TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
षट्त्रिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - षट्त्रिंशोऽध्यायः

श्रीशिवरहस्यम्


षट्त्रिंशोऽध्यायः
ईश्वरः -
भीमेश्वरं महादेवि स्थानं भीमरथीतटे । यत्र कालो मया जीर्णः क्षेत्रं कालञ्जरं हि तत् ॥१॥
भीमेश्वरं महालिङ्गं तत्रास्त्येकं वरानने । तत्र शैवाश्च देवेशि वसन्ति भसितोज्ज्वलाः ॥२॥
भवभावनया त्यक्तभवभावाश्च ते सदा । भीमेश्वरं बिल्वदलैर्मामभ्यर्च्य वसन्ति ते ॥३॥
तत्र विष्णुः समभ्यर्च्य भीमेशं बिल्वपल्लवैः । निधनेत्यादिभिर्मन्त्रैर्नैवेद्यैर्विविधैरपि ॥४॥
तुष्टाव प्रणतो लिङ्गं दर्शनादिष्टकामदम् । तत्र लक्ष्म्या विष्णुसवं यज्ञं तत्राहरद्धरिः ॥५॥
भीमारथ्यां तदा स्नात्वा तस्मिन्नवभृथे शिवे ।
हरिः -
शम्भो त्वं मरुतां पिता त्रिजगतामाराध्य ईशो हर
ते सोभो नमसातिभिक्ष्महि विभो रुद्र क्षयद्वैरिणम् ।
शम्भो सोमभिमं पिब त्वमधुना गौरो यथा तर्षितः
त्वत्तृष्त्या जगदेतदद्य भगवन इन्द्रादिभिस्तृप्यते ॥७॥
इन्द्रस्यात्मा परमस्त्वं महेशः यज्ञस्यात्मा दक्षिणा तेऽद्य पत्नी ।
सहैव त्वा सन्तं न विदन्ति देवाः सर्वात्मा त्वं सर्वगतश्च नित्यः ॥८॥
इत्थं भीमेश्वरं स्तुत्वा विष्णुर्नत्वा पुनर्हि माम् । अयाचत् वरं मत्तस्त्वत्समीपे वसाम्यहम् ॥९॥
सुरासुरैरहं युद्धे श्रान्तोऽस्मि परमेश्वर । त्वया सह वसाम्यद्य भीमरथ्यास्तु दक्षिणे ॥१०॥
कुणिकुम्भात् प्रतीच्यां हि स्नात्वा कालञ्जरे हरिः । प्रभाते स सदा देवि मल्लिङ्गं शिरसा दधत् ॥११॥
इति स्तुत्वा तदा देवि गच्छेत्यभिहितो मया । तत्रावसत् स मल्लिङ्गं दधन्मूर्ध्ना हरिस्तदा ॥१२॥
उवास दक्षिणे तीरे भीमरथ्यास्तदाम्बिके । तत् पाण्डुरङ्गक्षेत्रं हि विष्णोः प्रियकरं सदा ॥१३॥
देवी -
कुत्र कालस्त्वया जीर्णः किमर्थ वद मे शिव । कुणिकुम्भमिति क्षेत्रं किं तत् क्षेत्रं वद शिव ॥१४॥
सूतः -
तदा देवीं महादेवः तत्क्षेत्रस्य च वैभवम् । कथयामास विप्रेन्द्राः गौरीं प्रति महेश्वरः ॥१५॥
ईश्वरः -
पश्चिमांभोनिधेस्तीरे कुणीकुम्भं महेश्वरम् । समभ्यर्च्यैव नियतं कुणिर्नाम महामुनिः ॥१६॥
उवास तस्य नाम्नैव क्षेत्रं तत् प्रथमं शिवे । स मां तुष्टाव हृष्टात्मा कुणिकुम्भेश्वरं हि माम् ॥१७॥
कुणिः -
विश्वनाथ मम नाथ सुनाथ घोरसंसृतिभयं प्रममाथ ।
स्वर्गपान्थकृतपाथ सुनीथ पाहि मां सुरगणाधिपनाथ ॥१८॥
तत्स्तुत्या तस्य नान्माहमभवं गिरिजे तदा । श्वेतो नामाभवद्राजा कालमृत्युप्रपीडिताः ॥१९॥
मृत्युञ्जयं मामाराध्य तत्र काले महेश्वरम् । रुद्रमन्त्रैः समभ्यर्च्य बिल्वपत्रैर्मनोरमैः ॥२०॥
तुष्टाव भक्तिमान् राजा तस्य मृत्युं हराम्यहम् ॥
श्वेतः -
मृत्युञ्जय महादेव जगदीश्वर शङ्कर । मृत्युग्रस्तं मोचयाशु त्रियम्बक नमोऽस्तु ते ॥२१॥
देवदत्तकृतनेत्र सुमित्रीभूत यक्षसख दक्षसुशिक्ष ।
पक्षिवाहनुत पूज्यपदाब्ज ध्वस्तपूष भगनेत्र पाहि माम् ॥२२॥
तत्स्तुत्याऽहं तदा कालो विगीर्णः परमेश्वरि । कालञ्जरमभूत् क्षेत्रं ततः प्रभृति शङ्करि ॥२३॥
भीमेश्वरं मां दृष्ट्वैव भीमपापैः प्रमुच्यते । अत्रेतिहासं ते वक्ष्ये श्रृणुष्वावहिता मम ॥२४॥
वने गोपालकोऽसीत्स नाम्ना गोनन्दकः पुरा । सितासितास्तथा कृष्णाश्चित्राः कल्माषकापिलाः ॥२५॥
तस्यासन् विविधा गावः सवत्साजाविका गणाः । महिषीणां गणास्तस्य बह्वासन् गोपसंकुलाः ॥२६॥
स गोरसैः श्रीभीमेशमभिषिञ्चति नित्यशः । दधिखण्डैश्च सघृतिअर्धूपैर्दीपैस्तथाम्बिके ॥२७॥
पयसां स घटैरीशं स्नापयत्यनिश मुदा । तस्य गोगणमध्यस्था नन्दिनीनामविश्रुता ॥२८॥
बालवत्सा तथा सा गौः हुंभारावैर्गता वनम् । गोभिर्गोपसुतैर्याता वनं हरितशाद्वलम् ॥२९॥
भीमरथ्यास्तदा तीरे चरन्ती सा ददर्श माम् । तस्यास्तद्धृदयं ज्ञातुं शार्दूलो‍ऽहं तदाम्बिके ॥३०॥
करालैर्विकटैर्दन्तैर्भीषणैर्भीषणाकृतिः । मां दृष्ट्वा दुदुवुर्गोपाः गावो वत्सा वनाद्वनम् ॥३१॥
तन्ममाक्रन्दितं श्रुत्वा गावो गर्भान् विसुस्नुवुः । वितन्य लोचने श्रोत्रे पुच्छं धुन्वन्त्यगादियम् (?) ॥३२॥
नन्दिनी नाम गोरत्नं मां प्रणम्याह सादरम् ॥
नन्दिनी -
अहो व्याघ्र महाभाग किं ते कार्यं मयोद्यतम् । तद्विधेहि महाव्याघ्र शरीरं ते ददाम्यहम् ॥३३॥
किन्त्वेकं वचनं मेऽद्य मृगेन्द्र श्रृणु सत्यतः । बालो मे तर्णकोऽत्यन्तं पाययित्वा च तं पुनः ॥३४॥
दृष्ट्वा सखीगणं सर्वं गोपान् गोपीश्च मातरम् । जीर्णशृङ्गद्विजाऽत्तुं सा घासं चापि नहि क्षमा ॥३५॥
इत्युक्तं नन्दिनीवाक्यं श्रुत्वा व्याघ्रोऽहमम्बिके । तामवोचं क्षुधाविष्टस्तदानीं तां पयस्विनीम् ॥३६॥
व्याघ्रः -
क्षुत्क्षामोऽहं जरव्याप्तः शुष्ककण्ठोऽस्मि नन्दिनि । पिपाआ बाधते मां हि तृप्तस्त्वद्रक्तपानतः ॥३७॥
यद्यागमिष्यसि पुनः शपथान् दातुमर्हसि । सा नन्दिनी तथा व्याघ्रवचः श्रुत्वा तदाम्बिके ॥
शपथैर्मां महाव्याघ्रं शापयामास पादयोः ॥३८॥
नन्दिनी -
तर्णकं पाययित्वाऽहं दृष्ट्वा सख्यश्च मातरम् । नागमिष्ये यदि व्याघ्र भीमेशाग्रे शपाम्यहम् ॥३९॥
बालवत्सां तु यो गां वै समग्रां दोग्धुमिच्छति । तत्पापं मे भवेव्द्याघ्र यद्यहं नामगे पुनः ॥४०॥
अरक्षिता च यो राजा बलिषङ्भागहार्यपि । तत्पापं मे भवेव्द्याघ्र यद्यहं नागमे पुनः ॥४१॥
वेदाध्ययनहीनश्च सन्ध्याहीनश्च यो द्विजः । तत्पापं .....  ...... पुनः ॥४२॥
पतिव्रता पतिं त्यक्त्वा या चान्यं कुरुते पतिम् । तत्पापं ......  .... पुनः ॥४३॥
शिवार्चनादिहीनो यो भवेदुद्राक्षवर्जितः । तत्पापं .....  ...... पुनः ॥४४॥
रुद्राध्यायविहीनो यः पञ्चाक्षरविवर्जितः । तत्पापं .....  ...... पुनः ॥४५॥
अन्यदेवसमं एश्यन् महेशं यश्च निन्दति ।तत्पापं .....  ...... पुनः ॥४६॥
सोमवारे प्रदोषे च चतुर्दश्यष्टमीषु च । दिवा भुङ्क्ते च यो मोहात् शिवलिङ्गार्चनोज्झितः
तत्पापं .....  ...... पुनः ॥४७॥
ऊर्ध्वपुण्ट्राङ्कितो यश्च चक्राङ्को मृद्धिरेव च । तत्पापं .....  ...... पुनः ॥४८॥
एवं सा नन्दिनी शापानुक्त्वा वत्सं सखीं ययौ ।
सा पाययित्वा वत्सं स्वमापृच्छ्य च सखीजनम् ॥४९॥
मातरं तां समालिङ्ग्य ययौ सा हृष्टमानसा । तां वत्ससहितां व्याघो ददर्शागच्छतीं तदा ॥५०॥
व्याघ्रं प्रणम्य स तस्थौ विनयावनतानना । प्राह व्याघ्र तदा देवी नन्दिनी विश्वनन्दिनी ॥५१॥
नन्दिनी -
यथेष्टं मां महाभाग खाद त्वं रुधिरं पिब । भीमेश्वरो मे तुष्टः स्यात् प्राणदानान्महेश्वरः ॥५२॥
एतस्मिन्नन्तरे वत्सो व्याघ्रं प्राह महाबलम् ।
वत्सः -
मुञ्च मन्मातरं व्याघ्र भक्षाद्य पललं मम । कोमलं तव तृप्तिश्च भविष्यति न संशयः ॥५३॥
व्याघ्रस्तर्णकवाक्येन नन्दिन्याः सत्यवाक्यतः । हर्षवर्षेण महता स्वरूपं परमास्थितः ॥५४॥
त्रिनेत्रो नीलकण्ठश्च महोक्षवरवाहनः । सवत्सा नन्दिनी पादौ मदीयौ प्रणता तदा ॥५५॥
तुष्टाव मां तदा शम्भुं वरं दातुं समुद्यतम् ॥५६॥
नन्दिनी -
देवस्त्वं नमसां पतिः पशुपतिश्चोमापतिर्विट्पतिः
पत्तीनां च पतिर्वनस्य च पतिस्त्वं वै दिशानां पतिः ।
लुंचानां च पतिः सदोगणपतिस्त्वं वै हिरण्यपतिः
अश्वानां च पतिः सभापतिरसि गृहस्य व्रातेः (?) पतिः ॥५७॥
सेनायाश्च पतिस्त्वदीयशरणं प्राप्ता पशुत्वं हर ॥५८॥
इत्थं सा नन्दिनी प्राह तां पशुत्वादमोचयम् । मत्सारूप्यं तदा दत्तं तत्स्तुत्या तोषितोऽ‍म्बिके ॥५९॥
इदं ते भीमनाथस्य चरितं कथितं मया । श्रुत्वा सत्यपरो देवि नानृतो भविता वरः ॥६०॥
सत्येन लोकान् जयति सत्येन तपते रविः । सत्येन संस्थिता पृथ्वी सत्ये सर्वं प्रतिष्ठितम् ॥६१॥
पशुपतिमथ मां प्रणम्य सा गौः गहनतरं विजहौ भवोग्रबन्धम् ।
मुरहरविधिदेववन्द्यमौलिं सुरवरमम्बिकया नतोऽस्मि (?) भीमम् ॥६२॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे कालञ्जरक्षेत्र - भीमेश्वरमाहात्म्ये नन्दिनीगोसारूप्यदानवर्णनं नाम षट्त्रिंशोऽ‍ध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-04-14T03:27:10.4230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hibernal aspect

  • शिशिर दृश्य, शिशिर प्रभाव 
  • हिवाळ्यात आढळणारे वनस्पति समुदायाचे स्वरुप 
  • hiemal 
RANDOM WORD

Did you know?

मानवाच्या मनांत शुभ अशुभ विचार चालू असतांत, अशा क्रियेला काय म्हणतात?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.