संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| एकोनत्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - एकोनत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकोनत्रिंशोऽध्यायः Translation - भाषांतर देवी - त्वत्तः श्रुतानि क्षेत्राणि पुण्यानि परमेश्वर । लिङ्गानि देवदेवेश दर्शनात् पुण्यदानि च ॥१॥स्मरणान्मुक्तिदानीश पूजनाद् ज्ञानदानि च । अविमुक्तस्य महिमा त्वया नैवोपवर्णितः ॥२॥किं वा तत्कारणं शम्भो किमन्यत् त्वत्प्रियङ्करम् । क्षेत्रमस्ति महादेव वद गुह्यमपि प्रभो ॥३॥इति देव्या वचः श्रुत्वा करुणारससागरः । शङ्करः प्राह तां देवीं श्रृणुध्वं मुनिपुङ्गवाः ॥४॥ईश्वरः - एष द्वादशलिङ्गानां महिमा ज्योतिषां शिवे । मया तवानुपूर्वेण सेतिहासं च कृत्स्नशः ॥५॥अविमुक्तस्य महिमा विश्वेशस्यापि वैभवम् । कथयाम्यग्रतो देवि संग्रहादधुनोदितः ॥६॥त्रियम्बकस्य महिमा तत्र किञ्चिन्मयोदितः । अस्मिन्नेवाग्रतो देवि सप्तनांशे महेश्वरि ॥७॥वैभवं विश्वनाथस्य लिङ्गानां चानुपूर्वशः । कावेरी नाम देवेशि नदी पुण्य़ा सरिद्वरा ॥८॥यथा भागीरथी गङ्गा विन्ध्यस्योत्तरवाहिनी । तथैव सा महादेवि विन्ध्याद् दक्षिणमास्थिता ॥९॥तत्रत्यदिव्यलिङ्गानां क्षेत्राणामपि शङ्करि । वैभवं कथयाम्यग्रे अस्मिन्नंशे हि सप्तमे ॥१०॥अधुनां संप्रबक्ष्यामि हरिद्वारस्य वैभवम् । सावधानमनाः पुण्यं श्रृणु भूधरकन्यके ॥११॥हरिद्वारमिति ख्यातं तीर्थमीशानतुष्टिदम् । गङ्गायमुनयोर्यत्र प्रभेदो दृश्यतेंऽबिके ॥१२॥तत्रास्ति लिङ्गमत्कृष्टं हरिणा पूजितं पुरा । तत्रास्ति वनमुन्मत्तगजेन्द्रपरिसेवितम् ॥१३॥करेणुभिः परिवृतं मृगेन्द्रैरुपशोभितम् । हिमवच्छिखरं चान्यत् केदारात् पश्चिमे स्थितम् ॥१४॥नानाद्रुमशतोपेतं तपस्विजनसेवितम् । वैखानसैर्वालखिल्यैस्तथा मुनिगणैरपि ॥१५॥तपसः सिद्धिमिच्छद्भिः तपःस्थानमनुत्तमम् । रम्यशार्दूलसंयुक्तः (?) सरिद्भिः सागरोपमैः ॥१६॥नीलतालीवनोपेतं वातझर्झरपत्रकम् । गङ्गा प्रभूता यत्रासीत् तत्रास्ति विमलं सरः ॥१७॥कल्लोलमालाकलितं तमालकदलीवृतम् । मन्दारतरुभिः छन्नं मन्दमारुतवीजितम् ॥१८॥सहस्रपत्रैः कमलैः शोभितं स्वच्छवालुकम् । तत्रास्ति लिङ्गमीशानि हरिद्वारेश्वराभिधम् ॥१९॥ तल्लिङ्गमूलतो देवि गङ्गा यत्र विनिर्गता ।देवी - कथं गङ्गा महादेव हरिद्वारद्विनिर्गता । किञ्च तत्करणं शम्भो वद मह्यं महेश्वर ॥२०॥महेश्वरः - श्रृणु शैलसुते बाले विशालनयनेऽम्बिके । विष्णुः पुरा तपस्तप्यन् मामाराध्यावसच्छिवे ॥२१॥भस्माभ्यक्ततनुर्देवि त्रिपुण्टरावलिभासुरः । नीलिमाननभभ्राजच्छारदाभ्रगणो यथा ॥२२॥नीलतोयदमध्यस्थत्रिपुण्ट्रतडिदुद्यतः । रुद्रमावर्तयंस्तस्थौ मम पञ्चाक्षरादरः ॥२३॥हरिद्वारेश्वरं लिङ्गं बिल्वैरभ्यर्च्य संस्थितः । त्वत्पितुर्वारुणे देवि शिखरे रमया तदा ॥२४॥कालं निन्ये तपोराशिः कालकालार्चनेन हि । रमन्तं तं तपस्यन्तं रुद्राक्षवरधारिणम् ॥२५॥रुद्रविन्यस्तमनसं रुद्राध्यायजपादरम् । फलपुष्पाणि चिन्वन्ती भर्तुः पूजाप्रकल्पने ॥२६॥दीपदा शङ्करस्याग्रे पाककर्त्री शिवाय वै । नैवेद्यैस्तर्पयामास हरिद्वारेशमीश्वरम् ॥२७॥उत्फुल्लकमलैरीशं कमलापि समार्चयत् । हरिद्वारेश्वरं लिङ्गं बिल्वपत्रैश्च कोमलैः ॥२८॥तपस्यन्तं हरिद्वारे हरिं द्रष्टुं समागताः । ब्रह्माण्डजं समारुह्य सिन्धुरं वृत्रहा तथा ॥२९॥लोकपालगणाः सर्वे नारदाद्याश्च शङ्करि । दृष्ट्वा तं हरिमत्युग्रतपसश्च परायणम् ॥३०॥ब्रह्मा प्राहामरश्रेष्ठं विबुधैः परिवारितः ॥ब्रह्मा - किं ते कार्यं समुद्युक्तं भवता तप्यते तपः । हिमवच्छिखरे पुण्ये लक्ष्म्या साकं हरे वद ॥३१॥तदा पुतामहवचो निशम्य हरिरव्ययः । ध्यात्वा मां स तदा प्राह प्रणम्य परमेश्वरम् ॥३२॥विष्णुः - विश्वोश्वरोऽयं मदनान्तकोऽयं गङ्गाधरोऽयं त्रिपुरान्तकोऽयम् ।भगान्तकोऽयं हि यमान्तकोऽयं मखान्तकोऽयं च भवान्तकोऽयम् ॥३३॥अस्यैव देवस्य महेश्वरस्य लिङ्गार्चनात् पूततरोऽस्मि धन्यः ।चक्रं सहस्रारमिदं सुदर्शनं लब्धं तथाऽन्यैरपि दुर्जयोऽहम् ॥३४॥तस्मात् पुरारिमाराध्य चक्रं लब्धं सुदर्शनम् । दैवासुरे तदा युद्धे जयातेनाभवन्मम ॥३५॥तस्मादुग्रान्महादेवाद् भवाद्भीमात् कपर्दिनः । लप्स्ये मनोरथान् ब्रह्मन् तेनाहं तपसि स्थितः ॥३६॥ब्रह्मा - कस्ते मनोरथो विष्णो देवेन त्वं प्रवोधितः । पुरा लब्धवरश्चासि देवदेवान्महेश्वरात् ॥३७॥विष्णुः - तत्तथैवाद्य मे ब्रह्मन् मुरो नामासुरो बली । दृष्ट्वा विवस्त्रां मत्पत्नीं रमां सर्वाङ्गसुन्दरीम् ॥३८॥क्रीडन्तीं सखिभिः सार्धमस्मिन् सरसि पावने । कमलान्युपचिन्वन्तीं हरिद्वारेश्वरार्चने ॥३९॥चकमेऽथासुरः कामाद् ज्ञास्तस्याशयो मया । तदा चक्रनिकृत्तं तमकार्षं च विधे तदा ॥४०॥तदा सर्वे मुनिगणा मामवोचुः प्रहर्षिताः ।मुनयः - साधु साधु हरे तेऽद्य कृतं कर्म सुदुष्करम् । तपस्विजनरक्षायै तपोविघ्नकरः सदा ॥४१॥यज्ञघ्नश्च सदा पापी सुराणामपि कण्टकः । किञ्चायं देवदेवेशात् पूर्वं लब्धवरोऽसुरः ॥४२॥भक्तश्च देवदेवेशे तस्माच्छापैर्न योजितः । भक्तस्य हनने पापममितं खलु वै हरे ॥४३॥अत्र तत्पापशान्त्यर्थं हरिद्वारेशमीश्वरम् । तपसा तोषयस्वाद्य पूजया च सदा हरम् ॥४४॥सर्वत्र निष्कृतिर्दृष्टा शिवद्रोहे न निष्कृतिः । तस्माच्छिवैकशरणः शिवात् पूतो भविष्यसि ॥४५॥इत्युक्तो मुनिभिर्ब्रह्मन् भक्तस्य हननेन हि । प्रपतं पापसमूहं मे तस्माद्यक्ष्ये महेश्वरम् ॥४६॥सपापेष्वपि भक्तेषु किं पुनः पुण्यकर्मसु । इत्युक्त्वा देवदेवेशं हरिद्वारेशमीश्वरम् ॥४७॥प्रणम्य परया भक्त्या तुष्टाव हरिरव्ययम् ॥विष्णुः - तरङ्गविलसज्जटं वृषतुरङ्गखेलद्गतिं भुजङ्गकृतकङ्कणं हरिशशाङ्कभारोद्वहम् ।पतङ्गनयनं सदा मुहुरनङ्गदाहे रतं निषङ्गपयसान्निधिं क्षितिरथाङ्गमीशं भजे ॥४८॥असङ्गिजनसङ्गतं मुनिजनार्च्यलिङ्गस्थितं दृशा करुणया ततं गिरिसुतार्धभागस्थितम् ।विधीन्द्रसुरसंस्तुतं मुहुरनन्यभावं अतं प्रसीदतु भवान् हि मां परमपापतापैर्हतम् ॥४९॥शम्भो विश्वेश भर्ग त्रिनयन भगवन् पाहि मामीश दृष्ट्या दृष्ट्वा तुष्टोऽहमीश स्थितिलयजननापारसंसारमग्नः ।मत्पापानि विनाशयाशु सुतरां शुद्धे पदे देहि मे स्नातुं वारि महाघहारि भगवन्नस्मिन् वरे भूधरे ॥५०॥सूतः - इत्थं हरिस्तदा स्तुत्वा ब्रह्मादिविबुधैः सह । तस्मै दिशामि तत्सर्वं प्रत्यक्षीकृतविग्रह ॥५१॥ईश्वरः - किं त्वत्प्रियकरं विष्णो यन्मतः प्राप्तुमिच्छसि । ब्रह्माद्यैस्तद्ददस्वाद्य प्रसन्नोऽहं तवानघ ॥५२॥विष्णुः प्रणम्य देवेशं वरमेनमयाचत ॥विष्णुः - पुरा त्रिपथगा शम्भो पातालान्तरचारिणी । वियत्पथगता त्वेका चैका पातालवाहिनी ॥५३॥ब्रह्माण्दोरुकटाहान्मे पूर्वं विक्रमता मया । मत्पादघट्टनाज्जाता सापि भूमितलं गताः ॥५४॥पीता च जह्नुना शम्भो निलीना सा नृपं गता । मत्पादतोयं मत्पापनाशकं नु कथं भवेत् ॥५५॥वियत्पथगता त्वेका भगीरथवरात् त्वया । गङ्गागर्वोपशान्त्यर्थं त्वया मूर्ध्नि विधारिता ॥५६॥तामद्येशान देवेश प्रार्थितोऽसि मयाघहृत् । देहि शम्भो महादेव इत्थं प्रार्थितवान् हरिः ॥५७॥हरिद्वारमहालिङ्गपादपीठाद्विनिर्गता । तदोत्सृष्टा मया गङ्गा दिव्या त्रिपथगा शिवे ॥५८॥तुङ्गैस्तरङ्गैर्वितता फुल्लपङ्कजशोभिता । कल्हारमालावितता अविमुक्तपंथ गता ॥५९॥हिमवच्छिखराद् देवि मत्पादतलनिर्गता । तस्यां विष्णुस्तदा लक्ष्म्या ब्रह्मादिविबुधैः सह ॥६०॥स्नात्वा स्वपापशान्त्यर्थं अविमुक्तं तदा गतः । नानालिङ्गशतोपेतं स विश्वेशं प्रणम्य च ॥६१॥स्तुत्वा स्तोत्रवरैर्विष्णुः बिल्वपत्रैः सुरैः सह । तुष्टाव च महेशानं कृपाराशीं तदाम्बिके ॥६२॥विष्णुः - उत्फुल्लकल्हारविलोलहारं मन्दारमल्लीसुमपूजिताङ्घ्रिम् ।हल्लीसलास्यप्रियया समेतं मल्लिङ्गगं बिल्वदलोत्तमाङ्गम् ॥६३॥निशाराजकलामौलिं देवराजसमर्चितम् । राजराजसखं वन्दे फणिराजाङ्घ्रिकङ्कणम् ॥६४॥इत्थं स विष्णुः स्तुतिभिस्तथा मां स्तुत्वा तदा ब्रह्ममुखामरेन्द्रैः ।विनिर्गतो मत्पदलोललीला मद्गाङ्गसङ्गाब्धितरङ्गरङ्गम् ॥६५॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे हरिद्वारमाहात्म्ये विष्णुतपो - गङ्गानिर्गम - स्नानफलवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP