संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
पञ्चविंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - पञ्चविंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
वसिष्ठाद्याश्च मुनयो वामदेवादियोगिनः । विश्वामित्रोऽ ङ्गिरात्रिश्च भरद्वाजोऽथ गौतमः ॥१॥
व्यासः पराशरो धौम्यः उचथ्यो भार्गवो मुनिः । सुमन्तुर्जैमिनिः पैलः कहोलो जमदग्निजः ॥२॥
जैगीषव्यः श्वेतकेतुर्मन्युश्चैव महामुनिः । दुर्वासोद्दालको योगी सनातनसनन्दनौ ॥३॥
सनत्सुजातः सनकः तथा भृङ्गिरिटिर्मुनिः । उद्दालको हरीतश्च दत्तात्रेयोऽथ कश्यपः ॥४॥
मंकणः शकणो दाल्भ्यः शौनकस्तण्डवः कृशः । काशकृत्स्नश्चौडुलोमिः शिलादः पैप्पलायनः ॥५॥
बोधायनो मरीचश्च तथा चैवाश्वलायनः । एते चान्ये च मुनयो वेदवेदान्तपारगाः ॥६॥
भाष्याणि धर्मशास्त्राणि कल्पसूत्रानि सत्तमे । कृत्वाऽपि संशयापन्ना मां गोकर्णेशमीश्वरम् ॥७॥
संशयोच्छेदनं ज्ञानं भत्तो लब्धुं मुनीश्वराः । तपस्यन्ति महाभागे शुद्ध्यर्थं तपसः शिवे ॥८॥
शुद्धे मनसि च ज्ञानं प्रतिबिम्बति नान्यथा । पञ्चाग्निनिरताश्चान्ये कटधृमाशनाः परे ॥९॥
पर्णाशिनस्तथा केचिद्वायुवारिफलाशनाः । निराहारास्तथा केचित् केचित् पक्षोपवासिनः ॥१०॥
कृच्छ्राणि केचित् कुर्वन्ति विविधानि सदाशिवे । गृहस्था यतयः केचिद्वानप्रस्थाश्च वर्णिनः ॥११॥
जटाजिनधरा मुण्डा भस्मरुद्राक्षभूषणाः । अग्निरित्यादिभिर्मन्त्रैः सर्वाङ्गोद्धूलने रताः ॥१२॥
त्रिपुण्ट्ररेखाविलसत्फालभागमनोहराः । कौपीनाच्छादनैर्हीनाः केचित् कौपीनधारिणः ॥१३॥
अश्मकुट्टास्तथा केचित् दन्तोलूखलिनस्तथा । गोचर्मवसनाः केचित् केचिव्द्याघ्राजिनाम्बराः ॥१४॥
अलाबुवैणवादीनि वाक्ष्यश्रृङ्गादिपात्रकैः । प्राणयात्रां प्रकुर्वन्ति मन्नैवेद्यैकभोजिनः ॥१५॥
अयाचितास्तथा केचित् प्रणवजापकाः । मन्नामनिरताः सर्वे मम लिङ्गार्चनप्रियाः ॥१६॥
पञ्चाक्षरजपासक्ताः केचित् प्रणपजापकाह । भस्मनिष्ठाभस्मशय्यारुद्राध्यायजपादराः ॥१७॥
लिङ्गार्चनपराः केचित् बिल्वपत्रादिसाधनैः । केचिल्लिङ्गे नीरधारां कल्पयित्वा च संस्थिताः ॥१८॥
रुद्राध्यायावर्तनैस्ते कालकालार्चने रताः । बिल्वमूलेषु लिङ्गानि पूजयन्त्यथ केचन ॥१९॥
शिव शम्भो महादेव प्रसीदेति वदन्ति च । स्थानासनादिभिः केचित् केचिद्देव्यूर्ष्वबाहवः ॥२०॥
ग्रीष्मे घर्मांशुसन्तप्ताः वर्षास्वाकाशगोचराः । शिवशब्दजपध्वस्तपापपञ्जरसुन्दराः ॥२१॥
गोकर्णनिलयं मां हि ध्यायन्तो लिङ्गरूपिणम् । एवं संवसतां तेषां ज्ञानं दातुं महेश्वरि ॥२२॥
तेषां पुरः प्रादुरासं नीलकण्ठोऽम्बिकायुतः । मां दृष्ट्वा ते मुनिगणाः प्रणम्य भुवि दण्डवत् ॥२३॥
तुष्टुवुर्जयशब्दैश्च गोकर्णेशं मुनीश्वराः ।
मुनयः -
जय देव विरूपाक्ष जय भक्तार्तिभञ्जन । जयानन्त महादेव जय विश्वाधिक प्रभो ॥२४॥
जयामरेशऽसर्वेश जय प्रमथनायक । जय शाश्वत सर्वज्ञ जय लिङ्गार्चकप्रिय ॥२५॥
जय कालकलातीत जय शम्भो महेश्वर । जय शिष्टजनप्रीत जय श्रीकण्ठ शाश्वत ॥२६॥
जयोग्र भीम कामारे जय लिङ्गस्थ शङ्कर । जय गङ्गाधराव्यग्र जय चन्द्रकलाधर ॥२७॥
जय बिल्वदळप्रीत जय भीम प्रसीद नः ॥२८॥
त्वं ब्राह्मणः सर्वसुरैर्विशिष्टः शिष्टेष्टपूज्यो भगवन् श्रुतिश्रुतः ।
वयं मनुष्यप्रवरा हि विप्रास्त्वामाश्रयामोऽखिलबन्धमुक्त्त्यै ॥२९॥
सुखाभासैर्धर्मैर्जनिमृतिनिदानादिनिवहैरविद्यां तीर्त्त्वैव प्रतिभवशतेषूत्तमधियः ।
असारं संसारं निरवधिककष्टैकजनकं मुहुर्निन्द्यं शम्भो विधिरहितबुद्ध्या गतधियः ॥३०॥
लुठन्तो मोहान्धाः फलजनितकामाः सुखमये तथा स्वर्गे दुःखे नरकशतवैचित्र्यनिवहे ।
महेशं विश्वेशं अखिलहृदयाब्जैकवसतिं न जानन्तो मोहाद्भवदभयभक्त्या विरहिताः ॥३१॥
ईश्वरः -
इत्थं संस्तुत्य ते सर्वे जयस्तुत्या तदाम्बिके । संसारजनकाज्ञाननिवर्तनकरं तदा ॥३२॥
विज्ञानं मां तदा प्रोचुर्देहेति परमेश्वरि ॥
मुनयः -
पशुपाशविमोचको भवान् पशवोऽज्ञोनविजृम्भिता वयम् ।
भगवन् शरणागतानथास्मान् शिव तद्वद गुह्यमपि प्रभो मुदा ॥३३॥
भवपाशविमुक्तये पदं मनसः पारमतीव सौख्यदम् ।
यदि त्वत्करुणाकटाक्षलेशैः भवदीयैरभवाय जायते ॥३४॥
भवसागरतारकं वयं ते पदपद्मं प्रथमं समाश्रिताः ।
वद तन्नो दुरवाप्यमप्यवाप्तुं श्रुतिवर्यैर्निखिलं विमुक्तिदायिन् ॥३५॥
अतितुच्छमनोविलासितैः प्रथमानैर्जननादिदुःखदैः ।
विभवैरसुखाय कल्पितैः सुखबुद्ध्यैव भ्रमन्ति पामराः ॥३६॥
दारापत्यधनैश्च धान्यनिकरैः सद्धेमपट्टाम्बरैरश्वैर्गोमहिषैरजाविकगणैर्दन्त्युत्तमैः स्यन्दनैः ।
प्रासादैर्विविधैर्महोन्नततलैर्मञ्चैः परार्ध्यास्तृतैः नानारत्नवरादिभूषणगणैराज्यैर्विमोहस्यहो ॥३७॥
ईश्वरः -
एवं प्रार्थयतां तेषां मुनीनां भावितात्मनाम् । तानब्रवमहं गौरि तद्ज्ञानं परमेश्वरि ॥३८॥
तल्लिङ्गदक्षिणात् वक्त्रादघोरान्मूर्तिमान् स्थितः । तान् मुनीनुपदेष्टुं तद्ज्ञानं परममम्बिके ॥३९॥
पिशङ्गितजटाकुटीविधृतचन्द्रगङ्गानलोज्ज्वलन्निटिललोचनं वटतरोरधस्तात् स्थितम् ।
कटीतटमृगाजिनं कृतसुयोगपट्टोल्लसत् कराम्बुजमुमासखं गरलनीलकण्ठं शिवम् ॥४०॥
अपस्मृतिशिरःस्थितप्रकटपादफुल्लाम्बुजं विनिद्रघुसृणारुणोत्पलकरोत्थचिन्मुद्रिकम् ।
सुरासुरमुनिव्रजभ्रमदहार्दविध्वंसनं तमोगुणगणारुणप्रभुविदीप्तिविद्योतकम् ॥४१॥
मां तादृशं तदा देवि दक्षिणामूर्तिरूपिणम् । स्वाज्ञानविनिवृत्त्यर्थं तुष्टुवुर्मुनयोऽमलाः ॥४२॥
मुनयः -
कटीतटपरीलसत्करटिकृत्तिकाद्यं शिवं तडिन्निभजटाकुटीविधृतसामकोटिप्रभम् ।
सुरोरुतटिनीशिखं वटतरीरधस्तात् स्थितं सुरासुरगणाननोज्वलकिरीटकोटिप्रभा -
विराजितपदाम्बुजं निटिललोलनेत्रं नुमः ॥४३॥
काशिकोशगतकाशविहीन काशिकापुरनिवासकाशय ।
काशपूज्यपद व्योमकेश नो ज्ञानकोशमखिलं भवमुक्त्यै ॥४४॥
मुनीनां वदनाद्देवि प्रश्नयाणां तदा मयि । तुष्टः कष्टविनाशाय तद्ज्ञानं संवदाम्यहम् ॥४५॥
ईश्वरः -
श्रृण्वन्तु वामदेवाद्या मुनयो मत्प्रसादतः । भवतां ज्ञानममलं भविष्यति न संशयः ॥४६॥
नातप्ततपसे देयं इति श्रुत्यनुशासनम् । भवन्तस्तप्ततपसः सर्वे मत्पदपूजकाः ॥४७॥
दास्यामि मत्परं ज्ञानं प्रणिपातपुरःसरम् । एतदर्थं पुरा देवैः पृष्टोऽहं मुनिसत्तमाः ॥४८॥
तानब्रवं सुरगणाः तच्छृण्वन्तु सुरर्षयः । अहमेकोऽद्वितीयश्च व्यापकोऽलिङ्ग एव हि ॥४९॥
मत्तो नान्यज्जगत् किंचित् पृथगस्ति मुनीश्वराः । ब्रह्मैवेदमिदं सर्वमात्मैवेदं न संशयः ॥५०॥
नेह नानास्ति दृश्यं यत् सर्वं मय्येव कल्पितम् । यथोर्णनाभिः सृजते ग्रसते तन्तुजालकम् ॥५१॥
तद्वज्जगन्ति जातानि ग्रसामि विसृजामि च । मय्येवेदं स्थितं विश्वं मय्येव लयमेष्यति ॥५२॥
नित्योऽहं निर्विकल्पोऽहं अशरीरोऽहमेव हि । आकाशात्मा व्यापकोऽहं न हि तद्धर्मभागहम् ॥५३॥
यतो भूतानि जातानि येन जीवन्ति तान्यपि । यस्मिन् लीनानि विप्रेन्द्राः तद्ब्रह्माहं न संशयः ॥५४॥
अपाणिपादो जवनो ग्रहीता पश्याम्यचक्षुः स श्रृणोम्यकर्णः ।
अहं विजानामि जगद्गतं द्विजा न मामहो वेत्ति च मायया वृतः ॥५५॥
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
नैवास्ति बन्धो न ममास्ति मुक्तिरच्छो निरच्छोस्मि मनोविवर्जितः ॥५६॥
अगाधमस्पर्शनरूपभूतं तथाऽरसं नित्यमसङ्गमीशम् ।
भूतेन्द्रियाणामतिरिक्तमीश्वरं कोशादिहीनं तमसः परस्तात् ॥५७॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं मनसा ततम् । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धविवर्जितः ॥५८॥
सत्यज्ञानानन्दमय अहमेव मुनीश्वराः । मां यो वेद स वै वेद सर्वमित्याह वै श्रुतिः ॥५९॥
ईशावास्यमिदं सर्वं यत् किञ्चिज्जगतीगतम् । देशकालाद्यवच्छिन्नं मां ज्ञात्वा मृत्युवर्जितः ॥६०॥
अद्वितीयोहमीशानः एक एवाहमीश्वरः । ज्ञात्वा मा न बिभेत्येव न द्वैतं तत्र विद्यते ॥६१॥
द्वैते भयं हि भवति ईषद्वा दुःखमश्नुते । सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ॥६२॥
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् । प्राक्प्रतीची उदीच्योऽ‍हं दक्षिणा विदिशस्तथा ॥६३॥
अधश्चोर्ध्वं च यत् किञ्चित् भूतं भाव्यहमेव हि । पूर्णं पूर्णमदः पूर्णं संपूर्णोऽस्मि निरामयः ॥६४॥
अशरीरः शरीरेषु प्राणापानौ मनोमनः । देहेन्द्रियाण्यथ प्राणा मनसा मुनयो ह्यहम् ॥६५॥
कूर्मोऽङ्गानीव सर्वत्र सृजामि विसृजामि च । विनश्यत्स्वविनश्यन्तं मां यो वेद स वेदवित् ॥६६॥
दिक्ष्वहीनं हि मां ज्ञात्वा शोकं तरति सत्तमाः ।
को मोहस्तस्य कः शोकः छिन्नग्रन्थिः स एव हि ॥६७॥
मामात्मानं प्रियं ज्ञात्वा आनन्दं न बिभेति च । मय्येव च जगज्जातं मय्येव स्थितमेव हि ॥६८॥
मय्येवान्ते समभ्येति तत्तद्धर्मोपलेपितः । वाचो मत्तो निवर्तन्ते मनसा मुनिसत्तमाः ॥६९॥
मां ब्रह्मविद् ब्रह्मैव भविष्यति न संशयः । मयि ज्ञातेऽखिलं ज्ञातं पुच्छं पुरुष एव हि ॥७०॥
काष्ठा गतिः परा चाहं मुक्तोहं मोचकोऽस्म्यहम् । स्वाविद्यया संसरामि विद्यया मोचकोस्म्यहम् ॥७१॥
अजिघत्सोऽपिपासोऽहं देहप्राणमनोऽतिगः । अशीर्योहं सदाऽदाह्य असङ्ग पुरुषस्त्वहम् ॥७२॥
मद्रसं परमं ज्ञात्वा नन्दितो भवति द्विजाः । नैव जीवो न च ज्ञानं स्वे महिम्न्यहमास्थितः ॥७३॥
पुरुषस्त्वौपनिषदो ज्ञातुं शक्यो न कर्मणा । भीत्याऽनलानिलेन्द्राद्या भान्ति वान्ति सृजन्ति च ॥७४॥
सत्यकामोऽस्म्यसङ्कल्पः षडूर्मिरहितस्त्वहम् । न जायते वा म्रियते नापं जाती जनिष्यति ॥७५॥
प्रातिभासिकमेवेदं जगद्व्येतन्मुनीश्वराः । तद्धर्भैर्नैव लिप्तश्च न बन्धो मोक्ष एव हि ॥७६॥
नैव जातं जगत् किञ्चिन्नास्यान्तः परमार्थतः । मृगतृष्णानिभं विप्राः स्वाज्ञानपरिकल्पितम् ॥७७॥
मृगाणां मृगतृष्णाब्धौयथा सत्यत्वकल्पना । तद्वद्देहाभिमानेन जगत्सत्यत्वकल्पना ॥७८॥
नराणां ज्ञानिनां विप्रा मृगतृष्णेति तद्विदाम् । कथं पिपासा भवति अज्ञानां तद्वदेव हि ॥७९॥
स्वमात्मानं परं दृष्ट्वा देहादिरहितं शिवम् । सद्य एव विलीयत स्वाज्ञानोत्थजगद्गणः ॥८०॥
अहं भूमाऽखिलानन्दो रसोऽहं शाश्वतः प्रभुः । विभुर्देहेन्द्रियाख्यां वै गमितो मूढकल्पनात् ॥८१॥
एकोऽहमेव भूतात्मा भूते भूते व्यवस्थितः । देहोदयविनाशेषु अविनाश्यहमेव हि ॥८२॥
यथान्धकारे पुरुषं संवृतं नीलवाससा । न जानन्ति यथान्ये वै स्वात्मानं जानते स्वयम् ॥८३॥
तथा सर्वेन्द्रियाणां हि प्रतिष्ठाऽहं गतागतौ । पुरुषः षोडशात्माहं विविधेन्द्रियकल्पकः ॥८४॥
चक्षुः श्रोता तथा द्रष्टा मन्ता बोद्धाऽहमेव हि । एव ब्रह्मैव सर्वं हि नान्यथा श्रुतिराह हि ॥८५॥
अयमात्मा तथा ब्रह्मन् ब्रह्मैवाहं तथा द्विजाः । तत्त्वमस्यादिवाक्यानि अहं ब्रह्मास्मि निश्चयः ॥८६॥
अभोक्तारमकर्तारमसङ्गमविनाशकम् । जीवश्चात्मेति तद्वित्त्वतत्त्ववाक्यार्थकल्पना ॥८७॥
अज्ञानामैक्यविज्ञानज्ञानार्थं मुनिसत्तमाः । द्वासुपर्णादिवाक्यानां कल्पितद्वैतकल्पने ॥८८॥
तत्त्वमस्यादिवाक्यानां बोधनात् सर्वभेव हि । असत्ये सत्यमारोप्य मूढानां बोधदायिनी ॥८९॥
अर्थवादोपासनाभिः कर्मभिः श्रुतिराह हि । शाखाचन्द्रगवार्ताभिः कल्पयिष्यन्ति सत्तमाः ॥९०॥
करोति तारमभ्येन स्वाधिकारानुरूपतः । रत्नकान्तिर्यथा रत्ने दृश्यते चलितेव सा ॥९१॥
आत्मानन्यतया भाति तथा मयि जगद्गतम् । नेत्रमालिन्यतो भाति चन्द्रे द्वित्वं जले रविः ॥९२॥
अभ्रैर्गच्छदिवाभाति स्वे महिम्न्यहमास्थितः ॥९३॥
ईश्वरः -
एतदेव परं ज्ञानं नानाश्रुतिशिरोगतम् । अहं ब्रह्मेति विज्ञानान्मुच्यते नान्यथा द्विजाः ॥९४॥
ज्ञाने चास्तमिते विप्राः वेदनादिविवर्जितः । अहमेवास्मि तद्ब्रह्म वाचारम्भणमित्यपि ॥९५॥
नैव वाचा न मनसा शक्योऽहं ज्ञातुमेव हि । तमेकं जानथात्मानं नान्यः पन्थाऽयनाय हि ॥९६॥
ज्ञानेनैव परा मुक्तिर्भवत्येव न चान्यथा । अहं ब्रह्मेति विज्ञानं तद् द्विजाः परमार्थतः ॥९७॥
शाद्बज्ञानमहो विप्राः न मुक्त्यै भवति ध्रुवम् । श्रवणायापि नो विप्रा न लभ्यः (?) परमेश्वरः ॥९८॥
श्रृण्वन्तोऽपि महादेवं न विद्युर्यं पिनाकिनम् । भक्त्या ह्यनन्यया लभ्यो दुर्लभो‍ऽयं मुनीश्वरः ॥९९॥
भावग्राह्यमनीशाख्यमित्याह श्रुतिरादरात् । सर्वमन्यत् परित्यज्य ध्येयोऽहं परमेश्वरः ॥१००॥
चतुर्थोऽहं सदा विप्राः तुरीयः शिव एव हि । अहमात्मा मुनिश्रेष्ठाः सत्यं सत्यं न संशयः ॥१०१॥
ब्रह्मणश्चापि विष्णोश्च तथान्येषां दिवौकमाम् । जनिताहं महादेवः परमात्मा श्रुतिश्रुतः ॥१०२॥
न कर्मणा न प्रजया न धनेनेज्यया द्विजाः । नान्यः पन्था द्विजश्रेष्ठाः मज्ज्ञानं परमार्थतः ॥१०३॥
यस्यैव वृणुते स्वात्मा तेन लभ्यमिदं द्विजाः । यदाकाशं चर्मवेष्टं वेष्टयेयुर्जना द्विजाः ॥१०४॥
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति । इन्द्राग्निमित्रं वरुणं ब्रह्माणमेव च ॥१०५॥
एकमेव महादेवं बहुधा कल्पयन्ति हि । मामविज्ञाय विप्रेन्द्राः किमृचा स करिष्यति ॥१०६॥
यो मां वेद स वै मुक्तिममी लोकाः समासते । किं वोऽद्य बहुनोक्तेन श्रद्दध्वं मुनिसत्तमाः ॥१०७॥
साधनान्यधुना वक्ष्ये ज्ञानोत्पत्त्यर्थमेव हि । ज्ञाने चाप्यर्थविज्ञानदार्ढ्यार्थं मुनिसत्तमाः ॥१०८॥
भस्मनोद्धूलनं पुण्यं त्रिपुण्ट्रस्य च धारणम् । व्रतमेतत् पाशुपतमामनन्ति मुनीश्वराः ॥१०९॥
शिरोव्रतमिदं पुण्यं ज्ञानसाधनमेव हि । रुद्राक्षधारणं पुण्यं रुद्राध्यायानुवर्तनम् ॥११०॥
रुद्रलिङ्गार्चनं भक्त्या बिल्वपत्रादिसाधनैः । पञ्चाक्षरजपश्चैव मन्नैवेद्यैकभोजनम् ॥१११॥
शिवक्षेत्रनिवासश्च नित्यानित्यार्थचिन्तनम् । शिव शम्भो महेशेति अनिशं शिवचिन्तनम् ॥११२॥
मैत्री भूतेशु करुणा शान्तिदान्त्यादयो गुणाः । यमश्च नियमश्चैव जिह्ममायादिवर्जनम् ॥११३॥
वेदवेदान्तवाक्यानां विचारो गुरुवाक्यतः । लोकानुदर्शनं चैव वैराग्यार्थ मुनीश्वराः ॥११४॥
दुःखितानां नराणां च विनष्टानां मुनीश्वराः । सर्वं जुहोति विज्ञानं नेति नेत्यादिवाक्यतः ॥११५॥
गुरौ शिवेऽविनाभावो मन्मूर्तौ चिन्तनं तथा । उमासहायं देवेशं नीलकण्ठं प्रशान्तकम् ॥११६॥
एतद्वः संग्रहेणैव प्रोक्तं ज्ञानं मुनीश्वराः । उद्दालकश्रुतार्थस्य चिन्तनं कुरु सत्तम् ॥११७॥
मननं श्रवणं भक्त्या निदिध्यासनमेव च । आसुप्तेरामृतेर्विप्राः कुरुध्वं भक्तिभावनाः ॥११८॥
एतदेव मुनिश्रेष्ठा मम ज्ञानाङ्गमुच्यते । अन्यदेवस्मृतिश्चापि भस्मपुण्ड्रस्य धारणम् ॥११९॥
स एव तमसाऽऽविष्टो नैवेदं प्राप्नुयात् क्कचित् । मत्प्रसादेन विज्ञानं मत्प्रसादेन मुक्तयः ॥१२०॥
मत्प्रसादेन मुनयः सर्वं प्राप्यत एव हि । यस्य कस्यापि नो देयं ज्ञानमेततु सुदुर्लभम् ॥१२१॥
नावेदविदुषे देयं गोप्यमेतत् प्रयत्नतः । अपात्रेषु ददन्नेतत् मद्ज्ञानं भूसुरोत्तमाः ॥
नरो नरकमाप्नोति सह पूर्वैः पितामहैः ॥१२२॥
इत्थं मत्तो महादेवि ज्ञानं प्रपय मुनीश्वराः । प्रणम्य मुनयः सर्वे मामाहुर्वीतकल्मषाः ॥१२३॥
मुनयः -
न जानन्ति बोधं न वाऽऽनन्दसिद्धिं भवद्भक्तिलेशाद्विहीनातिहीनाः ।
श्रुतेर्वाक्यतः सिद्धिमीयुस्तुरीयां महेशान शम्भो गुरौ वा लभेत (?) ॥१२४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनं नाम पञ्चविंशोऽ‍ध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP