संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| चतुर्थोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - चतुर्थोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव चतुर्थोऽध्यायः Translation - भाषांतर देवाः - अहो महदिदं भाग्यं ब्राह्मणस्य महात्मनः । मुनीश्वरैः सुरेन्द्रैश्च भक्तिं प्रपय सुदुर्लभाम् ॥१॥शांभवीयावनिं धन्यां त्वत्सङ्गाङ्गावलोकनात् । निष्क्रियोऽप्ययमत्युग्रः शूद्रकर्माऽपि भूसरः ॥२॥भासुराचारसंयुक्तः सुराश्चर्यैकभाजनः । त्वदङ्गत्रातोऽपि पावनानां च पावनः ॥३॥त्वद्दर्शनं सुराणां तु विचित्रजनकं महत् । अहो महामणिस्पर्शात् लोहं काञ्चनतां व्रजेत् ॥४॥तद्वदेवायमधुना विप्रबन्धुस्तथाऽधमः । मुनीन्द्रानमरेन्द्रांश्च धिक्करोति त्वदाश्रयात् ॥५॥त्रिनेत्रसुदयापात्रान् पवित्रान् गात्रसङ्गमैः । कुर्वन्त्येवामरधुनी पुनीते यद्वदेव ते ॥६॥एतस्य भाग्यगणना नायोग्यैरिह गण्यते । शेषोऽपि महिमालेशं गणितुं न तव क्षमः ॥७॥महाकालमिदं क्षेत्रं महेन्द्रप्रियकृत्तमम् । भूमण्डलेऽस्य सदृशं क्षेत्रमन्यन्न विद्यते ॥८॥विद्योतते यथा भानुर्नभोङ्कण ( ङ्गण ) पथि स्थितः । तथा भूमण्डलगतक्षेत्रेष्वेतद् विराजते ॥९॥महाकाल महाकाल महाकालेति यो वदेत् । सुदूरेऽपि गतो मर्त्यो महाकालान्तिके स्थितः ॥१०॥लिङ्गं मङ्गलदं पुण्यं महामङ्गलयार्चितम् । अर्चितं ब्रह्मविष्ण्वाद्यैर्महाकालगणार्चितम् ॥११॥दृष्टं श्रुतं वा सततं स्पृष्टमंहोविनाशकम् । अयं मे हस्त इत्यादिमन्त्रस्पर्शो विशिष्यते ॥१२॥चैत्र्यां माघ्यां तथाषाढ्यां पौर्णम्यां यस्तु पूजयेत् । स विमुक्तो महापापान्मुक्तिमन्ते व्रजेत च ॥१३॥यस्तु चन्दनण्ङ्केन लिङ्गमेतद्विलेपयेत् । कर्पूरगरुकस्तूरीमिश्रैर्वा यदकर्दमैः ॥१४॥तालवृन्तैर्वीजयित्वाऽग्निष्टोमफलभाग्यवेत् । बोल्वपत्रैश्च कल्हारैश्चम्पकैस्तथा ॥१५॥पूजयित्वा महालिङ्गं महाकालस्य शूलिनः । सद्यो मुच्येत पापैश्च गाणपत्यं लभेन्नरः ॥१६॥अत्रोपोष्य महादेवं दृष्ट्वा सायं हविष्यभुक् । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥१७॥क्षिप्रानद्युदके स्नात्वा सन्तर्प्य पितृदेवताः । भोजयित्वा द्विजान् शैवान् भक्ष्यभोज्यैरनेकशः ॥१८॥कोटिभोज्यफलं तस्य क्षेत्रेऽस्मिन् शैवसत्तम ।दत्वाथ तण्डुलं धान्यं तिलान् मुद्गांस्तथाढकान् ॥१९॥क्षीरं दधि घृतं क्षौद्रं शर्करां वा फलानि च । दत्वा शिवाय स भवेन्निष्पापो नात्र संशयः ॥२०॥रंभपनसजम्बीरनारिकेलेक्षुसारकम् । सुमोदेत स वै मर्त्यो मेघमुक्त इवोडुराट् ॥२१॥ बुद्धिपूर्वकृतैः पापैस्तत्क्षणादेव मुच्यते । कापिलेनाथ पयसा योऽभिषिञ्चेन्महेश्वरम् ॥२२॥स पुनः स्तन्यपयसा स्वोदरं नाभिषिञ्चति । घृतेन दीपान् प्रज्वाल्य कार्तिके तु विशेषतः ॥२३॥सोमवारे त्रयोदश्यां प्रदोषे पर्वतोर्द्वयोः । संक्रान्तौ च व्यतीपाते अयने ग्रहणे तथा ॥२४॥दृष्ट्वा देव महाकालं पूज्य मुक्तो भवेन्नरः । शतरुद्रियमन्त्रैश्च योऽभिषिञ्चेन्महेश्वरम् ॥२५॥धारापात्रैस्तथा श्रुङ्गै शङ्खैश्चैवाथ पाण्डरैः । सहस्रधाराकलशैः शतधारादिकैरपि ॥२६॥ शतधारं सहस्रधारं मन्त्रैर्यस्तभिषिञ्चयेत् । शोधितैर्वासितैर्नीरैः धारया वृत्तसूक्ष्मया ॥२७॥धारां शिवशिरोलग्नां अविच्छिन्नां प्रकल्पयेत् । सन्ततिं पशुपुत्रांश्च अविच्छिन्नं लभेत् सः ॥२८॥सुदुर्लभतरं ज्ञानं लभते नात्र संशयः । इत्थं शैवेन संवादं कृत्वा ब्रह्मादयः सुराः ॥२९॥नारदार्द्यैर्मुनिश्रेष्ठैः सार्धं गन्धर्वकिन्नरैः । सितभस्माक्ततनवो रुद्राक्षवरभूषणाः ॥३०॥महाकालालयं देवा ययुर्बिल्वादिपाणयः । महापचितिसंभारान् कामधेनूधसोद्भवैः ॥३१॥सफेनक्षीरधाराभी रुद्रसूक्तैरसेचयन् । दधिमण्डैर्घृतैर्दिव्यैर्मधुना सितयाऽपि च ॥३२॥नारिकेलाम्रसुरसैः मोचाजम्बीरपानसैः । तत्तद्रसैर्महादेवं विविधैरभ्यषेचयन् ॥३३॥गन्धकर्पूरपुष्पोत्थैः स्वर्णरत्नकुशोदकैः । रौद्रै ऋक्सामयजुषां गणैराथर्वणैरपि ॥३४॥पञ्चब्रह्मभिरीशानं सुगन्धिं गन्धवासितैः । पयोभिरमृतास्वादैः पाटल्यगरुवासितैः ॥३५॥नानावादित्रनिनदान् निलिंपाः समघोषयन् । स्नालकाले महेशस्य जयशब्दैश्च पुष्कलैः ॥३६॥स्नाप्य वस्त्रैर्वेष्टयित्वा मृदुकौशेयसंभवैः । चन्दनेनैव संलिप्य लिङ्गमापीठमुत्तमम् ॥३७॥नवरत्नचितानेकभूषणैर्भूषयन् सुराः । निधनेत्यादिभिर्मन्त्रैः श्रीपत्रैः कमलैस्तथा ॥३८॥आर्चयंश्चम्पकैरर्कैर्मन्दारकरवीरकैः । बकैर्द्रोणैश्च धुत्तूरैः नीलरक्तोत्पलैस्तथा ॥३९॥सहस्रनामभिः पुष्पैर्धूपैर्दीपैर्मनोरमैः । दीपैर्विदीपयामासुर्महाकालशिवालयम् ॥४०॥धूपैरगरुजोद्भूतैः घुमुग्घुमितदिकतटम् । नैवेद्यैर्विविधैर्हृद्यैः सूपापूपादिराशिभिः ॥४१॥क्षीराज्यकुम्भैः शतशः पायसानां घटीशतैः । दधिखण्डादिभाण्डैश्च शर्करापङ्कपङ्किलैः ॥४२॥ताम्बूलपर्वतैर्नै कक्रमुकानां च राशिभिः । मुखवासकरैःरन्यैर्मृगनाभिविराजितेंः ॥४३॥लवङ्गैलामुखरितैर्जाजीपत्रफलैरपि । स्वच्छपुच्छयुतापारमरीचीखदिरैस्तथा ॥४४॥नैवेद्यमाद्यं हृदं च दत्वा दिविषदः शिवम् । नीराजनैस्तथा पुण्यैः छत्रचामरदर्पणैः ॥४५॥व्यजनैः सन्निषेव्येशं नानावाद्यरवैरपि । रम्भाद्यप्सरसस्तत्र ननृतुः शङ्कराग्रतः ॥४६॥जगुश्च देवगन्धर्वा नारदाद्याश्च गायनाः । महादेव प्रसीदेति श्रीमन्मृत्युञ्जयेति च ॥४७॥सरागं च सतालं च कलं गीतैरतोषयन् । मूर्छनास्थानविन्यासै रुद्रवीणाकराः सुराः ॥४८॥प्रदक्षिणनमस्कारैः स्तुतिभिर्नर्तनैस्तथा । करताडनपूर्वं ते तुष्टुवुः परमेश्वरम् ॥४९॥देवाः - सरित्पतिनिषङ्गिणे कृतगिरीन्द्रसद्धन्वने धराधरणसत्फणिप्रवरभूतसच्छिञ्जिने ।रमारमणसायकप्रबलहस्त तुभ्यं नमो महोक्षररवाहिने कृतगणेन्द्रशैलादिने ॥५०॥भुजङ्गवरधारिणे धृतगरार्धकण्ठाय ते निशापतिकलास्फुरत्सुरतरङ्गिणीमौलये ।महाङ्गवदनोल्लसन्मदविलोकिने ते नमो जलन्धरशिरोब्जिनीनिकृतनालचक्राय ते ॥५१॥कपर्दकृतबन्धनोल्लसितभोगिभोगाय ते तवाक्ष्यनलकोणभूकणविदग्धकामाय ते ।महाघगिरिमस्तकप्रहृतिनामवज्राय ते करीन्द्रवदनोल्लसत्स्फुटपदाय तुभ्यं नमः ॥५२॥विभूतिपरिधूलनोद्धवलिताङ्गरागाय ते हरिन्मणिनिभागजाकृतविभागदेहाय ते ।पतङ्गयनोद्धूतप्रबलचण्डदण्डाहतिस्फुटद्द्विजसुताविने ( वने ) भवहराय तुभ्यं नमः ॥५३॥सुरासुरमरुद्गणप्रवरविप्रबृन्दार्भटीकटीतटमृगाजिनप्रवलरक्षदीक्षामणे ।हविर्मुखमखामूतान्धसमुखोरुदन्तेक्षणप्रपातनकराय ते गिरिशयाय तुभ्यं नमः ॥५४॥इत्थं स्तुत्वा तदा देवा महाकालं महेश्वरम् । शांभवैर्मुनिभिः सार्धं ब्रह्माद्यास्ते सुधान्धसः ॥५५॥शिवनैवेद्यमास्वाद्य सुधाधिक्कारिणोऽभवन् । ततस्ते विबुधाः सर्वे ददृशुर्वसुधाधिपम् ॥५६॥नाम्ना चित्ररथं हृष्टाः स्पर्धते यः शतक्रतुम् । भस्मरुद्राक्षवीताङ्गं शाम्भवैः परिवारितम् ॥५७॥महाकालमहालिङ्गं ध्यायन्तमनिशं हृदा । रम्भाधिक्कारिभिर्दारैः कुमारैर्मारसंभवैः ॥५८॥शैवामात्यवरैर्वीरैर्भटैस्तादृग्विधैरपि । सुरास्ते नृवरप्रख्यैः परीक्ष्य बहुधाऽऽस्तिकम् ॥५९॥ऊचुरम्लानवदनाः प्राञ्जलिं प्रणतं नृपम् ।देवाः -धन्यस्त्वमेव भूपाल पालिताखिलभूतल । भूतुषाराट् त्वमेवैक आषाढार्चनतत्परः ॥६०॥तव भाग्यस्य नान्तोऽस्ति यतः शिवपरायणः । सहस्राक्षोऽयमत्यन्तमक्ष्णामाप परं फलम् ॥६१॥अन्ये द्विलोचना देवास्तव दर्शनहर्षिताः । स्वर्गौकसां वचः श्रुत्वा क्ष्मापतिः क्षमयान्वितः ॥६२॥ भूयः प्रहर्षितो देवान् वचो वक्तुं प्रचक्रमे । सुरसन्दर्शनापारहर्षवारिधिमग्नधेः ॥६३॥राजा - इन्द्रमित्रादयो देवाः हरिपद्मजपूर्वकाः । वरुणाग्न्यनिलाः सर्वे त्रिनेत्रांशाः सुरोत्तमाः ॥६४॥सनातनाद्या योगीन्द्रा नारदाद्याः सुरर्षयः । कृतकृत्योऽस्मि हे देवा यूयं मद्दर्शनं गताः ॥६५॥श्लाघ्योऽयं विबुधश्रेष्ठाः सर्वदा नात्र संशयः ।न मत्तोऽभ्यधिकः कश्चित् पुण्यवानिति मे मतिः ॥६६॥महाकालमहेशस्य कृपा मयि तु सुस्थिरा । कः पूज्यते भवद्भिस्तु ध्यायते कः सुरोत्तमाः ॥६७॥कस्य लिङ्गं पद्मजाद्यैः पूज्यते भक्तिभावितैः । तत्सर्वं श्रोतुमिच्छामि भवद्भ्यः स्वर्गवासिनः ॥६८॥महेशकथया कालो विनेय इति मे मनः । कालकालकथाधारासुधया यस्तु जीवति ॥६९॥स जीवति नरो नित्यं मृतास्त्वन्ये सुरोत्तमाः ॥७०॥वसुधाधिपतेर्वाक्यं श्रुत्वा ते विबुधोत्तमाः ब्रह्माणं विनयात् प्राहुः कृताञ्जलिपुटास्तदा ॥७१॥देवाः - त्वमेव देवश्रेष्ठोऽसि प्रजापतिरसि प्रभो । महेश्वराद्वेदजालं शिवज्ञानं च वेत्सि वै ॥७२॥त्वत्तः सर्वमशेषेण राज्ञा च श्रृनुमोऽब्जज ।सूतः - इति तद्वैंबुधं वाक्यं श्रुत्वा नत्वा महेश्वरम् । बभाण भारतीनाथो हर्षयन्नृपमञ्जसा ॥७३॥ब्रह्मा - अस्माभिरिन्दुशकलाकलितोत्तमाङ्गलिङ्गार्चनानियमधूतसुदुष्कृतैश्च ।नास्त्यैव कालजभयं जनिमृत्युतोऽपि शङ्का न दुःखशतकैः सुविचिन्त्यते हि ॥७४॥क्षणं त्र्यक्षमक्षीणमक्षाणि रुद्ध्वा क्षपादौ क्षपान्ते क्षपानाथचूडम् ।समभ्यर्च्य दक्षाध्वरध्वंसकं कक्षवासं भगाक्षिक्षयं मुच्यतेऽघौघसङ्घात् ॥७५॥शिपिविष्टमदृष्टकोष्टजनितानन्दैकनिष्ठानता निष्टानिष्टविशिष्टशिष्टहृदयागारे निविष्टं शिवम् ।ध्यात्वा कष्टतराष्टवेष्टनमयं त्यक्त्वाष्टमूर्तिं सदा काष्ठाष्टाम्बरमाशुमीशमनिशं दृष्टः फलार्थे मुहुः ॥७६॥को वा वेदोदयाद्रिप्रवरशिखरकोद्भासिमाहात्म्यजालो भीत्या यस्येन्दुशक्रास्तपनपवनका भान्ति देवाः समग्राः ।सोऽयं शङ्करभास्करः प्रतपते मुष्णन्नघौघांबुदं उग्रो भीममहेश्वरेश्वर महादेवेति नामांशुभिः ॥७७॥नित्यानित्यसमस्तवस्तुविषयव्यापारसत्तात्मकं यत्सत्ताधिगमेन चेत् तपति यद्भानैकबोधं जगत् ।यस्यानन्दलवैकदेशजनितानन्देन ते निर्वृताः ब्रह्मेन्द्रादिमरुद्गणाः सवरुणाः साक्षी स एवेश्वरः ॥७८॥विश्वोत्पत्तिविनाशपालनमहाहङ्कारभूतैर्गुणे - रव्यक्तं पुरुषः प्रकृत्यधिकृतिः संवित्स्वरूपा शिवा ।या सा ह्यस्य शिवस्य मुख्यदयिता तां ध्यानयोगैः सुराः संप्रार्थ्य प्रमथाधिनाथमजरं ज्ञात्वा परं निर्वृताः ॥७९॥विषार्चिषि विषाकरादधिमहीषदुन्मीलति बलद्विषि गतत्विषि क्षपितशेमुषीरोचिषि ।बलिद्विषि विना रुषा विषमियेष पीयूषवत् स शोषयति कल्मषं विषमबाणशोषाकरः ॥८०॥नागमस्तकभिदं हृददोना नागमस्तुतममुं च विहाय ।नागमाश्रितनिशाकरसिन्धु नागमच्छारदिन्दुसमानम् ॥८१॥मच्छिरोऽधिवसतीह परागः पादयोस्तव शिवाधिपरागः ।अप्सरोभिरपि सत्रपरागः तत्र चेदभजनं हि पराघ ॥८२॥भगवत्यगजापतौ महेशे कृतपुण्यैरमितैर्लभेत भक्तिम् ।स तु सन्तरते भवाब्धिमुग्रं जनिनाशप्रथितं विचित्रकर्म ॥८३॥वरं कर्कटीत्वं वरं मर्कटत्वं वरं चण्डचण्डालकन्यासुतत्वम् ।वरं सूकरीयोनिगन्धोन्मुखत्वं महेशार्चनावर्जनं तद्वरं न ॥८४॥अलं योगसंसेवनैर्विप्रबृन्दप्रतिष्ठादिपुण्यैरलं केवलं मे ।अलं सर्वदानैरलं सर्वयज्ञैरलं तीर्थयात्राव्रताचारधर्मैः ॥८५॥प्रतिष्ठाप्य लिङ्गं महाबिल्वमूले त्रिकालं महेशं समभ्यर्च्य बिल्वैः ।न चेच्छामि वाणीपतित्व हरित्वं महेशानपादारविन्दे शपामि ॥८६॥क्षयद्वीरं वीरं निखिलगुणपारं भयहरं परं पारं सारं निखिलजनगुप्त्यै धृतशरम् ।नमामीशं शश्वत् परतरगराविष्टसुगलं वरं वारं वारं श्रुतिशिखरगम्यं सुखकरम् ॥८७॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे चित्ररथब्रह्मादिदेवगणसंवादो नाम चतुर्थोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP