संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| एकोनविंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - एकोनविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकोनविंशोऽध्यायः Translation - भाषांतर ईश्वरः - अस्त्येकं क्षेत्रमबले घुसृणीश्वरसंज्ञकम् । ज्योतिर्लिङ्गं महादेवि श्रृणु तन्महिमां पुनः ॥१॥हृतरत्नाः पुरा सर्वे क्षीरसागरपूर्वकाह । समुद्रास्तेषु संभूय तपोऽतप्यन्त दारुणम् ॥२॥परिम्लानमुखाः सर्वे वेलाकल्लोलवर्जिताः । हृतमण्डं यथा भाति दधिभाण्डं सुराधिपे ॥३॥निस्सारभूता निःसाराः सागरा मामुपाययुः । भस्मनोद्धूल्य सर्वाङ्गं रुद्राक्षवरकङ्कणाः ॥४॥जपन्तः शतरुद्रीयं पञ्चाक्षरपरायणाः । लिङ्गपूजापरा नित्यं घुसृणीशार्चने रताः ॥५॥बिल्वपत्रैश्च कमलैः रक्तनीलोत्पलैरपि । ततः कालान्तरे देवस्तेषां प्रादुरभूत् पुरः ॥६॥दृष्ट्वा शिवं तुष्टुवस्ते समुद्रा मां तदाम्बिके । पुण्यमार्यं पुरारातिमरातिं मन्मथस्य च ॥७॥अन्तकस्य च देवेशं महेशं वृषभध्वजम् । अन्तकान्तकमाशास्यं त्रियम्बकमुप्रासखम् ॥८॥प्रणमामो महादेवमुदाराङ्गं कपर्दिनम् ॥९॥महादाराद्रत्नहारोरुकण्ठं भुसुण्ठीकराब्जं गरानीलकण्ठम् ।गृणद्रुद्रजाप्याघहारं हरन्तं महाकामठत्वक्(?) परीतं लुठन्तः ।सदा नो भवाब्धौ परित्राहि शम्भो ॥१०॥तवाङ्घ्रिद्वन्द्रार्च्याविधिनियतभारात्मकतया सदा नेदिशुश्चेत् त्वयि च सहितो जापनपरः ।स एवानुग्राह्यस्तव हि सततं हृद्यतम इत्यहो भावो भावैर्भवहर भवाब्धिं स तरते ॥११॥तव गुणगणगणना वा केन कार्या महेश श्रुतिशिखरनिविष्टः शान्तचित्तैकगम्यः ।भुवनभवनमध्ये कश्चिदस्त्येव शम्भो तव पदकमलोत्थामोदसंमोदितात्मा ॥१२॥अस्मिन् महर्त्यर्णवगस्त्वमीशो विश्वेश आशास्य इति प्रतीतः ।निषङ्गभूतान् भयतश्च सागरान् अस्मानथो पाहि महेश दिष्ट्या ॥१३॥इति सागरवाक्यानि श्रुत्वाऽहं गिरिजे तदा । तेषां प्रसन्नो ह्यभवं तांस्तदा पूरयामि वै ॥१४॥रत्नैरनर्घ्यैः शतशस्तिमिङ्गिलगणैस्तदा । पुरान्धकासुरं हत्वा तद्रक्ताक्तं करे मम ॥१५॥न धार्यमिति देवेशि भूमौ शूलं महत्तरम् । तदा त्यक्तं मया देवि घुसुणीश्वरसन्निधौ ॥१६॥शूलपातमभून्नाम्ना तत्तीर्थं सुमनोहरम् । तत् सागरजलैः पूर्ण्म शूलपातं महत्सरः ॥१७॥वसन्ति शैवा नियतं शूलपातसरस्तटे । पञ्वाग्निनिरताश्चान्ये वायुभक्षास्तथापरे ॥१८॥अश्मकुट्टा महादेवि दन्तोलूखलिनस्तथा । सर्वे मल्लिङ्गपूजाभिः नयन्त्यायुर्मुनीश्वराः ॥१९॥भस्माभ्यक्ताः सदा गौरि शिवनामजपादराः । तत्र तान् सततं दृष्ट्वा निलिंपा भयकम्पिताः ॥२०॥इन्द्रोपेन्द्रा वचयित्वा विष्णोर्देवपदेषु च । तेषां वाञ्छा नैव गौरि मत्पादार्चापरायणाः ॥२१॥तृणाय ते महेशानि विष्ण्वादीनां पदं शुभम् । मत्पादभाव सकला भावानां भूतयः सदा ॥२२॥पदे पदे भविष्यन्ति भावुकानि न संशयः । भवानि नियतं सत्यं मम भक्तस्य केवलम् ॥२३॥मद्भक्तवर्यैर्व्यत्यस्ता लोकाः सर्वे चतुर्दश । अगस्त्येनापि भक्तेन सागराश्चुलकीकृताः ॥२४॥वीरभद्रगणेनापि ब्रह्मविष्ण्वादयः सुराः । दक्षयज्ञे तदा गौरि शिक्षिताश्चापि खण्डिताः ॥२५॥एतादृशानां भक्तानां सुरेषु गणनाऽपि न । किं चतुर्दहलोकोत्थश्रिया तेषां भविष्यति ॥२६॥आपातमधुरा सा श्रीः संयोगा हि वियोगजाः । धनधान्यानि सर्वाणि रत्नानि विविधं वसु ॥२७॥नश्वराण्यतिदुःखानि भयमूलानि शङ्करि । मम भक्तिः सदा गौरि अनश्वरसुखं धनम् ॥२८॥मुक्तये मम भक्तिश्च बन्धाय नरकाय च । धनं तद्भौतिकं गौरि सर्वापन्निलयं सदा ॥२९॥आनन्दकन्दं मद्भक्तिर्मोक्षदा कामदा ध्रुवम् । तया भक्त्या विराजन्ते चन्द्ररेखेव शारदी ॥३०॥मद्भक्ता नियताः सर्वे वसन्ति शिवपूजकाः । तृणीकृतेन्द्रचन्द्रानां तेषां स्वर्गस्तु तुच्छकः ॥३१॥अच्छानां च निरिच्छानां मच्छासनयतात्मनाम् । आनन्दनन्दितस्वान्त आनन्दघनपूजया ॥३२॥ते वै शिवरसास्वादनन्दिताखिलवृत्तयः । घुसृणीशपदद्वन्द्वपूजाक्षपितकल्मषाः ॥३३॥वसन्ति सततं शैवाः तस्मिन् क्षेत्रे गिरीन्द्रजे ॥३४॥पार्वती -कुत्र क्षेत्रमिदं शम्भो त्रिनेत्रप्रियकारकम् । तत्क्षेत्रमहिमापारकथाश्रवणलालसम् ॥३५॥मम चित्तमभूद् देव दयया तद्वदस्व माम् । शिवो गौरीवचः श्रुत्वा तत् क्षेत्रं प्राह शङ्करः ॥३६॥ईश्वरः - भीमरथ्या उदग्भागे त्रिंशत् क्रोशोपरि स्थितम् । शूलपातं स्थितं तीर्थं तत्रास्त्येव शिवालयः ॥३७॥शूलपातसरस्तीरे तताप परमं तपः । उद्दालको मुनिएर्नाम्ना ज्ञानार्थं शङ्करस्तदा ॥३८॥समभ्यर्च्य महादेवं बिल्वपत्रैर्महेश्वरम् । घुसृणीशं महादेवं मां तुष्टाव तदाम्बिके ॥३९॥उद्दालकः - घुसृणीश महेश शङ्कर प्रणतामरभूरुह प्रसीद ।दुरितापह पादपद्ममाद्यं घुसृणारुणमानतोऽस्मि नित्यम् ॥४०॥[ अरुणारुणवह्निसोमनेत्रं करुणाशालि सुधायुताद्यपाङ्गम् ।द्युमणिप्रभचारुदेहकान्तिं घुसृणीशं नु नतोऽस्मि देवराजम् ॥४१॥वरुणाद्यमरार्चिताङ्घ्रियुग्मं वरुणालयदैत्यपूज्यपादम् ।भगणाधिपशोभितोरुमौलिं घुसृणीशं नु नतोऽस्मि दुःखनाशम् ॥४२॥करुणाकर देव दीनबन्धो सरणिं देहि विमुक्तिमार्गहेतौ ।करणं विनिवेशयाशु ते पदाब्जे घुसृणीशान नतोऽस्मि भक्तियुक्तः ॥४३॥मरणावसरे न कोपि शम्भो विनिवारक इत्यवैमि बुद्ध्या ।शरणं चरणं शिव त्वदीयं घुसृणीशान नतोऽस्मि दुःखनाशम् ॥४४॥उत्फालकटजेनैवं मुनिनोद्दालकेन च । संस्तुतः परमेशानस्तस्य दृष्टिपथं गतः ॥४५॥प्रणतोत्थापितो दोर्भ्यां पादयोः पतितो मुनिः । वरेण छन्दितश्चापि स उवाच कृताञ्जलिः ॥४६॥उद्दालकः - ज्ञातुमिच्छामि ते ज्ञानं वेदवेद्यमहेश्वर । न ज्ञानेन विना मुक्तिरिति वेदा वदन्ति हि ॥४७॥उद्दालकस्य वचसा तत्स्तुत्याहं तु तोषितः । तमवोचं तदा देवि प्राञ्जलिं पुरतः स्थितम् ॥४८॥वत्सोद्दालक ते स्तुत्या भक्त्या चानन्यया तव । तद्ज्ञानं दातुमिच्छामि किञ्चैकं वच्मि तच्छृणु ॥४९॥न विरक्तस्य संसारादुक्तं तद्ज्ञानमुत्तमम् । नो बोध्यं च भवेदेवाविरक्तस्य च संसृतौ ॥५०॥प्रसरत्यखिलं ज्ञानं निम्नमापो यथा मुने । नाविरतो दुश्चरितादित्याह श्रुतिरादरात् ॥५१॥तस्माद्भवविरक्त्यर्थं भवदुःखानि मे श्रृणु । गर्भान्तावधिदुःखानां शतानि मुनिपुङ्गव ॥५२॥इत्थं संबोधितोद्दालः प्रहेति स शिवोऽवदत् । तदेतद् श्रृणु देवेशि सावधानमनाः सुखम् ॥५३॥ईश्वरः - श्रृणूद्दालक दुःखानि संसारस्य विशेषतः । मामप्रपय नरो बाढं दुःखान्यत्यन्तमश्नुते ॥५४॥गर्भपेशीं गतो जन्तुर्मां सदा स्तौतिं मोचकम् । तद्दुःखानि श्रृणुष्वार्ये वैराग्यार्थं शिवे सदा ॥५५॥हाहा गर्भविवासदुःखमधुना वक्तुं न वै तत् क्षमं कः सोढा नरकानि दुःखशतकं भोक्तुं कथं कालतः ।कुम्भीपाकासिपत्नैः पटुतरगदया ताडनैस्तप्तमार्गैः सन्तप्तभ्राष्ट्टजालैर्मलसलिलवसापूयकण्ठोत्थकीटैः ॥५६॥वस्तुं नेच्छामि गर्भे मलजलकलिलापारदुर्गन्धिपूरे मातुः कुक्ष्युद्भवास्तिक्रकचकिणतनुः कीटदंष्ट्रादिदष्टः ।अन्तर्जान्वर्धमस्तं कटूविदहिरसैर्मातृभुक्त्या विदग्धं रक्ताक्लिन्नान्त्रबद्धं शिव शिव शिव मां मोचयाद्याशु शंभो ॥५७॥पयोधरपयःशतैर्निभृतपीतकुक्षिह्रदो महेशि विविधान्नकैः समभिपूर्यमाणोदरः ।अधोमुखविलम्बितो हृदयकोशपेशीगतः कदा खलु भवत्पदं शिव भजामि योन्युज्झितः ॥५८॥इत्थं गर्भशतेषु मातृजनितापारव्यथाताडितो वातोत्थाखिलवेगपीडिततनुर्योनुन्मुखान्निःसूतः ।ज्ञानं तन्निखिलं जहाति शिशुराजातः स्तनं तत् पिबन् दुर्गन्धादिमलाविलाखिलतनुः क्लान्तोऽधिखट्वाशयः ॥५९॥क्षुत्कालं न च वेत्ति रौति विवशः शीतादितापासहः स्वाद्वन्नं मुहुरीक्षते दृढतरं नाश्नाति कैमारके ।पित्राद्यैर्गुरुभिश्च सोऽक्षरविधौ सन्ताडितो भीतिभाक् रोगाद्यैस्तदपायकारिभिषजैः कट्वम्लकाषायभुक् ॥६०॥मारोन्मादशरैर्विदारिततनुः कान्तामुखं वीक्षते सोत्साहं शरदिन्दुकुन्दरदनावक्त्रं जगत् पश्यति ।तत्प्राप्त्त्यर्थमुदारहारवलयान् वासांसि धान्यं धनं चौर्येणापि समार्जयत्यतितरां स्रग्गंधतांबूलकम् ॥६१॥निष्टप्तामलहेमकुम्भविलसक्तान्ताकुचालिङ्गनैः पीनश्रोणिकटीतटान्तरदलैर्दत्तेक्षणः कामुकः ।रंभास्तम्भनिभोगकलनैः संसारवार्तारसैः पापैर्धन्यधनार्ज्नादिविवशः कालं नयत्यादरात् ॥६२॥यातायातशतैर्धनार्जनपरो न क्कापि विन्देत् सुखं राज्ञां द्वारि सदा निविष्टहृदयो द्वार्स्थान् सदा पश्यति ।का वेला हि सदाद्य को ह्यवसरो मां ज्ञापयेत्येव तान् तत्कोपारुणलोचनैः प्रतिपदं खिद्दन्ति हृष्यन्ति च ॥६३॥हृष्टो राजा धनाढ्यो द्रविणगणचयं प्राह्य तस्मात् कृतार्थं लब्ध्वा तद्धनधान्यकं जनिजरारोगोत्थभैषज्यकैः ।चोरैर्वा कृषितो विनश्यति धनं पापादिपुण्यैः परं विष्टब्धः सुतदारपीडिततनुर्दादिद्र्यपङ्काप्लुतः ॥६४॥वेदानुच्चैरधीते मृततिथिविधिभुक् पात्रता (?) पूर्तयेऽसौ याज्यान् याजयति प्रकृष्टवचसा बोधं वचन् द्रव्यभाक् ।केचिन्मान्त्रिकयान्त्रिका ग्रहगतिमतयो गीतवाद्यैः कथाभिः रोगार्तान् भिशजो धनादिभिरहो पूजाभिरत्यादरा - देतत्तद्धनहारणेषु चतुरान् पश्यन्त्यहो सर्वदा ॥६५॥किं दारैस्तनयैः सुखेषु सर्वदैर्दुःखेषु निन्दारतैः किं आ बन्धुगणैः कृतप्रतिकृतैरामन्वणाधित्सुकै ।किं वा विप्रगणातिथेयनिरतैः पात्रैः समस्तैः सदा भृत्यैर्वैभवकामुकैर्नं तु शिवे न क्कापि तुष्टो जनैः ॥६६॥शस्त्रास्त्रैर्ज्वलिता मृदिष्ठकलहा भृत्यास्तथा ये नरा नानाकार्यशतेषु सक्तमतयो दारासुतार्थाप्तये ।लोकः शोकविदग्धकष्टहृदयः पश्याधुना शैलजे विष्टबधजठरादिपूर्तिविवशं दुःखोत्थसौख्येक्षणम् ॥६७॥अन्ये क्षुत्क्षामदग्धा रविकरनिकरैः शीतवातादिवर्षैः पङ्कैः क्लिष्टोरुकाष्ठैस्तृणभरभरणैः कष्टतः प्लुष्टगात्राः ।केचिद्वै धनिनां गृहेषु सुभृता भृत्यास्तथा शिक्षिता - स्तत्कोपप्रभवप्रसादमुखरास्तत्कार्यलोलाः सदा ॥६८॥नानाकर्मविचित्रचित्रगतिभिः पश्याधुना शैलजे भाग्यं भोक्तुमनीश्वरा गदशतैर्भोक्ता न चान्नं लभेत् ।पुत्रादिश्च सदैव तस्य तनयानन्दाद्विहीनो धनी पाण्डित्ये च दरिद्रता विधिवशान्मूढो न मोक्षार्थभाक् ॥६९॥दाता वाऽथ च याचको धनपरस्वेषं जगच्चाद्रिजे वेदज्ञाश्च बहुश्रुताश्च सततं तद्द्वारि तिष्ठन्त्यहो ।पुण्येच्छोर्न भवेद्धनं धनयुते पात्रार्षणे नो मनः रूपिण्यां च न सन्ततिश्च गिरिजे रूपाद्विहीने प्रजाः ॥७०॥षण्डे दारशतं सुयौवनजने नास्त्येव दारस्मृतिः एवं दुःखशहस्रकं भवशेते नास्त्येव सौख्यैकभाक् ।पुत्रोऽनल्पपरिश्रमैर्विधिवशाज्जाते स दारावृतो वृद्धां स्वां जननीं तथैव पितर सद्मागतान् भर्त्ययेत् ॥७१॥भार्याश्चापि पतिं त्यजन्ति विवशा दारिद्र्यकामाशयाः कश्चित्सर्वजनानुरक्तहृदयः पुत्रो भवेच्छांभवि ।राजा चेत् सकलाप्तकार्यकरणो भृत्यैः सदा जीवति पातुं चात्तुमहो महेशि सततं स्वप्नं न चैव प्रभुः ॥७२॥राज्याङ्गानि सदैव कष्टहृदयो वीक्षन् सुदुःखोरुभाक् र्राजास्मीति मदान्धलोलनयनः सौख्यभ्रमं याति हि ॥७३॥सत्क्षत्रियश्चापि रणे त्यजत्यसून् स्वपुत्रदारानिव भुक्तिसिद्धयै ।मृतो हि कः केन सुखेन जन्तुः लभेत सौख्यं सहि मूढवत्तरः ॥७४॥वैश्योऽपि गोरक्षणपण्यविक्रये लाभादिलाभे च धनेषु वृद्धिभाक् ।न्यासक्षये वृद्धिविपर्यये वा परार्ध्यकाले न हिं तस्य सौख्यम् ॥७५॥रत्नानां च परिक्रये पटगणे धान्ये धने वा शिवे नित्यं स्यात् कलहानुरक्तहृदयो राज्ञा सदा भर्त्सितः ॥७६॥चातुर्वर्णाश्रमेपि फलजनितमहाकामपाशैश्च पुण्यं सेवन्ते वै यमितकरणा दुःखरूपक्रियाभिः ।प्रायश्चित्तभयं सदा द्विजगणे पातित्यमप्यन्ततः शूद्रः सर्वजनार्चनादिविवशो न क्कापि सौख्यं जने ॥७७॥यद्यङ्गनाजन्म समाप्नुयादुमे सापन्त्यवैधव्यमथाप्रजत्वम् ।दारिद्र्यपीडा पतिकोपताडनं गर्भे प्रसूतो तदपारदुःखम् ॥७८॥वियोगसंयोगमृतानुगम्यता पाकक्रियाश्चाथ बहुप्रजातता ।कन्याप्रसूतिः शिशुरोगवीक्षणं न क्कापि सौख्यं श्रृणु देवि सर्वथा ॥७९॥चराचरशरीरिणां रविकरैश्च वातादिभिः कुठारकृतवृक्णतो विपिनशीतदावादिभिः ।वियोगबधबन्धनैर्मृगखगादिजन्मस्वपि सदा हि सुखमल्पकं न भवतीति मन्ये शिवे ॥८०॥खरसृणिमुखघातैर्भिन्न कुम्भा गजेन्द्राः सरणिगतिरुतज्ञा नित्यमालानसंस्थाः ॥८१॥तुरगनिवहदुःख सादिपादैः कशाग्रैः खरतरखलिनास्यैर्धर्मचर्मार्द्ररक्तैः ।विविधगति विधिज्ञा नित्यशो हिण्डति स्म ॥८२॥शकटहलमुखोत्थैर्धुर्ययुक्ताः सुगोणी भखरपरिखिद्यत्स्कन्धपृष्टास्थिसंघाः ।मुखविवृति विनिर्यत्स्थूलदन्तोरुजिह्वा वृषखरमहिषोष्ट्रा भिन्ननारोरुसूत्राः ॥८३॥उरगखगपिकाद्या भिन्नदंष्ट्रा रुतज्ञाः कपिवृषनकुलाद्या मत्स्यगोधादयश्च ।परभृतबलिभोज्याः कूर्मचाषा मयूराः वनहरिणशशाद्या भेकभलूककोलाः ॥८४॥मनुजकठिनहस्तैस्ताडिता नित्यभीताः निहितसुखमुखास्ते नित्यदुःखामितप्ताः ॥८५॥वर्णी स्वर्णानुरक्तो भवजनितकथासारधारानुरक्तो भिक्षुर्भक्ष्येषु सक्तो विपिनभुवि गतो ग्रामतर्षोत्थहर्षः ।स्वख्यातिख्यापनार्थं मखमुखविधये दीक्षितो मन्त्रहीनः कालो बालाबलासु प्रचरति तरुणे वृद्धरुग्णान् विहाय ॥८६॥धनिनां न सुखायते धनं तनयैर्बान्धवदारचोरराज्ञा ।न सुखाय भवेज्जनस्य तत् सततं भीतिकरं हि याचकेभ्यः ॥८७॥पशुकनकधनाङ्गनाभिरेतज्जगतो जालमुमे निबद्धतृष्णम् ।न सुखाय भवे हि कस्यचिन्मम भक्तः शममाप्नुयात् सुखाय ॥८८॥दुःखेन धान्यधनतां समवाप्य मन्दो दारासुताप्तनिजबन्धुजनं च हित्वा ।मर्त्यस्य मृत्युभवने सुखदोऽस्ति कश्चित् तस्याधिकं धनमुमे परकीयभोगः ॥८९॥न शिवालयकल्पनेन वा सततं शाम्भवहस्तदानतो वा ।मखजातविधिप्रचारतो वा न हि तस्यास्ति रुचिर्मुदा भवानि ॥९०॥दुरदृष्टवशान्निकुष्टभावः सततं कष्टजभोगसक्तितुष्टः ।कचकुचजघनेषु दत्तदृष्टिः वनिताया वनतोरुमूलभागे ॥९१॥भार्यापुत्रसुबन्धुमित्रजवियोगार्तो रुदन्नस्तधी - र्दौर्भाग्यं मम दैवतैश्च कृतमित्युत्कृष्टकर्मा शपन् ।हा कष्टं मम जीवितेन करुणाविष्टः सदा याचते लोको मुह्यति शङ्कराद्यशरणो वृद्धः सदा कष्टभाक् ॥९२॥दृष्टिर्नश्यति काशपुष्पसमितैः केशैः प्रकम्पाङ्गको लालाजालविदूषितोरुवदनो जिह्वाचलद्दन्तकः ।रोगैःपित्तकफानिलोत्थितमहाहिक्कादिसंघूर्णवाक् तल्पेऽनल्पविचारयुक्तहृदयो मृत्योर्मुखं गच्छति ॥९३॥न मे पुत्रः पौत्रो गृहमपि च जीर्णं च धनकं कृपिर्नष्टा वृष्ट्या धनमपि च वृत्तं न च पुनः ।स वै दातुं शक्तो मम तु गृहिणी बालतनया तथेयं गौश्चापि प्रतिपदघटोघ्नी न तृणकैः मया पुष्टा रुष्टो मयि तरणिपुत्रोऽथ हि कथम् ॥९४॥शयानं तल्पे तं विविधभवविन्ताधिविवशं मुहुः पुत्रान् दारान् तरलनयनापाङ्गजजलैः ।स्खलल्लालाहिक्काध्वनिघुरघुरोत्कण्ठजरवैः चलच्छवासैर्बन्धून् न हि खलु विजानाति विवशः ॥९५॥मुहुः कर्णे पृष्टेऽप्यमितरुदिताक्रन्दनरवैरहो जानासानं जनमिति मुहुर्बन्धुनिवहैः ।शिवे गाढं विद्धो व्रणसुषिततुद्यत्खरमुखैः मुहुः सूचीजालैः शतगुणितदुःखं स लभते ॥९६॥यावन्न वाङ्मनसि संक्रमते मुमूर्पोस्तावत् सदारतनयान् सहि वेत्ति देवि ।प्राणी मनस्यस्तमिते च तेजस्यन्धा न जानाति स वै कुतस्ते ॥९७॥अन्नप्राणमनादिकोशनिवहैर्विज्ञानकोशात्मकैर्भूतैः पञ्च विलोलितेन्द्रियगणैर्व्यापारहीनैः शिवे ।बद्धीत्तुङ्गतरङ्गवल्गितमहीपृष्ठोत्थशंकूनिभैः प्राणेर्मर्मविघट्टनोत्थितरुजो देहात् स निष्क्रामति ॥९८॥देहेऽहंमाननोत्थैः प्रतिभवसुकृतैः पापजालैरनेकै -र्विद्याकर्मनिबद्धपूर्विकतनुं प्रज्ञाजनः सज्जति ।यात्यन्यं कुणपं तृणाग्रगतितः कीटा यथान्यं त्यजेत् तद्वद्देहशतानि संक्रमति वै सूक्ष्मेन्द्रियैदेहिकैः ॥९९॥करालदंष्ट्रैर्विकटोरुदण्डकशादिपातैर्यमदूतपाशैः ।पापान्वितो याति यमस्य सद्म प्रकृष्टदुःखानि सदैव भुङ्क्ते ॥१००॥विमानवर्येण मनोहरेण संपूजितो वीजितचामरौघः ।संपूजितो याति सुरेन्द्रसद्म स्वर्गेष्टभोगानि सुखानि भुङ्क्ते ॥१०१॥तत्कर्णकटिभागगतं हिरण्यं वासो हरन्ति मृतपा इव बान्धवास्ते ।तं निर्हरन्ति च गृहात् पितृकाननाय दुःखानुयानमबलाजनबालसङ्घैः ॥१०२॥हाहा भ्रातः पितस्त्वं जनमिममधुना क्काद्य त्यक्त्वा गतोसि बन्धो मित्र क्क मित्र सत्तम इति क्रन्दन्ति तद्बान्धवाः ।चिताशतविदीपितं नरकपालदग्धास्थिकं श्मशानभसितोत्थितश्वगणकाकगृध्रारवम् ॥१०३॥अहो प्रियतमेरितः कुलकराब्जमित्रेत्ययं जनोत्थरुदितार्भटीघटकपालदग्धोल्मुकम् ।विदग्धकुणपं तदा महदपारकाष्ठोत्थितैर्ज्वलच्छिखिशिखरगणैर्हरितपीतधूमारुणैः ॥१०४॥वसाविदहचीत्कृतैर्मुहुरनीक्षणैर्बान्धवैः स एव किल गच्छति न च सन्दृश्यते भस्ममाक् ॥१०५॥न रुद्राक्षमालाभिरेतस्य देहं न भस्मै (?) र्विलिम्पन्ति मूढास्तदीयाः ।न शर्वार्पितं बिल्वपत्रं तदीयं शिखायां निबघ्नन्ति दुःखैकलोलाः ॥१०६॥न चेशान शम्भो शिवेशेति कर्णे जपन्तो मुखे वा न दास्यन्ति तीर्थम् ॥१०७॥प्रायश्चित्तशताद्विनैव पवयेद्गोदानभूदानकं सत्यं मृत्युमुखे स्थितस्य हि शिवे मन्नाम चैकं परम् ।मुक्तिं तद्वितनोति पापमखिलं तन्नाशयेत् सर्वथा भस्माभ्यक्ततनुस्त्रिपुण्ट्रनिटिलो रुद्राक्षमालाधरः ॥१०८॥प्राप्नोत्येव मदीयलोकमधुना पापन्वितोऽपि प्रिये यातायातभवोत्थिताखिलगतिर्मुक्तस्य नोत्पद्यते ।तस्य प्राणमनुक्रमत्यतितराहंमानवर्गोज्झितः कर्मण्याश्च महेश्वरेश्वरि तथैवोपासकानां गणाः ॥१०९॥पुण्यैस्त्रिविष्टपगतोऽपि सदैव पापाद्भीतः सदा सुकृतनाशनजातखेदः ।पापादवश्यं नरकं विचित्रं समाप्नुयात् कर्मफलेन देही ॥११०॥तिर्यक्स्थावरमानुषेषु बहुधा भ्रान्तस्य विप्रत्वता तत्रापि श्रुतिवाक्यदर्शनगतं ज्ञानं परं जायते ।भक्तिं चापि लभेत् स वै मम चिरात् पुण्यैरगण्यैः शिवे तस्माद् ज्ञानमवाप्य मय्यनुगतो मुक्तो न संसारभाक् ॥१११॥न कोपि सुभगै शिवै कुमुदनाथचूडार्चने निशासु सितभस्मधृक् कमलपुष्पबिल्वादिभिः ।समुद्यतमनाः सदा विविधकष्टपुष्टं भवं प्रकृष्टतरमश्नुते मयि निविष्टभावो न तु ॥११२॥शरन्निशि निशाकरस्फुटकरोरुदिग्वक्त्रके विंधूततमसां गणे विधृतचन्द्रमौलिं शिवम् ।समर्चयति पुण्यभाक् जनिजरादिहीनो भवेत् न कालवरदण्डना भवति तस्य सत्यं शिवे ॥११३॥मयोक्तं जगत्कष्टमेतद्विनष्टं भवत्येव मद्भक्तिनिष्ठो यदि स्यात् ।वरिष्ठो विशिष्टः कृपापात्रमिष्ट भवेत् सोऽपि लिङ्गार्चनातुष्टचित्तः ॥११४॥सुतुङ्गैरभङ्गैर्महाकर्मवन्धेर्विमुक्तो भवत्येव तुष्ट्या ममैव ।जनः कोऽपि जानन् महाबाणलिङ्गे समभ्यर्च्य बिल्वैः विमुक्तिं प्रयाति ॥११५॥मद्भक्तिवैराग्ययुतस्य सौख्यं संस्नाप्य लिङ्गार्चनभस्मधारिणः ।सदा विरक्तस्य शिवैकयोगो भवेत् सदा गौरि सुदुर्लभः स हि ॥११६॥गर्भे पैतृकशुक्लतोत्थतनुभाक् दुःखी सदा पूरुषो देहान्तावधि तद्विनाशनपरं भक्त्यैव गम्यं हि मम ।प्रपयानन्दमयो भवत्यनुदिनं विज्ञानमासाद्य मे नित्यो जन्मजराविनाशरहितो मुक्तो भवत्यम्बिके ॥११७॥सूतः - ( इति ) पशुपतिवचनान्मुनिः प्रहृष्टः प्रणनामाथ महेश्वरस्य पादौ ।भवभक्त्या विशदीकृतान्तरात्मा समुपोद्यत्फुलको बभाण देवम् ॥११८॥शम्भो त्वदीयकृपया जगतोऽद्य दुःखं सम्यक् श्रुतं मम विरागदबुद्धिबोधम् ।मायामयेन गुणपाशशतेन बद्धं मायी भवान् प्रणमतां विनिवारकोऽसि ॥११९॥ईश्वरः - गोकर्णमागच्छ कृताप्तदारः पुत्रानथोत्पाद्य सुकन्यकाश्च ।आधाय चाग्नीन् मुखभागक्लृप्तान् देवान् समभ्यर्च्य विमुक्तितर्षः ॥१२०॥नैष्कर्म्यमासाद्य मयि प्ररूढं दृश्यं जगत् पश्यासि मय्यथोत्थितम् ।तथेति मत्वा भगवन्तमादरान्मुनिर्ययौ देवि तदा मुदाऽऽश्रमम् ॥१२१॥मया यथोक्तं हि तथा चकार गोकर्णमासाद्य स वै मुनीन्द्रः ।मया महादेवि तवैतदाद्यं प्रज्ञानमुत्कृष्टतया हि दत्तम् ॥१२२॥तेनैव नष्टाखिलसंशयास्ते मुक्तिं गता मय्यथ भक्तियोगात् ॥१२३॥सूतः - शूलपातसरस्तीरे घुसृणेशं महेश्वरम् । दृष्ट्वा नत्वा च तल्लिङ्गं मुच्यते भवबन्धनात् ॥१२४॥चन्द्रोपेन्द्रादिविबुधैर्मुनिभिः पूजितः सदा । प्रातः सङ्गवमध्याह्ने दृष्ट्वा तु घुसृणीश्वरम् ॥१२५॥महाघसंघैर्मुक्तिश्च भक्तिं मयि लभेत सः । इत्येतद्देवि ते प्रोक्तं घुसृणीश्वरवैभवम् ॥१२६॥श्रृण्वन् पठन् वा मनुजो मम भक्तिरतो भवेत् । तत्र मां सम्यगाराध्य वसन्ति शिवतत्पराः ॥१२७॥तेषां मद्ज्ञानमखिलं दातुमिच्छाऽस्ति मे शिवे । ज्ञानं तल्लभते गौरि घुसृणीश्वरपूजनात् ॥१२८॥एकेन जन्मना मुक्तिर्भवेदज्ञाननाशिनी ॥१२९॥ईश्वरः - चक्षुःश्रोत्रविभूषणोत्तमकथापीयूषपानादरा हारा भस्मकृतत्रिपुण्ट्रनिटिला रुद्राक्षमालाधराः ।रुद्राध्यायजपादराः शिवमनुव्याहारमात्रादरा मालूरप्रभवारुणोत्तमदलैर्लिङ्गार्चनात्यादराः ॥१३०॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे घुसृणेश्वरमाहात्म्य उद्दालकं प्रति संसारक्लेशवर्णनं नाम एकोनविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP