं जहि देवनिषूदनम् ॥तेन विक्लाविता देवाः संग्रामे च पराजिताः ॥४९॥हृताधिकाराः कुतले विचरंति यथा नराः ॥देवलोको हि दुर्दृश्यस्तेषामासीच्च तद्भयात् ॥५०॥दीनोद्धर कृपासिन्धो देवानुद्धर संकटात् ॥शक्रं भयान्महेशानहत्वा तं दानवाधिपम् ॥५१॥इति श्रुत्वा वचश्शंभुर्देवानां भक्तवत्सलः ॥उवाच विहसन् वाण्या मेघनादगभीरया ॥५२॥श्रीशंकर उवाच ॥हे हरे हे विधे देवाः स्वस्थानं गच्छत धुवम् ॥शंखचूडं वधिष्यामि सगणं नात्र संशयः ॥५३॥सनत्कुमार उवाच ॥इत्याकर्ण्य महेशस्य वचः पीयूषसंनिभम् ॥ते सर्वे प्रमुदा ह्यासन्नष्टं मत्वा च दानवम् ॥५४॥हरिर्जगाम वैकुंठं सत्यलोके विधिस्तदा ॥प्रणिपत्य महेशं च सुराद्याः स्वपदं ययुः ॥५५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे शिवोपदेशो नामैकत्रिंशोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP