संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| द्वात्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - द्वात्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वात्रिंशोऽध्यायः Translation - भाषांतर देवी - कुरुक्षेत्रं गता गङ्गा उत्कृष्टेति त्वयोदितम् । कुरुक्षेत्रस्य माहात्म्यं वद सर्वसुरोत्तम ॥१॥सूतः - इत्थं देव्या महादेवः पृष्टो वचनमब्रवीत् । श्रृणु देवि कुरुक्षेत्रमहिमां मत्कृपाबलात् ॥२॥कुरुसंवरणो नाम राजाऽभूत् सोमवंशजः । स राज्यं प्राप्य मेधावी वनेऽस्मिन् पावने मम ॥३॥नानादुमशतोपेतं फलपुष्पविराजितम् । आश्रमं तं द्विजैर्युक्तं प्रशान्तं हरिमेधसः ॥४॥प्रशान्तवैरैर्मुनिभिर्मृगैरन्योन्यवत्सलैः । तद्वनं स नृपो गत्वा ददर्श हरिमेधसः ॥५॥दृष्ट्वा मुनिवरं राजा प्रणतः पादयोस्तदा । निषसाद तदुद्दिष्टे विष्टरे नृपसत्तमः ॥६॥तं पूजयित्वा राजानं हरिमेधा मुनिस्तदा । प्राह तं विनयोपेतं राजानं प्राञ्जलिं स्थितम् ॥७॥सोमान्वयसुधासिन्धोश्चन्द्रस्त्वमसि प्रार्थिव । एकाकी विपिने घोरे कथं मां समुपागतः ॥८॥स्वसैन्यवर्जितो राजा गजवाजिसमाकुलः । तदा मुनिं स विनयात् प्राह राजा कृताञ्जलिः ॥९॥राजा - मृगयाव्यपदेशेन भवन्तं द्रष्टुमागतः । दृष्ट्वा तां मुनिशार्दूल धन्योऽस्म्यद्य कृपां कुरु ॥१०॥निवासो मम धन्यो हि देशः कश्चिद्विधीयताम् । पशव्यश्च सदोषध्यः प्रभूतसलिलो महान् ॥११॥मान्यस्त्वं मुनिशार्दूल ध्यात्वा दिव्येन चक्षुषा । इत्थं संवरणप्रोक्तं वचः श्रुत्वा तदा ऋषिः ॥१२॥राजानं स तदा प्राह विनयानतकन्धरम् ।मुनिः - श्रृणु वृत्तं पुराश्चर्यं राजन् मत्तः प्रवर्तितम् । तप्तवानस्मि सुमहत् तपो दीर्घं पुरा नृप ॥१३॥एतस्मिन्नेव विपिने सदा मुनिजनावृते । भस्मोद्धूलितसर्वाङ्गो रुद्रसूक्तजपादरः ॥१४॥रुद्राक्षमालाभरणो रुद्रलिङ्गार्चकः सदा । पञ्चाक्षरपरो नित्यं निवसामि ऋतून् बहून् ॥१५॥पञ्चाग्निमध्यनिरतः पञ्चास्यध्यानतत्परः । तपोयुक्तं सदा मां हि वेदवेद्यो महेश्वरः ॥१६॥प्रादुरासीद्वृषारूढः सांबिकश्च त्रिलोचनः । गणबृद्धैः परिवृतो नानालङ्कारभूषितः ॥१७॥प्रणम्य तत्पदद्वन्द्वं भक्त्या तमहमस्तुवम् ॥हरिमेधाः - शम्भो मत्तेभकुम्भस्थगित महावृत्तम्रंभाभाण दग्धापस्मार शिक्षाक्षपितक्लुषपादाक्षपादादिवन्द्य ।द्वन्द्वातीताव्ययेश श्रुतिशिखरगताकाशकोशाश्रयेश धीरा धृत्या...कराग्रतोलनमिषादान्दोलितस्ते गिरिः ॥१८॥भीतां बाहुतलेन कण्ठमिलनाज्जातक्रुधं त्वां शिवं ।त्वत्पादाग्रनिघर्षनिम्नगिरिराण्मृलस्थितैः स्वैः करैः ।देवं स्तौति तदार्तनादविवशो वेदैस्तदा रावणः ॥१९॥संराजं त्वामध्वराणां महेशं होतारं त्वा सत्यजयं रोदस्योः ।विभ्राजं त्वां देवमीशानतोऽस्मि ताम्रं शम्भुं विश्वमीशानमाद्यम् ॥२०॥इति मत्स्तोत्रजातेन तुष्टः कष्टहरः शिवः । प्राह मां प्रणतो देवो नीलकण्ठो महेश्वरः ॥२१॥ईश्वरः - श्रृणु विप्रानया स्तुत्या भक्त्या तुष्टोऽस्मि सांप्रतं ।लिङ्गेऽस्मिन् संवसाम्यद्य त्वया बिल्वादिपूजिते ॥२२॥ कुरुजाङ्गलमेतच्च पुण्यं क्षेत्रं भविष्यति । कुरुक्षेत्रेश्वरश्चाहं लिङ्गे नित्यं वसाम्यहम् ॥२३॥गङ्गापि परितो देव क्षेत्रं संप्लावयिष्यति । कुरुक्षेत्रकृतं पुण्यं महच्चैव भविष्यति ॥२४॥सोमवंशे कुरुर्नाम भविष्यति नृपात्मजः । स यदा त्वां समागत्य परिपृच्छत्यनामयम् ॥२५॥तस्मै मदुक्तिसर्वस्वं ब्रूहि त्वं वदतां वर । स चात्र नगरं श्रेष्ठं राजा विस्तारयिष्यति ॥२६॥प्राकारपरिखोपेतं नानासौधविराजितम् । शस्त्रास्त्रयन्त्रशोभाढ्यं चातुर्वर्ण्यजनाश्रयम् ॥२७॥विपणापणसन्धानचत्वरं वनशोभितम् । मम लिङ्गालयं पुण्यं सप्रकारं सगोपुरम् ॥२८॥नानामण्टपशोभाढ्यं कुरुक्षेत्रेश्वरस्य मे । नानावाहनशोभाढ्यं महारथवैर्रयुतम् ॥२९॥कारयिष्यति भूपालस्तत्र कालः प्रतीक्ष्यताम् ।मुनिः - कालप्रतीक्षा हि मया शिवाज्ञापरिपालकः । निवसामि महाबाहो क्षेत्रेऽस्मिन् कुरुजाङ्गले ॥३०॥लिङ्गमेतन्महेशस्य भूरिबिल्वैः समर्चयन् । मुनिभिः शांभवैरेभिर्भवन्मार्गप्रतीक्षकः ॥३१॥लिङ्गं मङ्गलदं प्रपश्य वसुधाधीशाद्य कष्टापहं दृष्टं जन्मजरादिरोगजनितामृत्यादि (?) दुःखोत्करम् ।हन्त्येवापदमुत्तमं शिवजनैः संपूजितं कष्टहृत् तुष्टस्त्वय्यैखिलाघहारकहरोत्कृष्टां विमुक्तिं त्वयि ॥३२॥दास्यत्येव सदा हि भाग्यमतुलं जुष्टं स वै शङ्करः ।इतः परं भवान् राजा कार्यस्यास्य परायणम् ॥३३॥इत्थं मुनिवचोवीचीजातानन्दकुतूहलः । कुरुस्तमाह विनयाद्धरिमेधं द्विजोत्तमम् ॥३४॥राजा - कथं जाङ्गलमेतद्धि मम वासाय कल्पते । नानामृगगणाकीर्णं नानाशार्दूलसेवितम् ॥३५॥सुरम्यं चत्वरोपेतं नगरं मुनिसत्तम । कथमेतद्भवेद्भद्गं उपायश्चात्र कथ्यताम् ॥३६॥स मुनिस्तं कुरुं प्राह देववाक्यं मुनिस्तदा ।मुनिः - तपसा साधयेत् सर्वं शिवाद्देवोत्तमोत्तमात् । इत्युक्त्वा तं नृपं विप्रो दीक्षयित्वा विधानतः ॥३७॥प्राह पञ्चाक्षरं मन्त्रं राजानं भस्मभूषणम् । जजाप शतरुद्रीयं कुरुक्षेत्रेशमर्चयन् ॥३८॥बिल्वपत्रैस्तथा पुण्यैर्धूपैर्दीपैर्मनोहरैः । नैवेद्यैः पायसापूपैः सदन्नैः कल्पयन् नृपः ॥३९॥तन्नैवेद्यैः शाम्भवानां भोजनानि तदा व्यधात् । प्रदक्षिणनमस्कारैः स्तोत्रैश्च विविधैरपि ॥४०॥प्रणम्य देवं तुष्टाव स नृपो मुनिना सह ।स्तुतिनुतविबुधाद्यपादपादं दमितानेकसुरद्रुहोरुपादम् ।यमिमानसपद्मलीलपादं भज कालानलभीतिदोग्रपादम् ॥४१॥विषमाक्षमलुक्ष(?)बद्धिवीक्षं विधिविष्ण्वाद्यमरादिवृन्दवीक्षम् ।रणदक्षं जगतोऽखिलैकभक्षं भज दक्षाध्वरनाशने सुदक्षम् ॥४२॥वीक्षाशिक्षितमन्मथं सुरगणाध्यक्षं महोक्षाङ्गगम् ।कुक्षिस्थाखिललोकजालमुमया ध्यायेन्मृगाक्षिक्षयम् ॥४३॥सूतः - इत्थं स राजा विविधस्तुतिभिः सपर्यया पूज्य महेशलिङ्गम् ।स्तुवन् मुनीनां पुरतो ददर्श गौर्या वृषस्कन्धगतं तदा माम् ॥४४॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे कुरुक्षेत्रमाहात्म्ये राज्ञः शिवदर्शनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP