संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| अष्टमोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - अष्टमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टमोऽध्यायः Translation - भाषांतर सूतः - इत्थं गीर्वाणवाणीं तां श्रुत्वा वाणिशसंस्तुतः । उवाच हर्षयन् देवान् शङ्करो लोकशङ्करः ॥१॥ईश्वरः - स्तुत्याऽनयाद्य सुप्रीतो भवतां सुरसत्तमाः । ईप्सितं वो वदन्त्वाशु तद्दास्याम्यहमेव हि ॥२॥सदाशिववचः श्रुत्वा प्रणम्येन्द्रमुखाः सुराः । इदमूचुर्वचो हृष्टा विनयावनताननाः ॥३॥देवाः - भगवन् शङ्खनामाऽद्य दैत्योऽस्मान् बाधतेऽनिशम् ।त्रिविष्टपात् च्याविताः स्मो जीवामः कष्टजीवनैः ॥४॥ब्रह्मणः प्रसभं हित्वा वेदान् साङ्गान् महेश्वरः ।त्वयोपदिष्टान् विश्वेश स शान्ति भुवनत्रयम् ॥५॥ निःस्वाध्यायवषट्कारो लोकः संप्राति वर्तते । यज्ञभागविहीनाः स्मो हृतस्वर्गा हृतौजसः ॥६॥शरणं त्वां प्रपन्नाः स्मः पाहि नः शरणागतान् । पुनः प्रणम्य विश्वेशं भक्त्या तुष्टुवुरीश्वरम् ॥७॥देवाः - जगदुद्भवनाशसंस्थितिप्रलयापारगभीरसागरम् ।भगवंस्तव भक्तिभावना परपारं समुतर्तुx (?) मिच्छवः ॥८॥कनिष्ठं वरिष्ठं तथा ज्येष्ठमीशं गरिष्ठं वसिष्ठादिसंपूजिताङ्घ्रिम् । विशिष्टं सुराणां विशिष्टेषु पूज्यं नताः स्मो नताः स्मो नताः स्मो नताः स्मः ॥९॥सूतः - देवान् संपीडितान् ज्ञात्वा सस्मार गणनायकम् । नन्दिनं नन्दितानेकविबुधव्रजसंस्तुतम् ॥१०॥स्म्रुतमात्रः शिवेनात्र प्रणतः संस्थितः पुरः बद्धाञलिकरस्तूर्णं किं करोमीति शङ्करम् ॥११॥सम्यक् तुष्टाव हृष्टात्मा नन्दीशो गणपाग्रणीः ॥नन्दिकेशः - शम्भो चन्द्रललाम सोम भगवन् विश्वेश विश्वाधिक ब्रध्नेन्दुस्फुरदाश्रयाशनयनापारव्यथां संहर ।श्रीमृत्युञ्जय वेदवेद्य भवतः पादारविन्दं सदा ध्यायं ध्यायमघं हरामि सततं त्वल्लिङ्गसंपूजनात् ॥१२॥पायं ज्ञानमपायपानरहितो ध्यायं त्वदीयं पदं हायं दुःखमशेषसंसृतिभवं त्वद्भक्तसंसेवनात् ।त्वत्तोऽन्यामरपूजनं च भगवन् नायं ह्युपायक्रमः कायं प्रपय विमुक्तये हि ययते भूयस्त्वया प्रेरितः ॥१३॥नन्दिकेशमहास्तुत्या नन्दितः प्राह तं शिवः । महानन्दघनः शम्भुर्नन्दितो लिङ्गदर्शनात् ॥१४॥ईश्वरः - गणेन्द्र शाङ्करश्रेष्ठ गणेशैः परिवारितः । गच्छ वैकुण्ठभुवनं समानय हरिं द्रुतम् ॥१५॥देवानां कार्यसिद्ध्यर्थमाशु त्वं सुयशापते । तथेति नत्वा देवेशमोङ्कारकृतकेतनम् ॥१६॥ययौ दुतं विमानेन गणेन्द्रैः संस्तुतस्तदा । भस्मोद्धूलितसर्वाङ्गः शाङ्गलिङ्गार्चने रतः ॥१७॥नन्दी स नन्दयन् लोकान् जगामादौ त्रिविष्टपम् ।महेन्द्रेण गणेन्द्रोपि पूजितो भोजितस्तदा ॥१८॥दृष्ट्वा चानामयं शक्रं शिवपादाम्बुजार्चकम् । पप्रच्छ नन्दिकेशस्तं बृहस्पतिमते स्थितम् ॥१९॥नन्दिकेशः - त्रिविष्टपं सुखं प्रपय शिपिविष्टार्चने रतः । दुरदृष्टविनाशाय प्रकृष्टं शरणं गतः ॥२०॥नन्दिकेशवचः श्रुत्वा महेन्द्रः प्राह साञ्जलिः ॥२१॥शक्रः - शङ्खासुरेण देवानां महद्भयमुपस्थितम् । नन्दिन् अप्सरसां पूर्वं रम्भासंभोगकामिनाम् ॥२२॥चन्दनाङ्गेन च मया नन्दनादिसमावृतः । सुखतल्पगतश्चाहं मारसायकगोचरः ॥२३॥नाभ्यर्च्यं भगवत्पदाम्बुजमहो पुण्यप्रदोषेष्वहं लिङ्गं पुण्यपवित्रशितलमहाकर्पूरनीरैस्तदा ।प्राज्यैर्मंध्वाज्यदुग्धैर्वरदधिसितया चन्दनाद्यैश्च हृद्यैः नैवेद्यैर्बहुबिल्वपल्लवसुमैस्तेनेदृशी दुर्गतिः ॥२४॥संप्राप्तोऽस्मि सुरासुरैश्च विहिते नैवाभवन्मे जयो युद्धे शौण्डसुदृप्तशङ्खसचिवैः सन्ताडितो मद्गरैः ।देवैर्वाहनभूषणादिरहितैर्नष्टं सदा विष्टपं कष्टं प्राप्तमहो गणेन्द्र भगवत्पादार्चनाहीनतः ॥२५॥दुःखमिन्द्रस्य तत् श्रुत्वा नन्दिकेशोऽमराधिपम् । प्राह तं विनयोपेतं प्रदोषार्चनवैभवम् ॥२६॥नन्दिकेशः - दारिद्र्यार्णवमध्यगस्त्वनुदिनं पुण्यप्रदोषे शिवं संपूज्यामलबिल्वपल्लवलवैर्नीरैः फलैर्वा हरे ।संप्राप्य प्रमथाधिनाथपदवीं भूमौ परं जायते दृप्तोतुङ्गतुरङ्गदन्तिनिवहैर्भूमण्डलेशो नृपः ॥२७॥अतः परं भूतिविभूषणस्त्वं लिङ्गं समभ्यर्च्य सुरैः समेतः ।पुण्यप्रदोषेषु जयाय वज्रिन् प्राप्नोषि भाग्यान्यमितानि तानि ॥२८॥इत्युक्त्वा नन्दिकेशस्तमनुज्ञाप्य गणैर्वृतः । विमानेनार्कवर्णेन ब्रह्मधाम समाययौ ॥२९॥ब्रह्मणा पूजितस्तत्र निषण्णः परमासने । उवाच देवं ब्रह्माणं नन्दिकेशो गणाग्रणीः ॥३०॥नन्दिकेशः - पद्मासन कथं चित्तमधुना भवतः सदा । देवानां कार्यसिद्ध्यर्थं स्मारितः शङ्करेण हि ॥३१॥विष्णुरोजिष्णुरत्यर्थं तस्माद्गच्छामि वेगतः । दीनोऽसि नितरां ब्रह्मन् सृष्टिव्यापारवर्जितः ॥३२॥सदस्यैश्चापि खिन्नैश्च यथापूर्वं न ते सभा । इति पृष्टो गणेशेन उवाच चतुराननः ॥३३॥ब्रह्मा - पूर्वं तपस्यया लब्धा मया वेदाः प्रसादतः । महादेवस्य वैं नन्दिन् पूर्वमीशानवक्त्रतः ॥३४॥यो वेदादिः स्वरः शंभुः वेदान्तमहिमा शिवः ।मान्द्यान्मदाच्च तत्पूजा मया त्यक्ता दुरात्मना ॥३५॥शङ्खासुरेण मे वेदा हृता नष्टा स्मृतिस्तदा ।इतिकर्तव्यतामूढश्चिन्तया संस्थितोऽस्म्यहम् ॥३६॥शाङ्गाङ्गसङ्गतश्चाद्य शैलादे मेऽभवनमतिः । महादेवमहालिङ्गपूजाध्यानार्चनादिषु ॥३७॥विस्मयं परमं गत्वा श्रुत्वा च ब्रह्मणो वचः । उवाच पद्मजं नन्दी ससदस्यं प्रहृष्टवत् ॥३८॥नन्दिकेशः - भवान् लोकनियन्ता हि कथं त्वां मोह आविशत ।महान्तोऽपि विमुह्यन्ति कालकालकृपोज्झिताः ॥३९॥धन्यानां परमिन्दुचूडचरणांभोजार्चने जायते श्रीरुद्राक्षविभूषणे सितलसद्भस्मत्रिपुण्ट्रे सदा ।रुद्रावर्तनपञ्चपातकहरे पञ्चाक्षरे मुक्तिदे सायं बिल्वदलैश्च पूजनमतिः पुण्यैः परं जायते ॥४०॥यो वा प्रदोषसमये शिवलिङ्गपूजां कर्तुं यतेत विभविरभिइषेचनीयैः ।तं तावदन्तकरिपुं प्रमथाधिनाथं देवाः स्तुवन्ति प्रणमन्ति तदङ्घ्रियुग्मम् ॥४१॥न जानन्ति गौरीसहायोरुगायं महायोगसंसिद्धकायं सखायम् । कर्पूरखण्डसमताकृतिशोभिकायं वन्दे महेश्वरमहं तमुमासहायम् ॥४२॥ब्रह्माणं समनुज्ञाप्य ययौ श्रीनन्दिकेश्वरः । ततो गणेश्वरैर्युक्तो वैकुण्ठं भवनं ययौ ॥४३॥विष्वक्सेनादिभिस्तत्र वैष्णवैंः शोभितैर्गणैः । स तैर्निवेदितो विष्णुः सार्घ्यहस्तस्तदुन्मुखः ॥४४॥समाययु बहिर्द्रष्टुं नन्दीश्वरमुखान् गणान् । ददर्श च विमानाग्रे स्थितं नन्दीश्वरं गणैः ॥४५॥शैलादिं तमुदाराङ्गं द्वितीयमिव शङ्करम् ॥विजितविपिनवातपोतपूतान् गगनाभोगविचारचारुसिद्धान् ।भवदरुणनखप्रभाभिदीप्तान् शिवभक्तान् ददृशे स वासुदेवः ॥४६॥प्रणम्य कुशलप्रश्नैः पूजयामास नन्दिनम् । भोजयामास शुद्धान्नैः महेश्वरनिवेदितैः ॥४७॥समभ्यर्च्य महालिङ्गं इन्द्रनीलमयं हरिः । बिल्वपत्रैर्धूपदीपैर्नन्दिकेशेन संयुताः ॥४८॥गणाश्चक्रुर्लिङ्गपूजां स्वेषु लिङ्गेषु सत्तमाः । बुभुजुस्ते परं हृष्टाः विष्णुना गणपास्तदा ॥४९॥सोत्साहं नन्दिनं विष्णुः सोपचारमथाब्रवीत् । गन्धधूपादिभिः पुष्पैर्वस्त्रैराभरणैस्तदा ॥५०॥विष्णुः - भवद्भद्रसन्दर्शनं जातमद्य फलं प्रपतमक्ष्णोर्महाघप्रणाशः ।महाशैवसङ्गैन शङ्गः प्रसन्नो भवत्येव मह्यं नमस्ते गणेश ॥५१॥किमानगमकृत्यं ते नन्दिकेशाशु संवद । भवदागमने हेतुस्तत्तुष्ट्यै कारणं भवेत् ॥५२॥अनङ्गरिपुअरत्यर्थं मयि तुष्टो न संशयः । तत्कृपापात्रभूतस्य मम श्रीः सुयशापते ॥५३॥मद्गृहे मङ्गलान्येव भवन्त्येव पदे पदे । चञ्चलापि सदा लक्ष्मीः स्थिरा मयि शिवार्चनात् ॥५४॥नन्दिकेशस्तमाहेदं श्रुत्वा तद्वैष्णवं वचः ।नन्दिकेशः - रमापते महेशस्य कृपा पूर्णा त्वयि स्थिरा । शिवाज्ञापालकोऽसि त्वं यतः शिवपदाश्रयः ॥५५॥शिवलिङ्गार्चनपरो भस्मरुद्राक्षमण्डितः । रुद्राक्षधारकोऽसि त्वं पञ्चाक्षरपरायणः ॥५६॥नीलतोयदमध्यस्थविद्युल्लेखेव भासुरा । त्रिपुण्ट्ररेखा देहे ते भाति पापविनाशिनी ॥५७॥त्वयि प्रीतो महादेवो जगतां पालने रत । देवानां कार्यसिद्ध्यर्थं आजुहावामरोत्तमः ॥५८॥निर्याहि देवदेवेशं दुष्टुं तं शशिशेखरम् । शैलादिनो वचः श्रुत्वा समारुह्य खगाधिपम् ॥५९॥नन्दिना स जगामाथ द्रष्टुं देवं पिनाकिनम् । अवतीर्य खगाद्विष्णुर्विमानाच्च गणेश्वरः ॥६०॥स्नात्वाऽथ नर्मदातोये भस्मरुद्राक्षभूषणाः । दृष्ट्वोंकारमहालिङ्ग्मष्टाङ्गस्पृष्टभूतलाः ॥६१॥प्रणेमुः प्रमथाधीशं तुष्टुवुश्च मुहुस्तदा ॥६२॥गणेश्वराः - मयस्कर महेश्वर प्रबलपापतापं हर गदादर गिरीन्द्रजाकुचगिरौ विहारादर ।गदाधरमुखामरप्रवरधीरवीरेश्वर प्रसीद परमेश्वर जनिजरादिमृत्युं हर ॥६३॥समागतोऽयं विश्वेश विष्णुर्विश्वैकपालकः । देवानां कार्यसिद्ध्यर्थमाज्ञापय महेश्वर ॥६४॥नन्दिकेशगणानां च श्रुत्वा वाक्यं महेश्वरः । सुधार्द्रकरुणादृष्ट्या फालाक्षो विष्णुमैक्षत ॥६५॥तदाऽनङ्गहरापाङ्गसङ्गानन्दाङ्गसङ्गकः । तुष्टाव प्रणतः शम्भुमोङ्कारेशं महेश्वरम् ॥६६॥विष्णुः - अपर्णानाथं त्वां शरणद सुराणामभयदं सुपर्णाधीशाद्यैः सुरगणगणेन्द्रैर्नतपदम् ।गरं गीर्णं कण्ठे भवहर महत्यर्णवगतं परं शम्भो तूर्णं भवभयहराभ्यर्णगतिकम् ॥६७॥मारमार सुकुमार पितस्त्वं वारयाशु भवजालकपाशम् ।पाहि पाहि परमेश ममाघं नाशयाशु दुरदृष्टकष्टजम् ॥६८॥नन्दिविष्णुप्रभृतिभिः संस्तुतः परमेश्वरः । प्राह प्रगल्भया वाचा तं मुरारिं पुरौघभित् ॥६९॥ईश्वरः -शङ्खाद्या दितिजा विष्णो हृत्वा वेदगणान् सुरान् । बाधन्ते सततं दैत्या अर्णवान्तर्जलेशयाः ॥७०॥मत्तेजसा पूरितस्त्वं याहि युद्धाय वै हरे । जयस्ते भविता नूनं मयि वेदानधाः पुx ॥७१॥मात्स्यं कृत्वा महदूपमर्णवान्तर्जलेशयः । दशवर्णसहस्त्राणि शतयोजनमुन्नतः ॥७२॥भविष्ये चाक्षुषे विष्णो मनौ कालान्तरे पुनः । हिरण्याक्षो हि भविता स एव कशिपुः पुनः ॥७३॥भविता दितिजेन्द्राद्यः शक्रं वा च्यावयिष्यति । स्थानात् सुरगणैः सार्धं तस्य युद्धं भविष्यति ॥७४॥भूत्वा यज्ञवराहस्त्वं हिरण्याक्षं हनिष्यसि । हिरण्यकशिपुं चापि मृगेन्द्रार्धशरीरभाक् ॥७५॥भूत्वा खरोग्रनखरैर्नखैस्तं दारयिष्यसि । दितिजाङ्गमहासङ्गविसंज्ञस्त्वं भविष्यसि ॥७६॥तद्रक्तपानमत्तस्त्वं जगत् संशोषयिष्यसि । तदा हरे जगद्रक्षाशिक्षार्थं त्वां सुरोत्तम ॥७७॥मत्स्यवाराहसिंहार्धशरीरं संहाराम्यहम् । त्वद्दंष्ट्रां धारयिष्यामि सिंहचर्माम्बरं पुनः ॥७८॥शारभं रूपमास्थाय तवोन्मादनिवृत्तये । मत्पादपूजकेनाद्य भृगुणा शापितो ह्यसि ॥७९॥तत्पत्नीनाशदुःखेन तस्यान्तस्ते भविष्यति । इत्थं शम्भोर्वचः श्रुत्वा विष्णुर्नत्वा महेश्वरम् ॥८०॥जगामार्णवमुद्दिश्य देवसङ्घैरभिष्टुतः ॥८१॥अर्णवगतदैत्यजातभीत्या फलपर्णाशनिनोऽभवन् सुधान्धसः ।उत्कृष्टार्तिहरं भजन्ति तूर्णं तमपर्णापतिमेकमीशमाद्यम् ॥८२॥मात्स्यं कृत्वा महारूपं स्फुलिङ्गोत्तमलोचनः । दशयोजनमौन्नत्यं शतयोजनमायतम् ॥८३॥दंष्ट्राकरालपुच्छाग्रविघट्टितमागिरिम् । तरङ्गोत्थमहावातघोरारावकृतार्णवम् ॥८४॥फेनडिण्डिमसंराजत्तरङ्गास्फालघट्टितम् । तेनासुरेण महता तथान्यैर्दानवोत्तमैः ॥८५॥दशवर्षसहस्राणि युद्धमुत्तममातनोत् । वक्रपुच्छाग्रनिर्घातैः दंष्ट्राघातैस्तदासुरान् ॥८६॥हत्वा शङ्खं महादैत्यं देवसङ्घैरभिष्टुतः । जगामादाय तान् वेदान् शिवतेजोपबृंहितः ॥८७॥तच्छरीरं महामात्स्यं कैरातवपुषा हरः । विसंज्ञं पातयामास तद्गर्वविनिवृत्तये ॥८८॥मत्स्याघातमभूत् तीर्थं पश्चिमाम्भोधिमध्यगम् । तत्र स्नात्वाऽथ सन्तर्प्य पितॄन् पूयेत मानवः ॥८९॥ददौ वेदान् महेशाय वेदवेद्याय वै हरिः । प्रणम्य देवं देवेशं जगाम स्वं निकेतनम् ॥९०॥ओङ्कारेश्वरलिङ्गमध्यविलसद्वेदांस्तदा ते सुरा दृष्ट्वा चोंकृतिमात्ररूपमनिशं सर्वे तदा विस्मिताः ।स्तुत्वा स्तव्यमपारवेदशिखरैरुद्बुद्धवोधप्रदं तं सांबं म्हुहुराद्यहृद्यवचसा धम स्वकं ते ययुः ॥९१॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ओङ्कारेश्वरमाहात्म्यवर्णनं नाम अष्टमोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP