संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीशिवजटाजूटस्तुतिः ।

स्तुतिः - श्रीशिवजटाजूटस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


स धूर्जटिजटाजूटो जायतां विजयायः वः ॥

यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी ॥१॥

चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः ॥

पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवो भूतेशस्य भुजंगवल्लिवलयस्त्रङ्‌नद्धजूटा जटाः ॥२॥

गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखारत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः ॥

आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा नाल्पं कल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटैः ॥३॥

इति शिवजटाजूटस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP