संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| षोडशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - षोडशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव षोडशोऽध्यायः Translation - भाषांतर राजा - सोमराजेश्वरं लिङ्गं सोमराज्ञा प्रपूजितम् । इत्युक्तं च त्वया नन्दिन् तेन संपूजितं कथम् ।तदाख्यानविशेषं मे सर्वं कथय विस्तरात् ॥१॥सूतः - स राज्ञो वचनं श्रुत्वा नन्दिकेशः शिवार्चकः । शिवपादाम्बुजं ध्यात्वा शांभवपुङ्गवान् ॥२॥बृहद्बलं च राजानं गणेशो नन्दिकेश्वरः । प्राहं तं शांभवं विप्राः शैलादिर्गिरिजे तदा ॥३॥नन्दिकेशः - अत्रेतिहार्स वक्ष्यामि सावधानमनाः श्रृणु । बृहद्बल महाभाग शांभवैः सह सादरम् ॥४॥पञ्चाशत् कन्यकाश्चासन् दक्षस्यैव प्रचेतसः । ददौ सदृशधर्माय कश्यपाय त्रयोदश ॥५॥सप्तविंशति शोमाय चतस्रोऽरिष्टनेमये । सतीं ददौ स रुद्राय महादेवाय शूलिने ॥६॥शिवनिन्दाकरं ज्ञात्वा पितरं स्वां तनुं तदा । प्रादहत् सा सती कोपाद्दक्षो नीतो ह्यदक्षताम् ॥७॥मखान्तकस्तदा राजन् देवाः सन्ताडिता गणैः । दक्षयज्ञहरः शम्भुर्नाम्नाऽऽसीत् स तदा शिवः ॥८॥सोमोऽथ रोहिणीं प्रपय मुदमाप तदा सुखम् ।अन्यास्ता दक्षदुहिताः (?) दक्षं प्रपय सुदुःखिताः ॥९॥ लज्जया किञ्चिदानम्य वदनं ताः समुब्रुवन् ॥१०॥दक्षकन्याः - भगवन् सोमराज्ञा हि वयं सर्वावमानिताः । रोहिणीमेव भजते नास्मासु रमते तथा ॥११॥इत्थं पुत्रीवचः श्रुत्वा सान्त्वपूर्वमिदं वचः । प्राह दक्षस्ततो गत्वा सोमं तेन च पूजितः ॥१२॥दक्षः - सर्वाः पाणिगहीतास्ते अतिचारो हि तासु किम् । भजसे रोहिणीमेव नैतत् त्वय्युपपद्यते ॥१३॥अदोषां भजते यश्च स यामीयातनाग्र्यभुक् । नैव देवा हविस्तस्य पितरस्तत्स्वधामपि ॥१५॥नाश्नन्ति शतवर्षाणि भ्रूणहा सद्भिरुच्यते । मृतो हि श्वानयोनीषु दारत्यागी वसेन्नरः ॥१६॥इति धर्मं विदित्वापि कथं सोम भजेद्भवान् ॥१७॥सोमो दक्षवचः श्रुत्वा सान्त्वयन् श्वशुरं नृपः । वाचमाह तदा भीतः प्राञ्जलिः प्रणतस्तदा ॥१८॥सोमः - प्रजापते क्षमस्वेमं मन्तुं माक्रुध मय्यपि । सर्वास्वेवानुवर्तेऽहं यथापूर्वं न संशयः ॥१९॥दक्षः सोमवचः श्रुत्वा स्वकीयं भवनं गतः । पुनश्च कामान्मन्दात्मा रोहिणीमुपसेवते॥२०॥तदा ताः कन्यकाः सर्वाः पुनः प्रोचुश्च तत्कृतम् ।कन्यकाः - तत् त्वया सान्त्वितः पूर्वं सोमो नास्मासु वर्तते । यथापूर्वं स कामात्मा रोहिणीमुपसेवते ॥२१॥शशाप क्रोधात् दक्षस्तं कन्यानां वाक्यसायकैः ॥२२॥भव यक्ष्मगृहीतस्त्वं सद्यो निर्वीर्यतां गतः । अतिकामोत्थितो नित्यं मद्वाक्यस्य च लङ्हनात् ॥२३॥तत्क्षणादभवत् सोमः सद्यो निष्प्रभतां गतः । यक्ष्मणा स गहीतश्च हिक्काज्वरसमन्वितः ॥२४॥त्वगस्थिशेषं सोमोहि वलहीनस्तदा नृप । आर्तिं जगाम परमां तमत्रिः प्रणतं द्विजाः ॥२५॥सोमराजानमाहेदं दक्षशापविमुक्तये ।अत्रिः - श्रृणुष्व मे वचो राजन् पुनराप्याययिष्यसि । शरणं गच्छ देवेशं तपसा शिवपूजया ॥२६॥मुनिभिः प्रणतं लिङ्गं सौराष्ट्रे संस्थितं शशिन् । सोमनाथाभिधं लिङ्गं पयोष्णीतीरसंस्थितम् ॥२७॥ब्रह्मविष्ण्वादिभिर्देवैः सेवितं सर्वकामदम् । तस्मिन् लिङ्गे महादेवो निवसत्यंबिकासखः ॥२८॥इत्यत्रिवचसा सोमो ज्ञात्वा गत्वा महेश्वरम् । स्नात्वा नत्वा महादेवं पयोष्ण्यां धूतकिल्विषः ॥२९॥भस्मनोद्धूल्य सर्वाङ्गं तताप परमं तपः । शिवलिङ्गार्चनरतः पञ्चाक्षरपरायणः ॥३०॥भस्मस्थण्डिलसंस्थश्च रुद्रमावर्तयन् सदा । शुश्रूषन्त्या च रोहिण्या कन्दपुष्पफलादिमिः ॥३१॥अतिष्ठत् स तदा मौनी दशवर्षाण्यथाम्बिके । तपस्यतोऽथ सोमस्य शक्तिरासीच्छिवाज्ञया ॥३२॥सोमनाथमहालिङ्गं बिल्वपत्रैः समर्चयन् । त्रिकालमप्रभादेव सोमार्धकृतशेखरम् ॥३३॥एवं संवसतस्तस्य सोमः सोमाय तोषितः । सोमनाथाह्वयाल्लिङ्गात् तस्मै प्रादुरभूच्छिवः ॥३४॥गङ्गाचन्द्रकलामैलिर्महोक्षवरवाहनः । उमासंश्लिष्टवामाङ्गो गणबृन्दनिषेवितः ॥३५॥ब्रह्मविष्ण्वादिभिर्देवैमंहेन्द्राद्यैः सुरोत्तमैः । कुमारगणनाथैश्च मया च परिसेवितः ॥३६॥गजगरुडाखुमयूरहंसयानैः सुरवर्यैरनुयायिभिः पृष्ठतोऽग्रे ।राजताद्रिनिभप्रभाविभाविताङ्गं वृषभं केसरियानयानुयातः ॥३७॥अधिरुह्यामरचामरौघवातैर्व्यजनैः छत्रगणैर्विशोभिताङ्ग ।परशुवरकुरङ्गबालपाणिर्भगवानाविरभूत् तदा महेशः ॥३८॥तथाऽऽगतं महादेवं दृष्ट्वा हृष्टतनूरुहः । प्रणम्य सोमः साष्टाङ्गमष्टमूर्तिं कृपाकरम् ॥३९॥तुष्टाव प्राञ्जलिर्धीरो मां साम्बं परमेश्वरि ॥४०॥नमस्ते महादेव विश्वधिकेश नमस्ते महेशान लोकेश शम्भो ।नमस्ते गणाधीश बृन्दारवन्द्य नमस्ते हरिब्रह्ममृग्यांघ्रिमौले ॥४१॥नमस्ते महोक्षैकवाह प्रपन्नं सदाऽपाङ्गसङ्गाद्य दृष्ट्याद्य तुष्ट्या ।नमस्ते त्वमीशान विश्वैकवन्द्य क्षयार्तिं विनाश्याशु मां तारयाद्य ॥४२॥नमस्ते भिषग्वर्य भैषज्यचिन्तां वहस्वाद्य मामद्य यक्ष्माघयुक्तम् ।विमुक्तं कुरुष्वाद्य पापौघजालैर्नमस्तेऽस्तु शम्भो प्रसीद प्रसीद ॥४३॥इति संप्रार्थितो देवः सोमराज्ञाथ संस्तुतः । दयार्ददृष्ट्या तं वीक्ष्य समालभ्य च पाणिना ॥४४॥पुनः पुष्टिं तस्य गात्रे अमृतैः पूरयत् तदा । तमाह विनयोपेतं सोमं सांबस्तदा मुदा ॥४५॥ईश्वरः - दक्षशापवशात् सोम क्षयेणार्तिं परां गतः । पुनराप्यायितश्चासि मया त्वं सुरसत्तम ॥४६॥देवानामन्नभूतस्त्वममृतांशुः पुरा किल । तच्छपं मानयस्वाद्य मासार्धं क्षीणमण्डलः ॥४७॥देवानामुपभोग्योऽसि देवाश्चाप्यययन्त्यपि । पुनस्त्वामोषधीशान पक्षार्धं मद्वरात् सुर ॥४८॥संपूर्णकलया नित्यं वर्धमानो दिने दिने । भविता चारुरूपेण मम मौलिकृतास्पदः ॥४९॥अष्टमीसामिसोमाङ्को भविताऽहं सदा शशिन् । चन्द्रचूड इति ख्यातः संस्तुतः सुरसत्तमैः ॥५०॥त्वया संपूजितं लिङ्गं सोमनाथाह्वयं शुभम् । ये पश्यन्ति नरा भक्त्या ते सदा गणपा मम ॥५१॥सोमनाथं सकृद्दृष्ट्वा मुच्यते भवबन्धनात् । पयोष्ण्यां ये सकृत् स्नात्वा दृष्ट्वा सोमेश्वरं नराः ॥५२॥सन्तर्प्य च पितॄन् भक्त्या वसन्ति शिवमन्दिरे ।पौष्यां माघ्यामथाष्टम्यां यो बिल्वैः सोमनाथकम् ॥५३॥समर्चयेत् स मुक्तो हि नात्र कार्या विचारणा । इति दत्वा वरं तस्मैं तदा शम्भुस्तिरोदधे ॥५४॥तस्मिन् लिङ्गे तदाविष्टः शिपिविष्टोऽम्बिकासखः । तस्मात् त्वमपि भक्त्याद्य सोमेशं पूज्य भक्तितः ॥५५॥लभस्व चेप्सितानर्थान् कामारिकृपया नृप ॥५६॥सूतः - इति नन्दी नृपश्रेष्ठमनुज्ञाप्य महेश्वरम् । सोमनाथं बिल्वपत्रैः पयोष्णीसरिदंभसा ॥५७॥अभिषिच्याथ रुद्रेण पूजान्ते गणपैर्वृतः । तुष्टाव देवमभ्यर्च्य श्रृणुध्वं तद् द्विजोत्तमाः ॥५८॥नन्दिकेशः - कुण्दलीशकृतकुण्दल शम्भो खण्डिताखिलसुरद्रुमषण्ड ।ब्रह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥५९॥नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालकभूधरोरुमाल ।धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिलाविधूतशूल ॥६०॥अलिङ्गलिङ्गं शशिलिङ्गसंस्थxकःशलिङ्गं जगदेकलिङ्गम् ।हृत्कोशजाकाशविकासिलिङ्गं सुखैकलिङ्गं प्रणमामि लिङ्गम् ॥६१॥इत्थं संस्तुत्य नन्दीशः कैलासं गनपैर्ययौ । गणेन्द्रास्तुष्टुवः शम्भुं सोमनाथं मुदा तदा ॥६२॥वयं सोमवारव्रते तेऽद्य निष्ठा वसिष्ठाद्विशिष्टास्ततस्त्वत्पदाब्जे ।महाभस्म रुद्राक्षमालां तनूषु त्वदीयाङ्गचिह्नैर्निवेश्योरुपापैः ॥६३॥विमुक्ताश्चरामो बिभीमोऽद्य शम्भो ॥६४॥इत्थं स्तुत्वा गणा याता नन्दिकेशेन सादरम् । स राजा विस्मितश्च सीत् शाम्भवैस्तत्कथ रसैः ॥६५॥ईश्वरः - चक्षुःश्रोत्रविभूषणैकसुमहालिङ्गार्चने सक्तधीः न्यस्तापाम्भुवो भरादिविषयप्रीतिं तदा वै नृपः ।कामादिप्रभवादिषट्ककलुषैः कल्कीकृतान्तःस्फुरद् - भ्राजब्दोधशिवप्रसादजनितानन्देन विज्ञानभाक् ॥६६॥भूमानन्दैकभूमा रविशशिहुतभुग्धामसीमाऽहमीशे तस्मिन् लिङ्गेऽस्तमाये शतमखमुखगैर्देवबृन्दैकपूज्यः ।सामस्तोमैरनेकैर्निखिलमुनिकृतैर्होमधूमादिमार्गैः गम्यः सोऽयं भवानि श्रुतिशिखरवरैः स्तुत्यमाशास्यमादिं सोमेशाख्ये गणेन्द्रैर्मम तनयवरैश्चाम्बया चान्द्रिजाते ॥६७॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे नन्दिकेशबृहद्वलसंवादे सोमनाथमहिमवर्णनं नाम षोडशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP