संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
त्रिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - त्रिंशोऽध्यायः

श्रीशिवरहस्यम्


देवी -
कानि तीर्थानि पुण्यानि सा गङ्गाप्लावयच्छिवा । तन्मे वद महादेव नहि तृप्तास्मि शङ्कर ॥१॥
सूतः -
तद्देव्या वचनं श्रुत्वा महादेवो महेश्वरः । प्राह गम्भीरवाक्यानि तदाऽपर्णां प्रहर्षयन् ॥२॥
ईश्वरः -
मत्पादमूलतो देवि यदा गङ्गा विनिर्गता । हरिद्वारात् तदा पुण्या विबुधैश्चैव संयुता ॥३॥
कुरुक्षेत्रं गता गङ्गा तस्माच्चापि विनिर्गिता । कुरुक्षेत्रं गता गङ्गा स्नानात् पापविनाशिनी ॥४॥
प्रतिपेदे मधुवनं तत्र तीर्थे मनोरमे । मुनिभिः संस्तुता स्नाता दृष्टा पीताघहारिणी ॥५॥
प्रयागवनमासाद्य यत्र पूर्वं पितामहः । अयजद्धयमेधेन मां मेधपतिमीश्वरम् ॥६॥
तत्रासीत् सरिदुत्कृष्टा यत्र प्राची सरस्वती । ततावभृथमासाद्य ब्रह्मा प्राह सरस्वतीम् ॥७॥
ब्रह्मा -
सरस्वति महाभागे सर्वदा सर्वपावनी । सरसः पावनाज्जाता पुण्यान्मानसनामकात् ॥८॥
मेरौ देवासुरैः पूर्व प्रार्थितासि मनोरमे । अस्मिन् देशवरे पुण्ये सरसस्त्वं विनिर्गता ॥९॥
तस्मात् सरस्वतीत्याख्यां गमिष्यसि महीतले । एकांशेन वसात्रैव एकांशेन वसेर्मयि ॥१०॥
इत्थं सा ब्रह्मणो वाक्यं प्रणम्याह सरस्वती ॥
सरस्वती -
नाहं वसामि भूलोके त्वन्मखात् पावनाय हि । समानीताहममला त्वया यास्ये पितामह ॥११॥
ब्रह्मलोकं च सावित्र्या निवसामि त्वया सह । सरस्वत्याश्च वचनाद्ब्रह्मा क्रोधाच्छशाप ताम् ॥१२॥
यस्मान्मद्वाक्यनिर्घातः कृतो देवि त्वयाऽधुना । अदृश्या चासि भूलोके पातालतलवाहिनी ॥१३॥
भव त्वं शापिता मत्तः स इत्थं शप्तवान् शिवे । इत्थं शप्ता तदा ब्रह्म्णा प्रयागेऽभूत् सरस्वती ॥१४॥
यमुनाऽपि तथैवागान्नीलनीरतरङ्गिणी । गङ्गायमुनयोर्मध्ये अन्तर्बद्धाऽभवत् तदा ॥१५॥
ब्रह्मणः सा महेशानी प्रयागमभितः शुभे । सितासिते ते सरितौ देवि यत्रैव सङ्गते ॥१६॥
तत्राप्लुता जनाः सर्वे ब्रह्मलोकपरायणाः । तनुं यस्त्यजते तत्र स मुक्तो भवति प्रिये ॥१७॥
तत्राक्षयवटो नाम विटपैर्बहुभिर्वृतः । तत्प्रतीच्या महादेवि प्रयागेशोऽहमास्थितः ॥१८॥
विष्णुनाराधितश्चाहं तेन तुष्टस्स्तुतस्था । प्रयागमाधवेनाहं पूजितस्तत्र शङ्करि ॥१९॥
संपूज्य मां बिल्वपत्रैः तुष्टाव परमेश्वरम् ॥
माधवः -
दुरदृष्टविनाशकं महेशं जनिनाशं प्रतिबद्धकष्टजालम् ।
कनिष्ठं वरिष्ठं तथा ज्येष्ठमीशं वसिष्ठादिवन्द्यं नतोस्मीष्टसिद्ध्यै ॥२०॥
श्रीमत्प्रयागवनसुन्दरनीलकण्ठ पाहीन पापगिरिदारणशूलटङ्क ।
भक्तएष्वकुण्ठदय कुण्ठितवेदवाक्य वैकुण्ठपूजितपदागसुतोपकण्ठ ॥२१॥
इत्थं स्तुतोऽस्मि तेनैव तत्स्थानेशः कृतो मया । तदुत्तरेऽहं सोमेशः पूजितः सुरसत्तमैः ॥२२॥
बिल्वैर्मन्दारकुसुमैः स्तुतो‍ऽहं विबुधैरपि ॥
देवाः -
पुरारे भवारे यमारे प्रसीद प्रसीदाधुना देवदेवश शंभो ।
चरित्रं पवित्रं विचित्रं तवाद्य त्रिनेत्राधुना पापजालैकहारि ॥२३॥
इत्थं स्तुतोऽहममरैर्निवसामि गिरीन्द्रजे । गङायमुनयोः सन्धौ लिङ्गं मङ्गलदं मम ॥२४॥
यः प्रयागे महातीर्थे माघे मकरगे रवौ । तत्र स्नात्वा मासमेकं विमुक्तः सर्वकिल्विषैः ॥२५॥
तीर्थाधिदेवो मां भक्त्याप्रयोगेशं समर्चयन् । तताप परमं देवि तप उग्रं समास्थितः ॥२६॥
मां तुष्टावांबिके तत्र तीर्थराजत्वसिद्धये ॥
तीर्थराजः -
शिव शैवजनावने धुरीण श्रुतिगणकारण कारणाद्यकर्ण ।
फणिरणितपदाब्जकङ्कण मम पापाद्यखिलाघशोषण ॥२७॥
तीर्थाधिदेवो मां स्तुत्वा मत्तस्तीर्थवरोऽभवत् । यः प्रयागं समासाद्य त्रिरात्रं समुपोषितः ॥२८॥
शतजन्मोत्थपापेभ्यो मुच्यते नात्र संशयः । प्रयागेश्वरमभ्यर्च्य दृष्टआ नत्वा महेश्वरम् ॥२९॥
स्नानदानार्चनात् सिद्धिः तस्य स्यान्नात्र संशयः । त्रिवेणीसङ्गमो यत्र तत्र पापभयः कुतः ॥३०॥
तत्रावसत् सदा विष्णुर्वेणीमाधवसंज्ञितः । मां ध्यायन् सर्वदा देवि स्नातॄणां फलदायकः ॥३१॥
गङ्गा च यमुना चैव यत्र गुप्ता सरस्वती । प्रवहत्यनिशं देवि यस्यान्तो नैव विद्यते ॥३२॥
अन्तर्वेद्यां ब्रह्मणोऽपि कृतं पुण्यमनन्तकम् । ये स्नात्वाऽथ प्रयागेशं पश्यन्ति च गणोत्तमाः ॥३३॥
संपूज्य बिल्वपत्रैश्च मुक्त एव न संशयः । प्रयागमन्यतीर्थेषु यः स्मरन् स्नाति भक्तिमान् ॥३४॥
स गङ्गायमुनोद्भेदे स्नाति नित्यं महेश्वरि । प्रयागे मकरे भानौ माघे स्नात्वा इनोदये ॥३५॥
स सर्वपापसङ्घेभ्यो मुक्तो मुक्तिं परां व्रजेत् । तस्माद्विनिर्गता पुण्या देवि गङ्गा सरस्वती ॥३६॥
यमुना च महादेवि ब्रह्मारण्यं सुशोभनम् । अविमुक्तं तदा प्राप्य चक्रतीर्थं सरिद्वरा ॥३७॥
मणिकर्णीभवन्नाम्ना ख्याता गङ्गा च पावनी । तस्मादयोध्यां विपुला अगमत् सुरसंयुता ॥३८॥
गङ्गासरय्वोर्यः सन्धौ स्नात्वा सन्तर्प्य वै पितॄन् । गयायां चैव पुण्यात्मा धर्मारण्यादिकेषु च ॥३९॥
फल्गुर्नाम नदी तत्र स्नानतः पापनाशिनी । भगीरथाश्रमं प्राप्य पितॄन् सन्तारयेत् सुतः ॥४०॥
गया कीकटदेशस्था पितॄणां तृप्तिदायिनी । पिण्डं तृप्तिप्रदं देवि तत्र दत्तमथाक्षयम् ॥४१॥
गयासुरशिरःस्थाने मत्पादं प्रकटीकृतम् । ईशानसंज्ञं तत्पादं सुराणां चाथ वैभवम् ॥४२॥
मत्पादे पिण्डदानेन यमलोके महेश्वरि । वासये स्वपितॄन् भक्त्या पुनरावृत्तिवर्जिते ॥४३॥
अयोध्या मधुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव पितॄणां तृप्तिदायिकाः ॥४४॥
अयोध्यायां ममास्त्येकं सुधेशाख्यं महेश्वरि । लिङ्गं मङ्गलदं पुण्यं दृष्ट्वा रघुवरार्चितम् ॥४५॥
बिल्वपत्रैस्तथा पुष्पैः सरयूसंभवैर्जलैः । समभ्यर्च्य प्रणम्येशं स्तोत्रमेतत् पठेन्नरः ॥४६॥
पापसङ्घैर्विमुच्येत नात्र कार्या विचारणा ॥४७॥
सुधाधारकलाधारपरिपूर्णोत्तमाङ्गक । नमस्तेऽस्तु महादेव दीनबन्धो प्रसीद मे ॥४८॥
नमस्ते देवदेवेश राघवैः परिपूजित । भवरोगहरापारपापराशिविनाशक ॥४९॥
प्रसीद देव विश्वेश परमेश्वर शङ्कर । शंभो शाश्वत सर्वज्ञ विश्वाधिक जगत्प्रभो ॥५०॥
नमस्ते शिव कामारे मयि देव कृपां कुरु । इति स्तुत्वा महादेवं सुधेशपरमेश्वरम् ॥५१॥
सरय्वां यः सकृत् स्नात्वा प्रणम्याथ सुधेश्वरम् । बिल्वैः संपूज्य भक्तयाथ रुद्राध्यायं पठेन्नरः ॥५२॥
मुक्त एव स पापेभ्यो नात्रास्ति विशयोंऽबिके ॥
गङ्गातुङ्गतरङ्गसङ्घविलसत्फुल्लैः सरोजोत्पलैः नीलस्वच्छपतङ्गपुत्रिसहिता गुप्ता च वाण्या तदा ।
ब्रह्मादित्रिदशैर्हरीन्द्रपवनैर्याता पतिं सागरं तीरोद्भासिमहर्षिसङ्घवनजापारैः सुमैरर्चितम् ॥५३॥
शुकपिकबककाककोकघूकैर्निभृतविनादितकेकिचक्रवाकैः ।
गहनविपिनवृक्षमस्तसंस्थैः घनपाषाणकणाशनादितुष्टैः ॥५४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गङ्गानिर्गमन - प्रयागगयायोध्यामहिमवर्णनं नाम त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP