संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| पञ्चदशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - पञ्चदशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव पञ्चदशोऽध्यायः Translation - भाषांतर सूतः - सौराष्ट्रे सोमनाथं तं गत्वा भस्मविभूषणः । पयोष्णसलिले स्नात्वा अमात्ये राज्यमादरात् ॥१॥समावेश्य सदारश्च तपश्चक्रे सुदारुणम् । स सुतार्थं तदा राजा शिवे विन्यास्तमानसः ॥२॥महार्हवसनादीनि तथैवाभरणानि च । त्यक्त्वा चीरादिसंछन्नो रुद्राक्षाभरणोज्ज्वलः ॥३॥भस्मच्छन्नस्त्रिपुण्ट्राङ्कः सर्वदा शिवपूजकः । सर्वमन्यत् परित्यज्य शिवं ध्यायन् विमत्सरः ॥४॥रुद्रावर्तनशीलश्च सदा पञ्चाक्षरं जपन् । भक्त्या त्वनन्यया शैवलिङ्गार्चनपरायणः ॥५॥बिल्वपत्रैर्वन्यपुष्पैः फलमूलैर्महेश्वरम् । स्वर्भानुरिपुचण्डांशुसोदरद्रुममूलगः ॥६॥तच्छदछन्नसूरोरुकिरणस्वच्चमानसः । पदार्थबोधविस्पष्टवचसा रुद्रजपकः ॥७॥रुद्रविन्यस्तहृदयतुच्छीकृतजगत्त्रयः । तस्य दारा महोदाराः तत्सेवानिरताः सदा ॥८॥बिल्वपत्राणि पुष्पाणि कमलान्यमलान्यपि । नीलोत्पलानि फुल्लानि तथा कोकनदान्यपि ॥९॥फलमूलानि चारूणि सुस्वादूनि तदङ्गनाः । समाहृत्य स्वभर्तुस्ताः परिचर्यापरायणाः ॥१०॥तस्यामात्यगणाः सर्वे तस्य राज्यस्य सत्क्रियाः । निवेदयन्ति सततं शर्वध्यानपरायणाः ॥११॥राजानं ते समागम्य प्रणम्य विनयान्विताः । सभोगभाग्यैः सततं सभाग्यः (?) पूजयच्छिवम् ॥१२॥एवं संवसतस्तस्य कालो भूयानवर्तत । तपस्यन्तं तु राजानं दृष्ट्वा मुनिगणास्तदा ॥१३॥अत्यन्तं विस्मयाविष्टाः शिपिविष्टमरायणम् । मुनयस्तं तदा दृष्ट्वा इदमूचुः परस्परम् ॥१४॥मुनयः - अहो ह्येतादृशी निष्ठा न क्कापि भुवि विश्रुता । कुतोऽद्य दर्शनं विप्रा नष्टापत्कुलसञ्चयः ॥१५॥धन्योऽयं कृतकृत्योऽयं सोमनाथार्चने रतः । राज्ञोऽथ शांभवस्यास्य दर्शनान्नष्टकिल्विषाः ॥१६॥वयमप्यनुयास्यामो निष्ठां कष्टविनाशिनीम् । एतस्य सुकुमाराङ्ग्यो दारा मारमनोहराः ॥१७॥रंभा धिक्कारकारिण्यस्तरुण्यः प्रियदर्शनाः । विस्तीर्णायतसुश्रोण्यः पीनवृत्तपयोधराह ॥१८॥गौरीमाराधयन्ति स्म बलिधूपादिभिः सदा । राज्ञोऽप्यस्य च दाराणां किं वा दास्यसि शङ्करः ॥१९॥अनेन कृतकृत्येन वयं धन्याः स्म सर्वदा । इत्यन्योन्यं मुनिगणाः सदाराः सकुमारकाः ॥२०॥विनयावनताः सर्वे उपतस्थुस्तदा नृपम् । प्राज्यैर्मूलफलैः पुष्पैः बृसीभिरजिनैरपि ॥२१॥तानागतान् नृपो दृष्ट्वा उत्थायाथ प्रणम्य च । तान् पूजयित्वा धर्मेण सार्ध्यपाद्यपुरःसरम् ॥२२॥शांभवान् विनयाद्राजा भूतिरुद्राधारिणः । प्राञ्जलिर्विनयेनाह भवभक्तान् दृढव्रतान् ॥२३॥राजा - धन्योऽस्म्यहं महाशैवा भवत्पादाब्जदर्शनात् । त्रिनेत्ररूपाः सुत्राममान्याः यूयं विशेषतः ॥२४॥भवदागमनेनैव विपिनं पावनं मम । वाणीपतिनिभा यूयं ब्रूत किं करवाणि वः ॥२५॥इति राज्ञोर्थगम्भीरां श्रुत्वा वाचं शांभवाः । राजानं शांभवप्रेष्ठं सोमशेखरपूजकम् ।प्राहुस्ते विनयोपेतं सदाराः सकुमारकाः ॥२६॥शांभवाः - सुधाधामखण्डोज्ज्वलन्मौलिगङ्गाप्रकृष्टोरुलिङ्गार्चनासक्तचित्ताः ।विरक्ताः सुरक्तास्त्वया शांभवेन वसामः सुखेनाद्य निर्वृत्तचित्ताः ॥२७॥चिरायाद्य बिल्वैः समभ्यर्च्य लिङ्गान्यमोघानि मालूरसंमूलगानि ।लभामोऽद्य मुक्तिं भजामोऽद्य मुक्तिं त्वया शांभवेनाद्य वस्तुं मनो नः ॥२८॥सूतः - शांभवानां वचः श्रुत्वा राजा सन्तुष्टमानसः । प्राह तान् प्रणयोदारान् सदारः प्राञ्जलिस्तदा ॥२९॥राजा - भवद्धिः शांभवैः साकं सोमशेखरपूजकः । वसामि सामि सोमाङ्कलिङ्गपूजापरायणः ॥३०॥अतःपरं किमुत्कृष्टं भाग्यं शांभवसत्तमाः । भवत्पूताङ्गसङ्गेन पापभङ्गो भवेन्मम ॥३१॥ओमित्युक्त्वाऽथ मुनयो बिल्वमूलेषु शङ्करम् । भस्मनोद्धूल्य सर्वाङ्गमग्निरित्यादिमन्त्रतः ॥३२॥रुद्राक्षधारिणः सर्वे करकर्णगलादिषु । बाणलिङ्गेषु तुङ्गेषु बिल्वमूलस्थितेषु च ॥३३॥बिल्वपत्रैः सदारास्ते पूजयामासुरीश्वरम् । शांभवांश्च सहायांस्तान् शिवनैवेद्यराशिभिः ॥३४॥भोजयामास नृपतिर्नित्यं शतसहस्रशः । सदा शिवकथा एव तस्यावर्तत संसदि ॥३५॥केचिद्रुद्रं जपन्ति स्म बिल्वमूले द्विजोत्तमाः । केचित् पञ्चाक्षरजपं कुर्वन्ति नियतं शिवे ॥३६॥बिल्वमूलेषु लिङ्गेषु नीरधाराप्रकल्पनैः । कालं नयन्ति ते शैवा बिल्वपत्रर्चनैः परे ॥३७॥आसायमप्रमादेन आसूर्योदयमद्रिजे । कालकालार्चनेनैव कालस्तेषां क्षणायते ॥३८॥शिपिविष्टार्चनरतास्तेन राज्ञा प्रपूजिताः । तान् दृष्ट्वा स तदा राजा प्रहृष्टः शैवपुङ्गवान् ॥३९॥प्रकृष्टतरमात्मानं मन्यतेऽसौ बृहद्बलः । शांभवैः सह सल्लापं कुर्वन् शिवकथादिभिः ॥४०॥चकार कालापनयं कालकालार्चनान्नृपः । तद्द्वारा मुनिपत्न्यस्तास्तेषां च परिचर्यया ॥४१॥शिवार्चकार्चनेनैव नैवेद्यपरिकल्पनैः । कालो नीतो महादेवि तैः सर्वैर्मुनिभिर्नृपः ॥४२॥मोदमाप तदात्यन्तं सोमनाथार्चने रतः । विपिनस्थोऽपि नृपतिः शांभवैः परिवारितः ॥४३॥त्रिविष्टपसुखं प्रप भूमावाखण्डलो यथा । तान् द्रष्टुमागताः सर्वे मया च प्रेषिता गणाः ॥४४॥नन्द्यादयो महादेवि विमानैर्हंसयायिमिः । त्रिशूलकरभस्माङ्गाः त्रिपुण्ड्रावलिमासुराः ॥४५॥जटामकुटबद्धेन्दुखण्डाखण्डलधर्षकाः । तान् दृष्ट्वा शांभवश्रेष्ठान् प्रणम्य विनयान्वितः ॥४६॥स राजा ते मुनिश्रेष्ठा धन्याः स्म इति वादिनः । तान् गणान् विनयेनाह मधुराक्षरसंयुतम् ॥४७॥राजा - कुतः समागतं नन्दिन् किं ते कार्यं समुद्यतम् । अस्माकमद्य साफल्यं जन्मनोऽस्य प्रजायते ॥४८॥त्वत्कृपापात्रभूतानां शांभवानां विशेषतः । दुःखजालानि सर्वाणि विनष्टानि गणेश्वर ॥४९॥नन्दिकेशः - धन्यो मान्योऽसि मे राजन् भवान् शांभवपुङ्गवः । त्वदङ्गसङ्गवातोऽपि मङ्गलाय प्रजायते ॥५०॥मङ्गलापतिसोत्तुङ्गलिङ्गपूजापरायणः । बिल्वपत्रादिभिः सम्यक् सभाग्योऽसि महीपते ॥५१॥एतेऽपि मुनयः सर्वे भवलिङ्गार्चने रताः । तव शांभवसङ्गत्या धन्याः शर्वपरायणाः ॥५२॥बिल्वमूलेषु दृश्यन्ते लिङ्गानि विमलान्यपि । बिल्वपत्रोत्तमाङ्गानि चन्दनालङ्कृतानि च ॥५३॥मन्दारकुन्दमालाभिः पूजितानि नृपोत्तम । फालाक्षप्रतिरूपाणि त्रिपुण्ट्रेणोज्वलानि च ॥५४॥पश्यामि तव भाग्यस्य नान्तोऽस्ति नृपसत्तम । नयनानन्दनान्येव कैलासादधिका मही ॥५५॥सोमनाथमिदं क्षेत्रं सोमराजप्रपूजितम् । सोमनाथाख्यलिङ्गस्य दर्शन सर्वकामदम् ॥५६॥त्वया शांभवधर्माणामाचारो विस्तरीकृतः । यस्तु शांभवधर्माणां प्रवर्तनपरायणः ॥५७॥स शङ्करो नृपश्रेष्ठ शङ्कातङ्कविवर्जितः । महेशप्रियपुत्रः स गणेशश्च प्रजायते ॥५८॥त्वद्दर्शनकृतोत्कण्ठो नीलकण्ठः पिनाकधृक् । अस्मान् संप्रेषयामास विमानैः सार्वगामिकैः ॥५९॥त्वया शांभववीरेण सङ्गताश्च महौजसा । भूमण्डलाखण्दलस्त्वं त्वया धन्यतरा मही ॥६०॥यत्र शांभवपादाब्जरेणुः पतति भूतले । स देशः पावनो धन्यस्तेन धन्यतरा मही ॥६१॥यतः शांभवकोटीभिः सततं त्वमुपासितः । भस्मरुद्राक्षयुक्तश्च चतुर्वर्णेषु मानवः ॥६२॥संपूज्यः सर्वयत्नेन माननीयश्च केवलम् । तत्रापि ब्राह्मणाः पूज्याः शांभवास्ते नृपोत्तम ॥६३॥धन्याः पूजयितव्याश्च यतो ब्रह्मण्य ईश्वरः । ब्राह्मणे शांभवश्रेष्ठे वसेन्नित्यं पिनाकधृक् ॥६४॥ब्रह्मण्यस्त्वं यतो राजन् शांभवार्चापरायणः । त्रिनेत्रगात्ररूपोऽसि सुत्रामाद्यभिपूजितः ॥६५॥इत्युक्त्वा नन्दिकेशः स नृपतिं शांभवोत्तमम् । ब्राह्मणांस्तान् नमस्कृत्य राजानं परिस्वजे ॥६६॥शाङ्गसङ्गालिङ्गनेन हर्षानन्दाश्रुसंयुतः । उवाच गणपान् वीक्ष्य राजानं च गणेश्वरः ॥६७॥नन्दिकेशः - अहो बिल्वमूलस्थलिङ्गार्चनेन प्रकृष्टानि कष्टानि नष्टानि सद्यः ।विनष्टाघसङ्घो वसिष्ठाद्विशिष्टः स एवाष्टमूर्तेः कटाक्षैकलेश्वैः ॥६८॥गत्वा बिल्ववनं न वारुणदलाक्रान्तोरुशाखान्वितं तत्तीरे सरसि प्रभूतपयसि स्नात्वा कृतोद्धूलनैः ।धृत्वा फालतले त्रिपुण्ट्ररचनां रुद्राक्षमालां गले ध्यात्वा शङ्करमर्च्य पातकयुतो नत्वा जनो मुक्तिभाक् ॥६९॥जप्त्वा श्रीतरुमोलगो मनुगणं गच्छेत् फलाधिक्यतां शैवं चापि षडक्षरं प्रजपतो मुक्तिं ददातीश्वरः ।श्रीरुद्रं यजुषां वरं च पठतां प्रीतो भवेच्छङ्करः तन्मूलोत्थजलैः शिरः प्रसिचयन् तीर्थः समस्तैः प्लुतः ॥७०॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे सोमनाथमाहात्म्ये बृहद्बलनन्दिकेशसमागमवर्णनं नाम पञ्चदशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP