TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
एकत्रिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - एकत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


एकत्रिंशोऽध्यायः
ईश्वरः -
श्रीगङ्गासागरं गौरि पुण्यं पापविनाशनम् । गङ्गासागरसंघट्टभिन्नवार्धितरङ्गकम् ॥१॥
तां गङ्गां सागरो दृष्ट्वा तरङ्गावलिभासुरः । हसन् फेनगणैर्नृत्यन् समाश्लिष्यन्निव प्रियाम् ॥२॥
तरङ्गहस्तैर्देवेशि गर्जन् कोलाहलारवैः । गङ्गाजलाविलतनुस्तदाऽऽसीत् सागरोंऽबिके ॥३॥
तत्र सस्नुर्द्वगणास्तथा मुनिगणाः शिवे । ब्रह्मविष्ण्वादयो देवाः परं हर्षमवाप्नुवन् ॥४॥
स्नात्वा सन्तर्प्य च पितॄन् भस्मनोद्धूल्य ते तनुम् ।
दत्वा दानानि पुण्यानि गाश्च भूमिं तिलं धनम् ॥५॥
मत्प्रीत्यर्थं महादेवि ब्राह्मणेषु तपस्विषु । यत्र गङ्गासागास्य(योः) सङ्गनोऽस्ति महेश्वरि ॥६॥
तत्र स्नानं कृतं ह्येतत् फलदं सर्वपापहृत् । अन्यत्र विंशत्कृच्छाणि पुरभिद्यः प्रकल्पयत् ॥७॥
तत्रास्ति मे बिल्ववनं नवारुणदलान्वितम् । कदम्बनिबप्रसवैः नीपमन्दारसुन्दरम् ॥८॥
तमालतिलकोपेतं बकुलोद्दालकेतकम् । तमालताल हिन्ताल सालनीलीविराजितम् ॥९॥
गङ्गातीरे महानीरभूमितर्पितभूरुहम् । नवोरुबिल्वशाखाग्रं फलभारावनामितम् ॥१०॥
पुष्पसौरभ्यमधुरं गन्धामारुतवीजितम् । वसन्तमुकुलोत्फुल्लमल्लीवल्ली विराजितम् ॥११॥
केतकोद्दामरजसा गन्धीकृतदिगन्तरम् । वेणुवेत्रगणच्छ्रन्नं नानाशकुनिनादितम् ॥१२॥
गङ्गासागरतीरस्थं वनमेकमभून्मम । तीरसंस्थमहालिङ्गं मम सर्वार्थदायकम् ॥१३॥
तत्र शैववराः सन्ति गङ्गासागरवासिनः । भस्मरुद्राक्षसंपन्नाः पञ्चाक्षरपरायणाः ॥१४॥
रुद्रलिङ्घार्चनपरा रुद्राध्यायजपादराः । तद्विल्ववनजापारबिल्वपत्रैः सदांबिके ॥१५॥
सागरेशं महालिङ्गं दृष्ट्वा नत्वा च भक्तितः । बिल्वपत्रैः समभ्यर्च्य वसन्ति नियता हि ते ॥१६॥
गङ्गासागरमासाद्म क्षेत्रमत्यन्तपुण्यदम् । सागरे चाथ गङ्गायाः स्नात्वा पुण्यप्रदेंऽबिके ॥१७॥
सोऽश्वमेधमवाप्नोति दृष्ट्वा मां सागरेश्वरम् । बिल्वपत्रैः समभ्यर्च्य स्नाप्य सङ्गमवारिभिः ॥१८॥
कृतकृत्यो नरो भूयात् नरः सुगतिभाग् भवेत् । यो गोशतं कुरुक्षेत्रे दद्याद्वेदविदि द्विजे ॥१९॥
तस्माच्छतगुणं पुण्यं गङ्गासागरमज्जने । तत्र सन्तर्प्य च पितॄन् श्राद्धं दद्याच्च यो नरः ॥२०॥
तस्य वर्षशतं तृप्ताः पितरः सपितामहाः । एकं कोटिगुणं भोज्यं ब्राह्मणेन महेश्वरि ॥२१॥
दत्वैकां गां दरिद्राय शतगोदानपुण्यभाक् । यो लिङ्गं स्नापयेन्नीरैर्गङ्गासागरसंभवैः ॥२२॥
क्षीरकुम्भशतैः स्नाप्य यत्फलं तच्छताधिकम् । तरङ्गमालाकलितगङ्गासागरसङ्गमे ॥२३॥
तत्तरङ्गोत्थवातेन पापभङ्गः प्रजायते । तत्र स्नात्वा तु मुनयो ग्रहणे चन्द्रसूर्ययोः ॥२४॥
पापसङ्घैर्विमुच्यन्ते सत्यमेव महेश्वरि । व्यतीपाते वैधृतौ च अयने संक्रमे तथा ॥२५॥
पर्वकालेषु सर्वेषु पक्षे चैवाथ पर्वणि । कृष्णाङ्गारचतुर्दश्यां गङ्गासागरसङ्गमे ॥२६॥
महादधौ नरः स्नात्वा सर्वपापैः प्रमुच्यते । पञ्चभिः पातकैर्घोरैस्तत्र स्नात्त्रा महेश्वरि ॥२७॥
ग्रहणे भक्तिमान् स्नात्वा दत्वा च तिलपर्वतम् । मल्लिङ्गं संप्रपूज्यैव सागरेशं विमुच्यते ॥२८॥
महादानानि तत्रैव नृपैः पूर्वं कृतानि हि । इक्ष्वाकुकुक्षिनाभागमान्धातृसागरादिभिः ॥२९॥
ययातिनहुषाद्यैश्च देवि श्रद्धापुरःसरम् । सागरेशस्य देवस्य बद्धस्तैः स शिवालयः ॥३०॥
पूजितः सागरेशोपि नानाविभवतः सुरैः ॥
तत्र स्नात्वा सागरेशं प्रणम्य नियतो नरः । स्तोत्रमेतत् पठन् भक्त्या सर्वपापैः प्रमुच्यते ॥३१॥
सूतः -
भगघ्नं पुरघ्नं मखघ्नं यमघ्नं भजाम्यन्तकघ्नं गजघ्नं स्मरघ्नम् ।
उषेन्द्रादिवन्द्यं महाशैवहृद्यं महागद्यपद्यैः स्तुतं तत्वमाद्यम् ॥३२॥
सुमौलौ पिशङ्गं दयास्राव्यपाङ्गं भजे लिङ्गसङ्गं पदारक्षभङ्गम् ।
क्षयद्वीरमीशं महाज्ञानकोशं महेशं प्रकाशं कराब्जे हुताशम् ॥३३॥
भजाम्येकमीशं गले नीलनीलं महाशैवशीलं जगत्कृत्यलीलम् ।
भजे कालकालं भजे लिङ्गसङ्गं पदारक्षभङ्गं हृदब्जान्तरङ्गम् ॥३४॥
स्तोत्रवर्येण मां भक्त्या स्तुवन् सागरमीश्वरम् । सर्वान् कामानवाप्नोति पापेभ्यश्च प्रमुच्यते ॥३५॥
अत्रेतिहासं वक्ष्यामि सावधानमनाः श्रृणु । तत्र बिल्ववने कश्चिदासीद् भिल्लो धनुर्धरः ॥३६॥
स बिल्वभूरुहाणां च पालकोऽ‍भूच्छुचिस्मिते । तस्यापारैः पुण्यबलैर्भिल्लस्याप्यभवन्मतिः ॥३७॥
वनदन्तिभयार्थं च तेन कण्टकपङ्क्तिभिः । वनस्यावरणं चक्रे प्रबलैः काष्ठसंयमैः ॥३८॥
वराहमहिषाणां च गजशुण्डारदैस्तदा । वृक्षमूलानि भज्यन्ते मृगाणां च भयात् तदा ॥३९॥
मत्ताः करटिनो घोराः स्वशुण्डावलयैर्धृताम् ।
नवारुणां बिल्वशाखां भक्त्वा भुक्त्वा प्रयान्ति च ॥४०॥
स प्रातर्बिल्वशाखां तां दृष्ट्वा हस्तिविमर्दिताम् । दुःखितः स तदा गौरि तस्मिन्नेवाकरोद्वने ॥४१॥
स्वकुटीं पर्णकैः शाखिशाखाव्रत्तमनोहराम् । पुत्रैश्च बालकैः सार्धं पत्न्या तत्रावसच्छिवे ॥४२॥
कुद्दालपिटकोद्दामहस्तो नित्यं धनुर्धरः । हस्तियूथांश्च महिषान् वराहांस्ताडयत्यपि ॥४३॥
स शरैस्तीक्षणभालैश्च दन्तिकुम्भेषु शाङ्करि । श्रृङ्गान्तरेषु महिषान् दंष्ट्रासन्धिषु सूकरान् ॥४४॥
तद्भयान्नोपसर्पन्ति तद्विल्ववनमञ्जसा । कन्दमूलफलैरेव जीवन् स कणयाचकः ॥४५॥
सकुडुम्बस्तदा तस्थौ तस्मिन् बिल्वौघकानने । सूक्ष्ममार्गः कृतस्तेन गमनागमने तदा ॥४६॥
तमामन्त्र्यैव मुनयो गृह्णन्ति न्वपल्लवान् । बिल्वमूलेषु लिङ्गानि स्थापयित्वार्चयन्ति च ॥४७॥
कोमलैर्बिल्वपत्रैश्च त्रिकालं भुवनेश्वरि । त्रियम्बकमहामन्त्रैः शैवाः संपूज्ययन्त्युमे ॥४८॥
तान् दृष्ट्वा सततं भिल्लस्तुष्टिमाप्नोति नित्यशः । ते भिल्लं पूजयन्त्येव वाग्भिश्च कणदानतः ॥४९॥
स भिल्लः शैवसङ्गत्या बिल्वानां पालनेन च । म्म प्रियतरो नित्यमभूच्च गिरिकन्येके ॥५०॥
बिल्वमूलानि सर्वाणि कुद्दालैर्बालकैः सह । खात्वा तन्मूलदेशेषु कृमिदष्टांश्च पल्लवान् ॥५१॥
धर्मकालेषु तत्पत्नी जलमादाय भूरिशः । घटैस्तदा महादेवि करोति वनपालनम् ॥५२॥
करोति जलदानं सा बालबिलवप्ररोहणे । कृमिदष्टानि पत्रानि लूतातन्तुवृत्तान्यपि ॥५३॥
छित्वा छित्वा पातयति बिल्वभूरुहपालिका । तन्मूलेषु महाशैवाः शिवमन्त्रजपोत्सुकाः ॥५४॥
वसन्ति नियताहाराः शिवलिङ्गार्चकाः शिवे । बिल्वपत्रैश्च कुसुमैः रुद्राध्यायभिषेचनैः ॥५५॥
पूजयन्त्येव गौरीशं तन्मूलेषु महेश्वरि । रुद्राध्यायजलैः शीतैस्तन्मूलं शीतयन्ति ते ॥५६॥
सायं ते दीपयन्त्येव शिवलिङ्गं निरीक्षितुम् । शिवलिङ्गानि तुङ्गानि बिल्वयुक्तानि शङ्करि ॥५७॥
द्रष्टुमभ्युद्यताः सर्वें दीपदीप्तिविराजितम् । तत्र ब्रह्मादयो देवा नारदाद्या महर्षयः ॥५८॥
द्रष्टुं गच्छन्ति नियताः बिल्वमूले शिवार्चनम् । शिवलिङ्गेषु तुङ्गेषु महाशैवकृतं तदा ॥५९॥
स्तुवन्ति नृत्यन्ति हसन्ति दृष्ट्वा भुञ्जन्ति पश्यन्ति महेशलिङ्गम् ।
जिघ्रन्ति नैवेद्यमपारपुण्यदं शिवांघ्रिपुष्पाणि सुरा मुनीश्वराः ॥६०॥
दृष्ट्वा त्रिपुण्ट्रोज्ज्वलमस्तकानि सुगन्धलिप्तानिं मनोहराणि ।
सुबिल्वमूलेषु च संस्थितानि संपूज्य जन्मानि कृतार्थयन्ति ॥६१॥
तान् दृष्ट्वा प्रमथाधिनाथ गणपान् ब्रह्मादिकास्ते सुराः
धन्या मान्याक्षिभृङ्गा...सुतरां पुण्यपुञ्जे निमग्नाः ।
दृष्ट्वा लिङ्गानुमेशप्रियवरजनितापारपापैर्विहीनाः
प्राप्ताः प्राणात्ययेऽपि प्रियममरवरैः भिल्लमूलेषु संस्थाः ॥६२॥
सूतः -
इत्येवं स्तुतिमिः स्तुवन्ति सततं तद्विल्वमूलार्चकान्
लिङ्गे तुङ्गे महेशं जनिमृतिजमहादुःखनाशाय शैवाः ॥६३॥
स शैवपूजितापार लिङ्गानि वनपालकः । प्रणम्य दारतनयैः संस्तौति परमार्थतः ॥६४॥
भिल्लः -
पाहि विल्ववनमीश्वर शम्भो हस्तिहस्तमृदितं नवशाखम् ।
दन्तिकृत्तिवस मामव शम्भो बन्धुरालक दयस्त्व मय्यपि ॥६५॥
हर हर मुरभित्प्रपूजितांघ्रे स्मरहर कुरु मय्यकिञ्चने दयाम् ।
हर हर गुरुतापभारं गरधर शङ्कर चन्द्रशेखर ॥६६॥
ईश्वरः -
इत्थं शैवजनान्वितं स विपिने भिल्लोऽपि बिल्वीवने
ध्यात्वा मत्पदपङ्कजं विधिनुतं बिल्वादिसन्मौलिभिः ।
गङ्गासागरसङ्गमे विपिनवन्मल्लिङ्गसंपूजको
बिल्वाद्यैर्गणनायकः स सुतरां मुक्तो भवत्यद्रिजे ॥६७॥
यो बिल्वच्छदपूतलग्नवसनैः संश्लिष्टगात्रान् द्विजान्
तन्मूले सुखशीतले पितृगणान् संभोजयेत् षड्रसैः ।
तस्यान्नं शतवर्षतृप्तिजनकं भूयात् पितॄणां मुदे
तच्छर्वार्पिततर्पितान्नपितरस्तुष्यति हृष्यन्ति च ॥६८॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गङ्गासागरमाहात्म्ये सगरेश्वरभिल्लवनवर्णनं नाम एकत्रिंशोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-04-14T03:22:37.6100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डोळे, नाक, हात चिपणें

  • डोळ्यांनी, नाकावर बोट ठेवून हातांनी वगैरे खुणा करणें. 
RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.