संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| द्वितीयोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - द्वितीयोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वितीयोऽध्यायः Translation - भाषांतर सूतः - ततस्ते प्रमथेशानपदाम्बुजविचिन्तकाः । सानन्दलोचनाः सर्वे मुनयोऽध्यात्मवेदिनः ॥१॥आजग्मुर्नृपतिं द्रष्टुं भस्मपाण्डरमूर्तयः । रुद्राक्षमालाभरणाः सदा पञ्चाक्षरप्रियाः ॥२॥पञ्चास्यध्याननिरताः पञ्चब्रह्मविशारदाः । पञ्चेषुबाणधाराग्रतिरस्कृतिमहोपलाः ॥३॥सनातनश्च सनकस्तथैव च सनन्दनः । सनत्सुजातश्च तथा जातहर्षा नृपेक्षणे ॥४॥स तान् प्रत्युज्जगामाथ सार्घ्यहस्तः कृताञ्जलिः । प्रणनाम महीपालः साष्टाङ्ग स्पृष्टभूतलः ॥५॥आसनेषु सुनिष्टाप्तहेमक्लृप्तेषु भूसुरान् । गामर्ध्यमुदकं तेषां स्पर्शयामास शास्त्रतः ॥६॥ओमुत्सृष्टेति तैरुक्तो निषसाद वरासने । शैवसन्दर्शनानन्दसञ्जातपुलको नृपः ॥७॥प्रमोदवर्षधाराभिः परिप्लुतकलेबरः । मोदाम्बुनिधिमग्नश्च तदा चित्ररथो नृपः ॥८॥साञ्जलिः प्राह वाक्यानि सुधासाराणि सादरम् ।चित्ररथः - अहो धन्योऽस्मि विप्रेन्द्र भवत्सन्दर्शनादहम् । अद्य मत्पूर्वराजेन्द्रा याता वोऽनुग्रहाद् दिवम् ॥९॥भवतां दर्शनं मेऽद्य कामधेनुः किलार्थदा । भावाङ्गसङ्गजनितो वातोऽपि सुखदायका ॥१०॥किं किं न सूते भाग्यनि विविधान्यमितान्यपि । महाकलप्रहेशस्य कृपा पूर्णा मयि स्थिरा ॥११॥भवतां भवभक्तानां दर्शनं जातमद्य मे । इति चित्ररथोदारां वाणीं वाणीप्रतिप्रभाः ॥१२॥श्रुत्वा ते मुनयः सर्वे परं हर्षभवाप्नुवन् । ऊचुस्ते मुनयः सर्वे नृपं शाम्भवपुङ्गवम् ॥१३॥कम्पयित्वात्मनः शीर्षं जटाभारविदीपितम् ॥१४॥मुनयः - त्वमेव धन्योऽसि महीतलेऽस्मिन् मान्योऽसि पूज्योऽसि विशिष्टशिष्टः ।तव प्रभावं प्रवदन्ति देवाः विधीन्द्रपूर्वा मुनयश्च सिद्धाः ॥१५॥भूमण्डलाखण्डल एव नूनं त्वया महीमण्डनगण्डमण्डिता ।त्वं वै सुनाथः प्रथितः पृथिव्यां यतो महाकालपदानुरक्तः ॥१६॥माता पिता तेऽद्य पितामहोऽपि पुत्रास्तथा भ्रातरस्तेऽद्य दाराः ।सर्वे महेशानुचरा नृपेन्द्र त्वं शाङ्कलिङ्गार्चनसक्तचित्तः ॥१७॥श्रुत्वा मुनीनां वचनं प्रणतः स नृपाग्रणीः । तैः सर्वैर्मुनिभिः सार्धं महाकालालयं ययौ ॥१८॥स्नात्वा क्षिप्रानदीतोये भस्मरुद्राक्षभूषणः । निःसारद्दुन्दुभिरवैंरमात्यैर्मुनिभिर्वृतः ॥१९॥वृतो दारसहस्रैश्च पुत्रैरमरसुन्दरैः । सदश्वैर्मत्तमातङ्गैः स्यन्दनैः शिबिकागणैः ॥२०॥भटैरनेकसाहस्रैः बन्दिभिः सूतमागधैः । स्तुतो ययौ महाकालं द्रष्टुमिन्द्रनिभो नृपः ॥२१॥अतवीर्य रथेभ्यस्ते नृपेण सहिताः शिवम् । द्रष्टुसभ्यागताः सर्वे सकलत्राः कुमारकाः ॥२२॥पद्भ्यामनुययुः सर्वे तद्भृत्यास्तस्य सैनिकाः । सोपहारा महोदारा उदाराः सुमनोहराः ॥२३॥मुख्यामात्यास्तदाप्ताश्च ( समेता ? ) गिरिशं भवम् । प्रदक्षिणप्रणामाद्यैः स्तुत्वा रुद्रैर्महेश्वरम् ॥२४॥समभ्यर्च्य च मध्याह्ने भुक्त्वा नैवेद्यमीशितुः । दारैः पुत्रैः परिवृताः शांभवैः स्वभटैः सह ॥२५॥उपोपविविशुः सर्वे [ शिवाग्रे स्वर्णमण्टपे । कल्लोलतीर्थं च परं पीत्वा स्वर्णाब्जिनीपयः ॥२६॥भवलिङ्गार्चनपरा मुनयस्ते नृपादयः । एवं सभासदः सर्वे ] सभापतिमुपासते ॥२७॥ शिवार्पितैर्गन्धवरैस्ताम्बूलैश्च मनोरमैः । स्रग्मिश्च सुमनोमोदपरिभ्रमितषट्पदैः ॥२८॥तानभ्यर्च्य यथान्यायं स्वयञ्चान्यांस्तथा नृपः । स्वदारतनयाद्यांश्च तथामात्यान् भृतं जनम् ॥२९॥विचित्राभिः कथाभिश्च शैवीभिर्नृपसत्तमः । चकार कालनयनं महाकालार्चनप्रियः ॥३०॥ततस्ते मुनयः सर्वे दृष्ट्वा तल्लिङ्गमैश्वरम् । प्रणभ्य विनयोपेताः तुष्टुवुः शङ्करं तदा ॥३१॥मुनयः - कृतानङ्गभङ्गं महाङ्गत्वगङ्गं सदा जह्नुकन्यातरङ्गोत्तमाङ्गम् ।शिवं भक्तहृत्पद्मसद्मैकxङ्गं महाकाललिङ्गं भजामो भजामा ॥३२॥महेशाङ्गलिङ्गं विपत्क्षोभभङ्गं भुजङ्गाङ्गसङ्गं कुरङ्गाङ्गसङ्गम् ।तरङ्गालिमालीनिषङ्गं शुभाङ्गं महाकाललिङ्गं भजामो भजामः ॥३३॥अनङ्गं पतन्तं पतङ्गैकभङ्ग्या निजाक्षिस्फुलिङ्गे दहन्तं शयान्ते ।कुरङ्गं वहन्तं पतङ्गेन्दुनेत्रं महाकाललिङ्गं भजामो भजामा ॥३४॥जटाजूटपिङ्गं दयास्राव्यपाङ्गं कृताङ्गानुषङ्गं कयाचित् कृशाङ्ग्या ।असङ्गान्तरङ्गं महालिङ्गसङ्गं महाकाललिङ्गं भजामो भजामः ॥३५॥महोक्षाङ्गसङ्गं महोक्षाभसङ्गं स्वकाक्षिस्फुलिङ्गं सुगन्धोत्तमाङ्गम् ।महः शोणिताङ्गं महानङ्गभङ्गं महाकाललिङ्गं भजामो भजामः ॥३६॥सूतः - एवं संस्तुत्य ते सर्वें मुनयो हृष्टमानसाः । राजानं विनयोपेतं वाचमूचुस्तदा द्विजाः ॥३७॥मुनयः - धन्योऽसि कृतकृत्योऽसि सर्वमान्योऽसि भूपते । पश्य देवस्य माहात्म्यं महाकालस्य सादरम् ॥३८॥मेरुम्तृणति राजेन्द्र तृणं याति गिरीन्द्रताम् । भवद्वृत्तान्तमखिलं श्रृणुष्व गदतां हि नः ॥३९॥भवान् पूर्वभवे राजन् ब्राह्मणाः कणयाचकः । मातापितृविहीनश्च दारेण च समन्वितः ॥४०॥उंछवृत्तिपरो नित्यं सततं क्षुच्छ्रमान्वितः । पटाञ्चले गहीत्वैकां कणानां मुष्टिमादरात् ॥४१॥पत्न्या सार्धं भ्रमन् राजन् ग्रामेषु नगरेषु च । स द्विजो हि दिवारात्रं दिनान्ते नगराद्वहिः ॥४२॥कदाचित् सायमश्नानो द्वितीये दिवसे क्कचित् । तृतीये वाऽथ षष्ठे वा भुङ्क्ते दारिद्र्यपीडितः ॥४३॥अत्यन्तं सूर्यकिरणैस्तप्तगात्रः सदा द्विजः । भेरुण्डपक्षिसदृशो हिण्डते प्रतिवासरम् ॥४४॥प्रतिग्रामं प्रतिद्वारं लज्जासर्वस्ववर्जितः । क्कचिन्मूर्छान्वितः शेते क्कचिद्याति स्खलत्पदः ॥४५॥भार्यास्कन्धकरो याति रुदन् प्रतिगृहं तदा । दत्वा दत्वा च विरताः पुनस्तान याचयत्ययम् ॥४६॥असूयाविष्टमनसो दर्शनात्तव भूसुराः । क्षत्रियाश्च विशश्चैव शूद्रा अपि च सङ्कराः ॥४७॥भ्रुकुटीकुटिलं वक्त्रं कुर्वन्त्येव मुहुर्मुहुः । गच्छ गच्छेति तं केचिन्मूढेति च वदन्ति ते ॥४८॥दूरादालोक्य तं विप्रं कवाटैरर्गलान्वितैः । गृहद्वाराणि कुर्वन्ति साधवोऽपि भिया तदा ॥४९॥कणमुष्टिं गृहीत्वैव निर्यात्युत्क्रोशयन् जनम् । ग्रामस्था नागराश्चैव जना निर्भर्त्सयन्ति तम् ॥५०॥निःसार्योऽयं सुदुष्टात्मा कदा मरणभेष्यति । द्विजं दण्डकशाघातैस्ताडयन्त्यतिवेगतः ॥५१॥पांसुकर्दमपिण्डैश्च कुमाराः पीडयन्ति तम् । जीर्णं पटं तस्य कट्यां निष्कास्यन्त्यतिवेगतः ॥५२॥एवं स पीडितो विप्रश्चौर्येणापि स जीवति । विपण्यापणवीथीषु धनिकानां गृहेषु च ॥५३॥कणान् पणांश्चोरयति दृष्ट्वा सन्ताडयन्ति तम् । एवं वसंस्तदा विप्रो भार्यया जीर्णया वृतः ॥५४॥कालं निनाय बहुशो विनयाचारवर्जितः । भार्यामाह तदा विप्रो दुःखादश्रु प्रवर्तयन् ॥५५॥उवाच भार्यां दीनात्मा मन्दात्मा कृपणः कृशः ।ब्राह्मणः - हा कष्टं प्रेतनाथोऽपि मयि नैष्ठुर्यमागतः । कदा मरणमेष्यापि प्राणाः कष्टतरा मम ॥५६॥सत्वरं गत्वरं लोकं दृष्ट्वाऽहं दुःखवर्जितः । याच्ञादौ महती लज्जा जाथते मेऽधुना प्रिये ॥५७॥दारिद्र्यं नाम मरणं सर्वस्यापि न संशयः । भक्षिष्ये गरलं तीव्रं जीवितान्तकरं मम ॥५८॥तरङ्गमालाकलितं प्रवेक्ष्ये निधिमम्भसाम् । ज्वलज्ज्वलनज्वालाभिः दाहयिष्ये कलेबरम् ॥५९॥इत्युक्तवन्तं तं विप्रं भार्या प्राहाश्रुलोचना ॥६०॥ब्राह्मणी - ब्राह्मणानां कुले जातो ब्राह्मणस्त्वं न संशयः । किमर्थं दुद्यते तीव्रं दुःखापनयनं कुरु ॥६१॥अनिष्टं नाम मरणं लोकेषु प्रथितं सदा । यया कथा च वृत्त्या च जीवावो नात्र संशयः ॥६२॥यस्मिन् काले यदा देशे यद्यद्भावि भविष्यति । यस्मिन् काले यदा राद्धं अन्नमित्याह हि श्रुतिः ॥६३॥शिवक्षेत्रमिदं तावद्बहु शैवविराजितम् । अत्र शङ्का न कर्तव्या कृतान्तादपि भूसुर ॥६४॥वृथायासकरः कालः शरीरस्यापि सर्वथा । अतः परं शिवद्वारि वसावो बलिभोजनौ ॥६५॥एवं संवदतोस्तत्र दम्पत्योः कश्चिदागतः । शैववर्यः प्रहृष्टात्मा शिपिविष्टेष्टमानसः ॥६६॥भस्मरुद्राक्षसंपन्नो महाकालं निरीक्षितुम् । बभाषे वचनं चारु तौ तदा हर्षयन्निव ॥६७॥शैवः - किमर्थं दुःखितौ ब्रूतं तीव्रशोकेन कर्शितौ । यदि क्षमं मयि ब्रूतामुपायं चिन्तयाम्यहम् ॥६८॥ प्राप्तमन्नं मया भुक्तं सदान्नपतिपूजनात् । अस्मिन्नेव शिवक्षेत्रे दद्यादन्नं सुसंस्कृतम् ॥६९॥यस्मै कस्मैचिदत्यन्तं तुष्टस्तेन महेश्वरः । किं पुनः शैववर्येषु दत्तं भवति चाक्षयम् ॥७०॥भस्मफालस्त्वमत्यन्तं त्रिपुण्ट्रावलिभासुरः । रुद्राक्षमालाभरणो द्विजोऽप्यत्यन्ततर्षितः ॥७१॥सदारश्च विशेषेण त्रिनेत्रप्रियकृत्तमः । इति शैववचः श्रुत्वा सभार्यो हर्षितो द्विजः ॥७२॥यथोदकं मरौ प्राप्य घासमिष्टं यथैव गौः । तृषितस्तद्वदेवायं प्राञ्जलिः प्रणनाम तम् ॥७३॥उवाचोत्फुल्लवदनो हर्षगद्गदया गिरा ।ब्राह्मणः - किं करोमि द्विजेन्द्राद्य याचकोय़्हं सदातुरः । बहुभक्षः सदारश्च मासमात्रमुपोषणः ॥७४॥मद्याचनाभिया लोके नैव दास्यन्ति केचन । धनधान्योदपूर्णेषु गृहेषु गृहिणः सदा ॥७५॥तिरस्कुर्वन्ति मां नित्यं कुप्यन्ति च हसन्ति च । दारिद्र्यपीडितस्याद्य जीवनं मे न विद्यते ॥७६॥म्रियेऽहमधुना विप्र दुर्भाग्यार्णवमध्यगः । सदारः पश्यतस्तेऽद्य महाकालशिवाग्रतः ॥७७॥शिवाग्रे मरणं शैव धन्यानां किल जायते । मत्पापगणनां नूनं शेषो वक्तुं हि न क्षमः ॥७८॥तस्माच्छिवक्षेत्रगतस्त्यक्ष्यामीदं कलेबरम् । नैव पातकसङ्गो मे शैवेत्थं सत्यमुच्यते ॥७९॥इति तद्वचनं श्रुत्वा स शैवो दुःखितोऽवदत् ॥८०॥शैवः - त्वयान्नपतये पूर्वं न दत्तं चान्नमुत्तमम् । तेन त्वं दुःखभाङ्नूनं दरिद्रश्च विशेषतः ॥८१॥जनैस्तिरस्कृतश्चासि सदा धिक्शब्दवादिभिः । धनधान्यसमायुक्तजनतायां त्वयाऽधुना ॥८२॥नैव संप्राप्यते चान्नं पश्य त्वं कालपर्ययम् । उपायमेकं वक्ष्यामि सावधानमनाः श्रृणु ॥८३॥वृद्धस्त्वं जरया व्याप्तः चलितोरुशिरोऽङ्गकः । मुहुर्मुहुर्जायते ते हृदये चैव वेपथुः ॥८४॥तूष्णीं स्थितिस्ते युक्ता हि हितमात्यन्तिकं श्रृणु । अस्मिन्नेव शिवक्षेत्रे वसन् सुनियतो भव ॥८५॥शङ्करं भज हे विप्र भस्मरुद्राक्षभूषणः । सर्वपापविनाशाय तव दास्याम्यहं मनुम् ॥८६॥पञ्चाक्षरं महद्विप्र तेन लिङ्गार्चको भव । हरेण कथितं गौर्या हितं दारिद्र्यनाशनम् ॥८७॥तत्तुभ्यं श्रृणु वक्ष्यामि हितमात्यन्तिकं द्विज ॥८८॥अखण्डशुभ्रोत्तमधौततण्डुलान् हैयङ्गवीनेन विलोड्य पक्त्वा ।दत्वा तदन्नं स भवेदथान्नपतिः प्रजाः पालयिताऽद्य गौरि ॥८९॥शिवे शिरसि मे शिवे ददति योन्नमत्यादरात् स एव निधिसंपदां भवति भाग्यपूर्णो जनः ।स एव सुकृती परं मुहुरनन्यचेता मयि स्थिरो मम सपर्यया भवति मुक्तये चाम्बिके ॥९०॥सुकृष्टभुवि वर्षतः प्रसृतसल्लिवल्लीलस - द्वसन्तनवकुड्मलिविरलपुञ्जवन्मञ्जुलम् ।द्रोणाच्छाभ्रनिभान्नराशिभिरुमे संछाद्य राकाशर - द्याश्विन्यां तदपारसिक्थगणनापुण्यैरनल्पैर्भवेत् ॥९१॥सर्वाश्वमेधशतकोत्थफलाद्यगर्वनिर्वापणायालमुमेऽद्य पुण्यम् ।कियत् तदन्नधिपपादपूजनं ततो भवेद्गौरि विशिष्टमेतत् ॥९२॥अहो पामरा वानरा एव नित्यं शिवाराधनासाधनाद्विप्रहीणाः ।न चाचारधाराविहारैकशूरा खरापारयोनिद्रावासरतृष्णाः ॥९३॥महाबिल्वमूले महाशैवमेकं समभ्यर्च्य संभोजयित्वा घृतान्नैः ।स चान्नाधिपत्यं लभेतैव कामं महान्नाधिपस्यैव शीघ्रं प्रसादात् ॥९४॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे सनकादिचित्ररथसंवादे चित्ररथपूर्वजन्मवृत्तान्तकथनं नाम द्वितीयोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP