संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| पञ्चमोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - पञ्चमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव पञ्चमोऽध्यायः Translation - भाषांतर ब्रह्मा - तवोदारविचित्राणि चरित्राणि नृपोत्तम । त्रिनेत्रपादद्वन्द्वार्चाभक्तिसाराणि सत्तम ॥१॥द्रष्टुमभ्यागताः सभ्या वयं सेन्द्रा दिवौकसः । नारदप्रमुखाः सर्वे मुनयस्त्वयि सन्मुखाः ॥२॥षण्मुखेन समोऽसि त्वं महादेवस्त्वदुन्मुखः । त्वन्न्नेत्रापाङ्गसङ्गेन पापभङ्गः प्रजायते ॥३॥अनङ्गरिपुरत्यर्थं कृपां साङ्गां करिष्यति । निःसङ्गेनापि भावेन त्वयि भावेन भावितः ॥४॥भावनाशकरस्तुभ्यं भवत्वेव भवोद्भवः । किञ्च पञ्चास्यपादाब्जचञ्चिरीकस्त्वमेव हि ॥५॥मा मुञ्च तादृशीं भक्तिं भवनाशकरीं नृप । यया भक्त्या मुनिवरा वयं विष्णुमुखाः सुरा ॥६॥अपारघोरसंसारसागरं तर्तुमिच्छवः । संसारतरणोपायः श्रीमहादेवपूजनम् ॥७॥महादेवं समभ्यर्च मुच्यते भवबन्धनात् । विज्ञानं महदाप्नोति तस्य भक्त्यैव नान्यथा ॥८॥अनभ्यर्च्य महादेवं को वा मुक्तो भविष्यति । वयं विष्ण्वादयो देवाः पशवः परिकीर्तिताः ॥९॥तस्मात् पशुपतिः शम्भुः काम्यकर्ममयैर्नृप । पाशैरस्मान् निबन्धाति जगदेतच्चराचरम् ॥१०॥स एव भक्तिभावेन भावितः परमेश्वरः । कामकर्ममयैः पाशैर्मोचयत्येव नान्यथा ॥११॥भक्तिरेव विरूपाक्षे भवमोक्षप्रदायिनी । भावग्राह्यो महादेवः शिवः शशिविभूषणः ॥१२॥लिङ्गेऽर्चितो बिल्वपत्रैः स्तुतः कष्टानि नाशयेत् । शिपिविष्टेष्टेजनकं लिङ्गं मङ्गलदायकम् ॥१३॥शिवभक्तैः कृतां पूजां लिङ्गे गृह्णाति शङ्करः । भक्तिं च भुक्तिं मुक्तिं च ददात्येव महेश्वरः ॥१४॥विष्णुर्महेशलिङ्गार्चां कृत्वा पालयते जगत् । मयापि सृज्यते लोको नृप लिङ्गार्चनात् सदा ॥१५॥इन्द्रोप्ययं मुनिश्रेष्ठो लिङ्गसंपूजनात् सुरान् । वृत्तजम्भादिकान् हत्वा त्रिदिवं पालयत्यपि ॥१६॥एते सर्वे दिविषदः सर्वे च मुनयोऽप्यमी । महादेवस्य लिङ्गार्चां कृत्वैवौजस्विनोऽभवन् ॥१७॥भस्मरुद्राक्षधार्येव लिङ्गपूजाधिकारवान् । पञ्चाक्षरावर्तनेपि रुद्राध्यायजपेपि वा ॥१८॥भस्मरुद्राक्षहीनाङ्गो यो लिङ्गं सकृदर्चयेत् । कृत्वाऽपि शिवलिङ्गार्चां नरकं याति सान्वयः ॥१९॥भस्मत्रिपुण्ट्ररुद्राक्षहीनं नेक्षति शङ्करः । भस्मरुद्राक्षधार्येव कृपापात्रं महेशितुः ॥२०॥यथाम्बावदनं कृष्ण पङ्कजं वीक्षते शिवः । यथा वेतण्डशुण्डादिधृतवक्त्रं महेश्वरः ॥२१॥षण्मुखामलक्त्रेषु नेत्रमालां महेश्वरः । स्वलोलनयनापाङ्गसङ्गिनं कुरुतेऽथ तम् ॥२२॥भस्मरुद्राक्षसंपन्नं शिवभक्तं शिवार्चकम् । तद्दत्तं बिल्वपत्रं वा नीरं वा फलमेव वा ॥२३॥भक्तवश्यो महादेवः साक्षाद्गृह्णाति भूपते । पुण्ड्रान्तरं यस्तु धृत्वा पूजयिष्यति यः शिवम् ॥२४॥कृपीटयोनिनेत्रोन्थज्वालया दाहयेच्च तम् । तं नैव पश्यतीशानः अशुचिं शुचिभाग्यथा ॥२५॥तस्मात्संपूजयेच्छम्भुं भस्म धार्यैव सन्ततम् । त्रिपुण्ड्रामलभस्माङ्कं रुद्राक्षवरधारिणम् ॥२६॥श्चपचं पूजयाशु त्वं यतः शिवसमो हि सः । भस्मरुद्राक्षहीनाङ्गं द्विजं वा वेदपारगम् ॥२७॥निःसारयाशु राष्ट्रात् त्वं यतिं वेदान्तपारगम् । भस्मरुद्राक्षहीनाङ्गो यतिर्वेदान्तसंभवम् ॥२८॥नैव ज्ञानमवाप्नोति श्रृण्वन्नपि सदा नृप । ज्ञानदाता यतः शम्भुस्तत्कृपाहीनतो ध्रुवम् ॥२९॥भस्मरुद्राक्षसंपन्नं चण्डालमपि वासय । नृप किं बहुनोक्तेन शिवप्रीतिकरं त्विदम् ॥३०॥तव पूर्वभवोत्थां हि कथां वक्ष्ये नृपोत्तम । त्वं याचकवरः पूर्वं विप्रबन्धुः किलाभवः ॥३१॥शैवदत्तमहाविद्यादग्धपातकपर्वतः । उपास्य च महाकालं क्षेत्रेऽस्मिन् मरणं गतः ॥३२॥शांभवान्नेन पुष्टस्त्वं सदारश्च विशेषतः । भार्या त्वाऽनुममारैव पातिव्रत्यपरायणा ॥३३॥अकृत्रिमेव भावेन त्र्यम्बकस्तोषितस्त्वया । यमोऽपि चित्रगुप्तेन मार्ष्टि त्वत्पापपत्रिकाम् ॥३४॥पूजितस्त्वं यमेनापि सुत्राम्णा वरुणेन च । तत्र भुक्त्वा सुखान्येव तस्माद्भृतलमाश्रितः ॥३५॥महारथसुतो जातो नाम्ना चित्ररथो बली । चण्डभानुकुलश्रेष्ठः प्रचण्डतरविक्रमः ॥३६॥त्वद्दोर्दण्डेषु कोदण्डखण्डितारातिमण्डलः । आखण्डलोऽपि साह्यं ते कांक्षते दितिजार्दितः ॥३७॥या सा ते गृहिणी बाला नाम्ना रत्नवती नृप । तवाग्रमहिषी जाता सुतास्ते सुरथादयः ॥३८॥एतादृशं महाभाग्यं महाकालार्चनादभूत् । महाशैवाङ्गसङ्गेन महाविद्याप्रभावतः ॥३९॥जातिस्मरस्त्वं नृपतिः स्मरशासनपूजकः । एतत्ते भासुरं जन्म भूसुरस्य विशेषतः ॥४०॥महादेवं महाभाग्यैः संपूजयसि भूपते । अभाग्यानां न सौभाग्यपतिपूजामतिर्भवेत् ॥४१॥ये सर्वमङ्गलाकान्तं महेशं शरणं गताः । ते सर्वमङ्गलाकारा भवन्त्येव पदेपदे ॥४२॥अमङ्गलतराः सर्वे मङ्गलेशार्चनोज्झिताः । यथा महाकालगणो गणत्वं प्राप शङ्करात् ॥४३॥तथा त्वमपि भूपाल देहान्ते गणपो भव । श्रुतिडितमहेशस्य तथा गणपतेः प्रभोः ॥४४॥इत्थं वाणीपतीर्वाणीं श्रुत्वा चित्ररथो नृपः । उवाच प्राञ्जलिर्वाक्यं ब्रह्माणं विनयान्वितः ॥४५॥राजा - उत्फुल्लामलराजीवराजासनविराजित । सुरम्यवेणीवाणीश गीर्वाणगणवन्दित ॥४६॥कोऽसौ महाकालगणो गणेशार्चनतत्परः । शिपिविष्टेष्टसद्भावो विनष्टाशुभभावनः ॥४७॥कुले वा कस्य तज्जन्म सुजन्मा मच्छ्रुतिं गतः । का माता तस्य किं गोत्रं गोत्रभिद्गात्रसन्निभः ॥४८॥वसुधाधिपतेर्वाक्यं श्रुत्वा माधुर्यवाग्गुणम् । वेधा वक्तुं समारेभे महाकालोद्भवं तदा ॥४९॥पितामहः - श्रृणु राजन् प्रवक्ष्यामि महेन्द्र्दसमविक्रम । अस्त्यस्मिन् वसुधापीठे कुमुदो नाम शैलकः ॥५०॥महाभूमिसरःफुल्लकुमुदाकारतां गतः । रम्यशाखिशतोपेतः शाखामृगगणाश्रयः ॥५१॥वसन्तपुष्पितानेकशाखाच्छादितमस्तकः । सालतालतमालैलापिप्यलामलकैर्वृतः ॥५२॥पुन्नागनाजम्बीरजम्बूनिंबकदम्बकः । रसालबिल्वसरलमल्लातकविभीतकः ॥५३॥शभ्यर्जुनशिरीषादिबाहुक्रमुकचम्पकः । मन्दारपाटलामोदकुद्दालपनसावृतः ॥५४॥कपित्थशिंशुपालोघ्रमधूकोद्दामगन्धिलः । तक्कोलाङ्कोलहिन्तालप्रियालोत्फुल्लकेतकः ॥५५॥बादामोदुम्बराक्रोडप्रियङ्गुबदरीधवः । कुरण्टकुटजोपेतो वटोरुविटपैर्वृतः ॥५६॥त्रिन्त्रिणीवकुलोपेतचन्दनामोदमोदितः । मालतीजातिककुदमल्लीवल्लीशतावृतः ॥५७॥सुरम्यस्वच्छपानीयः कुमुदोत्पलमण्डितः । पद्मकिञ्जल्कसौरभ्यगन्धबन्धुरमारुतः ॥५८॥गुच्छगच्छदलिव्रातस्वच्छनादाच्छकन्दरः । विपिनावनिसंचारिमयूरक्षिप्तचन्द्रकः ॥५९॥नानापक्षिरुतापारविनादितगुहामुखः । पुंस्कोकिलनिनादैश्च केकारवविनादितः ॥६०॥वेणुक्रेंकारसंघर्षसमुद्भूतहुताशनः । लतागृहतमोभृतझिल्लिकागणनादितः ॥६१॥कुथास्तीर्णं इवाभाति हरिन्मणिनिभैस्तृणैः । गोगणानन्दजननो गन्धर्वगणसेवितः ।६२॥मृगेन्द्रशब्दवित्रस्तगजेंद्रकृतधावनः । उद्धूतपुच्छचमरीमृगवित्रस्तलोचनः ॥६३॥महामहिषहुंकारविषाणारवसुन्दरः । निषण्णमहिषीस्तन्यपयोलिप्तमयोपलः ॥६४॥क्रोडाम्रेडितमुस्तार्धसह्स्तचारुशिलातलः । शललीशरसंलग्ननिर्यासितमहाद्रुमः ॥६५॥विद्याधरमुखोद्गीतकृतमार्दङ्गिकारवः । मृदङ्गनादसंलुब्धकुरङ्गगणसंवृतः ॥६६॥गोलाङ्गूलोत्थहुंकारप्रयातोद्विग्नपादपः । शाखामृगाक्रमच्छाखाप्रपतत्फुल्लभूवृतः ॥६७॥तत्र वैखानसाः सिद्धाः वालखिल्या मरीचिपाः । पञ्चाग्निमध्ये निरताः फलपूर्णाम्बुभोजनाः ॥६८॥तप्यन्ति तप अत्युग्रं शिवे संसक्तमानसाः । कृतोटजो मुनिस्तत्र उवास द्विजसंयुतः ॥६९॥उचथ्यनामा मेधावी त्रय्यन्तज्ञानपारगः । रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ॥७०॥शिवलिङ्गार्चनरतो भस्मरुद्राक्षभूषणः । त्रयीमार्गैकनिरतस्तृणीकृतजगत्त्रयः ॥७१॥सोमपः सौम्यभावश्च सोमशेखरपूजकः । तस्यासीद्विनयोपता गृहिणी पतिदेवता ॥७२॥गार्हपत्यार्चनरता नान्मा वसुमती सती । तस्यां तस्य समुत्पन्नस्तपसा बहुकालतः ॥७३॥सन्मुहूर्ते शुभे ऋक्षे कुमारो मारसुन्दरः । जातमात्रे सुते तस्मिन् पुष्पवृष्टिर्नभश्च्युता ॥७४॥ अत्याहता दुन्दुभयो देवैराहननीहताः । वीणाश्च सस्वनुस्तत्र देवर्षिनखघट्टिताः ॥७५॥देवगन्धर्वयक्षाश्च समाजग्मुर्मुनीश्वराः । ब्रह्मविष्ण्वादयो देवा उचथ्यस्योटजं प्रति ॥७६॥स तानर्घ्योपचाराद्यैः पूजयामास भार्गवः । पुत्रजन्मप्रहृष्टात्मा धनधान्यपयस्विनीः ॥७७॥ब्राह्मणेभ्यो ददौ विप्रो जातेष्टिप्रमुखाः क्रियाः । निरवर्तयदव्यग्रो नाम चक्रे सुरैः सह ॥७८॥महाकालोऽयमत्यर्थं शम्भुभक्तो गणाग्रणीः । भवितेति मया चोक्तं देवैर्यातोऽस्मि धाम मे ॥७९॥कलाधीशकला यद्वद्वर्धमाना दिने दिने । महाकालस्तथैवायमवर्धत पितुर्मुदे ॥८०॥विनयाचारसंयुक्तः कृतोपनयनस्तदा । वेदान् साङ्गान् स जग्राह श्रीरुद्रसमलङ्कृतान् ॥८१॥पित्रा पञ्चाक्षरं दत्तं नित्यमावर्तयन् सुधीः । लब्ध्वाऽनुज्ञां महाकालस्तपसे कृतनिश्चयः ॥८२॥ जगाम विविधान् देशान् नदीपर्वतमण्डितान् । पुष्पितदुमसंफुल्लान् दाडिमामलकैर्वृतान् ॥८३॥भल्लातकसमुत्फुल्लान् मालूगन् पोगसंयुतान् । स्वर्गवर्णान् कणिंकारान् रंभास्तम्भशतावृतान् ॥८४॥नालिकेरेक्षुसद्द्राक्षाफलवल्लीमनोरमान् । यवगोधूमसंपूर्णान् शालिसस्यविराजितान् ॥८५॥पश्यंस्तदा महाकालो महाकालालयं ययौ । ततश्चोज्जयिनीं प्राप वैजयन्तीपताकिकाम् ॥८६॥स्नात्वा क्षिप्रानदीतोये भस्मरुद्राक्षभूषणः । पञ्चाक्षरं जपन्मन्त्रं पञ्चास्यध्यानपूर्वकम् ॥८७॥महाकालार्चनपरो बिल्वपत्रादिसाधनैः । रुद्रावर्तनशीलश्च रुद्रे विन्यस्तमानसः ॥८८॥भस्मनिष्ठो भस्मशायी भवभावसमन्वितः । पञ्चाग्निमध्यनिरतो ज्बलच्छिखिशिखावृतः ॥८९॥प्रचण्डसूरकिरणैर्मूर्ध्नि सन्तापितस्तदा । निरालम्बोर्ध्वपादश्च कटधूमं सदा पिबन् ॥९०॥पिशङ्गितजटाभारो धूमधूम्रीकृताननः । वर्षास्वभ्रावकाशश्च हेमन्ते जलसंश्रयः ॥९१॥सुत्राममुखसत्रशवित्रासनकरं तपः । चकारोङ्कारसुभगोद्गीथगाथाहृदन्तरः ॥९२॥एवं तपस्यतस्तस्य कालो भूयानवर्तत । विघ्नजालं महाधैर्यात् स तु संजघ्निवांस्तदा ॥९३॥ मोहकाराप्सरोजालं तिमिरं भास्करो यथा । निघ्नन् भगघ्नपादाब्जध्यानशुद्धहृदन्तरः ॥९४॥मरमारकबाणानां नान्तरं स ददौ तदा । वयं सब्रध्नका देवास्तत्तपोदर्शनेप्सवः ॥९५॥तदभ्यर्णगता देवास्तूर्णं तेन प्रपूजिताः । वत्सोत्तिष्ठेति च तदा मया प्रोक्तः स बालकः ॥९६॥वरैः संछादितश्चापि न चक्रे संमतिं तदा । स मां प्रणम्य बहुशो विनयावनताननः ।प्राञ्जलिः प्राह मां बालोऽप्यबालमतिरुत्तमः ॥९७॥महाकालः - पद्मासनमुखा देवा मत्सद्माद्य समागताः । महान्तो भगवन्तो हि वरं दद्युर्यदीप्सितम् ॥९८॥भवे भवे भवे भूयाद्भक्तिरेव सदा मम । एतदेव वरं याचे नान्यत्राहं सुरोत्तमाः ॥९९॥भवतां दर्शनेनाद्य निर्वृतोऽस्मि न संशयः ॥१००॥इत्थं महाकालवचो निशम्य सुरा ययुः स्थानमतीव हृष्टाः ।महेश्वरस्यामलपादपङ्कजं दृष्ट्वाऽथ तद्भक्तिमपारपुण्यजाम् ॥१०१॥तद्भक्तिदर्शनानन्दविवशास्ते सुराऽब्रुवन् । उत्कण्ठपुलकाः सन्तः सानन्दजलसंप्लवाः ॥१०२॥सूतः - अतिष्ठदेकपादेन दश वर्षाणि बालकः । स गृणच्छतरुद्रीयं स्थाणुभूतः सुनिश्चलः ॥१०३॥स्थाणुध्यानपरो भूत्वा जीर्णपर्णफलाशनः । मासमेकं निराहारः स्फुटितस्नायुवन्धनः ॥१०४॥अष्टाकपालात् तच्छीर्षान्मूर्ध्नि धूमो व्यजायत । तद्धूमतान्ता देवाद्या मुनयः सासुरोरगाः ॥१०५॥महेशं शरणं जग्मुः तन्मनोऽभीष्टसिद्धये । अष्टमूर्तिं कृपाविष्टं उमाश्लिष्टार्धभागकम् ॥१०६॥प्रणम्य साञ्जलिकराः शाङ्करास्ते सुरस्तदा । तुष्टुवुर्हृष्टमनसो देवा विश्वेश्वर शिवम् ॥१०७॥देवाः - हर हर मुरहरपूजितपाद प्रहर महाघगिरिं कटाक्षवज्रैः ।शमय शमनजातभीतिदुःखं छेदय पाशमयं भवैकजालम् ॥१०८॥त्रिपुरदहन दक्षध्वंसनाक्षिप्रकोणोत्थितशिखिविशिखाग्रैर्दग्धमार प्रसीद ।शिव शिव शिव शम्भो चन्द्रमौले कपर्दिन् ॥१०९॥विश्वाधिक त्रिनयन त्रिपुरान्तकारे त्रय्यन्तवेद्य त्रिदशाद्य त्रिकाग्निकाल ।श्रीमत् त्रियम्बक त्रिलोकविलासशील लीलाकृताङ्ग त्रिगुणात्मक पाहि शम्भो ॥११०॥भावग्राह्यस्त्वमसि भगवन् जिह्मभावैर्न लभ्यः त्वत्तो जातं भुवनमखिलं नामरूपैर्विचित्रम् ।सर्वं रुद्र त्वमसि भगवन् वेदवाक्यैकगम्यो ब्रह्मण्यश्च प्रभवसि विभो ब्राह्मणार्च्यं पदं ते ॥१११॥मूकास्त्वद्गुणवर्णने भवशतेष्वद्वैतवार्तालसाः कामान्धाः सततं सदा शिवकथां श्रोतुं तथा दुःश्रवाः ।त्वद्ध्याने जडबुद्धयो हि सततं त्वत्पादपूजाविधौ छिन्नाङ्घ्र्याशयकाः सदा शरणतः संप्रहीणः प्रहीणाः ॥११२॥सूतः - इति सुरवचनं निशम्य शम्भुः प्रणतसुरासुरलग्नपादपद्मः ।ओमिति देवगणैः सुखं विरेजे गिरिजादत्तकरस्तदा प्रतस्थै ॥११३॥सुतुङ्गशितशाङ्करं समधिरुह्य देव्या शिवः सुरासुरमुनीश्वरप्रणतपादनालीककः ।गणेश्वरमुनीश्वरैर्जयरवैर्मुदा संस्तुतः उमामुखसुण्ङ्कजे मुहुरपारसंवीक्षणः ॥११४॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे महाकालतपःप्रभाव-देवताप्रार्थनवर्णनं नाम पञ्चमोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP