संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - चत्वारिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव चत्वारिंशोऽध्यायः Translation - भाषांतर देवी - श्रुतं सुदर्शनाख्यानं त्वत्तो विस्मापनं मम । प्रदोषे पापिना तेन दृष्टश्चान्यार्चितः शिवः ॥१॥शेषेण नामसाहस्त्रैस्त्वं स्तुतः कथमीश्वर । त्वन्नाम्नां श्रवणेच्छा मे भूयसी भवति प्रभो ॥२॥सूतः - तस्मिन् कैलासशिखरे सुखासीनं महेश्वरम् । प्रणम्य प्रार्थयामास सा देवी जगदंबिका ॥३॥तदा देव्या महादेवः प्रार्थितः सर्वकामदः । भवो भवानीमाहेत्थं सर्वपापप्रणाशकम् ॥४॥फणीशो मुखसाहस्रैर्यानि नामानि चोक्तवान् । तानि वः संप्रवक्ष्यामि यथा मम गुरोः श्रुतम् ॥५॥ईश्वरः - ऋषिः छन्दो दैवतं च तान्यहं क्रमशोंऽबिके । सहस्रनाम्नां पुण्यं मे फणीन्द्रः कृतवानुमे ॥६॥ऋषिस्तस्य हि शेषोऽयं छन्दोऽनुष्टुप् प्रकीर्तितम् । देवतास्याहमीशानि सर्वत्र विनियोजनम् ॥७॥ध्यानं ते कथयाम्यद्य श्रृणु त्वमगकन्यके ।कैलासे सुहिरण्यविष्टरवरे देव्या समालिङ्गितं नन्द्याद्यैर्गनपैः सदा परिवृतं वन्दे शिवं सुन्दरम् ।भक्ताघौघनिकृन्तनैकपरशुं बिभ्राणमिन्दुप्रभं स्कन्दाद्यैर्गजवक्त्र(?) सेवितपदं ध्यायामि सांबं सदा ॥८॥एवं मामम्बिके ध्यात्वा नामानि प्रजपेत्ततः । हृत्पद्मसद्मसंस्थं मां सर्वाभीष्टार्थसिद्धये ॥९॥पुण्यकालेषु सर्वेषु सोमवारे विशेषतः । बिल्वपत्रैः पङ्कजैश्च पुण्यनामानि शङ्करि ॥१०॥पूजयेन्नामसाहस्रैः सर्वार्थप्राप्तये शिवे । यो यं कामयते कामं तं तमाप्नोति शङ्करि ॥११॥धनार्थी लभते वित्तं कन्यार्थी कन्यकां तथा । राज्यार्थी राज्यमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥१२॥श्रृणु देवि परं पुण्यं मातृकानामनुत्तमम् । सहस्रं प्रजपेन्नित्यं धर्मकामार्थमोक्षभाक् ॥१३॥ईश्वरः - ओंकारनिलयात्मस्थः ओंकारार्थैकवाचकः । ओंकारेशाकृतिरोमितिशब्दकृतस्तुतिः ॥१४॥ओंकारकुण्डनिलयलिङ्गपूजनपापहृत् । नमिताशेषदेवादिर्नदीपुलितसंस्थितः ॥१५॥नन्दिवाद्यप्रियो नित्यो नामपारायणप्रियः । महेन्द्रनिलयो मानी मानसान्तरपापभित् ॥१६॥मयस्करो महायोगी मायाचक्रप्रवर्तकः । शिवः शिवतरः शीतः शीतांशुकृतभूषणः ॥१७॥धनुःशरकरो ध्याता धर्माधर्मपरायणः । आत्मा आतार्य आलाद्य अनङ्गशरखण्डनः ॥१८॥ईशान ईड्य ईध्र्यश्च इभमस्तकसंस्तुतः । उमासंश्लिष्टवामाङ्ग उशीनरनृपार्चितः ॥१९॥उदुम्बरफलप्रीत उमादिसुरपूजितः । ऋजीषीकृतभूचक्रो रिपुप्रमथनोर्जितः ॥२०॥लिङ्गार्चकजनप्रीतो लिङ्गी लिङ्गसमप्रियः । लिपिप्रियो बिन्दुहीनो लीलाक्रुतजगत्त्रयः ॥२१॥ऐन्द्रीदिक्पतिसंयुक्त ऐश्वर्यादिफलप्रदः । औत्तानपादपूज्याङ्घ्रिरौमादिसुरपूजितः ॥२२॥कल्याणाचलकोदण्डः कामितार्थफलप्रदः । कस्तूरीतिलकप्रीतः कर्पूराभकलेवरः ॥२३॥करन्धमसुतप्रीतः कल्पादिपरिवर्जितः । कल्पितानेकभूतादिः कलिकल्मषनाशनः ॥२४॥कमलाभलसन्नेत्रः कमलापतिपूजितः । खगोल्कादित्यवरदः खञ्जरीटवरप्रदः ॥२५॥खर्जूरवनमध्यस्थः खण्डिताखण्डलीकरः । खगः खङ्गहरः खण्डः खगगः खाकृतिः खसः ॥२६॥खण्डपर्शुः खण्डघनः खण्डितारातिमण्डलः । गन्धर्वगणसुप्रीतो गन्धधृक् गर्वनाशकः ॥२७॥गङ्गाधरो गोगणेशो गणेशवरपुत्रकः । गतिदो गदहा गन्धी गन्धमाल्यवरार्चितः ॥२८॥गगनस्थो गणपतिर्गगनाभोगभूषणः । घण्टाकर्णप्रियो घण्टी घटजस्तुतिसुप्रियः ॥२९॥घोटकप्रियपुत्रश्च घर्मकालो घनाकृतिः । घनवाहो घृताध्यक्षो घनघोषो घटेश्वरः ॥३०॥घटनादकरप्रीतो घटीभूतमहागिरिः । चन्द्रचूडश्चन्द्रकरश्चन्दनार्द्रश्चतुष्पथः ॥३१॥चमसोद्भेदमध्यस्थश्चण्डकोपश्चतुर्मुखः । चक्षुःश्रोतमहाहारश्चण्डिकेशवरप्रदः ॥३२॥चेतोजन्महरश्चण्डश्चातुर्होत्रपिर्यश्चरः । चतुर्मुखमुखस्तुत्यश्चतुर्वेदश्चराचरः ॥३३॥चण्डभानुकरान्तःस्थश्चतुर्मूर्तिवपुःस्थितः । छादितानेकलोकादिः छन्दसां गणमध्यगः ॥३४॥छत्रचामरशोभाढ्यः छन्दोगगतिदायकः । जङ्गमाजङ्गमाकारो जगन्नाथो जगद्गतः ॥३५॥जह्नुकन्याजटो जप्यो जेता जत्रुर्जनार्तिहा । जम्भारातिर्जनप्रीतो जनको जनिकोविदः ॥३६॥जनार्दनार्दनो जामिजात्यादिपरिवर्जितः । झणज्झणांघ्रिजारावो झङ्कारोज्झितदुष्क्रियः ॥३७॥टङ्कप्रियष्टंकृतिकष्टंकभेदी टकारकः । टादिवर्णप्रियष्ठान्तो ढक्कानादप्रियो रसः ॥३८॥डामरीतन्त्रमध्यस्थो डमरुध्वनिशोभितः । ढक्काध्वनिकृतानल्पबधिरीकृतदिड्मुख ॥३९॥णकारो णणुकोत्थादिर्णान्तकृण्णतिमोचकः । तस्करस्ताम्रकस्तार्क्ष्यस्तामसादिगुणोज्झितः ॥४०॥तरुमूलप्रियस्तातस्तमसां नाशकस्तटः । थानासुरहरः स्थाता स्थाणुः स्थानप्रियः स्थिरः ॥४१॥दाता दानपतिर्दान्तो दन्दशूलविभूषितः । दर्शनीयो दीनदयो दण्डितारातिमण्डलः ॥४२॥दक्षयज्ञहरो देवो दानवारिर्दमोदयः । दत्तात्रेयप्रियो दण्डी दाडिमीकुसुमप्रियः ॥४३॥धाता धनाधिपसखो धनधान्यप्रदो धनम् । धामप्रियोऽन्धसां नाथो धर्मवाहो धनुर्धरः ॥४४॥नमस्कारप्रियो नाथो नमिताशेषदुःखहृत् । नन्दिप्रियो नर्मसखो नर्मदातीरसंस्थितः ॥४५॥नन्दनो नमसामीशो नानारूपो नदीगतः । नामप्रीतो नामरूपगुणकर्मविवर्जितः ॥४६॥पत्तीनां च पतिः पार्यः परमात्मा परात्परः । पङ्कजासनपूज्याङ्घ्रिः पद्मनाभवरप्रदः ॥४७॥पन्नगाधिपसद्धारः पशूनां पतिपावकः । पापहा पण्डितः पान्थो पादपोन्मथनः परः ॥४८॥फणीफणालसन्मौलिः फणिकङ्कणसत्करः । फणिता (?) नेकवेदोक्तिः फणिमाणिक्यभूषितः ॥४९॥बन्धमोचनकृद्बन्धुर्बन्धुरालकशोभितः । बली बलवतां मुख्यो बलिपुत्रवरप्रदः ॥५०॥बाणासुरेन्द्रपूज्याङ्घ्रिर्बाणलिङ्गो बहुप्रदः । बन्दीकृतागमो बालपालको बहुशोभितः ॥५१॥भवादिर्भवहा भव्यो भवो भावपरायणः । भवहृद्भवदो भूतो भण्डासुरवरप्रदः ॥५२॥भगाक्षिमथनो भर्गो भवानीशो भयङ्करः । भङ्गकारो भावुकदो भस्माभ्यक्ततनुर्भटः ॥५३॥मयस्करो महादेवो मायावी मानसान्तरः । मायातीतो मन्मथारिर्मधुपोऽथ मनोन्मनः ॥५४॥मध्यस्थो मधुमांसात्मा मनोवाचामगोचरः । मण्डितो मण्डनाकारो मदितो मानपालकः ॥५५॥मनस्वी मनुरूपश्च मन्त्रमूर्तिर्महाहनुः । यशस्करो यन्त्ररूपो यमिमानसपावनः ॥५६॥ यमान्तकरणो यामी यजमानो यदुर्यमी । रमानाथार्चितपदो रम्यो रतिविशारदः ॥५७॥रंभाप्रीतो रसो रात्रिचरो रावणपूजितः । रङ्गपादो रन्तिदेवो रविमण्डलमध्यगः ॥५८॥रथन्तरस्तुतो रक्तपानो रथपती रजः । रथात्मको लम्बतनुर्लाङ्गली लोलगण्डकः ॥५९॥ललामसोमलूतादिर्ललितापूजितो लवः । वामनो वायुरूपश्च वराहमथनो वटुः ॥६०॥वाक्यजातो वरो वार्यो वरुणेड्यो वराश्रयः । वपुर्धरो वर्षवरो वरीयान् वरदो वरः ॥६१॥वसुप्रदो वसुपतिर्वन्दारुजनपालकः । शान्तः शमपरः शास्ता शमनान्तकरः शठः ॥६२॥शङ्खहस्तः शत्रुहन्ता शमिताखिलदुष्कृतः । शरहस्तः शतावर्तः शतक्रतुवरप्रदः ॥६३॥शम्भुः शम्याकपुष्पार्च्यः शङ्करः शतरुद्रगः । शम्याकरः शान्तमनाः शान्तः शशिकलाधरः ॥६४॥षडाननगुरुः षण्डः षट्कर्मनिरतः षगुः । षड्जादिरसिकः षष्ठः षष्ठीप्रीतः षडङ्गवान् ॥६५॥षडूर्मिरहितः शष्प्यः षिद्गः षाड्गुण्यदायकः । सत्यप्रियः सत्यधामा संसाररहितः समः ॥६६॥सखा सन्धानकुशलः सर्वसम्पत्प्रदायकः । सगरः सागरान्तःस्थः सत्राशः सरणः सहः ॥६७॥सांबः सनातनः साधुः सारासारविशारदः । सामगानप्रियः सारः सरस्वत्या सुपूजितः ॥६८॥हतारातिर्हंसगतिर्हाहाहूहूस्तुतिप्रियः । हरिकेशो हरिद्राङ्गो हरिन्मणिसरोहठः ॥६९॥हरिपूज्यो हरो हार्यो हरिणाङ्कशिखण्डकः । हाहाकारादिरहितो हनुनासो हहुंकृतः ॥७०॥लालाननो लतासोमो लक्ष्मीकान्तवरप्रदः । लम्बोदरगुरुर्लभ्यो लवलीशो लुलायगः ॥७१॥क्षयद्वीरः क्षमायुक्तः क्षयादिरहितः क्षमी । क्षत्रीयान्तकरः क्षान्तः क्षात्रधर्मप्रवर्तकः ॥७२॥क्षयिष्णुवर्धनः क्षान्तः क्षपानाथकलाधरः । क्षपादिपूजनप्रीतः क्षपणान्तः क्षराक्षरः ॥७३॥रुद्रो मन्युः सुधन्वा च बाहुमान् परमेश्वरः । स्विषुः स्विष्टकृदीशानः शरण्याधारको युवा ॥७४॥अघोरस्तनुमान् देवो गिरीशः पाकशासनः । गिरित्रः पुरुषः प्राणः पञ्चप्राणप्रवर्तकः ॥७५॥अध्यवोचो महादेव अधिवक्ता महेश्वरः । ईशानः प्रथमो देवो भिषजां पतिरीश्वरः ॥७६॥ताम्रोऽरुणो विश्वनाथो बभ्रुश्चैव सुमङ्गलः । नीलग्रीवः शिवो हृष्टो देवदेवो विलोहितः ॥७७॥गोपवश्यो विश्वकर्ता उदहार्यजनेक्षितः । विश्वदृष्टः सहराक्षो मीढुष्ठो भगवान् हरः ॥७८॥शतेषुधिः कपर्दी च सोमो मीढुष्टमो भवः । अनाततश्चातिधृष्णुः सत्वानां रक्षकः प्रभुः ॥७९॥विश्वेश्वरो महादेवस्त्र्यंबकस्त्रिपुरान्तकः । त्रिकाग्निकालः कालाग्निरुद्रो नीलोऽधिपोऽनिलः ॥८०॥सर्वेश्वरः सदा शम्भुः श्रीमान् मृत्युञ्जयः शिवः । स्वर्णबाहुः सैन्यपालो दिशाधीशो वनस्पतिः ॥८१॥हरिकेशः पशुपतिरुग्रः सस्पिञ्जरोऽन्तकः । त्विषीमान् मार्गपो बभ्रुविव्याधी चान्नपालकः ॥८२॥पुष्टो भवाधिपो लोकनाथो रुद्राततायिकः । क्षेत्रेशः सूतपोऽहन्त्यो वनपो रोहितः स्थपः ॥८३॥वृक्षेशो मन्त्रजो वाण्यो भुवन्त्यो वारिवस्कृतः । ओषधीशो महाघोषः क्रन्दनः पत्तिनायकः ॥८४॥कृत्स्नवीती धावमानः सत्वनां पतिरव्ययः । सहमानोऽथ निर्व्याधिरव्याधिः ककुभो नटः ॥८५॥निषङ्गी स्तेनपः कक्ष्यो निचेरु परिचारकः । आरण्यपः सृकावी च जिघांसुर्मुष्णपोऽसिमान् ॥८६॥नक्तञ्चरः प्रकृन्तश्च उष्णीषी गिरिसञ्चरः । कुलुञ्च इषुमान् धन्वी आतन्वान् प्रतिधानवान् ॥८७॥आयच्छो विसृजोऽप्यात्मा वेधनो(?)आसनः परः । शयानः स्वापकृत् जाग्रत् स्थितो धावनकारकः ॥८८॥सभापतिस्तुरङ्गेश उगणस्तृहतिर्गुरुः । विश्वो व्रातो गणो विश्वरूपो वैरूप्यकारकः ॥८९॥महानणीयान् रथपः सेनानीः क्षत्रसंग्रहः । तक्षा च रथकारश्च कुलालः कर्मकारकः ॥९०॥पुञ्जिष्ठश्च निषादश्च इषुकृद्धन्वकारकः । मृगयुः श्वानपो(?)देवो भवो रुद्रोऽथ शर्वकः ॥९१॥पशुपो नीलकण्ठश्च शितिकण्ठः कपर्दभृत् । व्युत्पकेशः सहस्राक्षः शतधन्वा गिरीश्वरः ॥९२॥शिपिविष्टोऽथ मीढुष्ट इषुमान् ह्रस्ववामनः । बहुवर्षवया वृद्धः संवृद्ध्वा प्रथमोऽग्रियः ॥९३॥आशुश्चैवाजिरः शीघ्रयः शीभ्य ऊर्म्योऽथ वस्वनः । स्तोतो द्वीप्यस्तथा ज्येष्ठः कनिष्ठः पूर्वजोऽपरः ॥९४॥मध्यश्चाथापगल्भश्च ......... आशुषेणश्चाशुरथः शूरो वै भिन्दिवर्मधृक् ॥९५॥वरूथी बिल्मी कवची श्रुतसेनोऽथ दुन्दुभिः । धृष्णुश्च प्रहितो दूतो निषङ्गी तीक्ष्णसायकः ॥९६॥आयुधी स्वायुधी देव उपवीती सुधत्वधृक् । स्रुत्यः पथ्यस्तथा काट्यो नीप्यः सूद्यः सरोद्भवः ॥९७॥नाद्यवैशन्तकूप्याश्चावट्यो वर्ष्यो मेघ्योऽत्य वैद्युतः । ईध्र्य आतप्य वातोत्थो रश्मिजो वास्तवोऽस्तुपः ॥९८॥सोमो रुद्रस्तथा ताम्र अरुणः शङ्ग ईश्वरः । उग्रो भीतस्तथैवाग्रेवधो दूरेवधस्तथा ॥९९॥हन्ता हनीयान् वृक्षश्च हरिकेशः प्रतर्दनः । तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ॥१००॥शिवः शिवतरस्तीर्थ्यः कूल्यः पार्यो वार्यः प्रतारणः । उत्तारणस्तथालाद्य आतार्यः शष्प्यफेनजः ॥१०१॥सिकत्यश्च प्रवाह्यश्च इरिण्यः प्रमथः किशिलः । क्षयणः कूलगो गोष्ठ्यः पुलस्त्यो गृह्य एव च ॥१०२॥तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठो ह्रदीद्भवः । निवेष्ट्यः पासुमध्यस्थो रजस्यो हरितस्थितः ॥१०३॥शुक्रयो लोप्यस्तथोलप्य ऊर्म्यः सूर्म्यश्च पर्णजः । पर्णशद्योऽपगुरकः अभिघ्नोत्खिद्यकोविदः ॥१०४॥अवः (?) किरिक ईशानो देवादिहृदयान्तर्ह । विक्षीणको विचिन्वत्क्यः आनिर्ह आमिवत्ककः ॥१०५॥द्रापिरन्धस्पतिर्दाता दरिद्रन्नीललोहितः । तवस्वांश्च कपर्दीशः क्षयद्वीरोऽथ गोहनः ॥१०६॥पुरुषन्तो गर्तगतो युवा मृगवरोग्रकः । मृडश्च जरिता रुद्रो मीढ्यो देवपतिर्हरिः ॥१०७॥मीढुष्टमः शिवतमो भगवानर्णवान्तरः । शिखी च कृत्तिवासाश्च पिनाकी वृषभस्थितः ॥१०८॥अग्नीषुश्च वर्षेषुर्वातेषुश्च ........ । पृथिवीस्थो दिविष्ठश्च अन्तरिक्षस्थितो हरः ॥१०९॥अप्सु स्थितो विश्वनेता पथिस्थो वृक्षमूलगः । भूताधिपः प्रमथप ....... ॥११०॥अवपलः सहस्रास्यः सहस्रनयनश्रवाः । ॠग्गणात्मा यजुर्मध्यः साममध्यो गणाधिपः ॥१११॥उर्भ्यर्वशीर्षपरमः शिखास्तुत्योऽनसूयकः । मैत्रायणो मित्रगतिस्तण्डुप्रीतो रिटिप्रियः ॥११२॥उमाधवो विश्वभर्ता विश्वहर्ता सनातनः । सोमो रुद्रो मेघपतिवंकुर्वै मरुतां पिता ॥११३॥....... अरुषो अध्वरेश्वरः । जलाषभेषजो भूरिदाता सुजनिमा सुरः ॥११४॥सम्राट् पुरांभिद् दुःखस्थः सत्पतिः पावनः क्रतुः । हिरण्यरेता दुर्धर्वो विश्वाधिक उरुक्रमः ॥११५॥गुरुगायोऽमितगुणो महाभूतस्त्रिविक्रमः । अमृतो अजरोऽजय्यो रुद्रोऽग्निः पुरुषो विराट् ॥११६॥तुषाराट्पूजितपदो महाहर्षो रसात्मकः । महर्षिबुद्धिदो गोप्ता गुप्तमन्त्रो गतिप्रदः ॥११७॥गन्धर्वगानप्रीतात्मा गीतप्रीतोरुशासनः । विद्वेषणहरो हार्यो हर्षक्रोधविवर्जितः ॥११८॥भक्तप्रियो भक्तिवश्यो भयहृद्भूतसङ्घभित् । भुवनेशो भूधरात्मा विश्ववन्द्यो विशोषकः ॥११९॥ज्वरनाशो रोगनाशो मुञ्जिकेशो वरप्रदः । पुण्डरीकमहाहारः पुण्डरीकत्वगम्बरः ॥१२०॥आखण्डलमुखस्तुत्यः कुण्डली कुण्डलप्रियः । चण्डांशमण्डलान्तस्थः शशिखण्डशिखण्डकः ॥१२१॥चण्डताण्डवसन्नाहश्चण्डकोपोऽखिलाण्डगः । चण्डिकापूजितपदो मण्डनाकल्पकाण्डजः ॥१२२॥रणशौण्डो महादण्डस्तुहुण्डवरदायकः । कपालमालाभरणस्तारणः शोकहारनः ॥१२३॥विधारणः शूलकरो धर्षणः शत्रुमारणः । गङ्गाधरो गरधरस्त्रिपुण्ट्रावलिभासुर्ह ॥१२४॥शम्बरारिहरो दक्षहरोऽन्धकहरो हरः । विश्वजिद्गोजिदीशानो अश्वजिद्धनजित् तथा ॥१२५॥उर्वराजिदद्वजिच्च सर्वजित् सर्वहारकः । मन्दारनिलयो नन्दः कुन्दमालाधरोऽम्बुदः ॥१२६॥नन्दिप्रीतो मन्दहासः सुरबृन्दनिषेवितः । मुचुकुन्दार्चितपदो द्वन्द्वहीनेन्दिरार्चितः ॥१२७॥विश्वाधारो विश्वनेता वीतिहोत्रो विनीतकः । शङ्करः शाश्वतः शास्ता सहमानः सहस्रदः ॥१२८॥भीमो महेश्वरो नित्य अंबरानरनर्तनः । उग्रो भवहरो धौम्यो धीरोदात्तो विराजितः ॥१२९॥वञ्चको नियतो विष्णुः परिवञ्चक ईश्वरः । उमावरप्रदो मुण्डी जटिलः शुचिलक्षणः ॥१३०॥चर्माम्बरः कान्तिकरः कङ्कालवरवेषधृक् । मेखली अजिनी दण्डी कपाली मेखलाधरः ॥१३१॥सद्योजातः कालिपतिर्वरेण्यो वरदो मुनिः । वसाप्रियो वामदेवस्तत्पूर्वो वटमूलगः ॥१३२॥उलूकरोमा घोरात्मा लास्यप्रीतो लघुः स्थिरः । अणोरणीयानीशानः सुन्दरभ्रूः सुताण्डवः ॥१३३॥किरीटमालाभरणो राजराजलसद्गतिः । हरिकेशो मुञ्जिकेशो व्योमकेसो यशोधरः ॥१३४॥पातालवसनो भर्ता शिपिविष्टः कृपाकरः । हिरण्यवर्णो दिव्यात्मा वृषधर्मा विरोचनः ॥१३५॥दैत्येन्द्रवरदो वैद्यः सुरवन्द्योऽघनाशकः । आनन्देशः कुशावर्तो नन्द्यावर्तो मधुप्रियः ॥१३६॥प्रसन्नात्मा विरूपाक्षो वनानां पतिरव्ययः । मस्तकादो वेदवेद्यः सर्वो ब्रह्मौदनप्रियः ॥१३७॥पिशङ्गितजटाजूटस्तडिल्लोकविलोचनः । गृहाधारो ग्रामपालो नरसिंहविनाशकः ॥१३८॥मत्स्यहा कूर्मपृष्ठास्थिधरो भूदारदारकः । विधीन्द्रपूजितपदः पारदो वारिधिस्थिथ ॥१३९॥महोदयो महादेवो महाबीजो महाङ्गधृक् । उलूकनागाभरणो विधिकन्धरपातनः ॥१४०॥आकाशकोशो हार्दात्मा मायावी प्रकृतेः परः । शुक्लस्त्रिशुक्लस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥१४१॥ललनाजनपूज्यांघ्रिर्लङ्कावासोऽनिलाशनः । विश्वतश्चक्षुरीशानो विश्वतोबाहुरीश्वरः ॥१४२॥सर्वात्मा भावनागम्यः स्वतन्त्रः परमेश्वरः । विश्वभक्षो विदु़xxक्षः सर्वदेवशिरोमणि ॥१४३॥ब्रह्म सत्यं तथानन्दो ज्ञानानन्दमहाफलः ।ईश्वरः - अष्टोत्तरं महादेवि शेषाशेषमुखोद्गतम् । इत्येवन्नामसाहस्रं रहस्यं कथितं मया ॥१४४॥पवित्रमिदमायुष्यं पठतां श्रृण्वतां सदा । यस्त्वेतन्नामसाहस्त्रैः बिल्वैः पङ्कजकुड्मलैः ॥१४५॥पूजयेत् सर्वकालेषु शिवरात्रौ महेश्वरि । तस्य मुक्तिं ददामीशे सत्यं सत्यं न संशयः ॥१४६॥मम प्रियकरं ह्येतत् फणिना फणितं शुभम् । पठेत् सर्वान् लभेतैव कामानायुxमेव च ॥१४७॥नामसाहस्रपाठी स यमलोकं न पश्यति । कल्याणीं च लभेद्गौरि गतिं नाम्नां च वैभवात् ॥१४८॥नाख्येयं गोप्यमेतद्धि नाभक्ताय कदाचन । न प्रकाश्यमिदं देवि मातृकारुद्रसंहितम् ॥१४९॥भक्तेषु लभते नित्यं भक्तिं मत्पादयोर्दृढाम् । दत्वाऽभक्तेषु पापात्मा रौरवं नरकं व्रजेत् ॥१५०॥सूतः - इति शिववचनं निशम्य गौरी प्रणयाच्च प्रणता शिवाङ्घ्रिपद्मे ।सुरवरतरुसुन्दरोरुपुष्पैरभिपूज्य प्रमथाधिपं तुतोष ॥१५१॥तुष्टाव कष्टहरमिष्टदमष्टदेहं नष्टाघसंघदुरदृष्टहरं प्रकृष्टम् ।उत्कृष्टवाक्यसुरबृन्दगणेष्टदानलोलं विनष्टतमसं शिपिविष्टमीशम् ॥१५२॥श्रीपार्वती - चण्डांशुशीतांशुहुताशनेत्रं चक्षुःश्रवापारविलोलहारम् ।चर्माम्बरं चन्द्रकलावतंसं चराचरस्थं चतुराननेड्यम् ॥१५३॥विश्वाधिकं विश्वविध नदक्षं विश्वेश्वरं विश्रुतनामसारम् ।विनायकेड्यं विधिविष्णुपूज्यं विभुं विरूपाक्षमजं भजेऽहम् ॥१५४॥मधुमथनाक्षिवराब्जपूज्यपादं मनसिजतनुनाशनोत्थदीप्तमन्युम् ।मम मानसपद्मसद्मसंस्थं मतिदाने निपुणं भजामि शम्भुम् ॥१५५॥हरिं हरन्तमनुयन्ति देवा नखैस्तथा पक्षवातैः सुघोणैः ।नृसिंहमुग्रं शरभाकृतिं शिवं मत्तं तदा दानवरक्तापानात् ॥१५६॥नखरमुखरघातैस्तीक्ष्णया दंष्ट्रयापि ज्वरपरिकरदेहे नाशतापैः सुदीप्ते ।दितिजकदनमत्तं संहरन्तं जगच्च हरिमसुरकुलघ्नं देवतुष्ट्यै महेशः ।परशुवरनिखातैः क्रोडमुन्क्रोष्टुमीष्टे ॥१५७॥रौद्रनामभिरीशानं स्तुत्वाऽथ जगदंबिका । प्रेमाश्रुपुलका देवं सा गाढं परिषस्वजे ॥१५८॥शौनकः - कानि रौद्राणि नामानि त्वं नो वद विशेषतः । न तृप्तिरीशचरितं श्रृण्वतां नः प्रसीद भो ॥१५९॥सूतः - तान्यहं वो वदाम्यह्य श्रृणुष्वं शौनकादयः । पवित्राणि विचित्राणि देव्या प्रोक्तानि सत्तमाः ॥१६०॥देवी - दिशांपतिः पशुपतिः पथीनां पतिरीश्वरः । अन्नानां च पतिः शंभुः पुष्टानां च पतिः शिवः ॥१६१॥जगतां च पतिः सोमः क्षेत्राणां च पतिर्हरः । वनानां पतिरीशानो वृक्षाणां च पतिर्भवः ॥१६२॥आव्याधिनीनां च पतिः स्नायूनां च पतिर्गुरुः । पत्तीनां च पतिस्ताम्रः सत्वनां च पतिर्भवः ॥१६३॥आरण्यानां पतिः शम्भुर्मुष्णतां पतिरुष्णगुः । प्रकृतीनां पतिश्चेशः कुलुञ्चानां पतिः समः ॥१६४॥रुद्रो गृत्सपतिर्व्रात्यो भगीरथपतिः शुभः । अन्धसांपतिरीशानः सभायाः पतिरीश्वरः ॥१६५॥सेनापतिश्च श्वपतिः सर्वाधिपतये नमः ।प्रणता विनता तवाङ्घ्रिपद्मे भगवन् परिपाहि मां विभो त्वम् ।तव कारुण्यकटाक्षलेशलेशैर्मुदिता शङ्कर भर्ग देवदेव ॥१६६॥सूतः - इति गिरिवरजाप्रकृष्टवाक्यं स्तुतिरूपं विबुधाधिपो महेशः ।अभिवीक्ष्य तदा मुदा भवानीमिदमाह स्मरगर्वनाशकः ॥१६७॥शिवः - इदमगतनये सहस्रनाम्नां परमरहस्यमहो महाघशोषम् ।प्रबलतरवरैश्च पातकौघैर्यदि पठते हि द्विजः स मुक्तिभाक् ॥१६८॥शैवं मेऽद्य रहस्यमद्भुततरं सद् द्वादशांशान्वितम् ।श्रुत्वोदारगिरा दरोरुकथया संपूरितं धारितम् ।पापानां प्रलयाय तद्भवति वै सत्यं वदाम्यद्रिजे ॥१६९॥श्रुतिगिरिकरिकुम्भगुंभरत्रे त्वयि गिरिजे परया रमार्द्रदृष्ट्या ।निहितोऽजिह्मधियाः मुदेऽयमेष ..... मम भक्तजनार्पणं मुदे ॥१७०॥ईश्वरः - एतत्ते पञ्चमांशस्य विस्तरः कथितो मया । रहस्यार्थस्य देवेशि किं भूयः श्रोतुमिच्छसि ॥१७१॥इत्थं शिववचः श्रुत्वा प्रणम्याथ महेश्वरी समालिङ्ग्य महादेवं सहर्षं गिरिजा तदा ॥१७२॥प्राह प्रेमाश्रुपुलका श्रुत्वा शिवकथासुधाम् ।देवी - अहो धन्यास्मि देवेश त्वत्कथाम्भोधिवीचिभिः । श्रोत्रे पवित्रतां याते माहात्म्यं वेद कस्तव ॥१७३॥मामृते देवदेवेश न भेदोऽस्त्यावयोः शिव ॥१७४॥भव भव भगवन् भवाब्धिपार स्मरगरखण्डनमण्डनोरुगण्ड ।स्फुरदुरुमुकुटोत्तमाङ्गगङ्गा ....... दिव्यदेह ॥१७५॥अव भव भवहन् प्रकर्षपापाज्जनमज्ञं जडदुःखभोगसङ्गम् ।तव सुखकथया जगत् पवित्रं भव भवतात् भवतापहन् मुदे मे ॥१७६॥सूतः - इति देव्या स्तुतो देवो महेशः करुणानिधिः । तद्वत् कथानिधिः प्रोक्तः शिवरत्नमहाखनिः ॥१७७॥भवतां दर्शनेनाद्य शिवभक्तिकथारसैः । पावितोऽस्मि मुनिश्रेष्ठाः किं भूयः श्रोतुर्मिच्छथ ॥१७८॥इति तद्वदनाम्भोजसुधानिष्यन्दिनीं गिरम् । श्रुत्वा प्रकटरोमाञ्चः शौनकः प्राह सादरम् ॥१७९॥शौनकः - अहो महादेवकथसुधाम्बुभिः संप्लावितोऽस्म्यद्य भवाग्नितप्तः ।धन्योऽस्मि त्वद्वाक्यसुजातहर्षो द्विजैः सुजातैरपि जातहर्षः ॥१८०॥सूतः - श्रीमत्कैलासवयें भुवनजनकतः संश्रुता पुण्यदात्री शम्भोर्दिव्यकथासुधाब्धिलहरी पापापनोदक्षमा ।देव्यास्तच्छ्रुतवान् गुरुर्मम मुनिः स्कन्दाच्च तल्लब्धवान् सेयं शङ्करकिङ्करेषु विहिता विश्वैकमोक्षप्रदा ॥१८१॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ........... ........... नाम चत्वारिंशोऽध्यायः ॥॥ पञ्चमांशः समाप्तः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP