संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| प्रथमोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - प्रथमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव प्रथमोऽध्यायः Translation - भाषांतर शुण्डादण्डालिमालाविलसदुरुमहाफुल्लपद्मैकनालं शूलाङ्कासक्तिलोलं पदनतविबुधग्रामसंग्रामलीलम् ।वन्दे वेतण्डगण्डस्फुरदरुणरजोद्भसिसिन्दूरफालं फालाक्षप्रथमप्रसूतिमतसीपुष्पैकमालं सदा ॥१॥ततः कुलपतिर्वृद्धः शौनको नाम भूसुरः । पप्रच्छ विनयोपेतो लोमहर्षणिमादरात् ॥२॥शौनकः - महोदारहारौघविश्रान्तिपारहरापारमाहात्म्यधारासु धीर ।समाकर्णयास्मानकस्मादहो त्वां प्रपना विपन्ना भवाब्धौ चरन्तः ॥३॥इति तद्वाक्यमाकर्ण्य भस्मरुद्राक्षभूषणः । सूतः प्राञ्जलिराहेदं ध्यायन्नीशानमव्ययम् ॥४॥सूतः - शाङ्गाङ्गसङ्गोऽमितपापतापसन्तापतप्तहृदयान् सुखयेन्न चित्रम् ।यूयं त्रिनेत्रपदपङ्कजभक्तिगात्राः सुत्राममान्यमपि लोकमपि त्यजन्तः ॥५॥त्रिपुण्ड्ररुद्राक्षपवित्रगात्राः पञ्चास्यपञ्चाक्षरलोलचित्ताः ।श्रीरुद्रपारायणधृतपापाः पात्रं भवन्तः कृपया महेशितुः ॥६॥वक्ष्येऽधुना संसृतिबन्धनाशिनीं चित्रां विचित्रार्थपदां कथासुधाम् ।महेश्वरस्य प्रतिभां विमुक्तये श्रृणुध्वमत्युत्कटभक्तिमानसाः ॥७॥देव्यै देवेन कथितां महापापप्रणाशिनीम् । पुरा कैलासशिखरे सुखासीनं महेश्वरम् ॥प्रणम्य प्राञ्जलिः प्राह गिरिजा द्विजसत्तमाः ॥८॥देवी - भगवन् भृतभव्येश परात्परतर प्रभो । ज्योतिर्लिङ्गानि ते देव कियन्ति वद मे शिव ॥९॥महिमा च विशेषेण श्रोतुमिच्छामि मे वद । तदपर्णावचः श्रुत्वा स्वर्णवर्णो महेश्वरः ॥१०॥त्रियंबकस्तदा प्राह तुष्टस्तां जगदम्बिकाम् ॥११॥महेश्वरः - श्रृणु दुर्वादलश्यामे श्यामले परमेश्वरि । ज्योतिषां मम लिङ्गानां महिमानं च शङ्करि ॥१२॥श्रृणुष्वानुक्रमं तेषां लिङ्गानां मुक्तिदायकम् । केदारं प्रथमं लिङ्गमोङ्कारं तु द्वितीयकम् ॥१३॥वैद्यनाथं तृतीयं स्यात् घुसृणेशं चतुर्थकम् । नागनाथं पञ्चमं स्यान्महाकालश्च षष्ठकः ॥१४॥भीमेशः सप्तमः प्रोक्तस्त्र्यम्बकं चाष्टमं विदुः । विश्वेशं नवमं लिङ्गं वारानस्यां महेश्वरि ॥१५॥श्रीशैलो दशमः प्रोक्तः गोकर्णेशो दशाधिकः । सेतुमूले तु रामेशो द्वादशानामनुक्रमः ॥१६॥ज्योतिर्लिङ्गानि मे देवि यः पश्येत् संस्मरेत वा । ज्ञानं विनापि मुक्तिश्च भवतीत्येव मे मनः ॥१७॥वक्ष्यामि महिमानं ते सेतिहासं महेश्वरि । कथां कलुषचित्तानां निश्शेषकलुषापहाम् ॥१८॥उज्जयिन्यां महाकालेक्षेत्रमस्त्येकमुत्तमम् । तत्र लिङ्गं ममस्त्येकमशेषसुरपूजितम् ॥१९॥तल्लिङ्गदर्शनादेव पापवृन्दं विनश्यति । तल्लिङ्गदर्शनं प्रातः सर्वपुण्यफलप्रदम् ॥२०॥शक्रादिभिर्लोकपालैः सेवितं परया मुदा । ब्रह्मविष्ण्वादिभिर्देवैर्मुनीन्द्रैरखिलैरपि ॥२१॥गणेश्वरैस्तथा रुद्रैः साध्यैर्वसुमरुद्गणैः । सिद्धविद्याधरैर्नागैः यक्षकिंपुरुषैरपि ॥२२॥नदीनदसमुद्रैश्च पर्वतेन्द्रैश्च सेवितम् । अप्सरोभिः किन्नरीभी रुद्रकन्याभिरादरात् ॥२३॥वैखानसैर्वालखिल्यैर्द्विजैः पर्णाम्बुभोजनैः । कामधेनुगणैश्चैव स्रवत्पञ्चामृतैः सदा ॥२४॥ऐरावतकुलोत्पन्नैर्नागैर्भद्रमृगैस्तथा । उच्चैरुच्चश्रवःप्रख्यैरश्वैरश्वपतिप्रियैः ॥२५॥तत्र मन्दारतरवो मरन्दसुमवृष्टयः । तत्र बिल्वोरुतरवो मूललिङ्गोपशोभिताः ॥२६॥स्वच्छदैः छादयन्त्येते सूर्यांशुं लिङ्गमस्तके । स्वपाण्डुपत्रपतनैः पूजयन्ति महेश्वरम् ॥२७॥नानावादित्रघोषैश्च बधिरीकृतदिक्तटाः । कुर्वन्ति गणपा नित्यं श्रीमहेशस्य सन्निधौ ॥२८॥नृत्यन्त्यप्सरसो नित्यं रागाभावलयानुगाः । नारदप्रमुखा नित्यं विश्वावसुहहाहुहूः ॥२९॥गायन्ति रुद्रवीणाभिः शिवनामानि सादरम् । नन्दिप्रोत्सारितानेकस्वर्णवेत्रकरा गणाः ॥३०॥दूरीकुर्वन्ति जनतां महेशद्वारि सर्वदा । प्रणमन्ति सुरेशाद्या महाकालं महेश्वरम् ॥३१॥महालिङ्गाकृतिं शम्भुं बिल्वालङ्कृतमस्तकम् । महाभुजङ्गाङ्गधरं गङ्गाधरमनुत्तमम् ॥३२॥त्रिपुण्ड्रचन्द्ररेखोत्थकलाकलितशेखरम् । कर्पूरतिलकानेकदीयमालाविराजितम् ॥३३॥दिव्यगोघृतसंपूर्णदीपपात्रशतावृतम् । कृष्णागरूत्थसाम्राणिधूपैर्घुमुघुमान्तरम् ॥३४॥प्रातःसङ्गवमध्याह्नसायं निशि महेश्वरम् । प्रणमन्ति प्रस्तुवन्ति सुरासुरमुनीश्वराः ॥३५॥केचिद्रुद्रैः स्तुवन्तीशं केचित् सामभिरीश्वरम् । ऋग्मिश्चाथर्वणैश्चैव स्तुतिभिर्मुनिसत्तमाः ॥३६॥प्रदक्षिणपराश्चान्ये लुठन्तः शङ्करालये । प्रणमन्ति च साष्टाङ्गं मुनयो भक्तितत्पराः ॥३७॥उच्चैर्हर सुरेशेति महादेवेति सादरम् । नृत्यन्ति साश्रुनयनाः करताडनपूर्वकम् ॥३८॥कोटिशः सन्ति मुनयः शिवलिङ्गैकपूजकाः । भस्मरुद्राक्षवीताङ्गाः शिवैकशरणाः सदा ॥३९॥क्षिप्रा नाम नदी तत्र क्षिप्रं पातकनाशिनी । तस्यास्तीरे बिल्वमूले शैवलिङ्गार्चनप्रियाः ॥४०॥वसन्ति तत्र नियताः शिवनैवेद्यभोजनाः । तव राजा महानासीदुज्जयिन्यां महाबलः ॥४१॥तिग्मांशुवंशसंभृतो नाम्ना चित्ररथो युवा । तस्येयं पृथिवी सर्वा वित्तपूर्णाऽभवत् सदा ॥४२॥तस्य दारा महोदारा मारस्यापि मनोहराः । शताधिकं च दशकं सुनासं पङ्कजाननम् ॥४३॥सुरथाद्यं पुत्रशतं ततस्ते सौरथाः स्मृताः । क्षयद्वीररथाः सर्वे शतमुत्तमधन्विनः ॥४४॥तस्य कोशस्य नेयत्ता तस्यासन् रत्नपर्वताः । तरस्करोति धनदं धनाधिपसखार्चनात् ॥४५॥तस्यासन् वाजिमातङ्गगोणणानां च कोटयः । सौभाग्यैर्विविधैरीशं सभाग्यः पूजयन् नृपः ॥४६॥महाकालार्चनपरः कालभीतिविवर्जितः । तस्यासन् मन्त्रिणः सर्वे शाम्भवा एव केवलम् ॥४७॥अशांभवो न कोप्यस्ति तस्मिन् राजनि शासति । भस्मरुद्राक्षसंपन्नः शिवलिङ्गार्चने रतः ॥४८॥अशाम्भवं नरं वापि द्विजं वापि नृपोत्तमः । स कोपितः शिरस्तस्य छेत्स्यत्येवातिवेगतः ॥४९॥सदा नृपभयात् सर्वे शांभवास्तन्मते स्थिताः । तत्पुत्रास्तत्कलत्राणि गजवाजिनरा अपि ॥५०॥भस्मत्रिपुण्ट्ररुद्राक्षमालालङ्कृतविग्रहाः । महाकाल महादेव चन्द्रचूडेति वादिनः ॥५१॥तत्कलत्राणि सर्वाणि वीणावादनतत्पराः । महाकालालये नित्यं ता नृत्यन्ति लयानुगाः ॥५२॥तत्कण्ठगीतमाधुर्यं शारिकाश्च पिकादयः । विलज्जिता वनगताः कोकिलाः स्वकुलैः सह ॥५३॥देवाङ्गनापि मुह्यन्ति तद्गातश्रवणोत्सुकाः । मृगाश्च पशवः सर्वे सृमराश्चमरा अपि ॥५४॥न वातप्रसरस्तत्र महाकालालये तदा । स राजा तत्कलत्राणि तत्पुत्राश्च मुदान्विताः ॥५५॥दृष्ट्वा महेशलिङ्गं तन्महाकालस्य सादरम् । भस्मत्रिपुण्ट्ररुद्राक्षमालाभिः समलंकृतः ॥५६॥हारोदारमहागानं नाट्यमत्युत्तमोत्तमम् । पश्यन्नास्ते स भूपालः कामुकः कामिनीमिव ॥५७॥तद्गानामृतधाराभिः सुधाधिक्कारिभिर्नृपः । शिवनामानुसन्धानं कुर्वन्नास्ते प्रहृष्टधीः ॥५८॥शाम्भवैर्मन्त्रिभिः सार्धं वृद्धैर्मुनिगणैरपि । तेनोरुबिल्वतरवः स्थापिताः शङ्कराङ्गणे ॥५९॥तन्मूले बाणलिङ्गानि स्थापयामास वै नृपः । लिङ्गानि पूजयेत्याशु बिल्वपत्रैः प्रतिक्षणम् ॥६०॥शांभवैः सह संलापं करोत्येव स भूपतिः । शैवीमेव कथां नित्यं श्रृणोत्येव सदा नृपः ॥६१॥शांभवा भोजितास्तेन शिवनैवेद्यराशिभिः । तद्गृहे शिवनामानि सदा गायन्ति गायनाः ॥६२॥शुकाश्च शारिकास्तत्र पाहि शम्भो शिवेति च । वदन्ति प्रीतिवाक्यानि शैवान्येवाथ पत्रिणः ॥६३॥नृत्यन्ति च मयूरास्ते शिवलिङ्गाग्रतस्तदा । स्वपक्षधूननव्याजैः शैवान् खिन्नान् पतत्रिणः ॥६४॥वीजयन्ति सदा हृष्टाश्चञ्चुभिः कण्डुनाशकाः । विल्ववृक्षेषु सततं निवसन्ति सदाण्डजाः ॥६५॥गोरसापारपूरैश्च महाकालमसेचयत् । फलसारैश्च विविधैः पूजयामास शङ्करम् ॥६६॥गन्धकर्पूरपाटीरमृगनाभिद्रवैः शुभैः । लेपयामास देवेशं सुगन्धैर्यक्षकर्दभैः ॥६७॥अनर्घ्यमृदुसौवर्णदुकूलैरतसीभवैः । वेष्टयामास विमलैर्नानावर्णैर्नृपोत्तमः ॥६८॥श्वेतकृष्णागरूत्थैश्च धूपैर्देवमधूपयत् । कपिलागोघृतापारदीपैः कर्पूरखण्डनैः ॥६९॥दीपयामास विश्वेशं आसायादुदयं नृपः । तद्दीपप्रभया लोका दीपितास्ते चतुर्दश ॥७०॥अत्युज्ज्वलमहारत्नभूषणैर्नवरत्नजैः । निष्टप्तहेमखचितैर्भूषयामास शङ्करम् ॥७१॥नवरत्नानेककृतं गोलकं लिङ्गमस्तके । दापयामास नृपतिर्भुजङ्गफणसंवृतम् ॥७२॥स लक्षबिल्वपत्रैश्च पूजयामास शङ्करम् । सितरक्तैस्तथा पद्मैः फुल्लसौगन्धिकैः शिवम् ॥७३॥पुन्नागनागवकुलैश्चम्पकैः करवीरकैः । स लक्षैः पूजयामास महाकालमहर्निशम् ॥७४॥नीलोत्पलसहस्राढ्यां मालां लिङ्गे प्रकल्पयत् । नैवेद्यगिरयस्तेन कल्पिताः कोटिशोऽम्बिके ॥७५॥अपूपगिरयस्तेन सूपपायसकर्दमाः । दधिक्षीरप्रवाहैश्च सोपदंशनगैस्तदा ॥७६॥खदिरासारतक्कोलसुजातीफलपत्रकैः । लवङ्गैलाशुण्ठियुक्तैः कर्पूरक्रमुकैस्तथा ॥७७॥मुक्ताचूर्णसमायुक्तनागवल्लीदलार्पणैः । रत्नचछत्रैरपारैश्च चामरैर्व्यजनैरपि ॥७८॥व्यजनैर्वीजयांचक्रे छत्रैराच्छादयच्छिवम् । हंसकल्पैश्चामरौघैर्दुधाव जगदीश्वरम् ॥७९॥दुन्दुभिप्रमुखानेकमृदङ्गानकगोमुखैः । शंखकाहलनिर्घोषैर्महाकालमघोषयत् ॥८०॥नानाप्सरोगणास्तेन नाट्यार्थं शिवमन्दिरे । कल्पितास्तेन भूपेन निष्ककण्ठ्यो वराङ्गनाः ॥८१॥एवं प्रतिदिनं राजा महाकालार्चने रतः । तस्य नान्यत् कृतमस्ति शिवचितो महीपतिः ॥८२॥दारोदारकुमारैश्च वसत्येव शिवालये । भोजयामास नैवेद्यैः शाम्भवानेव कोटिशः ॥८३॥तद्राज्ये सर्वथा सर्वे शिवनैवेद्यभोजनाः । पवित्रगात्रास्तेनैव त्रिनेत्रप्रियकृत्तमाः ॥८४॥तद्राज्यमभिवृद्धं स्यात् तन्मन्त्रिप्रवरैर्धृतम् । चातुर्वर्ण्यं शांभवांश्च प्रजापतिरिव प्रजाः ॥८५॥शशास निहतारातिः पुरारातिप्रसादतः । संसारचिन्ताविरतो निरतः शिवपूजने ॥८६॥नैवेद्यैः शिवतर्पितैरघहरैः संपूज्य शैवान् नृपः सार्धं पुत्रकलत्रसहितोऽवात्सीत् सदा कामदे ।क्षेत्रेऽस्मिन् सततं महेशकथया श्रीकालकालार्चनं कुर्वन्निर्मलचित्तमेतदधुना संसारवार्तालसम् ॥८७॥वदन्त्येव भावाः शिवे सक्तभावाः भवे त्यक्तभावा नृपे हर्षभावाः ।गतानङ्गभावाः सदा भक्तिभावाः महाधैर्यभावा वसन्त्येव भावाः ॥८८॥शिवं कलिमलोत्थितप्रबलतापपापानलैः विदग्धतनुमानसाः स्मरहरं न चार्चन्ति ये ।मदन्यसुरपामरान् हरिविधीन्द्रपूर्वामरान् सदा मुउरनन्यधीः स्मरति भाग्यहीनो नरः ॥८९॥शिवनैवेद्यमपारपुण्यलभ्यं नहि लभ्यं सततं शिवद्रुहा ।रजताद्रिनिवासभक्तिभुक्तौ मतिरुज्जायति (?) शङ्करप्रसादात् ॥९०॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे उज्जयिनीमहाकालमहिमानुवर्णनं नाम प्रथमोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP