संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| तृतीयोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - तृतीयोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव तृतीयोऽध्यायः Translation - भाषांतर शौनकः - किमाह शैवस्तं विप्रं महादेवपरायणः । स विप्रः कथमत्युग्रः सदा याचकशेखरः ॥१॥शैववर्यवचोधाटीघोटीपुच्छानुगैकधीः । स तस्य महिला बाला कुटिलस्येव जिह्मधीः ॥२॥तया सह ततः कामं किं चकार वदाशु नः । शौनकोक्तं वचः श्रुत्वा सूतः सानन्दलोचनः ॥३॥हर्षवर्षार्द्रचित्तः सन् महाशीर्षं विधूनयन् । जगादागाधवाक्यानि शङ्करोक्तानि तान्यपि ॥४॥पावनानि महादेवयि पृच्छन्त्यै तत्कथार्णवम् ॥सूतः - श्रृणु शौनक भूयोऽपि भक्तकल्पतरोर्यशः । विश्वाधिकस्य देवस्य महादेवस्य सादरम् ॥५॥यज्जगादारविन्दाक्षयि कौमुदीपतिशेखरः । कथासुधां प्रवक्ष्यामि निबोधत मुनीश्वराः ॥६॥देवी - भगवन् भूतभव्येश भवोद्भव जगत्प्रभो । कथार्णववचोभङ्गीतरङ्गै रञ्जयाशु मे ॥७॥तदा देव्या वचः श्रुत्वा जगादात्मा महेश्वरः । समाश्लिष्य महादेवीं बभाण गणनायकः ॥८॥ईश्वरः - तदा शैवोदितां वाणीं सन्तुष्टमानसः । स तु शैवपदद्वन्द्वं प्रणनाम मुदा द्विजः ॥९॥तमुत्थाप्य प्रहृष्टात्मा शैववर्यो मुदा द्विजम् । क्षिप्रं क्षिप्रानदीतोयैः तं विप्रं स्नापयत् तदा ॥१०॥ अग्निरित्यादिभिर्मन्त्रैः कृतोद्धूलनपुण्ट्रकः । रुद्राक्षमालाभरणं कण्ठकर्णगलादिषु ॥११॥विल्वमूलेऽथ तं विप्रं स विप्रः शैवसत्तमः । ददौ स शाम्भवीं विद्यां पञ्चाक्षरमनोहराम् ॥१२॥अष्टैश्वर्यप्रदात्रीं तां निहन्त्रीं निखिलापदाम् । शिवविद्याप्रभावेन तद्देहाद्धूम उद्बभौ ॥१३॥तद्धूमधाम्ना त्रिदशा नितान्तं तान्तलोचनाः । इतिकर्तव्यतां त्यक्त्वा समीक्षन्ते परस्परम् ॥१४॥देवाः - किमद्य धूमजो राशिर्जगदद्य समावृणोत् । इत्येवं संशयाविष्टान् सुरान्नारद आगतः ॥१५॥नारदः - शिवविद्याप्रभावेन शैवदत्तेन भूसुरः । भासुरं देहमासाद्य मोदते पश्यताधुना ॥१६॥तद्देहात् पापजो राशिर्विदग्धस्तेन संबभौ । अपारधूमप्रबलज्वालामालायितं नभः ॥१७॥तद्दर्शनार्थं त्रिदशा नारदेन समागताः । अभिनन्द्याथ तान् सर्वान् स शैवो द्रष्टुमागतान् ॥१८॥ब्रह्मादित्रिदशान् सर्वान् तान् विप्रो वक्तुमैच्छत । दृष्ट्वा देवं महाकालं प्रणम्य विनयान्वितः ॥१९॥शैवः - वक्ष्ये हितं श्रृणुष्वाद्य तवाघौघविनाशनम् । ब्राह्मणस्य च यत्कृत्यं तत्रापि श्रृणु विस्तरात् ॥२०॥आचारो ब्राह्मणानां हि परमो धर्म उच्यते । स्नात्वा क्षिप्रानदीतोये सभार्यस्त्वं द्विजोत्तम ॥२१॥धृतत्रिपुण्ड्ररुद्राक्षः पूर्वां सन्ध्यामुपास्य च । सन्तर्प्य पितृदेवर्षीन् जपन् पञ्चाक्षरं मनुम् ॥२२॥अष्टोत्तरसहस्रं तु नित्यं रुद्राक्षमालया । रुद्राक्षमालया जप्तो जपोऽनन्तफलप्रदः ॥२३॥बाणलिङ्गं बिल्वमूले स्थापयित्वा समर्चय । रुद्रावर्तनशीलस्त्वं भव नित्यं यतव्रतः ॥२४॥बिल्वपत्रैर्महादेवं समर्चय दिने दिने । त्वमस्यै देहि तन्मन्त्रं शिवशब्दोर्ध्वगं स्त्रिये ॥२५॥सभर्तृका भर्तृमुखान्मन्त्रं प्रपय शिवार्चनम् । कुर्यान्नान्यत्र तस्यैवं बिल्वैर्मल्लिङ्गपूजनम् ॥२६॥ प्रदोषे शङ्करस्यार्चा ब्राह्मणे विहितो विधिः । सोमवारेषु सर्वेषु विधिः शङ्करपूजनम् ॥२७॥अष्टम्यां च चतुर्दश्यां विधिः शङ्करपूजनम् । बिल्वपत्रैस्तदा विप्र नक्ताशी नियमेन हि ॥२८॥शिवे निवेद्य भुञ्जीतेत्येवं जाबालिकी श्रुतिः । महाकालं महादेवं नत्वा नित्यं शतोत्तरम् ॥२९॥प्रदक्षिणप्रणामांश्च सदारः कुरु सादरम् । पञ्चाक्षरं च नियतं जप देवस्य सन्निधौ ॥३०॥रुद्रेण स्तुहि देवेशं स्तोत्रैः पौराणिकैरपि । गायत्रीं च जप प्रीत्या भर्गशब्दैकभासुराम् ॥३१॥संसारभञ्जको भर्गो द्विज तस्याधिदैवतम् । तदावृत्त्या निवृत्तिर्हि शिवस्तुष्यति सत्तम ॥३२॥गौतमात्रिभरद्वाजा भृगुवासिष्ठकाश्यपाः । गायत्रीजपतः सर्वे परां सिद्धिमुपागताः ॥३३॥श्रृणु त्वं विबुधैः सार्धमगजापतिभक्तिदम् । श्रृण्वतां पापशमनं हरिभक्तिविवर्धनम् ॥३४॥ जैगीपव्येन संपृष्टनन्दिप्रोक्तमिदं शुभम् । इतिहासं महासारं पशुपाशविमोचकम् ॥३५॥शिवप्रीतिकरं पुण्यं पञ्चपातकनाशनम् । कैलासशिखरद्वारि स्थितं तं सुयशापतिम् ॥३६॥त्रिपुण्ट्रचन्द्रार्धधरं स्वर्णवेत्रलसत्करम् । गोपवृन्दैः परिवृतं नानामुनिगणैर्वृतम् ॥३७॥काञ्चने विष्टरे पुण्ये संस्थितं गनपोत्तमम् । जैगीषव्यः समागम्य दृष्ट्वा नत्वा च शङ्करम् ॥३८॥नन्दिनं शाङ्करान् धर्मानपृच्छच्छिवभाषितान् ॥३९॥जैगीषव्यः - नन्दिकेश्वर सर्वज्ञ देवदेव कृपास्यद । शिवधर्ममहारत्नखनिस्त्वं प्रमथाधिप ॥४०॥शिवपादाम्बुजद्वन्द्वभक्तियुक्तेष्टमानस । शिवप्रभावधर्मान् मे कौतुकाद्वक्तुमर्हसि ॥४१॥महेश्वरदयासारसर्वस्वं त्वं गणेश्वर ॥नन्दिकेशः - जैगीषव्य महाभाग शिवभक्तिकथां सुधाम् । पिब त्वं श्रोत्रपुटकैः पुनरावृत्तिवर्जिताम् ॥४२॥पात्रभूतस्त्वमेवेह मुनिष्वेतेषु सत्तमxx गोप्यमेतन्महागुह्यं देव्यै देवेन भाषितम् ॥४३॥नाख्येयं च त्वया ब्रह्मन् यस्य कस्यचिदुत्तमम् । महादेवी महादेवमपृच्छत् कौतुकान्विता ॥४४॥देवी - किं ते प्रियकरं शम्भो रहस्य तद्वदस्व मे । इति पृष्टो महादेवो जगाद जगदम्बिकाम् ॥४५॥ईश्वरः -श्रृणु त्वममरेशानि रहस्यं मम शङ्करि । धर्मपञ्च्कमित्याहुः पञ्चपातकनाशनम् ॥४६॥श्रृणुष्वावहिता भूत्वा जगतां पापनुत्तये ॥४७॥पचेलिमतपःफलैरमितजन्मसङ्घार्जितैः भवे भसितधारणे मतिरुदेति विश्वाधिके ।त्रिपुण्ड्ररचनाक्रमः करगलादिफाले तथा उरोदरशिरःथले भवति भाग्यपूर्णे जने ॥४८॥रुद्राक्षेति वदन् स्पृशन्नपि नरो जन्तुः स गोदानभाक् धृत्वा तच्छतकं महेन्द्रसदनं प्राप्येन्द्रसालोक्यगः ।तत्साहस्रधरोपि तत्र दशकं तस्मादनन्ताक्षधृक् - ब्राह्मं वैष्णवमैश्वरं पदसुखं प्राप्येश्वरे लीयते ॥४९॥पञ्चपातकविनाशनं परं पञ्चकोशविनिवारणं सदा ।पञ्चवक्त्रकृपया शुभप्रदं पञ्चमन्त्रपरमं तथाक्षरम् ॥५०॥कुम्भसंभवमुखैर्मुनीश्वरैर्जम्भमारकमुखैरमरेन्द्रैः ।कुम्भवक्त्रमुखरैर्गणेश्वरैर्दम्मनाशनकरं परं मनुम् ॥५१॥जप्तमाप्तफलदं शुभाप्तये सप्तमन्त्रकृतधूलनादरैः ।उप्तमुक्तिफलदं भवभूम्यां वीजमेकमनिशं शिवभक्तैः ॥५२॥श्रीरुद्रं यजुषां गणेषु विहितं जप्त्वा परं प्रीतिमान् मुक्तः पातकसङ्घतो गिरिवराज्जाते स पुण्यैकभाक् ।तन्नम्नां फलवादसूक्तिपरमैर्मन्त्रं जपन्मुक्तिभा - ग्भस्माभ्यक्ततनुस्तथा च शयितो यो भस्मनिष्ठो भवेत् ॥५३॥यो रुद्राक्षविभूतिभूषणयुतो जप्त्वा प्रियो जायते यः पुण्ड्रान्तरधारिणे मतिरुमे नैवाप्नुयात् तत्फलम् ।जप्त्वापि श्रुतिशेखरोत्तमपदान् ज्ञात्वापि तस्यार्थकं लिङ्गेषु प्रथितं सदापचितिजं पुण्यं न हि प्राप्नुयात् ॥५४॥पुन्नागनागवकुलार्जुनचम्पकैश्च मन्दारपाटलकदग्बकवर्णिकारैः ।जम्ब्वाम्रदाडिमसुगन्धिशमीशमीकलोध्रुद्भवैश्च बकुलैः करवीरपुष्पैः ॥५५॥पद्मार्कैः कनकैस्तथा दमनकैर्बन्धूककोकैर्बकैः कुन्दैर्जातिकुसुम्भसंभवसुमैः सन्मल्लिकासंभवैः ।अङ्कोलैर्गिरिमल्लिकादिकुसुमैः सप्तारिजातादिभिः नन्द्यावर्तमरुत्वकैश्च तुलसीसद्द्रोण दूर्वाङ्करैः ॥५६॥विष्णुक्रान्त कुशापमार्गजलदैः काशैस्तथैवार्जुनैः । कापित्थैरघहारिपत्रकबरैर्यः पञ्चवक्त्रार्चनम् ।पञ्चब्रह्मनमांसि यस्य वदने सद्यः स मुक्तो भवेत् ॥५७॥सहस्रनीलोत्पलमालया शिवं समुल्लसच्चरुशशाङ्कमौलिम् ।मुदा मुकुन्दाजविमृग्यमौलिपादाम्बुजं पूजयिता स धन्यः ॥५८॥यो बिल्वोत्तममालयाऽनुदिवसं मन्दारमालादिभि - र्लिङ्गं मङ्गलमेतदद्य सुमनःसौरभ्यगन्धायितम् ।पश्यन् नश्वरपातकोत्थशमनाद् व्याघातभीतिं हरे - न्निर्गुण्डीशुकपत्रबिल्वज्दलैः सद्भावलिङ्गोद्भवैः ॥५९॥वसन्तनवमल्लिकाकुसुमदिव्यमालादिभिः दिनान्तसमयोल्लसन्मधुरगन्धजाजीसरैः ।महेशजनिमार्चनं (?) प्रकुरुते प्रदोषेतु यः स चादिभिषगुत्तमप्रिय अघौघतूलानलः ॥६०॥ब्रह्मा शैलभवं हरिन्मणिभवं विष्णुर्निशानायको मुक्ताजालमयं प्रवालजमुमा ताम्रोद्भवं भानुमान् ।हैरण्यं धनदस्तथैव वरुणः श्रीचन्द्रकान्तोद्भवं वह्निश्चान्नमयं सुपित्तलभवं वायुश्च नीलं हरिः ॥६१॥अन्ये सर्वमरुद्गणाश्च दितिजा गन्धर्वविद्याधरा यक्षा राक्षसकिन्नरोगगणा रुद्रा मुनीनां गणाः ।चित्रं चारु महेशलिङ्गममलं संपूजयन्त्यादरा -द्बिल्वीकोमलपल्लवैर्दिविषदो मन्दारमालादिभिः ॥६२॥उत्फुल्लरक्तकमलैरमलैः कदम्बैर्नीलोत्पलैर्विकसितैः कुमुदैश्च नित्यम् ॥६३॥मालूरप्रभवैर्नवारुणदलैर्दूर्वाङुकुरैः शङ्करं लिङ्गेऽभ्यर्च्य भवेदनेकविभवैर्युक्तस्तथा मुक्तिभाक् ।सायं कुन्दमरन्दबन्धुरलसद्गन्धौघगन्धीकृतैर्दिग्वतैर्विपिनप्रफुल्लसुमनोधूलिप्रभाभासुरैः ॥६४॥शर्वाणीरमणार्चनैः कृतमतिर्मन्दारमालादिभिः भस्माभ्यक्ततनुर्भवेत् स सुभगो भावोऽपि कश्चित् कलौ ॥६५॥प्राज्यैर्मध्वाज्यदुग्धप्रभवदधिघटैर्नारिकेलेक्षुसारैः रंभाजम्बीरचूतप्रभवफलरसैः पानसोद्धूतकोशैः ।श्रीखण्डद्रवसारसागरमहाकर्पूरखण्डद्रवैः पाटीरैर्मृगनाभिजातसुरसैः सच्छर्करापूरकैः ॥६६॥आसिच्यालिम्प्य गन्धैर्मृदुतरवसनावेष्टनैर्वेष्टयित्वा नेपथ्यैर्मणिकल्पितैः सुमनसां भारैश्च बिल्वीदलैः ।अभ्यर्च्याभूष्य धूमैरगरुपरिमलामोदितैर्दीपजालैः नैवेद्यैर्बहुभक्षभोज्यसहितैस्ताम्बूलनीराजनैः ॥६७॥कुन्देन्दुप्रतिमानचारणगणैः छत्रैश्च मुक्ताफलोद्दामस्वर्णपरिष्कृतैर्व्यजनजामोदोत्थवार्पणैः ।आदर्शैरतिनिर्मलैर्म्रुदुलकैः सद्वाद्यभेदोत्थितध्वानैः प्रक्रमसंस्तवप्रणमनैर्नृत्यैश्च गेयैरपि ॥६८॥लिङ्गं मङ्गलमङ्गलापतिमहासान्निध्यहेतुस्थले वारं वारमघौघनाशनकरं पुण्ये प्रदोषेऽपि च ।संपूज्यालोक्य पुण्यैर्जनिशवतिततैः किं वदामीशतुल्यः स्कन्दो नन्दिश्च भृङ्गिर्गिरिशकरुणया धन्यधन्य़ः स एव ॥६९॥नन्दिकेशः - एवमाह महादेवो गिरिजां प्रति शङ्करः । रहस्यमेतद्गोप्यं ते जैगीषव्य श्रृणुष्व मे ॥७०॥ दुर्गन्धापारपूरप्रबलखरखुराघातभिन्नाग्रदन्ताः तत्सङ्गोत्कण्ठिनो ये नरजठरखरा घोरसंसारभाराः ।तेषां का वा भवित्री गतिरिति कलये नाथ चन्द्रार्धचूड स्वामिन्नीशान भक्तिं वितर पुरहरानाथनाथ प्रसीद ॥७१॥परदारविचारसादराः सुरताचारकथाविधानधीराः ।उन्मत्तमारशरकृत्तमहोरसो ये नाराधयन्ति गिरिशं महिते प्रदोषे ॥७२॥महापत्तरङ्गानुषङ्गाभिसङ्गः पिशङ्गीकृताशाङ्गसार्द्राङ्गचित्ताः ।न शाङ्गं भजन्त्येव दुष्टाभिषङ्गान्न गङ्गाम्भसा प्लावयिष्यन्ति गात्रम् ॥७३॥सततं विनिविष्टमन्तिके भगवन्तं शिपिविष्टमष्टमूर्तिम् ।दुरदृष्टशतैर्विमुह्य दुष्टा न भजन्त्येव महेश्वरं करण्टाः ॥७४॥दुरदृष्टदशाकशाभिघातैः कुशकाशैरपि नार्चयन्ति शम्भुम् ।अनिशं निविशन्तमन्तरङ्गे शमिताशेषदुरन्तदुःखजालम् ॥७५॥अगजापतिपादपूजने मतिरल्पेर्न भवेत धर्मजालैः ।अर्च्यं प्रार्च्यत भक्तियुक्तमनसा यूयं सुबुद्धौ रताः (?) ॥७६॥सूतः - इत्युक्तो नन्दिकेशेन जैगीषव्यो महामुनिः । नन्दिकेशं समालिङ्ग्य प्रेमाश्रुपुलकोऽवदत् ॥७७॥जैगीषव्यः - अहो महादेवकथाविधानसुधारसास्वादनलोलचित्तैः ।सहास्तु मे नित्यमभीष्टसङ्गः कान्तेव रत्यर्थविशारदेन ॥७८॥तेन छिनद्मीश्वर घोरदावप्रभाकराकारभवैकबन्धम् ॥७९॥इत्युक्त्वा स जगामाथ कैलासं मुनिपुङ्गवः । प्रणम्य च महादेवं जैगीषव्यस्तदाऽब्रवीत् ॥८०॥जैगीषव्यः - स्वामिन् महेश करुणावरुणालयाद्य त्वत्पादपद्ममकरन्दमधुव्रतत्वम् ।संप्रार्थयामि नितरां तरुणेन्दुमौले संसारघोरदवदग्धसमग्रकायः ॥८१॥इत्थं स्तुत्वा महादेवं शङ्कराग्रे स्थितोऽभवत् ॥८२॥शैवः - एतत्ते सर्वमाख्यातं संवादं द्विजसत्तम । यः श्रृणोति सकृद्भक्त्या भवे भक्तिविवर्धनम् ॥८३॥त्वदर्थं कथितं विप्र सर्वपापप्रणाशनम् । अस्माकं दुरदृष्टकोटिघटितापारांहसो नाशकं लिङ्गं दृष्टपारबिल्वजदलैः संपूजितं मस्तके ।क्षिप्रातुङ्गुतरङ्गशीकरलवैः संप्रोक्षितं वीजितं वातैः केतकपद्मगन्धजरजोगुम्भीकृतैः शीतलैः ॥८४॥सूतः - शैववर्यवचः श्रुत्वा सभार्यः स द्विजस्तदा । सङ्कंपिताङ्गहृदयो भवभक्तिपरोऽभवत् ॥८५॥प्रणम्य तं महाशैवं महाकालं महेश्वरम् । भृसुरस्तान् सुरांश्चापि नारदं ज्वलितौजसम् ॥८६॥एतावत्कालपर्यन्तं मत्कृत्यं श्रूयतां द्विज । इति प्राहाश्रुनयनः सदारश्च द्विजाधमः ॥८७॥ब्राह्मणः - जाबालश्रुतिमस्तकेषु निरतो धर्मो न संसेवितो मन्त्रैः सप्तभिरेव धूलनविधिर्नाकर्णितो नो कृतः ।रुद्राक्षैर्न विभूषिता तनुरियं नाभ्यर्चितः शङ्करो हाहा नो जनिरेव गर्भकुहरे व्यर्थीकृता मेऽधुना ॥८८॥क्क बिल्वदलपूजने मतिरुदेति भाग्योदयैः शतश्रुतिशिरोगतैर्नमकसूक्तपाठक्रमैः ।शिवाङ्गणपरिभ्रमैः सितविभूतिधूलादरैः सुशांतभववरैर्वृत गिरिशमन्दिरं तत्र हि ॥८९॥शङ्कातङ्कदुरन्तदुष्कृतमहाप्राकारवज्रायितां श्रीविश्वाधिक वेदवेद्य भवतः कारुण्यपाथोझरी ।दूरीकृत्य मलं समस्तजगतां सन्तापवृन्दं सदा दीने मय्यपि चातकप्रतिनिभे संशुष्ककण्ठास्यके मेघस्त्वं भगवन् दयार्द्र करुणादृष्ट्याऽभिवर्षस्व माम् ॥९०॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे शैवदरिद्रब्राह्मण संवादवर्णनं नाम तृतीयोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP