संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| एकविंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - एकविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकविंशोऽध्यायः Translation - भाषांतर ईश्वरः - त्रियम्बको नाम गिरिरस्ति प्रियतमो मम । मन्दराच्चापि कैलासात् तथैव कनकाचलात् ॥१॥ते निवासा महेशस्य त्रियम्बकगिरिस्त्वहम् । त्रियम्बकेश्वरं नाम्ना तल्लिङ्गं परमाद्भुतम् ॥२॥तल्लिङ्गं येन दृष्टं स्यात् तेन दृष्टा त्रिलोकिका । त्रैलोक्ये यानि लिङ्गानि तानि सर्वाणि शङ्करि ॥३॥त्रियम्बकेश्वरं लिङ्गं मम सर्वार्थसिद्धिदम् । येन दृष्टं श्रुतं वापि प्रणतं वा समर्चितम् ॥४॥स एव धन्यधौरेयः पुरुषार्थैकभाजनम् । तत्र सन्ति महाशैवास्त्र्यंबकेशसमर्चकाः ॥५॥भस्माद्दूलितसर्वाङ्गाः त्रिपुण्ट्राङ्कितमस्तकाः । रुद्राक्षमालाभरणा रुद्रसूक्तजपादराः ॥६॥पञ्चाक्षरपरा नित्यं सदा मल्लिङ्गपूजकाः । बहवस्तत्र देवेशि त्र्यम्बकेशं यजन्ति माम् ॥७॥बिल्वपत्रैश्च कमलेस्तथा गोदावरीजलैः । पूतैर्मां स्नापयन्तीशे रुद्रमन्त्रैरहर्निशम् ॥८॥फलमूलैश्च विविधैर्नैवेद्यैश्च सदाम्बिके । मत्पूजारहितास्ते तु जलमन्नं फलादिकम् ॥९॥नाश्नन्ति नियतं देवि नैवेद्यैर्वर्तयन्ति ते । गौतमार्थे समानीता स्वमौलिस्थजटाग्रतः ॥१०॥पुण्या गोदावरी देवि वृद्धगङ्गेति विश्रुता । तस्यां स्नात्वा महानद्यां दृष्ट्वा श्रीत्र्यंबकेश्वरम् ॥११॥अश्वमेधशतात् पुण्यं भविष्यति न संशयः ॥१२॥सूतः - सा गौरी देवदेवस्य श्रुत्वा वाक्यं मुनीश्वराः । प्राह देवं विरूपाक्षं प्राञ्जलिः प्रणयान्विता ॥१३॥पार्वती - गौतमार्थं महादेव कथं गोदावरी नदी । समानीता महेशान तन्ममाचक्ष्व विस्तरात् ॥१४॥पार्वतीवदनांभोजाच्छ्रुत्वा वाक्यं महेश्वरः । प्राह देवीं महादेवो गौर्यै तां गौतमीं कथाम् ॥१५॥ईश्वरः - श्रृणु देवि पुरा विप्रो गौतमो नाम शाङ्करः । मम भक्तवरोऽत्यन्तं सदा मल्लिङ्गपूजकः ॥१६॥अहल्यां तां पुरा त्यक्त्वा सुत्राम्णा च प्रधर्षिताम् ।तद्वियोगेन दुःखार्तः शप्त्वा तां सुप्रियां प्रियाम् ॥१७॥शिवक्षेत्राणि पुण्यानि भ्रमंस्तद्दुःखकर्शितः । कोकामुखं च केदरं ओंकारामरकण्टकम् ॥१८॥कुरुक्षेत्रं प्रभासं च पुष्करं विरजं तथा । कालञ्जरं च बदरीं गयां चैव प्रयागकम् ॥१९॥हरिद्वारमयोध्यां च पुण्यं पिण्डारकं तथा । श्रीगङ्गासागरं देवि हलसङ्गं महेश्वरि ॥२०॥तत्रत्यपुण्यतीर्थेषु पूज्य लिङ्गानि भक्तितः । वाराणसीमपि प्रपय तत्र नो नष्टाकिल्विषः ॥२१॥श्रीविश्वनाथं तुष्टाव स्नात्वा च मणिकर्णिकाम् । बिल्वपत्रैः समभ्यर्च्य स्नाप्य गङ्गाम्भसा शिवम् ॥२२॥गौतमः - रत्नेश वीरेश त्रिलोचनेश केदारसंघेश सुमध्यमेश ।श्रीकृत्तिवासेश्वर शूलटङ्क श्रीवृद्धकालेश्वर मङ्गलेश ॥२३॥भाण्डीश्वरेशानकभरभूत कपर्दिशम्भो हरिंनारदेश ।क्षेमेश्वरेशान सुमङ्गलेश व्यासेश दक्षेश्वर दैविकेश ॥२४॥सर्वेश विश्वेश्वरा पाहि दीनं मां गौतमं दुःखशताभिविष्टम् ॥२५॥आताम्रारुणत्वज्जटोरुपटलीलीलाविदृङ्गायिता गङ्गाव्योमपथप्रचारनिकरैर्देवैस्तरां संस्तुता ।स्वात्मौद्धत्यपतद्भुजङ्गकुहरे नाxवरद्राविणी जह्नोर्यज्ञसदःप्रचारशमनी तान् नागरपलाविनी ॥२६॥ईश्वरः - इत्थं स गौतमो देवि मां विश्वेशं प्रणम्य च । मया चाज्ञापितो विप्र त्र्यंबकं गच्छ सुव्रत ॥२७॥तत्र गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ । अश्वमेधशतात् पुण्यं प्राप्स्यसेऽति मदर्चनात् ॥२८॥मत्तो विश्वेश्वराद्गौरि लब्धानुज्ञः स गौतमः । त्रियम्बकं गिरिं प्रपय त्र्यंबकेशं समर्चयन् ॥२९॥बिल्वपत्रैर्महादेवि मां तदा लिङ्गरूपिणम् । भस्मोद्धूलितसर्वाङ्गो रुद्राक्षकृतभूषणः ॥३०॥पञ्चाग्निमध्यनिरतः संसाराद्विरतस्तदा । मां ध्यायन् रविबिम्बस्थं त्र्यंबकेशं स भक्तितः ॥३१॥स्वमानसवरोद्बोधं दशश्लोकैरुदाहरत् ॥३२॥गौतमः - रे रे मानस मुञ्च लौल्यमनिशं नश्यत्सु वित्तादिषु तन्नैसर्गिकमप्यमीषु पदयोः प्रेतेशसंहन्त्रिणः ।कामासुक्षपणैकदीक्षितललाटेक्षे कुरुष्वास्ति चे - द्भीरासेचनके जटेन्दुशकले शम्भोर्गले चासिते ॥३३॥किं यज्ञेन बहुज्ञकर्तृसुलभेनायासवित्तादिभिः साध्येनेप्सितभोगदाननिपुणेनाज्ञाननाश्येन च ।शम्भोस्ताण्डवसुन्दरं पदयुगं भक्त्याभिगच्छेत सकृ -न्मुक्तिः स्यात् सुखरूपिणी तदवरं सर्वं सुखं मानस ॥३४॥चेतः संसृतिलोलमानवशुचं तत्रापि संसार्यसि शम्भोः पादसरोरुहं सदनमस्त्यस्ति स्वसा भक्तिका ।श्रद्धा ते गृहिणी स पूजनविधिः पुत्रोऽस्ति सुभ्रातृता शान्त्यक्रोधदयाशमादिषु सुखं भुंक्ष्वाक्षयं शाश्वतम् ॥३५॥शाठ्येर्ष्यामदलोभमोहकरणैः किं वाऽधिकारैर्धनैः किं दारैः स्वसुखैकसाधनतया शुश्रूषमाणैः पतीन् ।छायामात्रफलैरगारवलयैः किं भूरुहापेक्षया सर्वं भ्रान्तिविजृंभितं हृदय मे मुक्त्वा शिवं भावय ॥३६॥वित्तं रिक्तजनैकदुर्लभतमं कृच्छ्रेण लब्धं यदि भोक्तुं न प्रभुरेष दुर्गुणगणैरालिप्यते केवलम् ।मृत्यावापतति क्षणादविदितं तद्वंसहजैर्जीर्यते किं तेनास्ति भजस्व शंभुचरणाविष्टार्थदाने चणौ ॥३७॥चेतस्त्वं कुरु चिन्तनं त्यज शुचं सांसारिकीं किं तया ब्राह्मण्येन सह स्थितस्य तव यत् साध्यं तदेवाचर ।यत् तत्त्वार्थनिबोधनं श्रुतिगिरां तासामनुष्ठानतः साफल्योद्यममीश्वरार्पणधिया निःसङ्गतामावह ॥३८॥चेतस्त्वं सकलप्रमानपदवीदूरेऽल्पसारे पुनः संसारे रमसे त्वदेकविदितं सारं समालम्ब्य वै ।एतादृग्यदि शम्बुमेव भजसे तत्रैव रागो भवेत् सौवर्णव्द्यणुकेन तोषमयतः प्राप्तः सुमेरुर्यदि ॥३९॥चेतो यत्परिचिन्त्यते च भवता तत पौरुषं चेद्बलं विघ्नस्तत्र कियांस्तथाप्यधिगतं किं वा सुखैकोत्तरम् ।यत् साध्यं श्रुतिचोदितं व्यवसितं नित्यशतद्यक्षतं (?) तद्धेतौ यदि यत्रमद्य कुरुषे तच्छलाघनीयं भवेत् ॥४०॥बोधादित्यकरप्रसारविरहादम्लानरागच्छदैः सच्छायां विषयाख्यकन्दजनितां प्रेमाम्बुपुरार्द्रिताम् ।स्वस्थित्या मृतिदायिनीमपि फलभ्रान्त्याज्ञसंमानितांआशाख्यां विषवल्लरीं त्यज मनः तन्मुक्तिबीजं तव ॥४१॥रे रे मानसराजहंस नितरां शम्भोः पदाब्धेस्तटे भक्त्या चञ्चुपुटेन साधुविलसन्मुक्तावली गृह्यताम् ।तेन त्वं भविता जरादिरहितो रोगादिहीनः सुखं गच्छोड्डीय दिवानिशं द्विजकुलैर्जुष्टं महेशालयम् ॥४२॥सूतः - स इत्थं चेतसोद्बोधं कृत्वा पल्लकनन्दनः । गौतमः पूजयामास बिल्वैर्गोदावरीजलैः ॥४३॥ततः कालेन महता तद्दृष्टिपथमागतः ॥४४॥रैक्काद्यैर्मुनिभिर्वृतः स भगवानारुह्य सच्छाक्करं हिक्कारोगगणान्वितान्तकहरस्तत्राययौ गौतमम् ।दृष्ट्या साधु सुधार्द्रया करुणया पश्यंस्तदीयं वपु - र्भस्माक्षादिसमन्वितं च तपसा कार्श्यं गतः शङ्करः ॥४५॥दृष्ट्वा मामम्बिकायुक्तं नीलकण्ठं त्रिशूलिनम् । सन्तुष्टावाष्टमूर्तिं मां गौतमो हृष्टधीस्तदा ॥४६॥गौतमः - करधृतमृगबालं भक्तचित्तानुकूलं श्रितजलसुरसालं हस्तवर्यैकशूलम् ।गललसदहिमालं नेत्रसंशोभिफालं श्रितसुरतरुमूलं तं भजे कालकालम् ॥४७॥श्रेयांसि सन्दिशति पापमपाकरोति बुद्धिं प्रसादयति सौख्यततिं तनोतिं ।दुःखं विनाशयति शङ्करपादपद्मसंपूजनं जनमिमं सफलीकरोति ॥४८॥विनिहतनरसिंह चर्मचेलाजकपालोद्धृत विष्णुरक्तपानलोल ।धृतचन्द्रकलानलाक्षिफाल कृतहालाहल पाननो गलेन्द्रनील ॥४९॥कुरङ्गेल्लसत्पाणि पद्मामलाङ्गम्फुरद्भोगिमालावृताशादिचेल ।महाशूलहस्ताखिलाण्डादिलोल बलाक्लृप्तस्वाम्यङ्गबालैकपाल ॥५०॥इत्थं तेन स्तुतोऽहं वै देवि बिल्वैः समर्चितः । वरेण छन्दितो गौरि गौतमः शांभवोत्तमः ॥५१॥स्वपावनार्थं तेनैवं प्रार्थितोस्मि गिरीन्द्रजे ।गौतमः - त्वद्भक्तिxxवितस्याद्य स्नातुमम्भो महेश्वर । प्रदेहि पावनं पुण्यं लोकानामघनुत्तये ॥५२॥भगीरथार्थं देवेश पूता गङ्गा त्वया धृता । सागराश्च तदंभोभिः प्लावितास्ते दिवंगताः ॥५३॥मत्पावनार्थं विश्वेश देहि पुण्यां नदीं शिवाम् । लोकानामपि देवेश पापतापविनाशिनीम् ॥५४॥शिवे गौतमवाक्येन तत्स्तुत्या चापि हर्षितः । निसृष्टा मज्जटामूलन्मम पर्वतरूपिणः ॥५५॥सा पपात महीपृष्ठे तरङ्गावलिभासुरा । मत्स्यकर्कटनक्राद्यैः प्लावयन्ती तटद्वयम् ॥५६॥त्रियम्बकोत्तमाङ्गेन निर्जगामाथ सागरम् । तत्र ब्रह्मादयो देवा गन्धर्वोरगकिन्नराः ॥५७॥विद्याधराप्सरोमुख्या नारदाद्या मुनीश्वराः । वैहायसेन मार्गेण समाजग्मुस्तदाम्बिके ॥५८॥दृष्ट्वा तदाश्चर्यकरं गोदावर्युद्भवं तदा । त्रियम्बको महालिङ्गजटाजूटतरङ्गिताम् ॥५९॥गोदावरीं तदा सर्वे दृष्ट्वा नत्वा महेश्वरम् । स्नात्वा तस्यां गौतमेन सिंहसंस्थे बृहस्पतौ ॥६०॥समुद्धूल्य तदाङ्गानि त्रिपुण्ट्रावलिभासुराः । त्रियम्बकेश्वरं देवाः संपूज्याथ प्रणम्य च ॥६१॥बिल्वपत्रैः समम्यर्च्य रुद्रसूक्तैस्तदा सुराः । जहुः स्वपापजं तापं वृद्धगङ्गाजलाप्लवात् ॥६२॥शिवलिङ्गोत्तमाङ्गोत्थपूतनद्युद्भवैर्जलैः । स्नात्वा स गौतमो विप्रस्तदाऽभून्मुक्तकिल्बिषः ॥६३॥शिलारूपापि तत्पत्री अहल्या शापिता शिवे । गोदावरीतरङ्गोत्थशीकरैर्धूतकिल्बिषा ॥६४॥भासुरं स्वं तदा रूपं प्रापाश्चर्यकरं शिवे । पत्न्या समन्वितो देवि गौतमं मां तदाऽस्तुवत् ॥६५॥गौतमः - त्रियंबकं त्वा सुभगं सुगन्धिं पुष्टिवर्धनम् । यजामि सततं देवि मृत्युभीतोऽहमीश्वर ॥६६॥महेश्वर महादेव चन्द्रचूड महेश्वर । नमस्ते पार्वतीकान्त प्रपन्नं पाहि मां सदा ॥६७॥विश्वाधिक महेशान वृषभध्वज शङ्कर । नमस्ते रुद्र देवेश बाहुभ्यां ते नमो नमः ॥६८॥धन्वने ते नमस्तुभ्यं जगतां पतये नमः । पत्तीनां पतये तुभ्यमन्नानां पतये नमः ॥६९॥बभ्लुशाय नमस्तुभ्यं नमस्ते कृत्तिवाससे । नम उग्राय भीमाय नमः सोमाय शम्भवे ॥७०॥नमस्ते सहमानाय आषाढाय नमो नमः । नमः शिवाय शान्ताय नमः शिवतराय च ॥७१॥गिरीशाय नमस्तुभ्यं त्र्यंबकाय नमो नमः ॥७२॥द्रापिन् हिरण्मय शरीर हिरण्यबाहो त्वामन्धसां पतिरिति प्रवदन्ति वेदाः ।दारिद्र्यं मम दुष्क्रुतं च भगवन् सद्यो विनश्याधुना संपूर्णं धनधान्यगोगणशतैस्तूर्णं गृहं मे कुरु ॥७३॥यो मां न नन्दत्यभिमानगर्वान्निन्दत्यनिन्द्यं तव पादसेविनम् ।योऽस्मानहो द्वेष्टि च यं च द्विxx तं रुद्र जम्भे विदधामि शम्भो ॥७४॥वाजादिप्रथितं महाफलगणं त्वत्पादुकाराधकं प्रपयं देव दयानिधे चमकजापारार्थसंसूचितम् भक्तिः शांभवपुङ्गवैस्तव सदा सग्धिः सपीतिश्च मेऽक्षुच्चैवास्तु महेश तेऽद्य कृपया नैवेद्यसंभोजने ॥७५॥ईश्वरः - इत्थं स्तुत्वा गौतमोऽपि मां प्रणम्याम्बिके तदा । प्राह मां देव पूतोऽस्मि धन्योऽस्मीति मुहुर्मुहुः ॥तल्लिङ्गमौलिसङ्गैकपूतया वृद्धगङ्गया ॥७६॥दर्शनादखिलपापनाशकं स्पर्शनादखिलकामदं शुभम् ।प्राशनाच्च निजबोधदायकं चन्द्रचूडचरणोदकं भजे ॥७७॥इति स्तुत्वा प्रहृष्टात्मा त्र्यम्बके शिखरे मुनिः । तत्रोवास महादेव्य हल्यया च समन्वितः ॥७८॥सूतः - इत्थं त्र्यंबकभूधरोरुशिखरात् तुङ्गैस्तरङ्गैर्युता गङ्गा वृद्धतमा शिवाद्य शिरसो भूता जगत्पावनी ।सा सर्वान् सुरसत्तमानथ मुदा शैवं मुनिं गौतमं पुण्यन्तीत्यघसङ्घमञ्जनकरी गङ्गेव गोदावरी ॥७९॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गोदावर्युत्पत्ति - अहल्यापावनकथनं नामैकविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP