संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| चतुर्विंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - चतुर्विंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव चतुर्विंशोऽध्यायः Translation - भाषांतर ईश्वरः - श्रीगौरि भार्गवो रामो मामाराध्यावसद्यदा । तदा तदाख्यानवरं तेऽद्य वक्ष्ये श्रृणुष्व तत् ॥१॥देवी - कथमाराधयद्रामस्त्वत्पादाम्बुजमीश्वरः । कृपया देवदेवेश तद्वदस्वानुपूर्वशः ॥२॥ईश्वरः - कृतवीर्यो महादेवि माहिष्मत्यामभून्नृपः । यज्वास विभवोपेतो धर्मात्मा क्षत्रियर्षमः ॥३॥कुमुद्वती तस्य भार्या तस्यां तस्य सुतोऽभवत् । कार्तवीर्यार्जुनो नाम्ना स शान्ति पृथिवीमिमाम् ॥४॥दत्तात्रेयो गुरुस्तस्य सदा मद्भक्तिभावितः । स पर्यटन्नर्मदायास्तीरे सुन्दरकानने ॥५॥ददर्शाश्रममेकान्ते क्षुच्छ्रमाभ्यां समन्वितः । जमदग्निं मुनिवरं शाम्भवं प्रणनाम च ॥६॥पृष्टस्तेनापि कुशलमातिथ्येन न्यमन्त्रयत् । कामधेनुपयोभूतैर्विभवैस्तं समर्चयत् ॥७॥स कामधेनुं चकमे नृपो बाहुबलोद्धतः । तन्नैश्चज्जमदग्निश्च गोगणानां शतैरपि ॥८॥विदूध्वा शरशतैर्विप्रं कामधेनुं नृपोऽग्रहीत् । विद्धं सा स्वपतिं दृष्ट्वा रामं विपिनगं तदा ॥९॥रुरोद रेणुका दीना दृष्ट्वा पुत्रं समागतम् । उवाच रुदती माता राम रामेति सुस्वरम् ॥१०॥तदा तत् करुणं श्रुत्वा स्वमातुः परिदेवनम् । स क्रुद्धो वचनं रामः श्रुत्वोदन्तं तपस्विभिः ॥११॥उवाच मातरं दीनां भर्तारमनुगच्छतीम् ॥रामः - मैवं रुदो विशालाक्षि भर्तुर्गच्छ सलोकताम् । अस्य शांभववर्यस्य हनने कः सुखी भवेत् ॥१२॥अपराध्यपि विर्पो वै न हन्तव्य इति श्रुतिः । शांभवश्चेत् दशगुणं तस्य पापं भविष्यति ॥१३॥ब्रह्मघ्ने निष्क्रुतिर्मातः कल्पितास्ति क्कचित् सुरैः । अबुद्धिपूर्वं बुद्धौ तु मरणान्तमिति श्रुतिः ॥१४॥शांभवस्याद्य हनने विद्धि बुद्धिकृतांहसाम् । नैव निष्कृतिको भूयाद्रुद्रकोपोन्मुखो हि सः ॥१५॥रुद्रकोपाग्निदग्धस्य को वा त्राणकरो भवेत् । अमरैश्च वृतः पूर्वं स्मरो देवादिकार्यकृत् ॥१६॥विष्णोः लक्ष्म्याश्च यः पुत्रः पुष्पैरिषुगणैः शिवम् । अन्यसाधारणं ज्ञात्वा अविध्यत महेश्वरम् ॥१७॥क्षणेन भस्मतां नीतः किं पुनर्द्रोहकृज्जनः । शांभवो हि शिवस्यैव चरा मूर्तिरिति श्रुतिः ॥१८॥ब्रह्मा ब्रह्माभवद्यस्य सदस्यो विष्णुरेव हि । रुद्रकोपाग्निदग्धस्य को दक्षस्य परायणम् ॥१९॥पश्यतां सर्वदेवानां वीरभद्रेण नाशितः । दक्षमन्युस्तदा मातः स ममास्ते परायणम् ॥२०॥शांभवस्य च बालस्य मार्कण्डेयस्य पीडनात् । कालमृत्योरपि शिवान्मातर्मृत्युरुपागतः ॥२१॥शिवे शांभववर्ये च नान्तरं पश्य मेऽधुना । क्षत्रबन्धुरयं पापी न चिराद्वर्तयिष्यति ॥२२॥शाम्भवद्रोहकृन्मर्त्यः सुरो वाप्यसुरोऽपि वा । न ब्रह्मा न हरिर्वापि किमन्ये पामरा नराः ॥२३॥कृत्वाऽपि सर्वपापानि यो रुद्रं मनसा स्मरेत् । सद्यस्तत्कृतपापानि भस्मीभूतानि शोभने ॥२४॥तस्यैव चापराधेन को वा तन्मोचको भवेत् । तमाराध्यतमं देवं समाराध्यैव भक्तितः ॥२५॥कार्तवीर्यकुलं सर्वं निहन्ता विज्वरा भव । अहं सत्यप्रतिज्ञश्च त्वत्तो जातोऽस्मि माशुचः ॥२६॥ इति सा सान्त्विता माता रामेणाक्लिष्टकर्मणा । भर्तारमनुगच्छत् सा ध्यायन्ती साम्बमीश्वरम् ॥२७॥नैधनेन विधानेन रामः संस्कृत्य तौ तदा । श्रीमद्गोकर्णभगमत्त् कोपदुख्हसमन्वितः ॥२८॥स सागरे तदा स्नात्वा भस्मरुद्राक्षभूषणः । रुद्रमावर्तयन् मां स बत्सरत्रयमादरात् ॥२९॥बिल्वपत्रैः समभ्यर्च्य पञ्चाक्षरपरायणः । विनिःश्वासपरो नित्यं कुम्भरुद्धोऽहिराडिव ॥३०॥मातापित्रोस्तदा दुःखं संस्मृत्य मनसा शिवे । कृतं तत् कार्तवीर्येण पापिना क्षत्रबन्धुना ॥३१॥क्षत्रमुत्सादयन् रामः तताप परमं तपः । पञ्चाग्निमध्यनिरतः फलपर्णाम्बुभोजनः ॥३२॥भस्मनिष्ठो भस्मशायी रुद्राध्यायपरायणः । गोकर्णेशं लिङ्गरूपं मां तुष्टाव समर्चयन् ॥३३॥रामः - महेश्वर हरामरप्रवर धीर विश्वेश्वर प्रसीद परमेश्वर प्रमथनाथ नाथाव माम् ।भवच्चरणसारसप्रवरगन्धमन्दानिलो विनाशयतु मच्छुचं पितृबधेन सन्तापितम् ॥३४॥त्वं मातां जनकस्त्वमेव भगवन् त्वत्पादुकाराधकं त्वत्सङ्गानिलगन्धबन्धुरयुतं दृष्ट्या सदा शीलये ।त्वत्पादाब्जरजोविधूर्णितशिरा विष्णुः समस्तासुरान् सञ्जघ्ने त्रिपुरान्तकान्तक विभो चक्रप्रदानात् पुरा ॥३५॥त्वत्पादाब्जप्रणमनपरः शक्तिहस्तः कुमारः शूरादींस्तानसुरगणपान् सङ्गरादौ निहत्य ।स्वर्गं शक्रे दददखिलपो वीरवीरस्त्वमीशो मामालोक्याऽऽधितप्तं हरहर भवहन् पाहि गोकर्णनाथ ॥३६॥तदा रामस्तुतिं श्रुत्वा तुष्टोऽहं परमेश्वरि । प्रसन्नोऽहं तदा राममवोचं दुःखितं शिवे ॥३७॥तस्मै दत्तो मया देवि स्वहस्तपरशुस्तदा । सान्त्वितश्च तदा रामः प्रणतः पुरतः स्थितः ॥३८॥ईश्वरः - पिता ते जमदग्निश्च शांभवो मत्परायणः । तस्याद्य हनने राम कः सुखी भविता सुत ॥३९॥कृतवीर्यादयः पूर्वं स्वर्गलोके च संस्थिताः । शांभवस्याद्य हननात् लम्बन्ते नरके नृपाः ॥४०॥दत्तस्ते परशुस्तेऽद्य निष्टप्तकनकत्सरुः । अनेन सेनाजालं तद् गजवाजिरथाकुलम् ॥४१॥निहन्ताऽसि न सन्देहः क्षयद्वीरपरो यतः । गच्छ राम प्रहृष्टात्मा जहि क्षत्रियपांसनम् ॥४२॥निःक्षत्रियां च पृथिवीं कृत्वा त्वं मामगाः पुनः । शांभवेष्वद्य पापेषु यः पापं सम्यगाचरेत् ॥४३॥तान् हनिष्यामि तद्वेश्यान् नाशयामि सुखं व्रज । इत्युक्तवन्तं मां देवि प्रणम्य स विनिर्गतः ॥४४॥दत्तो मया रथस्तस्प्तै साश्वस्तूणीरखङ्गवान् । शरी निषङ्गी कवची सपताकोरुकूबरः ॥४५॥सहाध्याय्यभवत् तस्य अकृतव्रणसारथिः । स मां प्रणम्य देवेशि लसत्तूणीशरासनः ॥४६॥कवची स शरी खङ्गी तदा रथपतिं मुदा । शैवः शङ्खरो दत्तस्तदा रामजयाय मे ॥४७॥शङ्खमाध्प्रापयद्रामः अकृतव्रणसारथिः । श्रुत्वा शङ्खरवं सर्वे क्षत्रिया निष्प्रभास्तदा ॥४८॥अभवन् कान्दिशीकास्ते केचिदाजिं गतास्तदा । वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ॥४९॥हस्तिनोऽपि मदान्धा ये निर्मदास्तेऽभवन् शिवे । माहिष्प्रतीं तदा प्राप्य रामोऽप्यर्जुनसैनिकान् ॥५०॥गजोरुशुण्डादण्डेषु हस्तिमात्रेषु रक्षिषु । रथेषु वाहनाश्वेषु तदा योक्त्रकशासु च ॥५१॥चक्रकूबरसंघेषु व्यधमत् तिलशः शरैः । शूराणां च विशीर्णानां शिरोहस्ताङ्गसन्धिषु ॥५२॥शतं सहस्रमयुतं नियुतं प्रयुतं तथा । चकार शरवर्षाणि गिरावम्बुदबृष्टिवत् ॥५३॥ते रामं शरवर्षेण समन्तात् पर्यवारयन् । शतघ्नीभिर्भुसुण्ठीभिः लगुडैः प्रासमुद्गरैः ॥५४॥चक्रैः खङ्गोरुधाराभिः तदा तेऽर्जुनसैनिकाः । आपतन्ति गजैरश्वैः स्यन्दनैरतूर्यनादितैः ॥५५॥तान् रामः समरे सर्वाननयद्यमसादनम् । शरोरुकाण्डैः शतशः चिच्छेद करवालतः ॥५६॥केचित् द्विधा कृताः खङ्गैः चक्रवृत्तास्तथाऽपरे । भुसुण्डीनिहताश्चान्ये शरकृत्तास्तथाऽपरे ॥५७॥गिरिमात्रा गजास्तत्र शेरते गतजीविताः । छिन्नभाण्डोरुमस्तिष्का निर्जिह्वान्त्रास्तथाऽपरे ॥५८॥अश्वा विनिहतास्तत्र शतशः परमेश्वरि । कबन्धाश्च समुप्तेतुः खङ्गहस्ताः शरार्दिताः ॥५९॥रामं ते ददृशुः सर्वे धनुर्मण्डलमध्यगम् । किरन्तं शरवर्षाणि प्रावृट्कालाम्बुदप्रभम् ॥६०॥विसारथिरथास्तत्र बभ्रमुः चस्खलुः पथि । रथिनो रथमध्यस्था गतासव इवासते ॥६१॥तान् रामः शरवर्षेण चिच्छेद तिलशोऽम्बिके । मनुष्यशीर्षपाषाणां गजोरुपुलिनां नदीम् ॥६२॥असृग्वाहां भेदपङ्कां केशशैवलशाद्वलाम् तां कापुरुष दुस्तारां शरैस्तस्तार तां नदीम् ॥६३॥कङ्कगृध्रवलारावैः फेरुनादैश्च भीतिदाम् । चकार क्षणमात्रेण रामो युद्धं सुदारुणम् ॥६४॥विनाशितं तदा सैन्यं दृष्ट्वा पुत्रैः समन्वितः । हयस्थैश्च गजस्थैश्च रथस्थैश्च तदा नृपः ॥६५॥सोऽर्जुनः क्काद्य रामेति भ्रुकुटीकुटिलाननः । आभिमुख्येनाजगाम तदा रामरथं प्रति ॥६६॥रथेनायाति सैन्येन पुत्रैश्चाश्वैः परीवृतः । सहस्रभुजदोर्दण्डैः मण्डलीकृतकार्मुकैः ॥६७॥ किरन्निषुगणान् रामं यन्तारं चोदयन्नगात् । स रथं चोदयामास अग्निमारुतसारथिः ॥६८॥जवनाश्वैस्तदा देवि शीघ्रं माहिष्मतीपतिः । आपतन्तं तदा राम अकृतव्रण सारथिः ॥६९॥चिराद् दृष्टोऽयमधुना दृष्टो मे पितृघातकः । सञ्चोदयाश्वान् सुप्रीतोऽस्म्यद्याह्वमकृतब्रण ॥७०॥क्षणेन तं निहन्तास्मि शीघ्रं त्र्यक्षप्रसादतः । तच्छ्रुत्वा रामवचनं चोदयश्चाकृतव्रणः (?) ॥७१॥अश्वान् मनोजवांस्तस्मै तद्वै रथमभृच्छिवे । कृतप्रतिकृतैरश्वैः शतेनोत्तमधन्विनम् ॥७२॥रामं चकर्त निशितैः भल्लैः सोऽच्छिनदन्तरा । पुनर्नवत्या रामोऽपि अर्जुनं समवाकिरत् ॥७३॥अर्जुनं तमथो रामः शिरोवक्षोरुवाहुषु । विशिरस्कांस्तदा कांश्चित् चक्रे रामो महाबलः ॥७४॥भल्लैश्च वत्सदन्तैश्च क्षुरप्रैर्निचकर्त ह । ते रामशरनिभिन्न ब्यसवः पतिताः क्षितौ ॥७५॥वाजिभ्योऽथ गजेभ्यस्ते रथोपस्थे तथा परे । रथाश्च गजसंघाश्च हयास्तदनुयायिनः ॥७६॥व्यसवः पतिता भूमौ छिन्नभाण्डकुथाङ्कुशाः । निरस्तजिह्वा मातङ्गा रथाश्च शकलीकृताः ॥७७॥बिकूबरयुगाश्चैव विचक्राः शीर्णबान्धनाः । सिन्धुरा भिन्नकुम्भाश्च नराः कृत्ताः सहस्रशः ॥७८॥तत्सार शरवर्षेण स रामश्चार्जुनीं चमृम् । दृष्ट्वा विनिहतान् पुत्रानर्जुनः कोपमाददे ॥७९॥शरैः किरंस्तदा रामं याहि सूनेत्यचोदयत् । तं रामः शरवर्षेण महता समवाकिरत् ॥८०॥सोऽपि चिच्छेद रामस्य ध्वजं कार्मुकमेव च । तस्याश्वान् सारथिं चापि ललाटे च त्रिभिः शरैः ॥८१॥स रामोऽप्यर्जुनं संख्ये नवभिर्मर्मभेदिभिः । शरैर्जघान कवचे धनुर्मुष्टौ तथाम्बिके ॥८२॥चिच्छेद तद्वाहुजालं उत्प्लुत्योत्प्लुत्य वेगतः । पश्यतां देवसंघानां साधु रामेति वादिनाम् ॥८३॥वसन्ते किंशुकस्येव तदार्जुनशराहतः । रामो बभौ महादेवि सोऽपि खङ्गैरताडयत् ॥८४॥तं रामो लाघवाद्देवि चकार विफलं तदा । तदा परशुधारेण सकुण्डलशिरो महत् ॥८५॥अर्जुनस्याथ भूपृष्ठे पातयामास शङ्करि । ववर्षुx पुष्पवर्षाणि देवास्तन्मूर्ध्नि सत्तमे ॥८६॥प्रावाद्यन्त तदा भेरीनिस्साणपणवादयः । मां प्रणम्य तदा रामः संपूज्य परशुं मम ॥८७॥तद्रक्तैस्तर्पयामास स पितॄन् क्रोधमूर्छितः । एवं निःक्षत्रियां रामश्चक्रे पृथ्वीं तदाम्बिके ॥८८॥पितृभिः स निषिद्धश्च रामो घोरपराक्रमः । संन्यस्तशस्त्रो मेधावी परशुं तं समर्च्य च ॥८९॥तदा परशुरामाख्यां प्राप मत्पादपूजकः । स्वपावनार्थं देवेशि हयमेधमुपाहरत् ॥९०॥तुष्टयै मेधपतिं मां स अयजद्भूरिदक्षिणः । स्वाद्वन्नैस्तर्पयन् विप्रान् गोभिः कनकपर्वतैः ॥९१॥कश्यपे काश्यपीं दत्वा मां तदा पुनरागतः । तस्याश्रमपदं देवि कृतं शूर्पाकरं मया ॥९२॥षट्शतं धनुषोऽन्ते मे स्थापितो लवणाकरः । तप्त्वा मां स तदा रामो लेभे शान्तिं मुदाम्बिके ॥९३॥गोकर्णेशं समाराध्य प्रापायं चण्दविक्रमम् । क्षत्रियान्तकरो घोरो भक्तो रामः सदा मयि ॥९४॥ईश्वरः - इदं ते परमाख्यानमुक्तं मे गिरिकन्यके । गोकर्णेशप्रसादेन सर्वां सिद्धिं लभेन्नरः ॥९५॥यो गोकर्णेश्वरं भक्त्या शिवरात्रौ समर्चयेत् । तस्य मुक्तिप्रदं ज्ञानं भविष्यति न संशयः ॥९६॥महाबलं महादेवं गोकर्णेशं महेश्वरम् । सकृद् दृष्ट्वाऽपि मनुजो गाणपत्यं स विन्दति ॥९७॥गोकर्णे परमा सिद्धिर्गोकर्णे परमं तपा । गोकर्णे परमं ज्ञानं साधको लभते शिवे ॥९८॥सूतः - श्रीमद्गोकर्णलिङ्गं भवशतजनितापारपापैकभङ्गंशान्तस्वान्तैकसङ्गं करतलविलसद्वाललीलाकुरङ्गम् ।वन्दे भूमीशताङ्गं फणिगणविलसत्तुङ्गगङ्गोत्तमाङ्गं लीलाक्लृप्त्यै धृताङ्गं हरिशरकलितापारसिन्धूनिषङ्गम् ॥९९॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे परशुरामेतिहासवर्णनं नाम चतुर्विशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP