संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
साम्बो नः कुलदैवतं पशुपते...

दशश्लोकीस्तुतिः - साम्बो नः कुलदैवतं पशुपते...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः ।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥१॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणाः जेतुं न शक्ताः स्वयं
यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
स्वस्वस्थाननियोजितास्सुमनसः स्वस्था बभूवुस्ततः
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥२॥
क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः ।
तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिपः
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥३॥
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं
येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् ।
येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥४॥
गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां वरः ।
यस्य स्थंभितपाणिरानतिकृता नन्दीश्वरेणाभवत्
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥५॥
आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्द स्वरूपायते ।
वेदान्तो निलयायते सुविनयो यस्य स्वभावायते
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥६॥
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये ।
संपूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभवत्
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥७॥
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥८॥
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते ।
ॐकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥९॥
विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा
संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् ।
तानार्तान् शरणागतानिति सुरान्योऽरक्षदर्धक्षणात्
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥१०॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP