संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| सप्तत्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - सप्तत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तत्रिंशोऽध्यायः Translation - भाषांतर ईश्वरः - श्रृणु शैलसुते कश्चिदासीदावन्तिको द्विजः । सदारतनयस्तत्र नाम्नाऽभूत् स सुदर्शनः ॥१॥तेन संपादितं द्रव्यमसंख्यं हेमरूप्यकम् । दासीदासाश्च तस्यासन् महिष्यजगवादिकम् ॥२॥स दारभोगेन सदा वेश्याचेटीरतिर्द्विजः । कालो नीतः सदा तेन दुर्वार्ताकलहादिभिः ॥३॥तेनान्नदानं न कृतं ब्राह्मणेभ्यो महेश्वरि । न हिरण्यं न वस्त्रं च न गृहं शयनादिकम् ॥४॥नैवारामः कृतस्तेन छायावृक्षोऽपि नो पथि । न बिल्वारोपणं तेन कृतं नाश्वत्थरोपणम् ॥५॥तडाकं वापि विपुलं शरण्यं सर्वदेहिनाम् । न कूपः खानितस्तेन तृषार्तेभ्यो मरुस्थले ॥६॥ग्रीष्मे धर्मांशुतप्तानां प्रपा नैव च कारिता । छायामण्टपनिर्माणं वर्षत्रातपवारणम् ॥७॥नाकारि तेन देवेशि शिवलिङ्गालयस्तथा । नैव भूतिर्गलाङ्गेषु ललाटे चापि मस्तके ॥८॥त्रिपुण्ट्रो लेपितो नैव नैव भस्मवगुण्ठनम् । नैव पञ्चाक्षरो मन्त्रः श्रुतो वा का जपे कथा ॥९॥रुद्राध्यायजपस्तेन न दृष्टो नापि वा श्रुतः । शिवलिङ्गार्चनं नैव कृतं बिल्वदलैः शिवे ॥१०॥शिवनैवेद्यवार्तापि तस्य दूरत एव हि । शांभवैः सह संलापे तस्य हल्लास एव न ॥११॥शिवलिङ्गं नैव दृष्टं जन्ममध्ये शिवालये । न गृहे किमु वक्तव्यं लिङ्गं बिल्वदलार्चितम् ॥१२॥न स्नानं न जपो होमः स्वाध्यायः पितृपूजनम् । न श्रौतस्मार्तकर्माणि न करोति द्विजोऽपि सन् ॥१३॥न सन्ध्या वन्दिता तेन काले पापप्रणाशिनी । गायत्रीजपमात्रो वा नाभूत् स हि द्विजाधमः ॥१४॥शिवालये वा देवेशि न दृष्टस्तेन शङ्करः । शिवोत्सवे रथस्त्योऽपि वृषस्थो वा महेश्वरः ॥१५॥न दृष्टस्तेन देवेशि प्रदीषे शशिशेखरः । सोमवारे तथाष्टम्यां चतुर्दश्यादिपर्वणि ॥१६॥न दृष्टा दीपमाला वा दूरस्थेनापि शांभवि । प्रदक्षिणनमस्कारैः स्तुतिभिर्न स्तुतः शिवः ॥१७॥सहस्रनामभिः पूजा न शताष्टादिनामभिः । नाभ्यर्चितः पशुपतिः साक्षात् कैवल्यदायकः ॥१८॥तरुणीमेव सततं वारुण्या सह सेवते । स तु पापान्यनन्तानि असकृच्च करोति हि ॥१९॥स ग्रामपालानाहूय द्विजानां गोधनं वसु । सुलुण्ठयति पापात्मा गृहानुद्दीपयत्यपि ॥२०॥मधु मांसं तिलं तैलं तण्डुलं कम्बलानि च । स विक्रीणाति सततं धनवृद्धयैव जीवति ॥२१॥आहृत्य धीवरान् वापि क्रयार्थं मत्स्यघातकः । सदा कृषिपरो नित्यं देवतातिथिदूषकः ॥२२॥विधवासङ्गनिरतः स कन्यामुपसेवते । ब्रह्मद्रोहरतो नित्यं शिवनिन्दापरः सदा ॥२३॥पिशुनो राजगामी च वाचाटोऽसूयकः खलः । श्रोत्रियैः कृशवृत्तिस्थैर्याचितस्तानसूयति ॥२४॥न पार्वणं कृतं तेन श्राद्धं पितृमृतेऽहनि । गवां संरक्षको देवि क्षीरपानार्थमेव हि ॥२५॥स बालवत्सां गां दोग्धि वत्सक्षीरं विवर्जयन् । शिवद्रोहपरो नित्यं सर्वदा जनपीडकः ॥२६॥स्त्रीणां द्रव्याण्यथादाय गणनावर्जितान्यथ । वृद्ध्या दास्यामि चेत्युक्त्वा निष्कं तासां न यच्छति ॥२७॥दुर्भिक्षं ध्यायति सदा धान्यादिक्रयहेतवे । गोगजाश्वाविकं चैव सौनिके क्रयकृत् सदा ॥२८॥धनार्जनं सदा देवि पापेनैवाकरोद् द्विजः । तद्भ्रामवासिविप्राणां धान्यानि सुबहून्यपि ॥२९॥गृह्णाति च तदा तेषां हीनार्घाण्येव दीयते (?) । तद्रसानां च विक्रेता सदा वार्धुषिकः खलः ॥३०॥एवं संवसतस्तस्य तदासीच्च जलोदरः । स वृद्धिमगमद्रोगस्तस्य पापबलेन हि ॥३१॥न भिषक्संप्रदानेऽपि औषधार्थं तदांबिके । मतिरासीच्च लुब्धस्य परद्रव्यापहारिणः ॥३२॥न शान्तौ होमकार्येषु नैवासीत् तद्धनव्ययः । सदा तल्पगतश्चासीत् जलोदरनिपीडितः ॥३३॥अतिवृष्ट्या तदा सायं तद्गृहं विस्तृतं स्थितम् । समागतस्तत्र शैवः प्रदोषशिवपूजकः ॥३४॥तस्य भार्याऽथ तं विप्रं पावयामास वै गृहे । सोऽपि विप्रस्तदा सायं स्नात्वा भस्मविभूषितः ॥३५॥रुद्राक्षमालाभरणश्चकार शिवपूजनम् । बिल्वपत्रैर्धूपदीपैः प्रणामप्रक्रमैस्तथा ॥३६॥शिवनैवेद्यतांबूलैर्नीराजनपुरासरम् । स शयानो गदार्तश्च पश्यंस्तत्कृतपूजनम् ॥३७॥नैव किञ्चिदथोवाच तद्भार्या तं तदा द्विजम् । वासयामास तद्रात्रौ भोजनाच्छादनादिभिः ॥३८॥तामनुज्ञाप्य शैवोपु ययौ प्रातर्यथागतम् । तस्मात् स पञ्चमे चाह्नि हिक्कारुद्धोर्ध्वकण्ठकः ॥३९॥विवृत्तनयनोऽव्यर्थं प्रसार्य चरणावुभौ । मृतो यमभटैर्नीतो बद्ध्वा पाशैः कशादिभिः ॥४०॥ताडितश्च तदा नीतो मार्ग वैवस्वतं तदा । तद्भार्या चापि रुरुदे जहृषुस्तत् परे जनाः ॥४१॥ततो दग्धो बान्धवैश्च हा मृतोऽयमिति द्विजः । नानायातनया विप्रो नीतो वैवस्वतान्तिकम् ॥४२॥यमोऽपि स्वभटानाह चित्रगुप्तं पुरः स्थितम् ।यमः - किमनेन कृतं पापं विचार्य वद लेखक । पापमूर्तिरयं तावदस्मिन् कार्या दया न हि ॥४३॥चित्रगुप्तस्तमाहेदं विनतः प्राञ्जलिस्तदा ।चित्रगुप्तः - एतस्य पापगणनाफणितौ फणीन्द्रो नालं सहस्रफणको द्विसहस्रजिह्वः ।संपीड्यतामयमहो कशयोरुघातैः पातैः शिलाप्रपतनैः शरमुद्गरैश्च ॥४४॥विवृत्य नयने तदा प्रबलचण्डभानोः सुतः तटिच्चटचटारवप्रतिभटार्भटीदन्तजैः ।मुहुर्भटगणांस्तदा वदति पात्यतां क्काथ्यतां सुघोरनरकाग्निभिः प्रबलशस्त्रधारादिभिः ॥४५॥यमस्य वचनाच्छिवे भटगणास्तदाक्रन्दनैर्भुसुण्ठिलगुडादिभिः परिघतीक्षणनाराचकैः ।द्विजाङ्गपरिकर्तनेः प्रबलतैलदीपोल्मुकैस्तदा तदगुरूल्बणं निखिलयातनां ते व्यधुः ॥४६॥ईश्वरः - हाहा न कोऽपि सुभगे शिवलिङ्गपूजां कर्तुं यतन्ति विविधैः कुसुमैश्च नीरैः ।तस्मादिमां शमनघोरमहाग्निभीतिं प्राप्यापि ते हि विवशा विधिकर्मजालैः ॥४७॥मन्दारकुन्दनवचम्पकबिल्वपत्रैः मन्दप्रदोषसमये तरुणेन्दुचूड ।लिङ्गार्चने मतिरहो गिरिशे स धन्यो बृन्दारनन्दितगुणो मुनिबृन्दमान्यः ॥४८॥पापान्यमन्दतरसंसृतिघोरबन्धकन्दायितान्यपि विधूय मदानुगः स्यात् ॥४९॥किं वक्तव्यमहो गिरीन्द्रतनये यः सायमभ्यर्चयेत् लिङ्गं मङ्गलदं प्रदोषसमये बिल्वैश्च दूर्वाङ्कुरैः ।तस्यापारफलाम्बुराशिगणनां कर्तुं न ईशो फणी स्वस्यास्यान्तरतः सहस्रद्विगुणजिव्हाग्रधारारसैः ॥५०॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे सुदर्शनोपाख्यानवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP