संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| त्रयोदशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - त्रयोदशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रयोदशोऽध्यायः Translation - भाषांतर ईश्वरः - हिमवच्छिखरे देवि लिङ्गान्यन्यानि सन्ति वै । केदारेश्वररूपाणि श्रृणु तान्यपि पार्वति ॥१॥केदारेश्वरमासाद्य मुक्त एव न संशयः । केदारेति सदा जप्त्वा पापसङ्घक्षयो भवेत् ॥२॥हिमवांस्त्वत्पिता गौरि मेनया सह भार्यया । केदारेशं समभ्यर्च्य बिल्वपत्रैरनेकशः ॥३॥हृष्टो भवति मल्लिङ्गनिरीक्षणसमुत्सुकः । संस्तौति सततं भक्त्या हिमवानेष भूधरः ॥४॥हिमवान् - एकं ब्रह्म जगद्द्वितीयमपि वै लोकत्रयं दीप्तिमत् चत्वारः प्रदिशो महेश्वर महाभूतानि पञ्चैव हि ।षट्कं क्रत्वधिदैवतं पवनकाः सप्तैव वस्वष्टकं दुर्गाणां नवकं दशेन्द्रियगणं त्वत्तो जगज्जायते ॥५॥ब्रह्मविष्ण्वादयो देवाः केदारेश्वरमीश्वरम् । तत्र चोपगते भानौ देवाः पूज्यारुणोदये ॥६॥बिल्वपत्रैः समभ्यर्च्य मुद्गान्नं विनिवेद्य च । वसन्ति तत्र नियता हिमवच्छिखरे शिवे ॥स्तुवन्ति वाग्भिर्हृष्टाभिर्ब्रह्मविष्ण्वादिभिः सुराः ॥७॥विष्णुः - हंसः पुष्करमम्बुदं भुजगभुङ् मेध्यं पयश्चातको यद्वत्तद्वदुमासहाय भगवन् दृष्ट्वा पदाब्जं तव ।आनन्दः समुपैति मां मुहुरहो त्वद्ध्यानतृप्तं मनः श्रुत्वा शङ्करनामबोधितकथां प्रीतो यथा शांभवः ॥८॥विधिः - ग्रस्तं पापैरनेकैरहिमिव विनतापुत्रवक्त्रान्तरेण न्यस्तं भूम्यां जलेभ्यो झषमिव नितरां कण्ठसञ्चारि जीवम् ।बस्तं यागीयहिंसानतमिव सततं मृत्युपाशावलीढं त्रस्तं मां कालमृत्योरव शिव कृपया देव केदारनाथ ॥९॥नन्दीश्वराभिधं लिङ्गं केदारोपरितः स्थितम् । नन्दिना पूजितं लिङ्गं दृष्ट्वाऽऽनन्दभवाप्नुयात् ॥१०॥नन्दी तुष्टाव हृष्टात्मा लिङ्गं नन्दीश्वराभिधम् ॥११॥नन्दी - ध्यायं ध्यायमघौघहरिचरणं दुःखापनुत्त्यै सदा पायंपायमपायदानरहितं कर्णैस्त्वदीयां कथाम् ।घ्रायं घ्रायमथो भवत्पदलसद्बिल्वीदलं कोमलं जातमुमेश जन्म सफलं प्राहुस्त्वदीया जनाः ॥१२॥स्कन्देश्वरमिति ख्यातं स्कन्देनापि सुपूजितम् । संपूजयित्वा तल्लिङ्गं केदारे दैत्यनाशिनीम् ॥१३॥मत्तः शक्तिं मुदा प्राप स्तुत्वा च परमेश्वरि ।स्कन्दः - कालकाल मुनिबालकपाल नीललोहित करे धृतशूल ।व्यालमालगलशोभिमहेश फाललोचन हराव मां सदा ॥१४॥गणेशेश्वरसंज्ञं च गजाननसुपूजितम् । लिङ्गमस्त्येकमीशानि केदारेश्वरपश्चिमे ॥१५॥स्वपुश्करोद्धृतैर्नीरैः स्वशुण्डावलयाहृतैः । बिल्वपत्रैः पङ्कजैश्च पूजयत्येव विघ्नराट् ॥१६॥मृदङ्गसदृशारावबृंहितैश्च स मां स्तुवन् ॥१७॥गणेशः - त्रियम्बकं त्वां सुभगं ( महेशं ) सुगन्धिं पुष्टिदायकम् ।मां मृत्युतो मोचयाशु उर्वारुकमिव बन्धनात् ॥१८॥त्वया संपूजितं लिङ्गं देवि गौरीश्वराभिधम् । तल्लिङ्गसङ्गिवातोऽपि मुक्त्यै देवि भविष्यति ॥१९॥कुण्डं चापि कृतं देवि गौरीकुण्डं च पप्रथे । केदारेशं च मां दृष्ट्वा पीत्वा तत्कुण्डजं पयः ॥२०॥स पुनः स्तन्यपयसा स्वोदरं नाभिषिंचति । त्वयात्र सखिभिः सार्धं त्वत्पितुः शिखरे शिवे ॥२१॥तपस्तप्तं महादेवि दुष्करं परमर्षिभिः । पत्प्राप्तयेऽत्र केदारे स्थाप्य गौरीश्वरं हरम् ॥२२॥स्थानासनाभ्यां नियतं यमेन नियमेन च । भस्मरुद्राक्षयुक्ताङ्गी त्रिपुण्ट्रावलिभासुरा ॥२३॥परित्यज्याङ्गभूषादि वल्कलाजिनधारिणी । पुष्पाण्याहृत्य पुण्यानि बिल्वपत्राणि शोभने ॥२४॥सुरभीणि मनोज्ञानि संपूज्याहर्निशं हि माम् । केदारे पावने लिङ्गे गौरीलिङ्गे तथाम्बिके ॥२५॥समर्चितस्त्वया देवि स्तुतोऽहं परमेश्वरि ॥२६॥पार्वती - शाङ्गं मङ्गलदं शुभाङ्गदलसद्भूभारसङ्गास्पदं दग्धानङ्गकृताङ्गसङ्गतमहोत्तुङ्गोत्तमाङ्गं हरम् ।अष्टाङ्गत्यक्तसङ्गं दहरभवनगं गन्धमाल्यार्चिताङ्गं लिङ्गस्थं त्यक्तलिङ्गं विमलमुनिमनःस्वान्तरङ्गं भजेऽहम् ॥२७॥गौरिलिङ्गमघराशिविभङ्गं दुःखलिङ्गगलितान्तरसङ्गम् ।तुङ्गपुण्यफलदं गतसङ्गं दृष्टमद्य वृषभाङ्गशुभाङ्गम् ॥२८॥विविधैरमितैश्च साधनैर्मघजालैर्गवाजिगोप्रदानैः ।स न लभ्येत महेश पादभक्तिं यदि न स्याच्छिवभक्तसङ्गिसङ्गः ॥२९॥ईश्वरः - त्वत्स्तुत्याऽहं परं प्रीतः भक्त्या त्वत्कृतया शिवे । लिङसंपूजनेनापि तुष्टः कष्टनिवारकः ॥३०॥तवेष्टदाननिपुणः कृपापूर्णेन चक्षुषा । समागतोऽहं कल्याणि शैवविप्रस्वरूपतः ॥३१॥लिङ्गामलजटामौलिः त्रिपुण्ट्रावलिभासुरः । रुद्राक्षमालाभरणः कृशो धमनिसन्ततः ॥३२॥दृष्ट्वा त्वं तापसं विप्रं समुत्थायार्घ्यपूजनैः । पूजयित्वा सुखप्रश्नैः फलकन्दनिवेदनैः ॥३३॥अपर्णे पर्णसंक्लृप्ते तार्णछदवराश्रमे । स्वच्छे निःश्रमनिस्तन्द्रे तुष्टस्त्वत्कृतपूजया ॥३४॥कुशबृस्यां सन्निविष्टः त्वन्मुखालोकसादरः कल्याणीं च सुखोदारां तां वाणीं मुक्तवत्यसि ॥३५॥पार्वती - कुतः समागतं विप्र देशः सुखियिता च कः । नानाद्रुमलताकीर्णे कण्टकावृतदुष्पथि ॥३६॥कथं समागतं ब्रह्मन् नाम गोत्रं च तेऽद्य किम् । तव सन्दर्शनाद्विप्र तपश्चीर्णं ममाधुना ॥३७॥दयया मां निरीक्षस्व ब्रूहि किं करवाण्यहम् ॥३८॥भस्माभ्यक्ततनुः सदाशिवकथापीयूषपानादरो रुद्राक्षाभरणः शिवैकशरणः पञ्चाक्षरावर्तकः ।पुण्ये यस्य गृहे फलादिभिरहो प्राज्याज्यसच्छर्करा - क्षीरापूपादिसूपैर्मधुरफलरसैः पूजितः शैववर्यः ॥३९॥तस्यास्य भागपरिकल्पितसाधुजिह्वास्वादास्पदीकृतसदन्नगणानि भुङ्क्ते ।तस्याखिलेष्टमपि विष्टपभोगमिष्टं तुष्टः प्रदास्यति हरो हरतीह कष्टम् ॥४०॥इत्थमूचुर्महाशैव फलं वै पूर्वसूरयः । तव संपूजनात् तुष्टः शिपिविष्टो न संशयः ॥४१॥इत्थं त्वद्वचनं श्रुत्वा विप्ररूपोऽहमम्बिके । त्वामवोचं रोषयितुं स्तुतिनिन्दाकरं वचः ॥४२॥विप्रः - बाला त्वं पर्वस्यास्य त्वयाद्य कुलमुद्धृतम् । शिरीषमृदुला तेऽद्य तनुः क्क नु तपः शुभे ॥४३॥भूषणादिप्रभाजालैः सुन्दराङ्गं तवामले । भस्मरुद्राक्षमालाभिः किं शोभां वहतेऽद्य हि ॥४४॥महार्हवाससा वीता वल्कलाजिनसंवृता । त्वया लीलाविलासेन खेलनीयं सखीगणैः ॥४५॥लिङ्गसंपूजनादस्माद्बाले त्वं विरमाधुना । विजने विपिने घोरे सिंहव्याघ्नगणाकुले ॥४६॥कथमेकाकिनीं हित्वा निद्राति स हि भूधरः । त्वन्माता वा तथा मेना बालां कुलवरीं सुताम् ॥४७॥त्यक्त्वाद्य क्क प्रयाता सा इत्यहो साहसं कृतम् ।किं त्वं प्रार्थयसे भीरु किं वाऽभीष्टं तु पश्यसि ॥४८॥तदेतत् साधयाम्यद्य पश्य मे तपसो बलम् । इति विप्रवचः श्रुत्वा सस्मिता विस्मिता ह्यसि ।ईषदुन्नम्य वदनं मां विलोक्याभ्यभाषथाः ॥४९॥पार्वती - किं ते व्यवसितं ब्रह्मन् त्वत्तपोव्ययसाधना । नाहं तप्स्ये यथाकामं गच्छ वा तिष्ठ वा द्विज ॥५०॥संपूज्य पशुभर्तारं तस्मादिष्टं वृणोम्यहम् । विप्रस्त्वामाह सुप्रीतस्तदा वै भीषयन् शिवे ॥५१॥विप्रः - मुदुक्तं तत् बाले पशुभर्ता महेश्वरः । तवेष्टदाननिपुणः स कथं पर्वतात्मजे ॥५२॥उन्मत्तोपि कृतो मुण्डः कपाली भस्मभूषितः । इत्थं मन्निन्दनं श्रुत्वा सरोषा त्वं महेश्वरि ॥५३॥गच्छ गच्छेति तं विप्रं निराकृत्योटजं गता ॥५४॥पार्वती - कोऽप्यं विप्रो दैत्यरूपः शिवनिन्दापरायणः । हा कष्टं सखि यन्मेऽद्य श्रोते निन्दाश्रवं गते ॥५५॥किं पताम्यद्य शिखरादस्मान्मम पितुः सखि । शिवनिन्दाश्रुतौ प्रोक्ता निष्कृतिर्मरणं खलु ॥५६॥एवं दक्षसुताहं तु श्रुत्वा निन्दां महेशितुः । दक्षाददक्षतः साक्षात् शिक्षिता सा तनूर्मम ॥५७॥इति सा निश्चयं कृत्वा त्यक्तुमैच्छत् तनुं तदा । एतस्मिन्नन्तरे देवि त्यक्तं विप्रस्य तद्वपुः ॥५८॥त्रिलोचनमुदाराङ्गं नीलग्रीवं त्रिलोचनम् ।गौरीलिङ्गात् समुद्भूतं मां दृष्ट्वा हर्षमागता ॥५९॥प्रणम्य मां भक्तियुक्ता सखीभिः कमलानने । अस्तौषीस्त्वं तदा देवि भक्तियुक्तेन चेतसा ॥६०॥गौरी - देवस्त्वं सहमान एव भगवन् भक्तेषु पापेष्वपि पापानां गणनापि नो मम विभो तस्मात्सहस्वाधुना ।नाभ्यार्चं भगवत्पदाम्बुजमहो दृष्टं न लिङ्गं मया सद्ज्ञानास्तव ये महेश्वर सदा तैः सङ्गतिर्नो कृता ॥६१॥यस्त्वां जिव्हधिया महेशममराधीशं न चाभ्यर्चयेत् तं त्वं वञ्चयसे महाभवशतैः पापैश्च तापैरपि ।तस्मात् त्वं परिवञ्चकोऽसि भगवन् यो बिल्वपत्रैर्मुदा त्वल्लिङ्गं सकृदर्चयेद्धि स भवेन्मुक्त्यङ्गनाकामुकः ॥६२॥इति मां त्वं तदाऽस्तौषीर्भक्त्याच विनयेन च । तव पाणिग्रहं कृत्वा तुष्टोऽस्मि गिरिकन्यके ॥६३॥त्वया संपूजिते लिङ्गे गौरीशे संवसाम्यहम् । गौरीलिङ्गे सकृद्दृष्टे तज्जन्म सफलं भवेत् ॥६४॥केदारेशस्य दिग्भागे दक्षिणे सरसस्तटे । दृष्ट्वा गौरीश्वरं लिङ्गं गौरीलोके वसेच्चिरम् ॥६५॥नन्दीश्वरस्तथा प्राच्यामास्तेऽभीष्टफलप्रदः । तत्र तप्त्वा तपो नन्दी गानपत्यमवाप्तवान् ॥६६॥पश्चिमे गणनाथेशो गणबृन्दैश्च पूजितः । गौरीश्वरो दक्षिणतस्त्वया देवि समर्चितः ॥६७॥स्कन्देश्वरस्तथोदीच्यां स्कन्देनैव सुपूजितः । मध्ये केदारनाथस्य लिङ्गं श्रेष्ठं तु मे सदा ॥६८॥हिमवच्छिखरे देवि दृष्ट्वा नत्वा च भक्तितः । गौरीसरसि मज्जन्म सर्वतीर्थजलप्लुतः ॥६९॥केदारेश्वरमाराध्य को न मुच्येत बन्धनात् । केदारलिङ्गसदृशं न भूतं न भविष्यति ॥७०॥सकृत् संपूज्य लभते मुक्तिमन्ते गिरीन्द्रजे । हिमवच्छिखरे देवि पश्यन् केदारमीश्वरम् ॥७१॥अश्वमेधशतेभ्योऽपि फलं लब्ध्वा विमुच्यते ॥७२॥ईश्वरः - यो मामनन्यगतया शिवभावभक्त्या केदारमीश्वरमहाघसमुद्रसेतुम् ।संस्तभ्य चित्तमुमया समुपेतमीशमाशास्य मारजनकादिसुपूजिताङ्घ्रिम् ॥७३॥धिल्वीदलैश्च कमलैश्च सदा हि भक्त्या नीलोत्पलैश्च कुमुद्दैर्गिरिजे स मुक्तः ।संपूजयेदघयुतोऽपि महाघमुक्तो भुक्त्वा भवेन्मम कृपावशतोऽतिधत्यः ॥७४॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे केदारेश्वरलिङ्गावलिमहिमवर्णनं नाम त्रयोदशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP