संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
सप्तविंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - सप्तविंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
वामदेवस्तुतिं श्रुत्वा ते सर्वे मुनिसत्तमाः । सर्वोपनिषदां सारं श्रोतॄणां ज्ञानबोधदम् ॥१॥
ऊचुः प्राञ्जलयः सर्वे मां गोकर्णेश्वरं तदा । दक्षिणामूर्तिरूपेण संस्थितं जगदंबिके ॥२॥
मुनयः -
वामदेव महायोगिन् त्वत्तो ज्ञानवतां वर । शम्भो मुनिसहस्रेषु कश्चित् त्वद्ज्ञानभाजनम् ॥३॥
भविष्यति महादेव इत्युक्त्वा छिन्नसंशयाः । उद्दालकोऽपि देवेशि मत्तो लब्ध्वात्मनिर्वृतिः ॥४॥
प्रणम्य मुनिभिः सार्धं गोकर्णेशं ययौ तदा । वामदेवो महायोगी नत्वा मां परमेश्वरम् ॥५॥
कौपीनसंवृतो देवि सदा भस्मविभूषणः । मन्मयं जगदालोक्य ययौ स्वैरगतिर्मुनिः ।
गोकर्णेशं समाराध्य विमुक्ता बहवो जनाः ॥६॥
देवी -
वामतेवस्तुतिः पुण्या वामदेव श्रुताऽधुना । नातः परततरा देव श्रुतीनां सार एह हि ॥७॥
शम्भो ज्ञानप्रदा नित्यं त्वद्बोधानन्ददायिनी । किं वाऽन्यत् क्षेत्रमस्तीति भूलोके तव सिद्धिदम् ॥८॥
तद्वदस्व महादेव संप्रीतास्मि कथारसैः ।
सूतः -
शिवोऽम्बिकावचः श्रुत्वा प्रहृष्टः प्राह तां तदा ॥९॥
शिवः -
श्रृणु देवि प्रियं नित्यमस्ति क्षेत्रवरं मम । यत्रैतद् ज‘जानममलं दत्तं स्कन्दाय शङ्करि ॥१०॥
श्रीशैले हि महादेवि मत्पुत्रस्य तपस्यया । तुष्टोऽहं तस्य च स्तुत्या ज्ञानं दत्तं मयांबिके ॥११॥
देवी -
कुत्र श्रीशैलसंज्ञोऽस्ति भूधरस्त्वत्प्रियंकरः । वद तन्महिमानं मे स्मन्दे तुष्टो भवान् कथम् ॥१२॥
तत्कथां श्रोतुमिच्छामि वद तन्मह्यमादरात् । इति श्रुत्वांबिकावाक्यं प्राह देवो घृणानिधिः ॥१३॥
ईश्वरः -
श्रीशैलोऽपि च देवेशि निवासो मम विश्रुतः । श्रीशैलेश्वरलिङ्गात्मा तत्र नित्यं वसाम्यहम् ॥१४॥
भ्रमरांबेति विख्याता गौरि त्वं तत्र संस्थिता । तत्रापि बहवः शैवाः श्रीशैलेशार्चने रताः ॥१५॥
भस्मरुद्राक्षसंवीतास्त्रिपुण्ट्रोज्वलफालकाः । रुद्रलिङ्गार्चनरता रुद्राध्यायजपादराः ॥१६॥
पञ्चाक्षररता नित्यं पञ्चासध्यानपूर्वकम् । श्रीशैले निवसामीशे गणवृन्दैश्च संवृतः ॥१७॥
तत्र त्वया तपस्तप्तं ब्रह्मविष्णुमुखैः सुरैः । इन्द्राद्या विबुधाः सर्वे तप्यन्ति परमं तपः ॥१८॥
अन्यैर्मुनिवरैर्देवि गौतमात्रिपराशरैः । तपःसिद्धिकरं स्थानं मम श्रीशैलमुत्तमम् ॥१९॥
अत्र जप्तो महादेवि मनुः कोटिगुणो भवेत् । अत्रान्नं ये प्रयच्छन्ति स्मृत्वान्नपतिमादरात् ॥२०॥
अन्नं मत्प्रीतये देवि बहु कुर्वीत च श्रुतिः । शांभवं भोजयित्वैकं सन्तोषयति मां सदा ॥२१॥
कृष्णा नाम महापुण्या नदी सागरगामिनी । भित्वा श्रीशैलमूलं मे स्नातानामघहारिणी ॥२२॥
सन्तर्प्य पाथसा तस्याः पितॄन् देवानृषीनपि । पितरस्तस्य तृप्ताः स्युर्मल्लोके निवसन्ति ते ॥२३॥
तत्पूननीरैर्बिल्वैर्मां समाराध्यातिभक्तितः । मदालयस्य शिखरं दृष्ट्वा नैवाप्नुयाञ्जनुः ॥२४॥
शिवलोकप्रियान्मर्त्यः श्रीशैले निवसेच्च यः । प्रातःसङ्गवमध्याह्नसायाह्नेष्वर्च्य शङ्करम् ॥२५॥
बिल्वपत्रैर्महादेवि मुक्तश्चाज्ञानतो भवेत् । अश्वमेधादयो यज्ञाः येन सान्नाः सदक्षिणाः ॥२६॥
कृतास्तेनैव लभ्येत श्रीशैलेशस्य दर्शनम् । नातप्ततपसो देवि श्रीशैलेश्वरदर्शने ॥२७॥
मतिर्भवति तस्यैव येन तप्ततपोऽबिके । अद्यापि ब्रह्मविष्ण्वाद्या मुनयश्च तथाऽपरे ॥२८॥
पश्यन्ति नियतं गौरि तल्लिङ्गं द्रष्टुमिच्छवः । रुद्राध्यायावर्तनैश्च पञ्चाक्षरजपादिभिः ॥२९॥
शिवलिङ्गार्चको यः स्यात् भूरिभाग्येन शांभवि । यो भस्मनिष्ठः सततं रुद्राक्षकृतकङ्गणः ॥३०॥
त्रिपुण्ट्रधारी सततं तस्य मे दर्शनं भवेत् । प्राप्य नारं वपुरिदं दृष्ट्वा श्रीशैलनायकम् ॥३१॥
तज्जन्म सफलं गौरि नो चेज्जन्म निरथकम् । शतायुः पुरुषो यो हि जन्ममध्येऽपि मां शिवम् ॥३२॥
श्रीशैलेशं सकृद् दृष्ट्वा मुच्यते भवबन्धनात् । अन्यत्रापि मृतो देवि मम लोके वसेच्चिरम् ॥३३॥
श्रीशैले च मृतो जन्तुर्न पुनर्जन्मभाग्भवेत् । अत्रापि देवि लिङ्गानि श्रीशैले सन्ति तान्यपि ॥३४॥
पूजितानीह मुक्तिः स्याद् दृष्टान्यपि मनोरमे । बिल्वपत्रैः सदा देवि पुषपिर्दूर्वाङ्कुरैरपि ॥३५॥
उत्फुल्लपद्मैरमलैः फुल्लनीलोत्पलैरपि । भूधराराधितं लिङ्गं त्रिपुरान्तकसंज्ञितम् ॥३६॥
तल्लिङ्गदर्शनेनैव सर्वपापक्षयो भवेत् । दृष्टे लिङ्गे महादेवि मुक्तो भवति शङ्करि ॥३७॥
पूर्वं त्रिपुरसंहारं कृत्वा देवैस्तथा स्तुतः । त्रिपुरान्तकलिङ्गस्थः श्रीशैले सर्वकामदे ॥३८॥
घण्टाकर्णेश्वरं लिङ्गमत्रास्ति भुवनेश्वरि । घण्टाकर्णगणेशेन पूजितं मुक्तिदायकम् ॥३९॥
यस्तल्लिङ्गं सकृद्‍ दृष्ट्वा पूज्य बिल्वैश्च कोमलैः । मुक्तिकान्ता कराक्रान्ता तस्य देवि भविष्यति ॥४०॥
तत्रास्ति च सुधाकुण्डं सुधास्वादुजलं शिवे ।
तस्मिन् कुण्डे सकृत् स्नात्वा न यामीं यातनां व्रजेत् ॥४१॥
घण्टाकर्णमहालिङ्गं दृष्ट्वा यः स्तोष्यति प्रिये । तस्य मुक्तिं ददामीशे या देवैरपि दुर्लभा ॥४२॥
अनेन स्तोत्रवर्येण घण्टाकर्णस्तदास्तवीत् ।
घण्टाकर्णः -
विश्वेश प्रमथाधिनाथ पुरहन् श्रीशैलगोले स्थित
पापानङ्गपतङ्गसङ्गजनितानन्दाङ्गविद्युत्प्रभ ।
त्वन्नामान्यनिशं वदामि भगवन्नन्यानि नामानि मे
घण्टाकर्णोऽहमीश त्वयि शिव सततं भक्तिरस्त्वद्य शम्भो ॥४३॥
अथान्यदपि देवेशि लिङ्गं तच्छिखरेश्वरम् । तच्च लिङ्गं सकृद् दृष्ट्वा बिल्वैः संपूज्य मुक्तिभाक् ॥४४॥
विभूतिकुण्डं तत्रास्ति स्नानात् पानावगाहनात् । पापनाशकरं देवि सर्वसौभाग्यदायकम् ॥४५॥
हाटकेशं तथान्यत् हि लिङ्गमस्त्येकमुत्तमम् । संपूज्य हाटकेशं तु बिल्वैर्मुक्तस्तथांबिके ॥४६॥
हाटकाख्यं महाकुण्डं तल्लिङ्गाग्रे महेश्वरि । तत्र स्नात्वा स गौरीशसेवया गणपो भवेत् ॥४७॥
स तु लिङ्गमयो देवि नानाकुण्डविराजितः । श्रीपर्वतः श्रिया युक्तो नानालिङ्गविराजितः ॥४८॥
भ्रमरांबा च गौरि त्वं सदा तच्छिखरे स्थिता । तव पादांबुजद्वन्द्वदर्शनान्मुक्तिभाङ् नरः ॥४९॥
श्रीशैलेशोऽहमीशानि तत्तुङ्गशिखरे स्थितः । ब्रह्मविष्ण्वादिभिर्देवैर्गणेन्द्रैरपि सेवितः ॥५०॥
तत्र मां नियमाद् दृष्ट्वा सर्वपापैः प्रमुच्यते । पुरा श्रिया तपस्तप्तं तत् श्रृणुष्वाम्बिके मुदा ॥५१॥
यदा‍ऽनङ्गो मया दग्धः श्रियः पुत्रो महेश्वरि । तेन दुःखेन सन्तप्ता भस्मरुद्राक्षभूषणा ॥५२॥
पञ्चाग्निनिरता देवी पञ्चाक्षरपरायणा । लक्ष्मीः सन्तपदत्युग्रं वर्षाणां शतकं शिवे ॥५३॥
दत्तं च दर्शनं देवि तस्याः कालान्तरे मया । मां दृष्ट्वा नियता गौरि तुष्टाव नियता तदा ॥५४॥
लक्ष्मीः -
शर्वरीरमणखण्डमौलिनं शर्वरीकृतविहारहारिणम् ।
शर्वसर्वपतिमाश्रये सदा दूर्वया तु सततं समर्च्यसे ॥५५॥
कुंभिकुम्भदलनोज्ज्वलत्पदं कुंभिवक्त्रवृतमान्यपुत्रकम् ।
कुंभसंभवमुनीन्द्रपूजितं कुंभिभिन्नटनमीशमाश्रये ॥५६॥
इत्थं स्तुत्वा हि मां लक्ष्मीस्त्वामस्तौषीत् तदाम्बिके ।
अमरीकबरीभारचञ्चरीकैः मुखरितवेदशिरोभिरीड्यपादाम् ।
सुखकरकिन्नरमौलिपुष्पजालैः भ्रमराम्बां प्रणतास्मि शङ्करीं ताम् ॥५७॥
इत्थं स्तुत्वा तदा मां त्वां ययाचे वरमुत्तमम् ॥५८॥
अनङ्गः कोपतस्ते‍ऽद्य त्वया दग्धो महेश्वर । साङ्गतां प्राप्नुयाच्छंभो एष देयो वरो मम ॥५९॥
तदा लक्ष्म्या वचः श्रुत्वा तामवोचं तदाम्बिके ।
ईश्वरः -
त्वत्कटाक्षेण देवेशि पुनरुज्जीव्यतां स्मरः । पुत्रीणीयं भवेल्लक्ष्मीः सदा मुदितमानसा ॥६०॥
इत्थं मद्वचनात् त्वं हि त्वत्कटाक्षोत्थकोणतः । अनङ्ग साङ्गतां नीतो विबभौ स यथापुरम् ॥६१॥
ऐक्षवं कार्मुकं बिभ्रत् पुष्पबाणांस्तथांऽबिके । रत्या सह तदा गौरि मां तुष्टाव प्रहृष्टधीः ॥६२॥
मन्मथः -
दुग्धाब्धिप्रभवप्रचण्डौरगक्ष्वेडव्यथासंहृतौ
त्वामेकं ददृशुर्निलिपमुखराः सोत्कंपगात्राः शिवम् ।
तत्पानारुणलोलनेत्रयुगलं वीक्ष्याकृतार्थस्मितं
शम्भो शङ्कर शाश्वतेति बहुधा त्वां तुष्टुवुः सुस्तवैः ॥६३॥
इत्थं स्मरेण देवेशि श्रीशैलेशः स्तुतोऽस्म्यवहम् । लक्ष्मीः पुत्रं तदा वीक्ष्य साङ्गमुद्यतकार्मुकम् ॥६४॥
प्रहृष्टा साऽभवद्गौरि वृतश्चापि तया वरः ॥६५॥
लक्ष्मीः -
मन्नामा पर्वतश्चायं भवत्वद्य महेश्वर । तस्यै दत्तो वरो देवि तन्नामख्यापनाय मे ॥६६॥
कृतः श्रीपार्वतो नाम्ना सापि पुत्रयुता ययौ । पुरा दैवासुरे युद्धे तारकादीन् महाबलान् ॥६७॥
न्यपातयत् शक्तिपातैः कुमारो मेऽम्बिके तदा । नानावाहनसंपन्नान् दैत्यकोटिसमावृतान् ॥६८॥
निहत्यैव च राजानं त्रिविष्टपनिविष्टितम् । चकारातिबलो देवि तारकारिः सुरासुरान् ॥६९॥
तदा काव्येन शप्तः स भव त्वं मोहमास्थितः । तच्छापविनिवृत्त्यर्थं श्रीशैलं मे समागतः ॥७०॥
देवी -
कुमारो मे महादेव कथं काव्येन शापितः । तद्धेतुं विस्तरेणाद्य मह्यं कथय शङ्कर ॥७१॥
ईश्वरः -
शूरपद्मादयो दैत्यास्तारकाद्या महाबलाः । शस्त्रास्त्रैः शक्तिभिर्घो रैर्निहता दानवोत्तमाः ॥७२॥
तान् सर्वान् निहतान् शिष्यान् काव्यो दृष्ट्वाऽतिकोपनः ।
शशाप षण्मुखं गौरि मोहयुक्तो भवेति तम् ॥७३॥
द्विजिह्वः फणिरूपश्च सर्वेषामिष्टदायकः । स्कन्द षष्ठीपराणां त्वं साक्षात् कामप्रदौ भव ॥७४॥
सा तिथिस्ते प्रियतमा कृत्तिकाभं च ते प्रियम् । एवं शशाप काव्योऽसौ षण्मुखं केकिवाहनम् ॥७५॥
तदा काव्यस्य तच्छापं स्वीचकार कृपाबलात् । लोकानामुपकाराय कुण्डलीशोऽभवत् तदा ॥७६॥
शप्तं स्कन्दं तदा ज्ञात्वा महाक्रोधान्मया तदा । काव्यो ग्रस्तस्तदा गौरि जठरे मय्यधोगतः ॥७७॥
तदा मज्जठरे तिष्ठन् तुष्ठाव प्रणतस्तदा ॥७८॥
काव्यः -
कञ्जजकन्धर कञ्जनेत्रकृतपूज्यशिर कञ्जमित्रकृतनेत्र विचित्रां दुर्गतिं मम विनाशय शम्भो ॥७९॥
वह्निवृत्रहणबभ्रुसोमकैः शूरमारजनकाब्जजपूज्य ।
पापतपहृदयेन कंपितं देवभूप सततं दयस्व माम् ॥८०॥
इत्थं तेन स्तुतो देवि विसृष्टः शुक्रतो मया । स वै शुक्र इति प्रख्या तस्याऽभूद्देवि चोत्तमा ॥८१॥
स्कन्दः श्रीशैलभागत्य मां प्रणम्यांबिके तदा । तताप च तपो धोरं वायुभक्षः सुतस्तव ॥८२॥
ज्वलत्पञ्चाग्निमध्यस्थो भस्माभ्यक्तोऽ‍र्चयन् हि माम् । प्रजपन् शतरुद्रीयं दृष्टो ब्रह्मादिभिस्तदा ॥८३॥
तत्तपःक्षुब्धहृदयाः प्रार्थयन्ति स्म मां सुराः । श्रीशैलेशं समभ्यर्च्य बिल्वपत्रैश्च कोमलैः ॥८४॥
देवास्तुष्टुवुरीशाने भ्रमरांबापतिं शिवे ।
ब्रह्माद्याः -
उपेन्द्रविधिकारणं निगममौलिसंचारिणं कुरङ्गकिणधारिणं नमकनामगण्यं गुणम् ।
भजामि भवहारिणं मुनिसुगदिमौलिस्फुरत् सरोरुहगणारुणं शिवदचरणं कालहरणम् ॥८५॥
फणीन्द्रकृतकङ्कणं धृतत्रिपुण्ट्रफालेक्षणं सुशैवकृतरक्षणं गिरिसुताब्जवक्त्रेक्षणम् ।
यमस्मरपुरान्धकप्रबलदक्षसंशोषणं भजाम गिरिधारिणं सुकृतराशिसंपूरणम् ॥८६॥
इति स्तुत्वांबिके देवाः श्रीशैलेशं तदा हि माम् । तत्क्षणादाविरासं च गणेन्द्रैरमरैस्त्वया ॥८७॥
स्कन्दपार्श्वं तदा गत्वा समुपस्पृश्य तं तदा । अजिघ्रं तस्य मूर्धानं तमवोचमहं प्रिये ॥८८॥
मत्करस्पर्शमात्रेण हित्वैहं रूपमम्बिके । मुदा शक्तिधरः स्कन्दो मां प्रणम्यास्तुवत् तदा ॥८९॥
स्कन्दः -
सुन्दरवरमन्दरगिरिकन्दरचर कुन्दजसुमसुगन्धमधुरबन्धुरतर इन्दुजकरनन्दितकुमुदाकरहारजमकरन्दरणित पन्नगजननन्दनकरवन्दित मुनिवृन्दजकृतवेदवचनबन्दिजगुणतुन्दिल मम मानसवरनन्दित शिव पालय माम् ॥९०॥
उन्दुरकृतवाहनसुतसिन्दुर भव कृतिवसन तिन्दुकसुमपूजितपद इन्दुनिवबिंबितकरचुंबितजटीलोत्तमपूजन जननन्दनविदिशान (?) नन्दिवाहन परिपालय याम् ॥९१॥
काव्यशापान्महेशान नष्टज्ञानोऽस्मि शङ्कर । तद् ज्ञानं देहि मे देव स्थानं मे‍ऽद्य दिश प्रभो ॥९२॥
तदा स्कन्दवचः श्रुत्वा ब्रह्मादीनां च श्रृण्वताभ् । अवोचं वेदवाक्योत्थं ज्ञानं स्कन्दाय पार्वति ॥९३॥
ईश्वरः -
अनाख्येयमिदं गुह्यं यस्य कस्यापि देहिनः । अहं मां च परं ब्रह्म निरुपाधिग्नीश्वरः ॥९४॥
ततः सर्वमिदं जातं दृश्यते श्रूयते च यत् । मय्येव संस्थितं विश्वं मय्येव लयमेष्यति ॥९५॥
अगन्धमरसस्पर्शमशरीरेन्द्रियोज्झितम् । मामात्मानं च यो वेद सद्य एव विमुच्यते ॥९६॥
मम कार्यं न वै किञ्चित न करोमीह किञ्चन ।
न मत्समोऽस्ति कोऽ‍प्यन्यो नाधिको दृश्यतेऽपि वा ॥९७॥
ममैव शक्तिर्विविधा यया व्याप्तमिदं जगत् । अणोरणियसां चाय महतोऽपि महत्तरः ॥९८॥
न च मां विदुरन्यानि अहं वेदेदमेव हि । सत्यं ज्ञानोऽहमानन्द विश्व विश्वाधिको ह्यहम् ॥९९॥
न मत्तोऽस्ति पृथक् किञ्चित नेह नानास्ति किञ्चन ।
मामविज्ञाय दुःखेषु निमज्जन्त्यखिला जनाः ॥१००॥
मां विज्ञाय न वै कश्चिन्मोमुह्यति न वै नरः । भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ॥१०१॥
अदाह्योहमशीर्योऽहं देहजालेषु सत्तम । नाहं स्त्री नैव पुरुषो न तियक् स्थावरोऽपि वा ॥१०२॥
विभान्ति यान्ति उद्यन्ति चन्द्रेन्द्रानिलभास्कराः । मद्भासा भासते लोको जडोऽ‍यं काष्ठसन्निभः ॥१०३॥
ऋतमात्मा परं ब्रह्म सत्यं ज्ञानोऽहमीश्वरः । यो मां वेद स सर्वं हि वेदेत्येव परा श्रुतिः ॥१०४॥
एवं न कर्मणा प्राप्यं पूजया न धनेन वा । न चैवोपासनाभिश्च ज्ञानादेव हि केवलम् ॥१०५॥
एतद्गुह्यतमं ज्ञानं नाख्येयं यस्य कस्यचित् । प्रियपुत्राय ते दत्तं शिष्याय च हिताय च ॥१०६॥
मां प्रणम्य तदा स्कन्दो मुदा तुष्टाव हृष्टधीः ॥१०७॥
स्कन्दः -
शशिखण्डशिखण्डमण्डनं विधिमुण्डामलषण्डकण्ठमालम् ।
धृतनागसुकुण्डलं भजे हतचण्डांशुसुतप्रचण्डगर्वकाण्डम् ॥१०८॥
अखण्डबोधाय सुचण्डदीधितिप्रचण्डनेत्रं कृतताण्डवं सदा ।
भजामि वेतण्डमुखस्तुतं मुदा सुमेरुकोदण्डधराखिलाण्डगम् ॥१०९॥
सुचण्डबाहुं रणचण्डविक्रमं सुपुण्डरीकोज्ज्वलहारलीलम् ।
तं खण्डपर्शुं प्रणमामि शम्भुमाखण्डलाद्यैरभिवन्दनीयम् ॥११०॥
मुनीन्द्रवर्यैरखिलैः समर्चितं करीन्द्रकुम्भस्थितपादपद्मम् ।
गिरीन्द्रजाप्राणसखं भजे शिवं विधीन्द्रनारायणवेदसंस्तुतम् ॥१११॥
भुजङ्गहारं गलनीलकन्धरं महाजटाभारधरं हरं सदा ।
भजामि गङ्गाधरमीशितारं परात्परं कालहरं महेश्वरम् ॥११२॥
वसुधाधरधारकं महेशं अमरेन्द्रं च सुधाकरोरुचूडम् ।
प्रणमाम्यर्जुनदीप्तिदीधितिं भगवन्तं तमगाधबोधदम् ॥११३॥
जगतां मम देवदेव शम्भो जनकस्त्वं भगवन्नुमा जनित्री ।
प्रियपुत्रे मयि दत्तमेतदाद्यं श्रुतिगुह्यं जगतो विमुक्तये ॥११४॥
इति स्तुतोऽहं स्कन्देन स्तोत्रवर्येण सत्तमे । अवोचं तं तदा स्कन्दं तत्स्तुत्या तोषितोऽम्बिके ॥११५॥
ईश्वरः -
स्कन्द त्वत्कृतभक्तिशक्तिभिरहो स्तुत्यं स्तुवन् मां मुदा
युक्तः पातकवर्गजातसहितो मुक्तः स वै पुण्यभाक् ।
तस्मै तद्वयुनं दिशामि च यदा शक्तोऽ‍स्तु तत्वाधिकः ॥११६॥
वस त्वं भूधरे स्कन्द सिंहाद्रौ सुरसेविते । स्वामिपुष्करिणीतीरे नानाबृक्षैकशोभिते ॥११७॥
निवासो विहितस्तेऽद्य यावदाभूतसंप्लवम् । मदाज्ञया ययौ स्कन्दो ब्रह्मादिविबुधैः सह ॥११८॥
प्रणम्य मां तदा देवि श्रीशैलेशं कृपानिधिम् । संपूज्य भ्रमराम्बां त्वां नत्वा स्कन्दो गणैर्वृतः ॥११९॥
बिल्वैः पद्मैस्तथा पूज्य प्रदक्षिणपुरःसरम् । भुजङ्गेनोज्वलच्चञ्च्वा केकारावैर्विराजता ॥१२०॥
मयोरेणोह्यमानश्च ययौ स्कन्दः सुरैर्वृतः । स्वामिपुष्करिणीतीरे सिंहाद्रौ भक्तिभावितः ॥१२१॥
उवास च तदा स्कन्दो देवीं शक्तिधरस्तदा ।
ईश्वरः -
श्रीशैलेश्वरलिङ्गमेतदमलं मुक्तिप्रदं शाश्वतं दृष्टं येन समस्तपुण्यफलदं स्वर्गापवर्गप्रदम् ।
तेनेर्वी सकला सुशांभववरे दत्तऽखिलैः पातकैः मुक्तो मत्कथया स्वसुन्दरतरे श्रोत्रे च पात्रीकृते ॥१२२॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे श्रीशैलेशमाहात्म्ये लक्ष्मीवरप्रदान - स्कन्दशापविमोचन - ज्ञानोपदेश - स्थानकल्पनवर्णनं नाम सप्तविंशोऽ‍ध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP