संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| विंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - विंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव विंशोऽध्यायः Translation - भाषांतर ईश्वरः - श्रृणु त्वमगजे पुण्यां मम भक्तस्य सत्कथाम् । भक्तभक्तं च मां विद्धि भाववश्योऽस्मि शङ्करि ॥१॥यः कश्चिदस्तु मद्भक्तः स मे प्रियतमोऽम्बिके । भक्थ प्रियो मे सततं चण्डालोऽस्तु द्विजोऽथवा ॥२॥भक्तान्नस्य क्षुधाविष्टः त्रिनेत्रः पात्रमम्बिके । वनखण्डमिति ख्यातं क्षेत्रमत्युत्तमोत्तमम् ॥३॥वैद्यनाथोऽहममले तल्लिङ्गे संवसाम्यहम् । कामार्थी जनकामानां पूरकोऽहं सदाम्बिके ॥४॥अरण्यशरणो नित्यं वनानां पतिरस्म्यहम् । ब्रह्मविष्ण्वादिभिर्देवैः गणबृन्दैश्च सेवितः ॥५॥पूजितो बिल्वपत्राद्यैर्निवसामि त्वया सह । बदरीखदरैर्बिल्वैः हरीतकबिभीतकैः ॥६॥वैकङ्कतैः केतकैश्च वंशैः कण्टकभूरुहैः । अन्यैश्च शाखिशतकैः फलपुष्पावनामिभिः ॥७॥संवृतं वनमत्युग्रं सिंहव्याघ्ररवाकुलम् । वेणुक्रेङ्कारनिनदैः झिल्लिकागणपूजितैः ॥८॥केसरीविकटारावभीतदन्तिजबृंहितैः । घूकोलूकोत्थघूत्कारसंवर्धितदिगन्तरम् ॥९॥केकिकोकिलनादैश्च शिवाकोलजघुर्घुरैः । भीषणं भीषणस्यापि तत्रारण्यपतिस्त्वहम् ॥१०॥निवसामि त्वया गौरि तद्वने सञ्चरन् सदा । फलपुष्पाण्यपाराणि पश्यन् जिघ्रन् वनस्थलीः ॥११॥अरण्यपतिरेवाहं तदा हि वनगोचरः । तत्रास्ति भिल्लराट् कश्चित् सदाऽत्यन्तसखा मम ॥१२॥भक्तश्च सततं देवि म अयि प्रीतिसमन्वितः । बद्धगोधाङ्गुलित्राणो मृगचर्मलसत्कटिः ॥१३॥वराहचर्मादिकृतपादत्रानसमन्वितः । मातङ्गकृत्तिविलसत्कञ्चुकावृतविग्रहः ॥१४॥पिनाकसदृशं तस्य धनुरस्त्येकमुत्तमप् । मुष्टिना हस्तलग्नेन धनुषा स विराजितः ॥१५॥तन्निषङ्गशरैः पूर्णं धारयन्ती तदङ्गना । सवर्णवाससा तं हि समायास्यति पृष्ठतः ॥१६॥गुञ्जादिविधृतापारभूषणावलिभासुरा । स मृगाजिनसर्वाङ्गो मधुपिङ्गललोचनः ॥१७॥तद्दृष्टिपातभीत्यैव पलायन्ते मृगाण्डजाः । किं पुनस्तच्छराघातं मृगः कः सोदुमर्हति ॥१८॥मृगं व महिषं वापि सृमरं चमरं रुरुम् । कोलं शललकं चैव शशं खङ्गं च विध्यति ॥१९॥करीन्द्रशुण्डाकाण्डानि गिरीन्द्रशिखराण्यपि । स्वकाण्डशरकाण्डैश्च खण्डयत्येव भिल्लराट् ॥२०॥व्याघ्रं वापि तरक्षुं वा स विध्यत्येव दुःसहः । सदा कटितटोद्भासिखङ्गखेटकशोभितः ॥२१॥आखेटकपरीवारेर्जालजालैः सदाऽऽवृतः । त्रिसहस्रमहाभिल्लैः क्रूरेः क्रूरतरैर्वृतः ॥२२॥ते नित्यं शस्त्रपाषाणखङ्गखेटधराः सदा । धनुःशरकराश्चान्ये नित्यं तमनुयायिनः ॥२३॥व्याघ्रवीयैः श्वमिश्चैव करालोन्नतदंष्ट्रिभिः । कूजद्भिरनुधावद्भिस्तैः साकं वक्रपुच्छकैः ॥२४॥जृम्भमाणललज्जिह्वादीर्घश्रोत्रोरुलोचनैः । नीलपीत्यारुणैर्वर्णैर्लालातन्तुयुतैर्मुखैः ॥२५॥शशान्वराहांश्च मृगाननुद्रुत्याशुचिस्तदा । विदारयन्ति दशनैस्तद्रक्तापूरितैर्मुखैः ॥२६॥मृगान् पार्श्वोदरान्त्रेषु वृक्णैश्च वृषणैस्तथा । शरपातात् पूर्वमेव धावन्त्येते सुदुःसहाः ॥२७॥भिल्लानां पुरतो देवि तस्मिन् सुगहने वने । स मुष्टिधृतचर्मस्थश्येनैरुग्रारुणाक्षिभिः ॥२८॥पक्षिजालं निहन्ति स्म विसृष्टकरबन्धनैः । स मण्दलपरिभ्रश्यन्नखतुण्डोरुकुट्टनैः ॥२९॥पक्षपादप्रहारैस्तां बलाकापङ्क्तिमुत्थिताम् । गजनीला महाभिल्लाः सर्वे मल्लिङ्गपूजकाः ॥३१॥तेषां श्रेष्ठोऽथ मेधावी जपो नाम्ना महाबलः । पत्न्या समन्वितो नित्यं झषान् सरसि इन्त्यपि ॥३२॥हत्वा वराहान् पृषतान् रुरूकन्याञ्छशांस्तथा । सुस्वादुमांसमुत्कृत्य निष्टप्यास्वाद्य शोभते ॥३३॥अन्यदादाय जालेन वारयन् भूरि तद्वलम् । संप्रेषयति तद्गौरि गृहं मिल्लगणैस्तदा ॥३४॥सुस्वादुभांसं पेश्यां स निक्षिप्यायाति मां तदा । भवरोगहरं नाम्ना तीर्थं तत्रास्ति शैलजे ॥३५॥आयुर्वेदः पुरा दत्तो मयाऽश्विभ्यां सुपूजितः । स्नात्वा तस्मिन् महातीर्थे पूतौ देवभिषग्वरौ ॥३६॥देवपङ्क्तिगतौ चापि भवतां सोमपीथिनौ । ताभ्यां स्तुतोऽहं कल्याणि तत्स्तुतिं श्रृणु शैलजे ॥३७॥पूजितो बिल्वपत्रैश्च वैद्यनाथो महेश्वरि ।अश्विनौ - भिषग्वरं देववनं महेशं गङ्गाधरं सोमहुताशनेत्रम् ।सुपद्ममित्रान्तरवxनं त्वां भजाव शम्भुं सुहिरण्यबाहुम् ॥३९॥दशशतवदनेक्षणोरुपादैः दशशतनयनेन संस्तुताङ्घ्रिम् ।दशशतरुद्रगणाभिपूज्यलिङ्गं दशशतकिरणाक्षिxनतौ स्वः ॥४०॥ताभ्यां स्तुतोऽहं कल्याणि कृतौ देवभिषावरौ । तीर्थोत्तमे तदा स्नात्वा गृह्णात्यास्येन वै जलम् ॥४१॥दवभस्माङ्किताङ्गः स पृष्टबद्धशरावरः । शिञ्जिनीसहितो भस्वदुपवीतशरासनः ॥४२॥बिल्वपत्राण्यथादाय मांसपेशीं तथा करे । स समायाति मां गौरि पत्न्या सह समन्वितः ॥४३॥सुरैः पूर्वकृतां पूजां रत्नैर्बिल्वैश्च शङ्करि । पादत्राणपदा गौरि सदा दूरीकरोति सः ॥४४॥स्वगण्डूषजलैः स्नाप्य लिङ्गं मङ्गलदं मम । पातयित्वा बिल्वपत्रं तन्मांसं विनिवेद्य च ॥४५॥लिङ्गमौलिं कराभ्यां च स्पृष्ट्वा क्रोशति भैरवम् ॥४६॥भिल्लः - अहो महादेव सदाशिवेश प्रसीद मय्यद्य महाघपुञ्जे ।त्वत्पादभक्त्या गणयामि नामरान् द्विजा मनुष्याश्च कियन्महेश्वर ॥४७॥कियन्ति पापानि कृतानि चेत् किमु उत्पाटये युर्भवतोद्य शिष्यम् ।यदि स्मरारेश्चरणारविन्दं स्मरामि तस्मान्न भयं ममाद्य ॥४८॥इत्थं मद्भक्तिगर्वेण भिल्लो वदति शङ्करि । सुप्रीतोऽस्ति महादेव पूजया मम केवलम् ॥४९॥इति श्रुत्वाऽथ तद्वाक्यं तद्भक्त्याहं सुतोषितः । त्रिरोंकारध्वनियुतं प्रतिशब्दं ददाम्यहम् ॥५०॥तच्छ्रुत्वा प्रणतो गौरि भिल्लो याति स्वकं गृहम् ।पत्न्या तथा विशालाक्षि स भुङ्क्ते बान्धवैः सह ॥५१॥मृगाजशशगोधानां मांसं स्वादु निवेदितम् । अत्यन्तं घर्मतप्तोऽपि वृष्टिधारान्वितोऽपि वा ॥५२॥क्षुच्छ्रान्तोऽपि महादेवि नियमान्मम पूजकः । प्रत्यहं मां समभ्यर्च्य भुङ्क्ते मांसानि केवलम् ॥५३॥एवं संवसतस्तस्य कालो भूयानवर्तत । तद्भीत्या वायुरपि च न वाति मनुजः कथम् ॥५४॥समायाति वनं गौरि ब्रह्मविष्ण्वादयः सुराः । निशि प्रत्यहमागत्य साङ्गं कुर्वन्ति पूजनम् ॥५५॥प्रातः सङ्गवमध्याह्नकालादपि महेश्वरि । सायङ्काले महादेवि पूजा प्रियकरी मम ॥५६॥तत्रापि निशि पूजा मे देवि प्रीतिकरी मम ॥५७॥निशासु सितभस्मधृग् विमलशाङ्गलिङ्गार्चको शिवे भवति भाग्यतो मुहुरपारबिल्वार्पणैः ।सुपीततरकेतकैः समभिपूज्य भुक्तो भवेन्न याभ्यभवयातनामपि श्रृणोति तत्रार्चकः ॥५८॥शैववर्यगणाः सर्वे मुनयो धैर्यतत्पराः । तस्याज्ञया समायान्ति पर्वकालेषु सादरम् ॥५९॥स्नात्वा तत्सरसि स्वच्छे भस्मरुद्राक्षभूषणाः । हरिद्वारात् समानीय शुभं गङ्गाजलं शिवे ॥६०॥रुद्रसूक्तैर्महादेवं वैद्यनाथं तथाम्बिके । तदा कार्पटिकाः शैवाः मल्लिङ्गं सेचयन्त्युमे ॥६१॥पञ्चामृतैः फलैश्चापि गन्धाद्यैर्बिल्वपत्रकैः । पुष्पैर्वन्येरपारैश्च नैवेद्यैः परिकल्पितैः ॥६२॥प्रदक्षिणप्रणामाद्यैः स्तुवन्ति स्तव्यमीश्वरम् । वैद्यनाथमहालिङ्गं भवरोगहरं शिवम् ॥६३॥मुनयः - त्वामालोक्य सुनिर्वृता मुनिगणाः प्राप्ताभयाः शङ्करं विश्वेशं मदनान्तकं सुरवरैर्वेदैश्चतुर्भिः स्तुतम् ।धात्रा वृत्रहणेन मारजनकेनाराधितस्त्वं सदा विश्वं त्वं तमसां परः श्रुतिशिरोवेद्यस्त्वमाद्यो भिषक् ॥६४॥या चोमा भगवंस्त्वदङ्कवसतिर्यस्याः कृपालेशतो जातं विश्वमिदं विचित्रजनकं या सा स्वयं मोहयेत् ।यां देवा मुनयोऽप्यमी स्तुतिशतैः स्तुत्वा तदीयं शुभं विज्ञानं समवाप्य मुक्तकरणा मुक्तिं प्रयान्त्येव ते ॥६५॥भिल्लादस्माच्छिवो यत्करधृतधनुषो भीतिरस्माकमुग्रा - दुग्रस्त्वं शैववर्ये विततयशःसीम्नि विस्तीर्णधाभ्नि ।सुधाधामा मूर्धा त्वयि च तदुभयं भिल्लगण्डूषवारि नो सह्यं नो महेह भवदभयकृपापात्रभूतान् (?) प्रसीद ॥६६॥इत्थं सर्वमुनीन्द्रैश्च प्रार्थितोऽहं सदाम्बिके । तद्भक्तिदार्ढ्यं विज्ञातुं तान् प्रदर्शयितुं तदा ॥६७॥वातवृष्टिः समानीता स्तनयित्नुप्रगर्जितैः । शिलापातोपमासारशुण्डाधारातिवर्षणैः ॥६८॥मेघमालावृतं व्योम समभूत् सूरतस्करम् । तया वृष्टिभयात् सर्वे विलीनास्ते महालये ॥६९॥भिल्लभीत्या वृष्टिभिया शैवाः कम्पितविग्रहा । एतस्मिन्नन्तरे भिल्लः पत्न्या स्नात्वा समाययौ ॥७०॥मांसान्यादाय हस्तेन बिल्वपत्राण्यथैकतः । शरावरेण धनुषा पृष्ठलग्नेन शांभवि ॥७१॥पादत्राणेन च तदा गण्डूषपयसाऽपि च । वैद्यनाथमहालिङ्गे पादत्राणपदा तदा ॥७२॥तैः शांभवैः कृतां पूजां बिल्वपत्राण्यपातयत् । स्वगण्डूजलैः स्नाप्य तल्लिङ्गं मम मुक्तिदम् ॥७३॥अपातयद्विल्वपत्रं मांसं तच्च निवेद्य सः । धृत्वा लिङ्गशिरो भिल्ल उदक्रोशद्यथापुरम् ॥७४॥तद्भक्तिदार्ढ्यं शैवानां प्रदर्शयितुमम्बिके । मया नोच्चरितः शब्दस्तदा भिल्लोऽतिदुःखितः ॥७५॥स्फुटितं चक्षुरेकं मे स्रवद्रक्तं च लिङ्गगम् । तस्मै सन्दर्शयामीशे दृष्ट्वा मां तादृशं तदा ॥७६॥शिलीमुखमुखेनैव स्वनेत्रं स तदोत्खनत् । उवाच दुःखितो भिल्लः केन तत् कृतमीश्वर ॥७७॥तमद्य पातयिष्यामि अहो बत वतेति च । तद्दत्तनेत्रगोलेन लिङ्गनत्रेण शोभितः ॥७८॥द्वितीयं मे तदा नेत्रं तथा स्फुटितप्रीश्वरि । स्रवद्रक्तं दर्शयामि तस्मै भिल्लवराय हि ॥७९॥तदा स्वनेत्रमुत्फुल्लं शराग्रेण समुत्खनत् । पश्यन्ति मुनयः सर्वे तद्भिल्लकृतसाहसम् ॥८०॥उवाच भिल्लो हृष्टः सन् पाणिना नेत्रगोलकम् । प्रगृह्य विनयोपेतः पश्यन्त्या भार्यया तदा ॥८१॥भिल्लः - त्वदीयं लोचनं केन स्रवद्रक्तमहो कृतम् । तेन त्वं दुःखितोऽसीति करेणालिङ्ग्य मां तदा ॥८२॥गृहाण मन्नेत्रवरे फुल्लाम्बुजसमप्रभे । इअति तद्वाक्यमाकर्ण्य त्वया सह सुमध्यमे ॥८३॥मया चन्द्रकलामौलि महावृषभसंस्थितम् । नीलकण्ठं विरूपाक्षं तस्मै रूपं प्रदर्शितम् ॥८४॥गणेश्वरैः परिवृतंवृतं मुनिगणैस्तदा । दृष्ट्वा मा मुनयः सर्वे भिल्लस्य पुरतोऽम्बिके ॥८५॥अन्योन्यं वीक्षयन्तस्ते मां भिल्लं च मुहुर्मुहुः । मत्पाणिकमलेनेशि तन्मुखं रक्तसंवृतम् ॥८६॥स्पृष्टं तस्येक्षणे दत्ते फुल्लाम्बुजसमप्रभे । अत्यन्तविस्मयाविष्टाः शैवा ऊचुः परस्परम् ॥८७॥अहोऽस्य तादृशी भक्तिर्दृष्टा न क्कापि न श्रुता । दृष्ट्वास्यैतादृशीं भक्तिं सर्वं सहति शङ्करः ॥८८॥सहमानो महादेवो भक्त्या सर्वं सहिष्यति । एतादृशं भक्तिभाग्यं प्रापायं बनगोचरः ॥८९॥सहस्रकमलैर्लिङ्गं यदा संपूजयद्धरिः । सहस्रगणनाशून्ये स्वनेत्रकमलेन हि ॥९०॥हरिणा पूजितः शम्बुरित्येवं शुश्रुमः कथाम् । नेत्रद्वयमयं प्रादाद् वैद्यनाथाय सत्तमः ॥९१॥हरेरप्यधिकश्चायं भक्त्या भिल्लो गणोत्तमः । धन्योऽयं कृतकृत्योऽयं मान्योऽस्माकमहो द्विजाः ॥९२॥एतादृशी भक्तिरपि अस्मास्वद्य न विद्यते । भिल्लमालिङ्ग्य ते शैवा धन्यो मान्योऽसि नः सदा ॥९३॥त्वमेव भक्तवर्योऽसि धन्यं त्वत्कुलमुन्नतम् । योऽल्पोऽपि भक्तियुक्तः स्याद्देवदेवे महेश्वरे ॥९४॥भाग्यवानेव भूलोके मान्यो देवगणेष्वपि । यो वै समुन्नतो हीनो भक्त्या देवे महेश्वरे ॥९५॥सोऽधमश्चेति विज्ञेयो मुनिभिस्तत्वदर्शिभिः । इत्थं वदन्तस्ते शैवा हर्षनिर्भरमानसाः ॥९६॥मां प्रणम्याथ ते सर्वे तुष्टुवुः प्रमथाधिपम् ॥९७॥शैवाः - तारानाथसहोदरापतिकृतापाराब्जपूजाङ्घ्रिकं मारारातिमपारदुःखशमनं घोरादिपापापहम् ।धीरोदारकुमारशूरजनकं कर्पूरगौरं हरं वारं वारमनुस्मराम हृदये वीरं कृपासागरम् ॥९८॥इति स्तुत्वा तदा शैवा मां संस्मृत्य सदा स्थिताः । सारूप्यं च मया दत्तं गणत्वं तस्य शङ्करि ॥९९॥तस्मै भिल्लाय मल्लोके वासो दत्तस्तदानघे । पूर्वज्ञानविहीनश्च स मां तुष्टाव हर्षितः ॥१००॥पत्न्या सह विशालाक्षि सगणो देवरूपया ॥१०१॥भिल्लगणः -निधनपतिमनीशं शासितारं परेशं गुरुममरवराणां चारणानां च शम्भुम् ।भुवनजनकमाराद्वेदशीर्षेषु गम्यं कनकगिरिनिवासं वैद्यमाद्यं नतोऽस्मि ॥१०२॥अभेद्यस्त्वच्छेद्यो निखिलभवरोगादिहरणो महानाद्यो वैद्यस्त्वमसि विबुधाद्याद्य वचसाम् ।नमोऽन्ताद्यैर्मन्त्रैः प्रकटितयजुर्वेदतिलकैः भवांस्तव्यः सेव्यो हर हरसि पापं मम विभो ॥१०३॥ईश्वरः - इति स्तुत्वा तदा भिल्लः स्वभिल्लैर्भार्यया तदा । गणाधीशोऽभवद्देवि विकुण्ठोपरि कल्पिते ॥१०४॥विष्णुभोगशताधिक्ये लोके वै स्थापितो मया । एतत्तेऽभिहितं गौरि वैद्यनाथस्य वैभवम् ॥१०५॥यः श्रृणोति सदा भक्त्या मयि भक्तिं लभेत् स वै । लिङ्गमेतत् सकृद् दृष्ट्वा स्नाप्य गङ्गाम्भसा नरः ॥१०६॥कृतकृत्यो भवेद्गौरि स साक्षाद्गणपो भवेत् । वैद्यनाथमहालिङ्गं सकृद् दृष्ट्वा विमुच्यते ॥१०७॥अनन्तैरै पापौघैः सद्य एव न संशयः । शैवाश्च सततं भक्त्या बिल्वैर्गङ्गाम्भसा शिवे ॥१०८॥तल्लिङ्गं पूजयन्त्येव भवबन्धविमुक्तये ।लिङ्गं मङ्गलदं मनोज्ञममलं श्रीवैद्यनाथाभिधं दृष्ट्वा संपूज्य बिल्वैः सकृदपि च नरः प्राप्नुयान्मुक्तिकान्ताम् ।त्यक्त्वा पापौघतापं जनिमृतिगदजापारदुःखैर्विहीनो हीनोऽपि स्यादवश्यं भवशतजनितं भूरिपुण्यं लभेत ॥१०९॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे वनखण्ड वैद्यनाथमाहात्म्ये भिल्लभक्तिवर्णनं नाम विंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP