संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
एकादशोऽध्यायः

भर्गाख्यः पञ्चमांशः - एकादशोऽध्यायः

श्रीशिवरहस्यम्


देव्युवाच -
श्रुतं बाणासुराख्यानं भवतः परमेश्वर । केदारस्थानमहिमां वदाद्य शिव शङ्कर ॥१॥
सूतः -
महादेवो महेशान्या पृष्टो दक्शमखान्तकृत् । देवीं प्राहारविन्दाक्षः केदारस्थानवैभवम् ॥२॥
ईश्वरः -
अस्ति क्षेत्रवरं देवि केदारं भुवि विश्रुतम् । तत्क्षेत्रमहिमा सुभ्रु वेदैर्न ज्ञायते शिवे ॥३॥
तस्मिन् क्षेत्रवरे देवि ब्रह्माद्या विबुवोत्तमाः । निवसन्ति महाभागे केदारेश्वरपूजकाः ॥४॥
तल्लिङ्गसदृशं लिङ्गं न भूतं न भविष्यति । हित्वा कैलासशिखरं गिरीशो वसतीश्वरः ॥५॥
सदा तत्र महाशैव वसन्ति शिवतत्पराः । भस्मरुद्राक्षवीताङ्गा त्रिपुण्ड्रावलिभासुराः ॥६॥
केदारेशस्य देवस्य नित्यमाराधने रताः । षट्सहस्रं फलाहारा वाय्वाहाराश्च पञ्चकम् ॥७॥
त्रिसहस्रांबुपर्णाशा भासुराः शिवतत्पराः । च्यवना भार्गवाश्चैव भारद्वाजाश्च काश्यपाः ॥८॥
मौद्गल्या वीतहव्याश्च वैश्वामित्रात्रिसंभवाः । मत्पादपूजकाः सर्वे केदारक्षेत्रवासिनः ॥९॥
ब्राह्मणा ब्रह्मसदृशाः ऋग्यजुःसामपारगाः । निवसन्ति सदा देवि मम लिङ्गार्चने रताः ॥१०॥
पञ्चाग्निनिरताः केचित् त्रेताग्निशरणाः परे । नारदाद्याश्च मुनयो वसन्ति सततं शिवे ॥११॥
गन्धर्वाः सिद्धनागाद्य यक्षाः किंपुरुषाः सदा । पत्नीभिः शैलशिखरे केदारश्वरसेविनः ॥१२॥
मामाराध्यं समाराध्य ब्रह्मविष्ण्वादयः सुराः । स्वं स्वं स्थानमवापुस्ते केदारेशसमर्चनात् ॥१३॥
अत्र केदारनाथं यो शिवरात्रौ चतुर्दशीम् । उपोष्य प्रयतो भक्त्या देवि यामचतुष्टयम् ॥१४॥
पूजां कुर्याद्बिल्वपत्रैः स मोक्षमधिगच्छति । अन्यत्र कोटिलिङ्गार्चाफलं यत् सुरसत्तमे ॥१५॥
केदारेश्वरमौलौ तु एकबिल्वार्पणाद्धि तत् । एकं वा मोजयेद्विप्रं केदारे कोटि तद्भवेत् ॥१६॥
भोजयेच्छैवमेकं तु तदनन्तफलं स्मृतम् तस्य केदारनाथस्य कुण्डं पर्वतमूर्धनि ॥१७॥
ख्यातं केदारकुण्डं तदुत्फुल्लकमलोज्ज्वलम् तत्कुण्डपूतपानीयैः स्नात्वा सन्तर्पयेत् पितॄन् ॥१८॥
पितरस्तृप्तिमायान्ति द्वादशाब्दं सुरेश्वरि । पुरान्धकासुरं हत्वा तच्छूलाग्रेण शङ्करि ॥१९॥
त्वत्पितुः शिखरे पुण्ये तवया तत् खानितं सरः । तस्मिन् सरसि विस्तीर्णे त्वत्तटे त्वत्तपोवनम् ॥२०॥
मत्प्रीयते त्वया देवि विचीर्णाऽत्र तपःक्रिया । तत्तीरे स्थापितं लिङ्गं त्वया गौरीश्वराभिधम् ॥२१॥
तल्लिङ्गदर्शनादेव मम लोके महीयते । वसिष्ठात्रिमृकण्ड्वाद्या भरद्वाजप्राशरौ ॥२२॥
दुर्वासा गौतमाद्याश्च भृगुकुम्भोद्भवादयः । दधीच्याङ्गिरसोचथ्याः जामदग्न्यो महाबलः ॥२३॥
क्षेत्रमुत्साद्य विप्रेन्द्रैः प्रार्थितः शममागतः । हिमवन्मूर्ध्नि सरसस्तीरे तप्यन्ति तापसाः ॥२४॥
केदारनाथं दृष्ट्वा मां पूज्य बिल्वैः सुकोमलैः । उपहारैश्च विविधैरपारैः फलमण्डलैः ॥२५॥
तद्गौरीसरसि स्नात्वा पुण्ये पापौघहारिणि । वृत्रं हत्वाथ जम्भारिर्वज्रेणासुरसत्तमम् ॥२६॥
छद्मना स्वच्छसरसि गौर्याख्ये पापनुत्तये । स्नात्वा सुरगणैः सार्धं वृत्रहा सुद्धिमागतः ॥२७॥
केदारनाथं दृष्ट्वा मां शक्रः सुरगणैः सह । तुष्टाव मां तदा भक्त्या तत्सुतिं श्रृणु शांभवि ॥२८॥
इन्द्रः -
शम्भो विश्वेश भर्ग त्रिनयन भगवन् कालकालान्धकारे पुरहर दुरिताहे घोररूपान्तकारे ।
शमय शमय दुःखं दैत्यवर्गारियुद्ध ज्वरहर भयहारिन् पाहिं केदारनाथ ॥२९॥
शक्रः केदारनाथं माभेवं स्तुत्वा प्रणम्य च । विहाय पापं तद्देवि त्रिविष्टपमगात् तदा ॥३०॥
वरुणोऽपि महादेवि विप्रभार्यां पुराऽहरत् । उचथ्यस्य बलात पाशी कामबाणप्रपीडितः ॥३१॥
जलोदरमहारोगग्राहग्रस्तोऽभवच्छिवे । प्रणम्य मां महादेवि केदारेशं प्रपूज्य च ॥३२॥
विमुक्तस्तेन पापेन मां स्तुत्वैव स भक्तितः ॥३३॥
वरुणः -
मारमार करवीरसुमाढ्य स्रग्धरामरवारादिसुपूज्य ।
संस्थितामरगणेन्द्रभूधर पाहि मामखिलपारदवीर्य ॥३४॥
स्तुत्वैवं पाशहस्तो मां नत्वा संपूज्य मा शिवे । ययौ स्थानं न नीरोगो उम्क्तमेघ इवोडुराट् ॥३५॥
माण्डव्येनापि सुभगे शप्तश्चण्डांशुनन्दनः । शापमुक्त्यै स केदारं मां प्रणम्याथ शूलिनम् ॥३६॥
बिल्वपत्रैः समभ्यर्च्य स्नात्वा गौरीसरित्तटे । पुण्याग्निसप्तकैर्मन्त्रैः समुद्धूल्य स्वकां तनुम् ॥३७॥
तुष्टाव मां विशुद्धात्मा केदारेशं महेश्वरम् ।
यमः -
तस्तुषस्पतिमहो भगवन्तं बभ्लुशं च हरिकेशमुदारम् ।
मृगं न भीममुपहत्नुमुग्रं प्रसाद्य पापैर्न बिभेमि शम्भो ॥३८॥
एवं मामम्बिके स्तुत्वा मुक्तशापः स सूर्यजः । जगाम दक्षिणामाशां पितृभिः परिपालिताम् ॥३९॥
कुबेरो यक्षराट् देवि पौलस्त्येनाथ निर्जितः । जगाम परमामार्तिं मां केदारं प्रणम्य च ॥४०॥
संस्नाय गौरीसरसि भस्मरुद्राक्षभूषणः । तत्कुण्डशोधितैर्नीरैर्बिल्वपत्रैः समर्च्य च ॥४१॥
यक्षराण् मां विरूपाक्षमस्तौषीज्जगदम्बिके ॥४२॥
कुबेरः -
मीढुष्टमः शिवतमस्वमसि प्रसिद्धं सिद्धान्तसारमहिमन् मृडयाशु शम्भो ।
संसारघोरविपिनोद्भवदावदग्धं त्वन्मूर्धचन्द्रकिरणैर्मम शीतयाङ्गम् ॥४३॥
इत्थं स यक्षराड् देवि स्तुत्वा मामगजापतिम् । धनाधिपत्यं संप्राप उत्तराशापतिस्तदा ॥४४॥
एवं दिशानामधिपा विदिशां पतयस्तथा । अभीष्टं प्रापुरत्यर्थं मामाराध्यैव भक्तितः ॥४५॥
अग्निश्च निरृतिर्वायुरीशानो मद्गणोत्तमः । सत्सारूप्यं मुदा प्रप मां केदारं समर्चयन् ॥४६॥
तुष्टुवुर्विदिशां नाथा विप्रशापप्रपीडिताः । अग्निश्च सर्वभक्षत्वं निरृतिः पापकारिताम् ॥४७॥
वायुरायासराहित्यमीशानो मत्स्वरूपताम् ।
अग्निवायुनिरृतीशानाः -
महादेवो देवः सकलजगदाराध्यचरणो जगद्रक्षाशिक्षास्थितिजननचातुर्यकरणः ।
हरिर्ब्रह्मा स्कन्दो गणपतिरुमा शक्रदितिजास्त्वधर्वाणेषु त्वं प्रथितयशसो वै तव नमः ॥४८॥
एवं स्तुत्वाऽथ ते सर्वे विदिशां पतयस्तथा । लेभिरे परमां सिद्धिं केदारश्वरपूजनाम् ॥४९॥
मुनयश्चापि देवेशि विश्वामित्रोऽत्रिरङ्गिराः । तेपुस्तपो महाघोरं ज्वलत्पञ्चाग्निमध्यगाः ॥५०॥
ब्राह्मण्यप्राप्तये देवि विश्वामित्रेण संस्तुतः ॥५१॥
विश्वामित्रः -
गायत्र्या प्रतिपादितोऽसि भगवन् संसारसंभर्जको
भर्गस्त्वं सवितुर्वरेण्यमहसस्त्वां सर्वदा धीमहि ।
तेजस्त्वात्मगतं दिनोदयविधौ विप्रादिभिर्ध्यायसे
बुद्धिं निश्चयकारिणीं च भगवन् सञ्चोदयस्यान्तरः ॥५२॥
अत्रिः पुत्रविहीनश्च रिरिचानोऽन्वतप्यत । और्वाय पुत्रान् दत्वा स्वान् पुत्रानाप्तुं तदाद्रिजे ॥५३॥
इष्टवांश्चातिरात्रेण ह्यस्मिन् भूधरसत्तमे । मां स्तुत्वा चाम्बिके पुत्रांश्चतुरः प्रपतवांस्तदा ॥५४॥
अत्रिः -
राजानं त्वामध्वरेश च रुद्रं होतारं त्वा सत्ययुजं च रोदस्योः ।
विद्युत्पातसमादचित्तमरणात्पूर्वं शिवं शाश्वतं
प्रपतोऽस्म्यन्वहमेकमेव शरणं हिरण्यरूपमवसे कृणुध्वम् (?) ॥५५॥
मन्त्रार्थवादविधिषु श्रुतिषु प्रवृत्ताः तासु क्रिया मखशतोत्थफलैर्विचित्रैः
पोषं रयि स्वर्गमथ प्रजां पशून् पुष्टिं प्रतिष्ठां च तथोजसि त्वम् ॥५६॥
तत्र प्ररोचकपदेषु निविष्टचित्ताः किं नश्वरैः फलगणैः प्रमथाधिनाथ ।
त्वामध्वरेश्वरमहो फलदानशीलं नाराधयन्ति सहसा जडबुद्धयस्ते ॥५७॥
अङ्गिराश्च महादेवि केदारेशमथास्तवीत् । भ्रात्रा विनिकृतः पूर्वं दौरात्म्यौद्धत्यगर्विणा ॥५८॥
अङ्गिराः -
तथ्यं त्वदीयजन इत्ययि सामिचन्द्रचूड प्रभो मयि महाघसमुद्रकाये ।
त्वं वेदगीत अधिवक्तृतया प्रसिद्ध पाहीश मामधिकया सहमान शम्भो ॥५९॥
एवं स्तुत्वाऽथ मुनयः स्वाभीष्टं प्रापुरम्बिके । केदारेशप्रसादेन अन्ये सर्वे मरुद्गणाः ॥६०॥
सूतः -
को वा केदारलिङ्गं जनिशतविततापारपापैकभङ्गं प्रालेयाचलकन्यकापरिलसद्वामाङ्गसङ्गं सदा ।
दृष्ट्वाऽनुङ्गभुजङ्गसङ्गजनितामन्दाङ्गकोपस्फुरत्फालापाङ्गकृताङ्गसङ्गरहितं श्रीशङ्गमीशं भजे ॥६१॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे केदारेशमहिमवर्णने दिक्पालादिस्तुतिवर्णनं नाम एकादशो‍ऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP