संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
दशमोऽध्यायः

भर्गाख्यः पञ्चमांशः - दशमोऽध्यायः

श्रीशिवरहस्यम्


देवी -
त्रिलोकीतिलक स्वामिन् त्लकस्वामिसुप्रिय । जेङ्कारकुण्डलिङ्गानां बाणलिङत्वता कथम् ॥१॥
वक्तुमर्हसि देवेश लोकानां हितकाम्यया । तदा देव्या वचः श्रुत्वा सन्तुष्टः प्राह शङ्करः ॥२॥
सूतः -
उत्फुल्लनीलोत्पलनीलसुन्दरीमुमां तदालिङ्गय मुदा सदाशिवः ।
बभाण बाणोत्तमसत्कथां द्विजाः सर्वार्थदात्रीं सकलाघहन्त्रीम् ॥३॥
श्रृणु देवि महाभागे कथामेतां मनोरमाम् । गङ्गाया नर्मदायाश्च विवादः सुमहानभूत् ॥४॥
तत्सर्वं विस्तरेणैव त्वयि सर्व प्रकीर्तितम् । अविमुक्ते वसामीति नित्यं सान्निध्यदे मया ॥५॥
गङायै च वरो दत्तो नर्मदायै महेश्वरि । सिकता याः शिलाः सर्वाः तानि लिङ्गानि निम्नगे ॥६॥
त्वदन्तर्गतमेवाद्य कुण्डमोङ्कारसंज्ञितम् । गङ्गायां विश्वनाथाख्यलिङ्गाकृतिरहं स्थितः ॥७॥
त्वत्तीरे नर्मदे लिङ्गमोङ्कारं परमेश्वरम् । तल्लिङ्गरूपः सततं निवसामि तटे तव ॥८॥
द्रष्टृणां सर्वपापानि नाशयामि न संशयः । अमरैः पूजितं यस्मादमरेश्वरमुच्यते ॥९॥
त्वं लिङ्गमण्डलाक्रान्ता भविष्यसि सरिद्वरे । ओंकारे च भृगुक्षेत्रे नर्मदावरसङ्गमे ॥१०॥
सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा । त्वल्लिङ्गंझ सर्वभावेन पूजितं सर्वकामदम् ॥११॥
इति तस्यै वरो दत्तो नर्मदायै मनोरमे । तानि लिङ्गानि सर्वाणि बाणसंपूजितानि हि ॥१२॥
दर्शनात् स्पर्शनाद्गौरि पुण्यदानि न संशयः । नार्मदे ये महालिङ्गे नीरं वा पत्रमेककम् ॥१३॥
दद्यात् स मुक्तो भवति त्रिनेत्रप्रियकृत्तमः । न संप्रोक्षणसंस्कारो न प्रतिष्ठा हि पार्वति ॥१४॥
नावाहनं न पूजादिविधिः स्यात्तत्र शङ्करि । सपीठं मुक्तपीठं वा नर्मदालिङ्गमर्चयेत् ॥१५॥
स्पृष्टास्पृष्टं न तस्यास्ति नित्यं सान्निध्यदं मम । तल्लिङ्गे मम भक्तैश्च यद्दत्तं लीलथाऽपि च ॥१६॥
बिल्वपत्रं तथा नीरं फलं वा कन्दमेव वा । गृह्णामि शिरसा तच्च तस्मै मुक्तिं ददाम्यम् ॥१७॥
विमर्शो न च कर्तव्यो नार्मदे परमेश्वरि । अन्यानि सर्वलिङ्गानि प्रतिष्ठाप्रोक्षणादिभिः ॥१८॥
संस्कृतानि विशेषेण पूज्यानीति मतिः शिवे । मूल्लिङ्गाद्धातुलिङ्गानि रत्नजानि महेश्वरि ॥१९॥
स्फाटिकादीनि पुण्यानि चन्द्रकान्तोद्भवानि च । स्थावराणि च सर्वाणि जङ्गमानि विशेषतः ॥२०॥
महापारदक्लृप्तानि लिङ्गान्यत्युत्तमानि च । तेभ्यो विशिष्टमेतद्धि नार्मदं शर्मदं मम ॥२१॥
नार्मदं लिङ्गमभ्यर्च्य स्थावरार्चाफलं लभेत् । यस्तु पश्यति पुण्यात्मा स्थावरं लिङ्गमैश्वरम् ॥२२॥
नित्यं च नियमोपेतः पापैः सर्वैः प्रमुच्यते । स नार्मदं महालिङ्गं दृष्ट्वा तत्फलमाप्नुयात् ॥२३॥
पूजिते नार्मदे लिङ्गे सर्वलिङ्गार्चनाफलम् । प्राप्नुयान्नियतं गौरि सत्यमेतन्मयोच्यते ॥२४॥
शावाचौचे सूतकेपि बाणलिङ्गं समर्चयेत् । नित्यं लिङ्गार्चनफलं यस्मिन् क्लृप्तं तदाप्नुयात् ॥२५॥
नातः परतरं लिङ्गं प्रशस्तं परमेश्वरि । अस्पिन् संपूजिते दृष्टे महापापक्षयो भवेत् ॥२६॥
यद्गृहे बाणलिङ्गं स्यात् शिवक्षेत्रं हि तत् स्मृतम् । तत्रैव मरणाज्जन्तुरपि कीटपिपीलिकम् ॥२७॥
मल्लोके निवसेद्देवि पुनरावृत्तिदुर्लभे (?) । बाणलिङ्गं न यस्यास्ति गृहे बिल्वदलार्चितम् ॥२८॥
न तद्गेहे जलं ग्राह्यमन्नं वा वैदिकोत्तमैः । यद्गृहे बाणलिङ्गार्चा स मुनिः स च पण्डितः ॥२९॥
तेनेष्टाः सकला यज्ञा वेदाधीताश्च तेन वै । तेनोर्वरेयं दत्ता स्यात् सशैलवनकानना ॥३०॥
अत्रेतिहासं ते वच्मि श्रृणु कर्णैकभूषणम् बलिनामा पुरा देवि दैत्येन्द्रो बलगर्वितः ॥३१॥
देवान् विद्रावयामास सेन्द्रान् सवरुणार्यमान् । वारं वारं सुरैर्देवि युद्धमुन्मत्तमातनोत् ॥३२॥
हृतामरावती तेन शक्रस्थानाधिपोऽभवत् । तस्यासीद्वशगं देवि त्रैलोक्यं सराचराचरम् ॥३३॥
स दीक्षितोऽश्वमेधेन अयजन्मां महाबलः । स्वाद्वन्नेन च सोमेन विधिवद्दक्षिणावता ॥३४॥
ज्ञात्वा मेधपति मां स काव्येनोशनसा मुदा । एतस्मिन्नन्तरे विष्णुः प्रार्थितः स्वपदार्थिभिः ॥३५॥
विष्णुना छद्मरूपेण याचितो दीक्षितो बलिः । पदत्रयं चिकीर्षुः स्वं पातालं प्रापयत् तदा ॥३६॥
तज्जयाखर्वगर्वेण वामनो मदमोहितः । मुनीन् मच्छरणान् सर्वान् धिक्कारोति दुरात्मवान् ॥३७॥
ततः परशुधारेण मया छिन्नः पपात च । तत्र तीर्थमभूत् पुण्यं कालञ्जरसमीपतः ॥३८॥
देवि वामनपाताख्यं तत्र स्नात्वा दिवं व्रजेत् ।
सन्तर्प्य च पितॄन् भक्त्या देवैः सह स मोदते ॥३९॥
गतमोहस्तदा विष्णुर्मां तुष्टाव प्रहृष्टधीः ॥४०॥
विष्णुः -
शम्भो मत्स्यनृसिंहवामनमहाकूर्माङ्गकोलास्थिभिः
दंष्ट्राभिर्नरसिंहचर्मवसनस्त्वं शारभः पक्षिराट् ।
तिर्यग्योनिशतोत्थपातकवरैः पूतोऽस्मि धन्योऽस्म्यहं
नीतो मोहदशां विभीतहृदयस्त्वच्छिक्षया शङ्कर ॥४१॥
दृष्ट्वा त्वत्पदपङ्कजं शिव महादेवेश पूर्वस्थिति
ज्ञसनं प्रपतमपारभक्तिजनकं त्वत्पादपूजाविधौ ।
वैकुण्ठे निवसामि भूतिविलसत्फालादिभूषाङ्गको
लिङ्गं बिल्वदलैश्च पुष्पनिकरैः संपूज्य मुक्तः सुखम् ॥४२॥
गतमोहोऽस्म्यहं देव शिक्षितश्च त्वयाऽधुना । भृगुणा तव भक्तेन शप्तोऽस्मि नितरां शिव ॥४३॥
तच्छापमुक्तोऽस्म्यधुना तिर्यग्योनिषु संस्थितः । मत्स्यकूर्मवराहादि नारसिंहादिवामनैः ॥४४॥
त्वया धृतैर्दहजालैः पावितोऽहं महेश्वर । अनुग्राह्योऽस्मि देवेश पुनः पञ्चसु जन्मसु ॥४५॥
प्रणम्य मां ययौ विष्णुस्तथेति च मयोदितः । बलिश्चापि मुदं प्रप्य रसातलतलं गतः ॥४६॥
तस्यासीदैरसः पुत्रो नाम्ना बाण इति श्रुतः । स राज्यमथ दैत्यानां चकाराग्निसमप्रभः ॥४७॥
शुक्रस्यानुमते देवांश्च्यावयामास विष्टपात् । शिपिविष्टप्रसादेन विशिष्टः सुरसत्तमैः ॥४८॥
सहस्रबाहुशाख्याढ्यो नागायुतबलो बली । सञ्चरन् स महीपृष्ठे शर्मदां नर्मदां मम ॥४९॥
स्नात्वा भस्मकराद्यङ्गो रुद्राक्षवरभूषणः । बिल्वपत्राणि संपाद्य पुष्पभाराणि दैत्यपः ॥५०॥
सहस्रं नार्मदं लिङ्गं संपूजयति शङ्करि । धूपदीपोपहाराद्यैर्नैवेद्यैर्भूषणैरपि ॥५१॥
नित्यं संस्तौति हृष्टात्मा बलिसूनुरनन्यधीः । सहस्रहस्ताञ्जलिभिः प्रणमन् मां पुनः पुनः ॥५२॥
नृत्यन् पादतलैर्भूमिं कम्पयन् बलिनन्दनः । गिरीन्द्रचलितोल्लोलनम्रमस्तकदिग्गजः ॥५३॥
हस्ततालमहारावबधिरीकृतदिड्मुखः । अस्तौषीन्मां महादेवि बाणो भक्तिपुरासरम् ॥५४॥
बाणः -
महादेव कर्पूरगौरामरेन्द्र महारुकोदण्ड चण्डप्रचण्ड ।
महाचण्डवेतण्ड शुण्डोरुदण्दैर्हृतापारलोलाब्जिनीपत्रपूज्य ॥५५॥
कुण्डलीशकृतकुण्डल शम्भो खण्दिताखिलसुरद्रुमषण्ड ।
ब्राह्ममुण्डकलितामलमाल स्थूललिंगगणमण्डलसंस्थ ॥५६॥
नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालक भूधरोरुमाल ।
धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिखविधूमकील ॥५७॥
वसुधाधरधारकं महेशं विबुधाधीश्वरसन्नताङ्घ्रियुग्मम् ।
गिरिकन्दरसंस्थितान्तरङ्गं भजाम्यहं सिन्धुरकृत्तिचेलम् ॥५८॥
नीलाभ्रसन्निभमहामहिषाधिरूढः चण्डांशुजप्रबलसर्पगणादिपाशैः ।
लिङ्गालिङ्गनतत्परं द्विजवरं कर्षन्तमत्युन्मुखं कालस्त्वत्पदताडितो द्विजसुते दत्तायुषं त्वां नुमः ॥५९॥
विधिकलितकपालजालमालं बलितनयार्चितबाणलिङ्गलोलम् ।
करविधृतकपालव्यालमालं सशूलं गलधृतगरनीलं कालकालं भजेऽहम् ॥६०॥
अच्छा वाक् तस्य शम्भो तव निखिलमहो सुष्टुतिं वीरयामि
त्वल्लिङ्गेक्षासुचक्षुः भवदमलकथाकर्णनैः सुश्रवाहम् ।
त्वत्पादार्चासुहस्तस्तव पदकमलध्यानतः सन्मनाऽहं
सर्वं चाङ्गं स्थितं च त्वयि भवति विभो शङ्कराद्य प्रसीद ॥६१॥
माकन्दं पिकसुन्दरीव भगवन् कान्ता यथा कामुकं
मत्तालिः सरसीरुहं द्विजगणो दातारमाकांक्षते ।
तद्वत् त्वां परिचिन्तयामि सततं तूर्णं कृपावीक्षणैः
संपूर्णं कुरु मामकिञ्चनमहो भाग्यैरभाग्यालसैः ॥६२॥
इत्थं स्तुत्वा तदा बाणो मामानन्दपरिलुतः । साष्टाङ्गं प्रणनामाथ बाणपातप्रमाणतः ॥६३॥
तस्मिन् सन्दर्शनं दत्तं तस्मै शैलेन्द्रकन्यके । चतुर्बाहुमुदाराङ्गं नीलकण्ठं वृषस्थितम् ॥६४॥
गङ्गाचन्द्रकलामौलिं खण्डकर्पूरसन्निभम् । वृन्दारबृन्दैः सततं सेव्यमानपदाम्बुजम् ॥६५॥
मन्दारकुन्दमालाभिः कण्ठलोलाभिरीश्वरम् । गणवृन्दैर्महादेवि तस्मै दत्तं च दर्शनम् ॥६६॥
दृष्ट्वा मां देवदेवेति प्रसीदेति वदन् मुदा । प्रणाममुखरो दैत्यो वरेण छन्दितो मया ॥६७॥
ईश्वरः -
उत्तिष्ठोत्तिष्ठ दैत्येन्द्र महेन्द्रसमविक्रम । गिरीन्द्रशिखराकार मृगेन्द्रामललोचन ॥६८॥
वरं वरय मत्तस्त्वं यदिच्छसि तदस्तु ते । इत्थं मद्वचनाम्भोजवाणीं श्रुत्वा स दैत्यपः ।
प्रणम्य मां तदा प्राह विनयानतकन्धरः ॥६९॥
बाणः -
भक्तिं त्वदीयजनसङ्गममेव शम्भो लिङ्गार्चनं च सुभगं तव बाणलिङ्गे ।
संप्रार्थयामि भगवंस्तव भक्तिभावं वांछा न मे भवति तुच्छभवादिधर्मे ॥७०॥
किं यागैरतुतुच्छभोगफलदैः स्वर्गादिपातान्तकैः
किं गोभिर्धनन्यान्यरत्ननिकरैर्हैमैश्च पात्रार्पणैः ।
शम्भो नार्मदलिङ्गमस्तकगमं बिल्वीदलैः कोमलैः
संपूज्य प्रमथाधिनाथपदवीं प्राप्नोति भाग्यैर्युतः ॥७१॥
नीरैर्नार्मदजैः सुशोभितमहाकर्पूरखण्डद्रवैः
संसेव्यालोक्य हृष्टो भवदभयपदं प्राप्तुमिच्छामि शम्भो ।
गाणापत्यं ममास्तु प्रियममरवरैर्दुर्लभं त्वत्पदाब्जे
भक्तिर्भक्तैः सहास्तु प्रतिदिवसमहो सङ्गमश्चाघहारी ॥७२॥
सद्यो नार्मदलिङ्गमण्डलमिदं बाणाख्यतां प्राप्नुया -
देवं देयो वरो मे प्रथयितुमखिलं लोकमद्य प्रसीद ॥७३॥
ईश्वरः -
तस्योदारवचो निशम्य गिरिजे दत्तो वरो मे कृतो
गाणापत्यपदे स दैत्यतनयः शक्रादिगर्वापहः ।
सर्वं भक्तजनार्पणाय सततं चित्तं मदीयं शिवे
सद्भक्तो भुवि दुर्लभः सुखकरः श्रीबाणलिङ्गार्चकः ॥७४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे बाणासुरस्य गाणापत्यवर्णनं नार्मदलिङ्गमहिमवर्णनं नाम दशमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP