संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ७ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ७ Translation - भाषांतर सनत्कुमार उवाच ॥एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः ॥अंगीचकार सुप्रीत्या शरण्यो भक्तवत्सलः ॥१॥एतस्मिन्नंतरे देवी पुत्राभ्यां संयुता शिवा ॥आजगाम मुने तत्र यत्र देवान्वितो हरः ॥२॥अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम् ॥प्रणेमुरतिनम्रास्ते विस्मिता गतसंभ्रमाः ॥३॥प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् ॥तूष्णीमासन्नजानंतस्तदागमनकारणम् ॥४॥अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला ॥उवाच स्वामिनं प्रीत्या नानालीलाविशारदम् ॥५॥देव्युवाच ॥क्रीडमानं विभो पश्य षण्मुखं रविसंनिभम् ॥पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः ॥६॥इत्येवं लोकमात्रा च वाग्भिस्संबोधितश्शिवः ॥न ययौ तृप्तिमीशानः पिबन् स्कंदाननामृतम् ॥७॥न सस्मारागतान्दैत्यान्निजतेजोनिपीडितान् ॥स्कंदमालिंग्य चाघ्राय मुगोदाति महेश्वरः ॥८॥जगदम्बाथ तत्रैव संमंत्र्य प्रभुणा च सा ॥स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा ॥९॥ततस्सनंदी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या ॥विवेश शम्भुर्भवनं सुलीलः सुरैस्समस्तैरभिवंद्यमानः ॥१०॥द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः ॥तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलः ॥११॥किं कर्तव्यं क्व गंतव्यं कः स्यादस्मत्सुखप्रदः ॥किं तु किंत्विति संजातं हा हताः स्मेति वादिनम् ॥१२॥अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः ॥प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम् ॥१३॥पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे ॥ते भाग्यवंतो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः ॥१४॥तस्मिन्नेवांतरे तेषां श्रुत्वा शब्दाननेकशः ॥कुंभोदरो महातेजा दंडेनाताडयत्सुरान् ॥१५॥दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ॥अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह ॥१६॥इन्द्रस्तु विकलोतीव जानुभ्यामवनीं गतः ॥अन्ये देवर्षयोतीव विकलाः पतिता भुवि ॥१७॥सर्वे मिलित्वा मुनयस्सुराश्च सममाकुलाः ॥संगता विधिहर्योस्तु समीपं मित्रचेतसोः ॥१८॥अहो विधिबलं चैतन्मुनयः कश्यपादयः ॥वदंति स्म तदा सर्वे हरि लोकभयापदम् ॥१९॥अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ॥कस्माद्विघ्नमिदं जातमित्यन्ये ह्यति विस्मिताः ॥२०॥इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने ॥आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे ॥२१॥विष्णुरुवाच ॥हे देवा मुनयस्सर्वे मद्वचः शृणुतादरात् ॥किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम् ॥२२॥महदाराधनं देवा न सुसाध्यं विचार्य्यताम् ॥महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम् ॥२३॥शिवस्सर्वगणायक्षस्सहसा परमेश्वरः ॥विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति ॥२४॥प्रणवं पूर्वमुच्चार्य्य नमः पश्चादुदाहरेत् ॥शिवायेति ततः पश्चाच्छुभद्वयमतः परम् ॥२५॥कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ॥नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः ॥२६॥अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ॥कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥२७॥इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ॥तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥२८॥संजजाप हरिश्चापि सविधिश्शिवमानसः ॥देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥२९॥मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ॥कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥३०॥एतस्मिन्नंतरे साक्षाच्छिवः प्रादुरभूत्स्वयम् ॥यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत् ॥३१॥श्रीशिव उवाच ॥हे हरे हे विधे देवा मुनयश्च शुभव्रताः ॥प्रसन्नोऽस्मि वरं ब्रूत जयेनानेन चेप्सितम् ॥३२॥ ॥देवा ऊचुः ॥यदि प्रसन्नो देवेश जगदीश्वर शंकर ॥सुरान् विज्ञाय विकलान् हन्यंतां त्रिपुराणि च ॥३३॥रक्षास्मान्परमेशान दीनबंधो कृपाकर ॥त्वयैव रक्षिता देवास्सदापद्भ्यो मुहुर्मुहुः ॥३४॥ ॥सनत्कुमार उवाच ॥इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् ॥विहस्यांतस्तदा ब्रह्मन्महेशः पुनरब्रवीत् ॥३५॥ ॥महेश उवाच ॥हे हरे हे विधे देवा मुनयश्चाखिला वचः ॥मदीयं शृणुतादृत्य नष्टं मत्वा पुरत्रयम् ॥३६॥रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् ॥पूर्वमंगीकृतं सर्वमुपपादयताचिरम् ॥३७॥हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् ॥सर्वसम्राट्प्रकारं मे कर्तुमर्हसि यत्नतः ॥३८॥नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत ॥करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने ॥३९॥अयं मंत्रो महापुण्यो मत्प्रीतिजनकश्शुभः ॥भुक्तिमुक्तिप्रदस्सर्वकामदश्शैवकावह ॥४०॥धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् ॥अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः ॥४१॥य इमं कीर्तयेन्मंत्रं शुचिर्भूत्वा सदा नरः ॥शृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात् ॥४२॥सनत्कुमार उवाच ॥इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः ॥सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा ॥४३॥सर्वदेवमयं दिव्यं रथं परमशोभनम् ॥रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया ॥४४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP