संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ४५ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ४५ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४५ Translation - भाषांतर सनत्कुमार उवाच ॥गतस्ततो मत्तगजेन्द्रगामी पीत्वा सुरां घूर्णितलोचनश्च ॥महानुभावो बहुसैन्ययुक्तः प्रचंडवीरो वरवीरयायी ॥१॥ददर्श दैत्यः स्मरबाणविद्धो गुहां ततो वीरकरुद्धमार्गाम् ॥स्निग्धं यथा वीक्ष्य पतंगसंज्ञः दशाप्रदीपं च कृमिर्ह्युपेत्य ॥२॥तथा प्रदर्श्याशु पुनः पुनश्च संपीड्यमानोपि स वीरकेण ॥बभूव कामाग्निसुदग्धदेहोंऽधको महादैत्यपतिः स मूढः ॥३॥पाषाणवृक्षाशनितोयवह्निभुजंगशस्त्रास्त्रविभीषिकाभिः ॥संपीडितोऽसौ न पुनः प्रपीड्यः पृष्टश्च कस्त्वं समुपागतोसि ॥४॥निशम्य तद्गां स्वमतं स तस्मै चकार युद्धं स तु वीरकेण ॥मुहूर्तमाश्चर्यवदप्रमेयं संख्ये जितो वीरतरेण दैत्यः ॥५॥ततस्तु संग्रामशिरो विहाय क्षुत्क्षामकंठस्तृषितो गतोऽभूत् ॥चूर्णीकृते खड्गवरे च खिन्ने पलायमानो गतविस्मयः सः ॥६॥चक्रुस्तदाजिं सह वीरकेण प्रह्लादमुख्या दितिजप्रधानाः ॥लज्जांकुशाकृष्टधियो बभूवुस्सुदारुणाः शस्त्रशतैरनेकैः ॥७॥विरोचनस्तत्र चकार युद्धं बलिश्च बाणश्च सहस्रबाहुः ॥भजिः कुजंभस्त्वथ शंबरश्च वृत्रादयश्चाप्यथ वीर्यवंतः ॥८॥ते युद्ध्यमाना विजिताः समंताद्द्विधाकृता वै गणवीरकेण ॥शेषे हतानां बहुदानवानामुक्तं जयत्येव हि सिद्धसंघैः ॥९॥भेरुंडजानाभिनयप्रवृत्ते मेदोवसामांससुपूयमध्ये ॥क्रव्यादसंघातसमाकुले तु भयंकरे शोणितकर्दमे तु ॥१०॥भग्नैस्तु दैत्यैर्भगवान् पिनाकी व्रतं महापाशुपतं सुघोरम् ॥प्रियेः मया यत्कृतपूर्वमासीद्दाक्षायणीं प्राह सुसांत्वयित्वा ॥११॥शिव उवाच ॥तस्माद्बलं यन्मम तत्प्रणष्टं मर्त्यैरमर्त्यस्य यतः प्रपातः ॥पुण्यक्षयाही ग्रह एव जातो दिवानिशं देवि तव प्रसंगात् ॥१२॥उत्पाद्य दिव्यं परमाद्भुतं तु पुनर्वरं घोरतरं च गत्वा ॥तस्माद्व्रतं घोरतरं चरामि सुनिर्भयः सुन्दरि वै विशोका ॥१३॥सनत्कुमार उवाच ॥एतावदुक्त्वा वचनं महात्मा उपाद्य घोषं शनकैश्चकार ॥स तत्र गत्वा व्रतमुग्रदीप्तो गतो वनं पुण्यतमं सुघोरम् ॥१४॥चर्तुं हि शक्यं तु सुरासुरैर्यत्र तादृशं वर्षसहस्रमात्रम् ॥सा पार्वती मंदरपर्वतस्था प्रतीक्ष्यमाणागमनं भवस्य ॥१५॥पतिव्रता शीलगुणोपपन्ना एकाकिनी नित्यमथो विभीता ॥गुहांतरे दुःखपरा बभूव संरक्षिता सा सुतवीरकेण ॥१६॥ततस्स दैत्यो वरदानमत्तस्तैर्योधमुख्यैस्सहितो गुहां ताम् ॥विभिन्नधैर्यः पुनराजगाम शिलीमुखैर्मारसमुद्भवैश्च ॥१७॥अत्यद्भुतं तत्र चकार युद्धं हित्वा तदा भोजनपाननिद्राः ॥रात्रिं दिवं पंचशतानि पंच क्रुद्धस्स सैन्यैस्सह वीरकेण ॥१८॥खड्गैस्सकुंतैस्सह भिंदिपालर्गदाभुशुंडीभिरथो प्रकांडैः ॥शिलीमुखैरर्द्धशशीभिरुग्रैर्वितस्तिभिः कूर्ममुखैर्ज्वलद्भिः ॥१९॥नाराचमुख्यै निशितैश्च शूलैः परश्वधैस्तोमरमुद्गरैश्च ॥खड्गैर्गुडैः पर्वतपादपैश्च दिव्यैरथास्त्रैररपि दैत्यसंघैः ॥२०॥न दीधितिर्भिन्नतनुः पपात द्वारं गुहाया पिहितं समस्तम् ॥तैरायुधैर्दैत्यभुजप्रयुक्तैर्गुहामुखे मूर्छित एव पश्चात् ॥२१॥आच्छादितं वीरकमस्त्रजालैर्दैत्यैश्च सर्वैस्तु मुहूर्तमात्रम् ॥अपावृतं कर्तुमशक्यमासीन्निरीक्ष्य देवी दितिजान् सुघोरान् ॥२२॥भयेन सस्मार पितामहं तु देवी सखीभिस्सहिता च विष्णुम् ॥सैन्यं च मद्वीरवरस्य सर्वं सस्मारयामास गुहांतरस्था ॥२३॥ब्रह्मा तया संस्मृतमात्र एव स्त्रीरूपधारी भगवांश्च विष्णुः ॥इन्द्रश्च सर्वेः सह सैन्यकैश्च स्त्रीरूपमास्थाय समागतास्ते ॥२४॥भूत्वा स्त्रियस्ते विविशुस्तदानीं मुनीन्द्रसंघाश्च महानुभावाः ॥सिद्धाश्च नागास्त्वथ गुह्यकाश्च गुहांतरं पर्वतराजपुत्र्याः ॥२५॥यस्मात्सुराज्य सनसंस्थितानामंतः पुरे संगमनं विरुद्धम् ॥ततस्सहस्राणि नितंबिनीनामनंतसंख्यान्यपि दर्शयंत्यः ॥२६॥रूपाणि दिव्यानि महाद्भुतानि गौर्ये गुहायां तु सवीरकार्यैः ॥स्त्रियः प्रहृष्टा गिरिराजकन्या गुहांतरं पर्वतराजपुत्र्या ॥२७॥स्त्रीभिस्सहस्रैश्च शतैरनेकैर्नेदुश्च कल्पांतरमेघघोषाः ॥भेर्य्यश्च संग्रामजयप्रदास्तु ध्मातास्सुशंखाः सुनितम्बिनीभिः ॥२८॥मूर्छां विहायाद्भुत चंडवीर्यस्स वीरको वै पुरतः स्थितस्तु ॥प्रगृह्य शस्त्राणि महारथानां तैरेव शस्त्रैर्दितिजं जघान ॥२९॥ब्राह्मी ततो दंड करा विरुद्धा गौरी तदा क्रोधपरीतचेताः ॥नारायणी शंखगदासुचक्रधनुर्द्धरा पूरितबाहुदंडा ॥३०॥विनिर्ययौ लांगलदण्डहस्ता व्योमालका कांचनतुल्यवर्णा ॥धारासहस्राकुलमुग्रवेगं बैडौजसी वज्रकरा तदानीम् ॥३१॥सहस्रनेत्रा युधि सुस्थिरा च सदुर्जया दैत्यशतैरधृष्या ॥वैश्वानरी शक्तिरसौम्यवक्त्रा याम्या च दंडोद्यतपाणिरुग्रा ॥३२॥सुतीक्ष्णखङ्गोद्यतपाणिरूपा समाययौ नैर्ऋति घोरचापा ॥तोयालिका वारणपाशहस्ता विनिर्गता युद्धमभीप्समाना ॥३३॥प्रचंडवातप्रभवा च देवी क्षुधावपुस्त्वंकुशपाणि रेव ॥कल्पान्तवह्निप्रतिमां गदां च पाणौ गृहीत्वा धनदोद्भवा च ॥३४॥याक्षेश्वरी तीक्ष्णमुखा विरूपा नखायुधा नागभयंकरी च ॥एतास्तथान्याश्शतशो हि देव्यः सुनिर्गताः संकुलयुद्धभूमिम् ॥३५॥दृष्ट्वा च तत्सैन्यमनंतपारं विवर्णवर्णाश्च सुविस्मिताश्च ॥समाकुलास्संचकिताभयाद्वै देव्यो बभूबुर्हृददीनसत्त्वाः ॥३६॥चक्रुस्समाधाय मनस्समस्तास्ता देववध्वो विधिशक्तिमुख्याः ॥सुसंमत त्वेन गिरीशपुत्र्याः सेनापतिर्वीरसुघोरवीर्यः ॥३७॥चक्रुर्महायुद्धमभूतपूर्वं निधाय बुद्धौ दितिजाः प्रधानाः ॥निवर्तनं मृत्युमथात्मनश्च नारीभिरन्ये वरदानसत्त्वाः ॥३८॥अत्यद्भुतं तत्र चकार युद्धं गौरी तदानीं सहिता सखीभिः ॥कृत्वा रणे चाद्भुतबुद्धिशौण्डं सेनापतिं वीरकघोरवीर्यम् ॥३९॥हिरण्यनेत्रात्मज एव भूपश्चक्रे महाव्यूहमरं सुकर्मा ॥संभाव्य विष्णुं च निरीक्ष्य याम्यां सुदारुणं तद्गिलनामधेयम् ॥४०॥मुखं करालं विधिसेवयास्य तस्मिन् कृते भगवानाजगाम ॥कल्पान्तघोरार्कसहस्रकांतिकीर्णञ्च वै कुपितः कृत्ति वासाः ॥४१॥गते ततो वर्षसहस्रमात्रे तमागतं प्रेक्ष्य महेश्वरं च ॥चक्रुर्महायुद्धमतीवमात्रं नार्यः प्रहृष्टास्सह वीरकेण ॥४२॥प्रणम्य गौरी गिरिशं च मूर्ध्ना संदर्शयन् भर्तुरतीव शौर्यमम् ॥गौरी प्रयुद्धं च चकार हृष्टा हरस्ततः पर्वतराजपुत्रीम् ॥४३॥कंठे गृहीत्वा तु गुहां प्रविष्टो रमासहस्राणि विसर्जितानि ॥गौरी च सन्मानशतैः प्रपूज्य गुहामुखे वीरकमेव स्थापयन् ॥४४॥ततो न गौरीं गिरिशं च दृष्ट्वाऽसुरेश्वरो नीतिविचक्षणो हि ॥द्रुतं स्वदूतं विधसाख्यमेव स प्रेषयामास शिवोपकंठम् ॥४५॥तैस्तैः प्रहारैरपि जर्ज रांगस्तस्मिन् रणे देवगणेरितैर्यः ॥जगाद वाक्यं तु सगर्वमुग्रं प्रविश्य शंभुं प्रणिपत्य मूर्ध्ना ॥४६॥दूत उवाच ॥संप्रेषितोहं विविशे गुहांतु ह्यषौऽन्धकस्त्वां समुवाच वाक्यम् ॥नार्या न कार्यं तव किंचिदस्तिविमुच नारीं तरुणीं सुरूपाम् ॥४७॥प्रायोभवास्तापसस्तज्जुषस्व क्षांतं मया यत्कमनीयमन्तः ॥मुनिर्विरोधव्य इति प्रचिंत्य न त्वं मुनिस्तापस किं तु शत्रुः ॥४८॥अतीव?? दैत्येषु महाविरोधी युध्यस्व वेगेन मया प्रमथ्य ॥नयामि पातालतलानुरूपं यमक्षयं तापस धूर्त हि त्वाम् ॥४९॥सनत्कुमार उवाच ॥एतद्वचो दूतमुखान्निशम्य कपालमाली तमुवाच कोपात् ॥ज्वलन्विषादेन महांस्त्रिनेत्रस्सतां गतिर्दुष्टमदप्रहर्ता ॥५०॥शिव उवाच ॥व्यक्तं वचस्ते तदतीव चोग्रं प्रोक्तं हि तत्त्वं त्वरितं प्रयाहि ॥कुरुष्व युद्धं हि मया प्रसह्य यदि प्रशक्तोसि बलेन हि त्वम् ॥५१॥यः स्यादशक्तो भुवि तस्य कोर्थो दारैर्धनैर्वा सुमनोहरैश्च ॥आयांतु दैत्याश्च बलेन मत्ता विचार्यमेवं तु कृतं मयै तत् ॥५२॥शरीरयात्रापि कुतस्त्वशक्तेः कुर्वन्तु यद्यद्विहितं तु तेषाम् ॥ममापि यद्यत्करणीयमस्ति तत्तत्त्करिष्यामि न संश योत्र ॥५३॥सनत्कुमार उवाच ॥एतद्वचस्तद्विधसोपि तस्माच्छ्रुत्वा हरान्निर्गत एव हृष्टः ॥प्रागात्ततो गर्जितहुंकृतानि कुर्वंस्ततोदैत्यपतेस्सकाशम् ॥५४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे युद्धप्रारंभदूतसम्वादवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ॥४५ ॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP