संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कल्पान्तोदितचण्डभानुविलसद...

त्रिपुरसुन्दरीविजयस्तवः - कल्पान्तोदितचण्डभानुविलसद...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


कल्पान्तोदितचण्डभानुविलसद्देहप्रभामण्डिता
कालांभोदसमानकुन्तलभरा कारुण्यवारांनिधिः
काद्यर्णाङ्कितमन्त्रराजविलसद्कूटत्रयोपासिता
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥१॥
एतत्प्राभवशालिनीतिनिगमैरद्याप्यनालोकिता
हेमाम्भोजमुखी चलत्कुवलयप्रस्पर्धमानेक्षणा ।
एणाङ्कांशसमानफालफलकप्रोल्लासिकस्तूरिका
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥२॥
ईषत्फुल्लकदम्बकुड्मलमहालावण्यगर्वापहा
स्निग्धा स्वच्छसुदन्तकान्तिविलसन्मन्दस्मितालंकृता ।
ईशित्वाद्यखिलेष्टसिद्धिफलदा भक्त्या नतानां सदा
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥३॥
लक्ष्यालक्ष्यविलग्नदेशविलसद्रोमावली वल्लरी
वृत्तस्निग्धफलद्वयभ्रमकरोत्तुङ्गस्तनी सुन्दरी ।
रक्ताशोकसुमप्रपाटलदुकूलाच्छादिताङ्गी मुदा
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥४॥
ह्रींकारी सुरवाहिनीजलगभीरावर्तनाभिर्घन-
श्रोणीमण्डलभारमन्दगमना काञ्चीकलापोज्ज्वला ।
शुण्डादण्डसुवर्णवर्णकदलीकाण्डोपमूरुद्वयी
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥५॥
हस्तप्रोज्ज्वलदिक्षुकार्मुकलसद्पुष्पेषुपाशाङ्कुशा
हाद्यर्णाङ्कितमन्त्रराजनिलया हारादिभिर्भूषिता
हस्तप्रान्तरणत्सुवर्णवलया हर्यक्षसंपूजिता
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥६॥
संरक्ताम्बुजपादयुग्मविलसद् मञ्जुक्वणन्नूपुरा
संसारार्णवतारणैकतरणिर्लावण्यवारांनिधिः ।
लीलालोलतमं शुकं मधुरया संलालयन्ती गिरा
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥७॥
कल्याणी करुणारसार्द्रहृदया कल्याण्संधायिनी
काद्यन्ताङ्कितमन्त्रलक्षिततनुस्त्वन्वी तमोनाशिनी ।
कामेशाङ्कविलासिनी कलगिरामावासभूमिश्शिवा
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥८॥
हन्तुं दानवपुङ्गवं रणभुवि प्रोच्चण्डभण्डादिदं
हर्यक्षाद्यमरार्थिता भगवती दिव्यं तनुं चाश्रिता ।
श्रीमाता ललितेत्यचिन्त्यविभवैर्नाम्नां सहस्रैः स्तुता
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥९॥
लक्ष्मीवागगजादिभिर्बहुविधैर्रूपैः स्तुताऽपि स्वयं
नीरूपा गुणवर्जिता त्रिजगतां माता च चिद्रूपिणी ।
भक्तानुग्रहकारणेन ललितं रूपं समासादिता
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥१०॥
ह्रींकारैकपरायणार्तजनतासंरक्षणे दीक्षिता
हार्दं सन्तमसं व्यपोहितुमलं भूष्णुर्हरप्रेयसी ।
हत्यादिप्रकटाघसंघदलने दक्षा च दाक्षायणी
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥११॥
सर्वानन्दमयी समस्तजगतामानन्दसन्दायिनी
सर्वोत्तुङ्गसुवर्णशैलनिलया संसारसाक्षी सती ।
सर्वैर्योगिचयैस्सदैवविचिता साम्राज्यदानक्षमा
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥१२॥
कन्यारूपधरा गलाब्जविलसन्मुक्तालतालंकृता
कादिक्षान्तमनूपविष्टहृदया कल्याणशीलान्विता ।
कल्पातोद्भटताण्डवप्रणुदितश्रीकामजित्साक्षिणी
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥१३॥
लक्ष्या भक्तिरसार्द्रहृत्सरसिजे सद्भिस्सदाराधिता
सान्द्रानन्दमयी सुधाकरकलाखण्डोज्ज्वलन्मौलिका ।
शर्वाणी शरणागतार्तिशमनी सच्चिन्मयी सर्वदा
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥१४॥
ह्रींकारत्रयसंपुटातिमहतामन्त्रेणसंपूजिता
होत्रीचन्द्रसमीरणाग्निजलभूभास्वान्नाभोरूपिणी ।
हंसस्सोहमिति प्रकृष्टधिषणैराराधिता योगिभिः
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥१५॥
श्रींकाराम्बुजहंसिका श्रितजनक्षेमंकरी शांकरी ।
शृंगारैकरसाकरस्य मदनस्यज्जीविकावल्लरी ।
श्रीकामेशरहःसखी च ललिता श्रीमद्गुहाराधिता
श्रीचक्राधिनिवासिनी विजयते श्रीराजराजेश्वरी ॥१६॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP