संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| द्वादशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - द्वादशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वादशोऽध्यायः Translation - भाषांतर ईश्वरः - अथान्यदपि वक्ष्यामि पितुस्ते चरितं शिवे । स्वमौलौ वासयन् मां हि त्वद्वियोगभयादुमे ॥१॥सूतः - देवदेववचः श्रुत्वा हृष्टा पर्वतन्दिनी । प्राह प्रणम्य विश्वेशं स्वपितुश्चरितं द्विजाः ॥२॥देवी - कथं मम पिता श्रुत्वा तु मद्वियोगभयाच्छिव । स्वकीयशिखरे शम्भोऽवासयत् तां कथां वद ॥३॥शूली शैलेन्द्रजावाक्यं श्रुत्वा तुष्टोऽब्रवीत् तदा ।ईश्वरः - वक्ष्याम्यगसुते तेऽद्य पितुश्चरितमुत्तमम् । सावधानमना देवि श्रृणु सर्वाङ्गसुन्दरि ॥४॥दक्षः प्रचेता देवेशि चाक्षुषस्यान्तरे मनोः । अयजद्धयमेघेन मां हित्वैव सुरोत्तमम् ॥५॥ब्रह्मा ब्रह्माभवत् तस्य सदस्यो विष्णुरीश्वरि । अध्वर्युरत्रिरभवत् होता चैव कहोलकः ॥६॥उद्गाता चाभवत् तस्य तण्डुर्नाम द्विजोत्तमः । अथान्य ऋषयोऽभूवन् याजका हि प्रजापतेः ॥७॥ नाजुहाव तदा देवि त्वां हि दाक्षायणीं तदा । कौतुकाविष्टहृदया पितुर्यज्ञदिष्टक्षया ॥८॥गन्तुमैच्छः सुरान् दृष्ट्वा विमानगतिकांस्तदा । निवारितासि सुभगे मया चापि गणेश्वरैः ॥९॥गतवत्यसि कल्याणि स्त्रीलौल्यात् तस्य तत्सदः ।नैवापश्यत् तदा त्वां तु कुतः पूजा कुतो रतिः ॥१०॥संक्रुद्धं पितरं ज्ञात्वा सान्त्वेन त्वमभाषथाः ॥११॥सती - सर्वे देवगणा दक्ष समाहूताः सदस्यथ । कथं नाहूतवान् शम्भुं मत्पतिं सदसस्पतिम् ॥१२॥पितः सदो न ते शोभां वहते पतिहीनतः । किमन्यैः प्राकृतैर्देवैः पूजितौरध्वरे फलम् ॥१३॥राजा यो अध्वरस्यास्य साक्षान्मेधपतिः शिवः । स्विष्टकृद्भाग एवायं तत्तथा कर्तुमर्हसि ॥१४॥सूतः - दक्षस्तदा सतीवाक्यं श्रुत्वा क्रोधसमन्वितः । उवाच भर्त्सयन् देवीं देवानां चैव पश्यताम् ॥१५॥दक्षः - किं मे रुद्रेण कर्तव्यं पत्या तेऽद्य सुमध्यमे । यज्ञोऽयं विष्णुरीड्योऽयं श्रुत्या चाप्यद्य पूज्यते ॥१६॥इत्थं तदाऽखर्वगर्वसंबन्धीकृतमानसम् । उवाच क्रोधताम्राक्षी सती स्वपितरं क्रुधा ॥१७॥सती - नायं यज्ञोऽद्य भविता यज्ञेशेन विनाशितः । भविष्यत्यचिरादेव श्रृणु मद्वचनं पितः ॥१८॥इत्युक्त्वा योगमास्थाय ददाहात्मतनुं सती । दग्धां सतीं तदा दृष्ट्वा हा हा हेत्यवदन् सुराः ॥१९॥दधीचिः क्रोधताम्राक्षो दक्षं तं प्रत्यभाषत ।दधीचिः - दीक्षितोऽस्यश्वमेधाय कथं दीक्षापतिं शिवम् । विनिन्दस्यद्य मौर्खेण धिक् ते यज्ञं सभासदः ॥२०॥पुरुषो वै महारुद्र इत्याह श्रुतिरादरात् । यागः स्विष्टकृदन्तो हि स कथं नैव पूज्यते ॥२१॥सर्वं निवेद्य वै शम्भौ सुखी भव सबान्धवः ॥२२॥सूतः - दधीचिवाक्यात् संक्रुद्धो दक्षो विप्रमथाब्रवीत् ।दक्षः - नैवेद्यं यच्छिवे दत्तं न ग्राह्यमपवित्रितम् । विष्णुरेवात्र यज्ञेशः किं प्रलापेन भूसुर ॥२३॥गच्छ गच्छ सदो हित्वा तुच्छवद्भाषसे कथम् । मुनिर्दक्षवचः श्रुत्वा क्रोधात् सर्वानुदैक्षत ॥२४॥प्रोवाच दीक्षितं दक्षं विष्णुपक्षावलम्बिनम् ॥२५॥दधाचिः - गङ्गाऽनङ्गरिपोर्जटाविगलिता तन्मौलिपुष्पं शशी केशास्तस्य वियत् ततो विगलिता वृष्टिर्जगज्जीवनी ।रुद्रोऽग्निः श्रुत एव सर्वमशनं तज्जिह्वया पच्यतेतन्निर्माल्यजिहासुभिस्त्रिभुवने तैः केन वा जीव्यते ॥२६॥शम्भुः शङ्कर इत्यपि श्रुतिशिरोघण्टादिघोषो महां - स्तं त्यक्त्वा सुरगर्दभं जनिजराकामादिदोषास्पदम् ।विष्णुं जिह्मधियं भजन्ति नृखरा मोहान्धचित्ताः सदा संसारार्णवमज्जनैरनुदिनं दुःखाप्तये केवलम् ॥२७॥श्रीमृत्युञ्जयपूजने मतिरुद्र्त्यस्माकमिष्टप्रदा सा गृष्टिः सुखमोक्षदोहनपरा लिङ्गार्चकैः पालिता ।तस्या वत्समहेशभावभटकं बध्वा मनो गोष्ठके पीत्वा भक्तिपयः सुतुन्दिलमहागात्रा वसामो वयम् ॥२८॥इत्युक्त्वा निर्गतो गौरि दधीचिः स्वाश्रमं तदा । दाक्षायणीं पुरा सा त्वं मेनकागर्भमाश्रिता ॥२९॥तमुदन्तं तदा श्रुत्वा नारदादहमम्बिके । वीरभद्रं च कालीं च सृष्ट्वा तन्मुखधर्मणम् ॥३०॥कृतवानस्मि देवेशि त्वद्वियोगाग्निपीडितः ।देवान् विप्रांश्च दण्डैः पटुतरगदया भिन्नमस्तिष्कशीर्षान् चक्रुश्चक्रारकृत्तांश्छरवरनिकरैः कार्मुकज्याविसृष्टैः ।दक्षं दीक्षान्वितं च प्रकटवरतलैः पूषदन्ताग्रसन्धौ दृप्तध्वांक्षादितुष्ट्यै भगनयनवरेऽपातयंस्ते गणेन्द्राः ॥३१॥स्रवद्रुधिरगन्धिनो हरिविधीन्द्रमुख्यामराः विदुद्रुवुरथापरे प्रबलवीरभद्राहताः ।करालकरवालकैः विकृतकालदंष्टादिभिः विदारितकराङ्गकाः शरणमीयुरीशं सुराः ॥३२॥देवाः - अखर्वगर्वोत्थितदक्षशिक्षाकरोग्ररुद्रोद्भववीरभद्र ।प्रभग्नदेवद्विजकन्धरापह सुधाकरापारसुधाप्तये सुरैः ॥३३॥विमथ्यमानाब्दिसमुत्थितोरुगरेण नीलीकृतकण्ठ पाहि नः ॥३४॥उमामुखसमुल्लसत्स्फुरदपाङ्ग गङ्गाधर प्रसीद परमेश्वर प्रथितदक्षमन्यूत्थित ।प्रचण्डतरमन्यवे प्रमथनाथ नः पालय क्रतूद्भवफलाधिकं भवतु वाञ्छितं त्वत्पदोः प्रपन्नजनकामदप्रवरदीक्षितोऽयं प्रभो ॥३५॥इत्थं सुरवचो देवि श्रुत्वा यज्ञफलेन तम् । पूरयित्वा महादेवि तं दक्षं बस्तकन्धरम् ॥३६॥अनुगृह्यामरेन्द्रांश्च वीरभद्रं निवार्य वै । तवाङ्गसङ्गविरहादसङ्गो विचराम्यहम् ॥३७॥नद्यां सरस्सु विपिने पत्तने नगरे तथा । शैलेन्द्रशिखरे देवि शर्म न क्कचिदेव मे ॥३८॥भूधरो हिमवानेष त्वत्पिता चारुकन्दरः । अस्मिन्नेव वसामीति मनो मेऽभवदुन्मुखम् ॥३९॥तपस्तप्तं मया देवि वर्षाणामयुतं तदा । एतस्मिन्नन्तरे देवास्तारकासुरपीडिताः ॥४०॥मदङ्गसङ्गसंभूतं तनयं तज्जये धृतम् । प्राप्तुं देवगणाः सर्वे मन्मथद्यैश्च संयुताः ॥४१॥पितुर्नियोगान्मातुस्ते शुश्रूषन्त्या त्वया तदा । मां ते देवगणा देवि ऊर्ध्वरेतसमीश्वरम् ॥४२॥प्रधर्षयन्ति मारेण दग्धो मारः क्षणान्मया ।तदा मां त्वं भयात् त्यक्त्वा तप उग्रं समास्थितम् ॥४३॥पितरं प्राप्तवत्येव पुनस्त्वं तपसि स्थिता । नारदोदितवाक्येन ब्रह्मणा च महीधरः ॥४४॥सुरसंप्रार्थितश्चायं मह्यं त्वामददादुमे । त्वया सहाहं कल्याणि निवसामि नगोत्तमे ॥४५॥तदा कालेन संजातः कुमारो मेऽमितप्रभः । षण्मुखः कृत्तिकासूनुराग्नेयोऽग्निसमानभाः ॥४६॥देवाश्च ववृषुस्तस्य मूर्ध्नि पुष्पोत्करं शिवे । ननृतुच्छाप्सरस्सङ्घाः प्रावाद्यद्देवतूर्यकम् ॥४७॥सैनापत्येऽभिषिक्तश्च देवैः सेन्द्रपितामहैः । विजिग्ये तारकं शूरं देवैस्तदनुयायिभिः ॥४८॥तारकारिरिति ख्यातः पुत्रस्ते गिरिजेऽमले । एवं स्थिते तदा स्वैश्च गणेन्द्रै रजताचलम् ॥४९॥मन्दरं सुन्दरं चारु कन्दरौघैर्विराजितम् । तस्मिन् मन्दारबृन्दाढ्ये मरन्दसुमसुन्दरे ॥५०॥विहर्तुमिच्छा मे जाता त्वया साकं वरानने । गतेऽङ्गनागणैः सार्धं त्वया भूधरकन्यके ॥५१॥त्वाद्वियोगभिया देवि दुःखेन च परिप्लुतः । स मां तुष्टाव हृष्टात्मा हिमवांश्चारुकन्दरः ॥५२॥हिमवान् - शम्भो विश्वेश भर्ग त्रिनयन् पुरहन् पाहि मामीश दृष्ट्या ख्यतो वेदे गिरीशो गिरिश इति भवान् तत्कुरुष्वाद्य तथ्यम् ।शम्भो देव्यानया ते सुरविनुत युतः स्नेहपाशैर्वियोगं नो सह्यं मे महेश मम शिखरवरे संवसात्रैव शम्भो ॥५३॥मदीयापराधानमोधाननन्तान न केनापि शक्यान् विनिवर्तितुं तु तान् ।महादेव ते पादपद्मं प्रकृष्टं प्रपन्नः प्रपन्नः प्रपन्नः प्रपन्नः ॥५४॥श्रीमद्विल्वमहीरुहौघचलनैर्वातादिभिः पावितं गात्रं मेऽद्य पवित्रतामुपगतं पाहि त्रिनेत्राधुना ।तन्मूलनीरप्लुतमस्तकं नेत्रे च तद्दर्शने (?) घ्राणं तत्सुमगन्धबन्धमधुरं मय्येव शम्भो वस ॥५५॥एवं स्तुतो महादेवि त्वत्पित्राहं महात्मना । तत्तुङ्गपूतशिखरे निवासं समरोचयम् ॥५६॥ब्रह्मविष्ण्वादिभिर्देवैः स्कन्देन गणपेन च । अन्यैर्गणवरैर्देवि त्वया शैलेन्द्रकन्यया ॥५७॥समर्चितो वसाम्यत्र केदारेश्वरलिङ्गगः । अलिङ्गोऽपि महेशानि सर्वदा लिङ्गरूपधृक् ॥५८॥केदारेश्वरनाम्नाहं ख्यातो भूधरगौरवात् । वसाम्यत्र महादेवि लिङ्गेऽस्मिन् पावने शुभे ॥५९॥शनैः समर्चितो नित्यं बिल्वपत्रैः फलैरपि । त्वया सहाम्बिके नित्यं सर्वदा सर्वकामदः ॥६०॥उदयमलयपारियात्रविन्ध्यैः गिरिवर एष मतोऽभिमानतस्ते ।सुरवरकिन्नरदेवसङ्घनन्दिप्रमुखगणैः सततं निषेवितः ॥६१॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे हिमचलवासहेतुवर्णनं नाम द्वादशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP