मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
शिवगीतिमाला पंचाशती

शिवगीतिमाला पंचाशती

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


(गीतिवृत्तं)

कटिलंबितकरिकृत्तिं कुटिलं शशिशावकं शिरसि दधतम् ॥
जटिलं ज्वलनविभूषितनिटिलं परमेश्वरं हृदालम्बे ॥१॥
शारदशशांकरुचिरे नारदमुखमौनिगीतगुणनिकरे ॥
मारदहनचतुरे मम पारदचलमपि मनश्चिरं रमते ॥२॥
चंचच्चंदिररोचिश्चयचारुरुचे विचित्रचरिताय ॥
चंडीश्वराय सुचिरं संचिंतय चित्त चंद्रचूडाय ॥३॥
आरोहति चित्रपदं चित्तमपर्णान्वितोप्ययं स्थाणु: ॥
भवतापतप्तवपुषां दलयति दाहं गतोपि द्दष्टिपथम् ॥४॥
शंभो मनुष्यधर्मा प्रेमाख्यसुधारसस्य पात्रं ते ॥
आस्तां बत त्रिलोचन किमहं न भवान्यपांगविषयोऽपि ॥५॥
अहमपि किं च कुबेर: किन्नरराजा उभौ हि तत्रैक: ॥
मित्रं न परो दासो ननु युक्तं विषमलोचनस्यैतत् ॥६॥
योगो दिगम्बरस्याऽकिंचित्कर इति विभो कथं वाच्यम् ॥
ननु राजराजपदवीमारोहति येन गुहयकेशोऽपि ॥७॥
किं भिक्षुणा प्रदेयं दिगंबरेणेति वंचनां न कुरु ॥
न हि भूतिमंतमन्यं भवत: सुरमण्डलीषु पश्यामि ॥८॥
लिखितं च यत्कपाले नरस्व धात्रा तदन्यथा नैव ॥
इति वदसि चेद्दयाब्धे प्राय: पश्यामि तत्तवैव करे ॥९॥
तव कालकूटकाटवपरिषहणे पाटवं तदा मन्ये ॥
दारिद्याख्यं पास्यसि सुमनस्तापं यदा भवाब्धिभवं ॥१०॥
आस्तां किं दारिद्रये शक्ति: स्मरदाहदक्षनयनाग्ने: ॥
हंत ज्ञातं ज्ञातं पीडयितुं को भवाश्रितं शक्त: ॥११॥
दोषाकरं तु बिभृषे किमनेन विभो यदर्ध एवासौ ॥
पूर्णं मां यदि बिभृयास्तत्तेस्यात्प्रौढता प्रभावस्य ॥१२॥
वपुषि वहसि भो: शंभो त्वं हि भुजंगान्विभूषणत्वेन ॥
शिरसि तु गुरुदाररतं किमहं चरणेऽपि दु:सहो जात: ॥१३॥
उचितं बिभर्षि वपुषि द्विजिव्हसंघान्प्रभो कृपासिंधो ॥
सोहं नवाथवेत्थं पंचमुख विचारयाखिलं विश्वम् ॥१४॥
विषकंठस्य तव शिव प्रभवंत्याशीविषा: प्रिया इति चेत् ॥
आस्ते ममापि वदने किंचिद्यच्छ्रवणमेव मरणपरम् ॥१५॥
दिशतु रमेश: कामान् जातं किं नाम कामजनक: स: ॥
भव भवति भवति चित्रं हंता कामस्य कामदो यस्मात् ॥१६॥
भवसागर भवविषये विश्वमिदं तापमेति तत्सुखय ॥
अधिकं यशो भविप्यति विषादपि यतो अमी विषया: ॥१७॥
मम नैव सौख्यलिप्सा देहयापदमेव किंत्वपूरर्वां ताम् ॥
अवलोक्य यत्प्रभावं प्रभवति सर्वं सविस्मयं विश्वम् ॥१८॥
प्रवदंतु नाम संतो भूतपतिं त्वां परं मुधा मन्ये ॥
मंत्ररहितमपि मलिनं स्मशानवास्यपि यतो न मां ग्रससे ॥१९॥
अपि सर्वभूतिसदनं वंचयसे भिक्षुचिन्हतो विश्वम् ॥
त्वामिह मुधा किमु बुधा उदाहरंते शिवा‍ऽभिधान इति ॥२०॥
शिवसंप्राप्ति: पुण्यैर्विना न हीत्यनुभवो ममायात: ॥
यस्मात्पुण्यजनेशे सख्यसुधारसपरिप्लुतोऽसि शिव ॥२१॥
दोषाकर: कलंक्यपि कुटिल: शिरसा द्विजेश्वरो वंद्य: ॥
इति शिक्षयसीव जनं वृषभारूढस्य युक्तमेवेदम् ॥२२॥
जितकीनाश महेश स्मरनाश स्फटिकसंघसंकाश ॥
शांत: सन्नपि चित्रं ख्यातो भुवनत्रये त्वमुग्र इति ॥२३॥
द्विजराजशेखर: सन्नपि वृषमारोहसि प्रभो नित्यम् ॥
प्रायश्चितविरहितस्थितिरपि विमलोऽसि तन्महैश्वर्यम् ॥२४॥
आद्यो वर्णश्चोष्मा सन्नपि तापं निहंति किंचान्य: ॥
अंतस्थात्मापि वहिर्द्दशमिति शिव कापि तेऽभिधाशक्ति: ॥२५॥
भव तव नवनवमोदप्रदमिदमक्षरयुगं हि भवनाम्न: ॥
अपवर्गदं पवर्गगमंतस्थात्मकमनंतता दायि ॥२६॥
भो भव भणति भवान्यदि सततं मां सौम्यं चिंतयेति वच: ॥
भवचिंतन एव सदा मम मानसमीश भवति सोल्लासम् ॥२७॥
रचयसि चेद्वच इति मां कुरु चेतश्चंचलं समाधिपरम् ॥
स्मरहर निरंतरं मे मानसमेतत्समाधिपरमेव ॥२८॥
वदसि यदि विभो हित्वा नि:सारं सर्वमेतदथ सम्यक् ॥
सारं चिंतय चेत्थं तमेव संचिंतयाम्यहं सततम्‌ ॥२९॥
अयमनलमाश्रयो मत्वेति स्थापित: स्वनयनांत: ॥
भवदाश्रयेच्छुरपि न त्रिनयन सकृदपि किमीक्षणीयोऽहम् ॥३०॥
मृतभूमिर्वसतिस्तव मृतमस्तकमालिकाऽपि तव कंठे ॥
मृतभस्मनैव चर्चन ममृताशनमेकमेव कुत एतत् ॥३१॥
निटिले विनायकस्तव विनायको त्द्ददि तवांकयोरुभयो: ॥
कृत्वा मां कविनायक मंघ्रौ कुर्या: समेन शोभेथा: ॥३२॥
शिरसि वहसि जडरूपां गंगां चरणेपि नो मदीय मतिं ॥
सा स्वर्णदी नताढया भोगवती चेति चेत्तथैवैषा ॥३३॥
रागश्चेत्त्वयि निहितस्त्वंतु विरागं ददासि चेत्तस्मिन् ॥
परमेश्वरस्य मनसि त्रपांकुर: कथमिवापि नोदेति ॥३४॥
अज्ञप्रसिद्धमीश स्वप्रत्ययमात्रमंत्र मयि धेहि ॥
विश्रवणोऽहं सत्यं ततश्च सख्यं मया भवेन्मुख्यम् ॥३५॥
रविनंदनं जिगीषुर्नर: प्रसादस्य पात्रमभवत्ते ।
मदनवदहं दयाब्धे संप्रति न तथा भवान्यहो दिष्टम् ॥३६॥
आखंडलादि - पंडित - मण्डल - मण्डन - उदण्ड - मुण्डगल: ॥
कुण्डलि - कुंडल - मंडित - गंडतलोऽखंड भवतु चंडीश: ॥३७॥
कलिकाल - त्द्दत्कलिल - सत्कीर्ति - कुसुमकूट्केशव प्रेष्ठ ॥
कैवल्यदानकोविद कौ त्वद्दते कं व्रजाम्यहं रंक: ॥३८॥
गरलाद: प्रियगानो गिरिशो गीर्वाणगुरुदयो गूढ: ॥
गेयो मुनिभिरसंगैर्गोपोगौरोऽवता द्विधृतगंड: ॥३९॥
विजयाजानि नयनजितराजीवं मंजुतरजटाजूटं ॥
जेतृच जैवातृकधृत्तेजोऽब्जौको गजं निहंतु रुज: ॥४०॥
कल्पलता सद्दढ्तरा लिंगितकाय: परिस्फुरत्सुमना: ॥
द्विजगणसंतोषपदं कैलासे भाति कोपि कल्पतरु: ॥४१॥
प्रियपिप्पलं हि रजसा क्रीडंतं चित्तमत्तमातंगं ॥
हंतुं पंचास्यं श्रय रिंगंतं तुंगशैलशैलाग्रे ॥४२॥
दु:सहतम भवतापप्रतपज्जन सौख्यदायकच्छाय: ॥
कैलासशैलशिखरे चिरंतनतरो विभाति कोपि जटी ॥४३॥
भो: शंभो शिव शंकर शशिशेखर शैलनाथ शितिकंठ ॥
शुद्धस्वरूप शूलिन् शिवदायक शर्व शमय मम शमलं ॥४४॥
सुखसदनं शुभवदनं जितसदनं कुंदकाग्रसमरदनं ॥
अघहरणं भवतरणं भुजगाभरणं नमामि सुरशरणं ॥४५॥
दोषाकर: प्रदोष: शैलूषो विषमिमे हि सोष्माण: ॥
प्रेष्ठास्तवेति यातो हैमवतीनाथ कित्विषोप्येष: ॥४६॥
शांडिल्यकुलभवोऽहं राग्यपि भवत: पदांबुजे. पतित: ॥
भवतु प्रियो यतोऽहं शांडिल्यकुलस्थपल्लवो भवति ॥४७॥
बालस्य वाग्विलासं श्रोतुं प्रत्तं यदि श्रव: शंभो ॥
एतावता न हीनं परमाधकं तेन तद्भवेज्जगति ॥४८॥
अगुणं वा सगुणं वा मल्लपनं कथमपीह विश्वगुरो ॥
प्रभवेत् प्रियमव महादेवकुमारो यतोस्मि भो: शंभो ॥४९॥
आर्याया अपि गीतिर्विच्छित्तिविशेषशालिनी यस्मात् ॥
तत्प्रियतमेति पदयोर्मयार्पिता गिरिश गीतिमालेऽयं ॥५०॥

॥ इति श्रीकविपंतविठ्ठलेन विनिर्मिता शिवगीतिमाला समाप्ता ॥

॥ समाप्त. ॥


N/A

References : N/A
Last Updated : January 11, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP