संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| अष्टत्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - अष्टत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टत्रिंशोऽध्यायः Translation - भाषांतर ईश्वरः - असिपत्रोरुविपिनेष्वसिधारासु पातितः । कुम्भीपाके तथा गौरि पक्कश्चात्यन्तमुत्कटम् ॥१॥तप्ततैलकटाहेषु पाचितःण स मुहुर्मुहुः । भटोरुशस्त्रधाराभिस्ताडितः स द्विजस्तदा ॥२॥गदामुसुण्ठीपरिघैः शुलैः पोथितमस्तकः । शरकृत्तमहामर्मा स्रवद्रक्तस्तथाऽम्बिके ॥३॥तुद्यमानस्तथा काकैः सृगालैः श्वभिरावृतः । हाहेति प्रलपन् विप्रः परिधावन्नितस्ततः ॥४॥करालदंष्ट्रैः श्वगणैर्दष्टश्चानुद्गतस्तदा । अन्ये नारकिनश्चापि ब्राह्मणक्षत्रियादयः ॥५॥वैश्याः शूद्रास्तथा पापा नानासङ्करजातयः । नानादुःखशतैर्घोरैः पीड्यन्ते यत्र किङ्करैः ॥६॥पूयविण्मूत्रकुण्डेषु कशाघातोत्थितैर्व्रणैः । स्रवद्रक्तैः क्षारसेकमहादुःखकृतारवैः ॥७॥खङ्गताडितहस्तैश्च पादैर्मुण्डैश्च खण्डिताः । विनिष्क्रान्तान्त्रमस्तिष्काः श्वभिश्च बलिभोजिभिः ॥८॥तप्ततैलपटैरङ्गैर्ज्वलद्भिर्दुःखसङ्कुलैः । दीपितैः केचिदुन्मत्तं धावन्ति च रुदन्ति च ॥९॥सन्तप्तवालुकामध्ये लोलयन्त्यपि पापिनः । एवं नारीनरांस्तत्र रोदमानांश्च पापिनः ॥१०॥गर्जन्तस्ताडयन्तस्ते भटा मुद्गरपाणयः । वदन्ति क्रूरवचनैर्भ्रुकुटीकुटिलेक्षणाः ॥११॥भटाः - अहो दुष्कृतकर्माणः सुखबुद्ध्यैव पातकम् । कृतं भवति मोहेन तत्फलं भुज्यतेऽत्र हि ॥१२॥एनं छिनत दुर्बुद्धिं एनं पोथयताधुना । एनं ताडयताद्याशु एनं खण्डयतासिभिः ॥१३॥अनेन राज्ञोन्मत्तेन प्रजाः संपीडिता भृशम् । देवद्रव्यपरः पापी द्विजद्रव्यापहारकः ॥१४॥बान्धवानतिथीन् भृत्यांस्त्यक्त्त्वा भुङ्क्ते नृपाधमः । तप्ततैलकटाहेषु पात्यतमयमुद्धतः ॥१५॥अयं द्विजो महापापी श्रौतस्मार्तपराड्मुखः । त्रिपुण्ड्रभस्मरुद्राक्षरुद्रपञ्चाक्षरोज्झितः ॥१६॥शिवलिङ्गार्चनाहीनो बिल्वपत्रैस्तथा सुमैः । परान्नादः सदा पापी नित्यं परवण्यपि द्विजः ॥१७॥धनधान्ययुतश्चापि भार्यापुत्रसमन्वितः । सन्तप्तभ्राष्ट्रमध्येऽयं भर्ज्यतां तर्ज्यतां द्विजः ॥१८॥वैश्योऽयं सर्वदा पापी अन्यन्यासापहारकः । वृद्ध्याधिकेन पापात्मा स तु दौष्ट्येन जीवति ॥१९॥अत्यन्ततीक्ष्णशस्त्रौघेः सन्तप्तसुसलैरपि । खण्ड्यतां दण्ड्यां पापः तिलशः पर्वसन्धिषु ॥२०॥अयं शूद्रोऽपि मन्दात्मा ब्राह्मणानवमन्यते । गां ताड्यति पादेन...वृषभानयम् ॥२१॥हलैरुद्वेजयामास विप्रवित्तापहारकः । अधोमुखोर्ध्वपादोऽयं दग्धः खदिरवह्निना ॥२२॥अयं भार्यापरित्यागी दोषदर्शनवर्जितः । सन्तप्तकण्टकैर्घोरैः सूचीनुन्नतनुर्भवेत् ॥२३॥अयं युवा महापापी परदारोपसेवकः । सकामं च सदा पापः परस्त्रीदर्शनोत्सुकः ॥२४॥शिश्नं सवृषणं चास्य नेत्रे तुद्यन्तु दंशितैः । शूलाग्रैर्मुसलैर्घो रैरुत्पाट्यान्त्राणि दंशितैः ॥२५॥अयं सर्वत्र निन्दां च करोति सुदुरान्मवान् । उत्पाट्यवामस्य जिह्वा तप्तसन्दंशनैर्भटाः ॥२६॥तुलां हिरण्यगर्भं च गोसहस्रप्रतिग्रही विद्वांसः पापभूयिष्ठा वावदूकाः सदा खलाः ॥२७॥अपापानां च साधूनां निन्दका वादकौशलात् । दग्धाङ्गान् वह्निनरके पातयन्तु मलहृदे ॥२८॥अनिष्कृतिपराः पापाः सर्वदा प्रेतभोजिनः । गोद्वयं प्रतिगृह्यापि तद्विक्रथपरायणाः ॥२९॥श्लेष्महृदे सदा पापाः पतन्तु शतवत्सरम् । कन्याविक्रयकृच्चायं स्थितो रक्तमलह्रदे ॥३०॥मातरं पितरं साधून कटूक्त्या भर्त्सयत्ययम् । मलह्रदे च पतितस्तथा स्त्रीधनहारकः ॥३१॥तदुत्थकृमिभिर्घोरैर्दष्टसर्वाङ्गसन्धिकः । वैश्वदेवाग्निरहितास्त्रेताग्निपरिवर्जिताः ॥३२॥आतिथ्यादिविहीनाश्च देवतातिथिदूषकाः । अयाज्ययाजकाः पापाः सदा धनपरायणाः ॥३३॥सन्तप्तवालुकासंस्था दग्धाः सूर्यक्रैस्तथा । दम्भाहङ्कारमात्सर्यलोभकामपराः सदा ॥३४॥सर्वभूतेष्वविश्वस्ता अमित्राः क्रूरवाक्शराः । कुम्भीपाकेषु पच्यन्ते गोवधे निरतास्तथा ॥३५॥विश्वासघातकाः पापाः भर्तृकार्यविरोधिनः । क्रकचैर्दन्तुरैर्भिन्ना द्विधा ते शकलीकृताः ॥३६॥विधवासङ्गनिरताः कन्यासन्दूषकाश्च ये । अश्मपातैः सुधोरैस्ते विपोथितकलेबराः ॥३७॥सुरापानरताः पापा देवस्द्रव्यापहारकाः । सन्तप्तशस्त्रधाराभिर्दन्दशूकमहाविषैः ॥३८॥दग्धा वृश्चिकजालैश्च स्रवद्रुधिरकर्दमाः । तिष्ठन्ति हा हताः स्मेति रुदन्ति करुणं बहु ॥३९॥इयं नारी मदोन्मत्ता पतिनिन्दापरायणा । परसङ्गरता नित्यं सन्तप्तायसदण्डकम् ॥४०॥समालिङ्ग्याशु कशया ताड्यते यमकिंकरैः । परदारोपसेवी च आयसीं प्रतिमां सदा ॥४१॥समालिङ्ग्य विदग्धोऽयमाक्रन्दति दिवानिशम् । परान्ननिरतो नित्यं स्वगृहे पाकवर्जितः ॥४२॥कृमिराशिं समश्नाति प्रेतान्नो मलभुक् सदा । उभयास्यां च गां गृह्य ताड्यते तप्तपिण्डकैः ॥४३॥ब्राह्मणोऽयं महापापी अन्यश्चक्राङ्कनोत्सुकः । शिवनिन्दापरो नित्यं शांभवद्विट् सदा मुदा ॥४४॥प्रदोषसोमवारे च शिवरात्रौ तथैव च । भुङ्क्तैऽन्नानि दिवा पापी चतुर्दश्यष्टमीषु च ॥४५॥तिलशः खण्ड्यतां दुष्टः शस्त्रौघैः क्षारसेचनैः । ब्रह्मचार्ययमुन्मत्तो वेदाध्ययनवर्जितः ॥४६॥कामातुरश्च स्वाद्वन्नो भिक्षुश्चायं दुरात्मवान् । मिष्टमश्नाति सततं बलादाक्रम्य पीड्यताम् ॥४७॥मदर्यतां लगुडैर्घोरेर्मुसलैरायसैर्दृढम् । ऊर्ध्वपुण्ट्रधरो नित्यं मुदाऽयं ब्राह्मणब्रुवः ॥४८॥श्वभिः सन्दश्यतां पापो वायसैर्वृश्चिकैरपि । त्रिपुण्ट्रफालान् दृष्ट्वैव सदा निन्दत्ययं द्विजः ॥४९॥उत्पाट्यतामस्य जिह्वा नेत्रे सूच्या तुदन्तु च । श्रृन्वन् निन्दां महेशस्य देवानां च द्विजस्य च ॥५०॥आशीविषविषैर्घोरैर्दह्यतां शणवल्कलैः । एवं ते नरका घोरा भटार्भटरवैरपि ॥५१॥छिन्धि भिन्धीति वादैश्च हाहेति च प्रलापितैः । नानादुःखशतैर्घोरैर्दुःखितः परिधावति ॥५२॥असह्यं देवि तद्दुःखं वर्णितुं चापि न क्षमम् । तं दृष्ट्वा दुःखितं विप्रं धावन्तं करुणारवम् ॥५३॥अन्यानपि शिवे दृष्ट्वा करुणा मे समागता । तत्र शैवकृता पूजा दृष्टा तेनेति तं तदा ॥५४॥समानेतं गिरिसुते मया संप्रेषिता गणाः । ममाज्ञया तमावन्त्यं समानेतुं तदाऽम्बिके ॥५५॥दृष्ट्वा त नरकं घोरं ते यमेन सुपूजिताः । प्राह तान् प्राञ्जलिः सौरिः कुत्र वा गम्यते गणाः ॥५६॥भवतां दर्शने योग्यः किमयं नरकार्णवः । गणा यमवचः श्रुत्वा प्राहुस्ते तं शिवाज्ञया ॥५७॥गणाः - आवन्त्योऽयं पापयुक्तस्तथापि भगवत्प्रियः । किं वाऽनेन कृतं पुण्यं सूक्ष्मं जानाति शङ्करः ॥५८॥यमानेन कृता पूजा प्रदोषे शैवकल्पिता । दृष्टा तेन महादेवस्तुष्टः कष्टविनाशकः ॥५९॥तत्समानयने सौरे प्रेषिताः श्रीशिवेन हि । अतः परं त्वमस्माकं गणनीयोऽसि किं वद ॥६०॥गणानां वचनं श्रुत्वा प्राह सौरिः कृताञ्जलिः ॥६१॥यमः - शिवाज्ञापालकश्चाहं यथेच्छति च स प्रभुः । अस्यैव दण्डनार्थेऽहं शङ्करेण नियोजितः ॥६२॥इति ते गणयाः सर्वे यमेन च समन्विताः । द्रष्टुं तं नरकं घोरं तेऽपि शम्भुगणास्तदा ॥६३॥सूतः - केचिच्छरीरविनिकृत्तमहाङ्गबन्धाः केचिज्ज्वलज्ज्वलनन्दीप्तिविदीप्तदेहाः ।केचिद्य दण्डवरखण्डितमुण्डषण्डाः केचित् स्रवदुधिरदिग्धसमग्रकायाः ॥६४॥केचिन्महामुसलमण्डलखण्डकायाः केचिद्विदीर्णदशनान्त्रविभिन्नपादाः ।केचित् सुतीक्ष्णशरखङ्गविभिन्नहस्ताः केचिन्महायससुश्रृङ्खलजालमालाः ॥६५॥दृष्ट्वा यमेन गणपा अतिघोरमुग्रं जगुजुरीशानमहेशनाम ।शम्भो शिव प्रमथनाथ त्रिलोचनेति पाहीन नारकसुघोरमहाभवाब्धेः ॥६६॥गणाः - हाहाहा बहुपातकाकुलरवैराक्रन्दितं दिक्तटंभो शम्भो भगवन् महेश करुणादृष्ट्यावलोक्यादरात् ।सन्तिष्ठ क्षणकं महोक्षवरगस्त्वत्तेजसाप्यायिता - श्चामी नारकिणो मदीयवचसा त्वं दीनबन्धुः किल ॥६७॥यमभटपटलीकृतोग्ररावं विनिहतनारकिणं कशोग्रघातैः ।नरकमतिसुधोरमद्य शम्भो न हि पश्येम भवत्कृपाकटाक्षै ॥६८॥गणेशवदनच्युतप्रबलशम्भुनाम्ना तदा शिवाद्य हर पाहि नः प्रमथनाथ शम्भो शिव ।तदैव यमयातनाविरहितास्तदा नारका जगर्जुरखिलास्तदा विविधपातकैस्ते च्युताः ॥६९॥तान् गणान् स तदा प्राह यमः क्रोधवशं गतः ।दन्तान् कटकटाशब्दैर्विवृत्य नयने तदा ॥७०॥यमः - सर्वाणि पापान्यतिदुःखदानि गणा सदा दुःखतराणि शम्भोः ।द्रोहे तथा तान् समुदीक्ष्य कोपो महाxभून्मे श्रृणुx प्रकष्टम् ॥७१॥कुकल्पनानल्पविकल्पजालैर्महेशनिन्दां तनुते नराधमः ।अधोमुखश्चोर्ध्वपदोऽवलम्बते विष्ठाह्रदे तत्क्रिमिभुक् शतं समाः ॥७२॥कनिष्ठं पशूनां वदन्त्येव वेदाः खरोष्ट्रादितिर्यग्गणेभ्योऽपि शोच्यम् ।शुनीगर्भसंभूतमत्यन्तगर्ह्यं महेशार्चनावर्जितं जन्म यस्य ॥७३॥शिवेशानपूजानिवेद्यान्नभोजी भुनक्त्येव कष्टं मलानां स राशिम् ।तदश्याममन्त्रैर्वदत्येव वेदस्त्रिकालः समुत्पाटयत्याशु तस्योर्ध्वपुण्ट्रम् ॥७४॥भुसुण्ठीनिपातैः कशाघाxxxxतै सुरुद्राक्षहीनाङ्गसङ्गाङ्गसङ्गम् ।सुधूमायिते तप्तशैलीकटाहे समुत्क्षिप्य भस्मीकरोम्येव कालः ॥७५॥गणा रुद्रपञ्चाक्षरावृत्तिहीनान् महादेवलिङ्गार्चकान् विष्णुलिङ्गैः ।सुचक्राङ्कितानूर्ध्वपुण्ट्रांस्तथान्यान् स्वदंष्ट्रोरुधारादिभिश्वर्वयामि ॥७६॥प्रदोषार्चनावर्जितं सोमवारे दिवा भुक्तवन्तं महालोहघातैः ।तथा भूतकालाष्टमीषु...न चार्चन्ति लिङ्गं सदा कालदण्ड्याः ॥७७॥महादेवनिन्द्साकरस्योर्ध्वजिह्वां समुत्पाट्य कालः स तत्फालमध्यात् ।ज्वलद्धोरसन्दंशजालैस्तदङ्गं निकृत्यांभसा क्षारजेनाशु सिञ्चेत् ॥७८॥महादेवलिङ्गार्चने यस्तु विघ्नं करोति हि तद्दंशाहुताशनोऽहम् (?) । इत्थं स कालः सततं रुषान्वितः शिवद्रहां नास्ति विनिष्क्रियेति ॥७९॥शिवारामविच्छेदने यस्य हस्तौ कुठारोद्यतौ तस्य हस्तौ कुठारैः ।तथा देवदेवालयस्यापि कालः छिनत्त्येकमङ्गं तिलानां क्रमेण ॥८०॥इत्थं कालवचः श्रुत्वा गणा ऊचुः परस्परम् ।गणाः - नानासंसारवित्ताःप्रतिहतमतयः क्षीणपुण्यैकलेशा नीचाः काये स्वकीये शमनभवनगाः क्लेशबृन्दं भजन्ति ।तस्माद्विच्युतकर्मशेषजनुभिस्तिर्यक्त्वमासाद्य ते नानादुःखशतैर्महेश कुधियस्त्वां नाश्रयन्ते जनाः ॥८१॥श्रुत्वा कार्तान्तवार्तां विविधगतिवशात् किङ्करैर्याम्यदण्डैः खण्ड्यन्ते यत्र जीवाः प्रतिनरकशतं वासराणां बहूनि ।भिन्धि छिन्धीति वादैः पटुतरकशया ताड्यतेऽयं जनौघ - स्त्वत्पूजास्तवनप्रणामरहितो मोमुह्यतेऽयं विभो ॥८२॥मार्गं त्वया मार्गदलैर्महेशलिङ्गार्चनान्मार्गयते विमुक्त्यै ।मार्गे त्वगङ्गासितभस्मफालो रुद्राक्षमालः स तु पुण्यशीलः ॥८३॥सूतः -इत्थं यमेन कृतसूक्तय एव धीरा वीरा महेश्वरगणेशवराश्च विप्रम् ।आरोप्य हंसवरयानमनोहरेण संपूजिताः प्रमथनाथपदं ययुस्ते ॥८४॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे पुष्करमाहात्म्ये नारकिणां यातनानुभववर्णनं नाम अष्टत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP