संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीमान् वेङ्कटनाथार्यः क...

श्री परमार्थस्तुतिः - श्रीमान् वेङ्कटनाथार्यः क...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे ।
यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥१॥
गुरुभिस्त्वनन्यसर्वभावैः गुणसिन्धौ कृतसंप्लवस्त्वदीये ।
रणपुङ्गव वन्दि भावमिच्छन् अहमस्म्येकमनुग्रहास्पदं ते ॥२॥
भुवनाश्रय भूषणास्त्रवर्गं मनसि त्वन्मयतां ममातनोतु ।
वपुराहवपुङ्ग त्वदीयं महिषीणामनिमेषदर्शनीयम् ॥३॥
अभिरक्षितुमग्रतः स्थितं त्वामप्रणवे पार्थ रथे च भावयन्तः ।
अहितप्रशमैरयत्नलभ्यैः कथयन्त्याहवपुङ्गवं गुणज्ञाः ॥४॥
कमला निरपाय धर्मपत्नी करुणाद्याः स्वयमृत्विजो गुणास्ते ।
अवनं श्रयतामहीनमाद्यं स च धर्मस्त्वदनन्य सेवनीयः ॥५॥
कृपणाः सुधियः कृपा सहायं शरणं त्वां रणपुङ्गव प्रपन्नाः ।
अपवर्ग नयादनन्यभावाः वरिवस्या रसमेकमाद्रियन्ते ॥६॥
अवधीर्य चतुर्विधं पुमर्थं भवदर्थे विनियुक्त जीवितः सन् ।
लभते भवतः फलानि जन्तुः निखिलान्यत्र निदर्शनं जटायुः ॥७॥
शरणागतरक्षणव्रती मां न विहातुं रणपुङ्गवार्हसि त्वम् ।
विदितं भुवने विभीषणो वा यदि वा रावण इत्युदीरितं ते ॥८॥
भुजगेन्द्रगरुत्मदादि लभ्यैः त्वदनुज्ञानुभव प्रवाह भेदैः ।
स्वपदे रणपुङ्गव स्वयं मे परिचर्या विभवैः परिष्क्रियेथाः ॥९॥
विमलाशयवेङ्कटेश जन्मा रमणीया रणपुङ्गवप्रसादात् ।
अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहं प्रपन्नैः ॥१०॥
इति श्रीपरमार्थस्तुतिःसमाप्ता कवितार्किकसिंहाय कल्याणगुणशालिने ।

श्रीमते वेङ्कटेशाय वेदान्त गुरवे नमः ॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP